अक्षर आकार:

रघुवंशं सर्गः १२ कालिदासकृतम्

Raghuvansha 12 by Kalidas

रघुवंशं सर्गः १२ कालिदासकृतम्

निर्दिष्टविषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि॥ १२-१॥ तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति । कैकेयीशङ्कयीवाह पलितच्छद्मना जरा॥ १२-२॥ सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्रादयांचक्रे कुल्येनोद्यानपादपान्॥ १२-३॥ तस्याभिषेकसंभारे कल्पितं क्रूरनिश्चया । दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥ १२-४॥ सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ । उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ॥ १२-५॥ तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः । द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम्॥ १२-६॥ पित्रा दत्तं रुदन्रामः प्राङ्महीं प्रत्यपद्यत । पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत्॥ १२-७॥ दधतो मङ्गलक्षौमे वसानस्य च वल्कले । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः॥ १२-८॥ स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन् । विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥ १२-९॥ राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् । शरीरत्यागमात्रेण शुद्धिलाभमन्यत॥ १२-१०॥ विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् । रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ॥ १२-११॥ अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः॥ १२-१२॥ श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः । मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥ १२-१३॥ ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः । तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान्॥ १२-१४॥ चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः । लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा॥ १२-१५॥ स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः॥ १२-१६॥ तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते॥ १२-१७॥ स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्॥ १२-१८॥ दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत्॥ १२-१९॥ रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥ १२-२०॥ प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् । कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात्॥ १२-२१॥ ऐन्द्रः किल नखैस्तस्या विददार स्तनौ द्विजः । प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्॥ १२-२२॥ तस्मिन्नस्थदिषीकास्त्रं रामो रामावबोधितः । आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः॥ १२-२३॥ रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ॥ १२-२४॥ प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः॥ १२-२५॥ बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी॥ १२-२६॥ अनसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम्॥ १२-२७॥ संध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः । अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥ १२-२८॥ स जहार तयोर्मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे॥ १२-२९॥ तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् । गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥ १२-३०॥ पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः । अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥ १२-३१॥ रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥ १२-३२॥ सा सीतासंनिधावेव तं वव्रे कथितान्वया । अत्यारूढो हि नारीणामकालज्ञो मनोभवः॥ १२-३३॥ कलत्रवानहं बाले कनीयांसं भजस्व मे। इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्॥ १२-३४॥ ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् । साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक्॥ १२-३५॥ संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥ १२-३६॥ फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् । मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम्॥ १२-३७॥ इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् । रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत॥ १२-३८॥ लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् । शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम्॥ १२-३९॥ पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः । वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत्॥ १२-४०॥ सा वक्रनखधारिण्या वेणुकर्कशपर्वया । अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे॥ १२-४१॥ प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् । रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्॥ १२-४२॥ मुखावयवलूनां तां नैरृता यत्पुरो दधुः । रामाभियायिनां तेषां तदेवाभूदमङ्गलम्॥ १२-४३॥ उदायुधानात्पततस्तान्दृप्तान्प्रेक्ष्य राघवः । निदधे विजयाशंसां चापे सीतां च लक्ष्मणे॥ १२-४४॥ एको दाशरथिः कामं यातुधानाः सहस्रशः । ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः॥ १२-४५॥ असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः॥ १२-४६॥ तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः । क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः॥ १२-४७॥ तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः । आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः॥ १२-४८॥ तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थितं ददृशेऽन्न्यच्च कबन्धेभ्यो न किंचन॥ १२-४९॥ सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् । अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥ १२-५०॥ राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् । तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत्॥ १२-५१॥ निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः । रामेण निहितं मेने पदं दशसु मूर्धसु॥ १२-५२॥ रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ । जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥ १२-५३॥ तौ सीतावेषिणौ गृध्रं लूनपक्षमपश्यताम् । प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः॥ १२-५४॥ स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥ १२-५५॥ तयोस्तस्मिन्नवीभूतपितृव्यापतिशोकयोः । पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः॥ १२-५६॥ वधनिर्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ॥ १२-५७॥ स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्॥ १२-५८॥ इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः । कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥ १२-५९॥ प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् । मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥ १२-६०॥ दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परितेव महौषधिः॥ १२-६१॥ तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः । प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः॥ १२-६२॥ निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः । स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः॥ १२-६३॥ प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती । हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत्॥ १२-६४॥ स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः । अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम्॥ १२-६५॥ श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम्॥ १२-६६॥ स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः । न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः॥ १२-६७॥ निविष्टमुदधेः कूले तं प्रपाद बिभीषणः । स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः॥ १२-६८॥ तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः । काले खलु समालब्धाः फलं बध्नन्ति नीतयः॥ १२-६९॥ स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः॥ १२-७०॥ तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः । द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥ १२-७१॥ रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः॥ १२-७२॥ पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः । अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः॥ १२-७३॥ अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत्॥ १२-७४॥ कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥ १२-७५॥ गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत्॥ १२-७६॥ ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् । रामस्त्वनाहतोऽप्यासीद्विदीर्णहॄदयः शुचा॥ १२-७७॥ स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥ १२-७८॥ स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत्॥ १२-७९॥ कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः । रुरोध रामं श‍ृङ्गीव टङ्कच्छिन्नमनःशिलः॥ १२-८०॥ अकाले बोधितो भ्राता प्रियस्वप्नो वृथा भवान् । रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः॥ १२-८१॥ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीष्विव॥ १२-८२॥ निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् । अरावणमरामं वा जगदद्येति निश्चितः॥ १२-८३॥ रामं पदातिमालोक्य लङ्केशं च वरूथिनम् । हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः॥ १२-८४॥ तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः । देवसूतभुजालम्बी जैत्रमध्यास्त राघवः॥ १२-८५॥ मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् । यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः सुरद्विषाम्॥ १२-८६॥ अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर्युद्धं चरितार्थमिवाभवत्॥ १२-८७॥ भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः । ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः॥ १२-८८॥ जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् । रामस्तुलितकैलासमारातिं बह्वमन्यत॥ १२-८९॥ तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि । निचखानाधिकक्रोधः शरं सव्येतरे भुजे॥ १२-९०॥ रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्॥ १२-९१॥ वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः । अन्योन्यजयसंरम्भो ववृधे वादिनोरिव॥ १२-९२॥ विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि । जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥ १२-९३॥ कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः । परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे॥ १२-९४॥ अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्॥ १२-९५॥ राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् । अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम्॥ १२-९६॥ अमोघं संदधे चास्मै धनुष्येकधनुर्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्॥ १२-९७॥ तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफलमण्डलम्॥ १२-९८॥ तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् । स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम्॥ १२-९९॥ बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षःकायस्य कण्ठच्छेदपरम्परा॥ १२-१००॥ मरुतां पश्यतां तस्य शिरांसि पतितान्यपि । मनो नातिविशस्वास पुनःसंधानशङ्किनाम्॥ १२-१०१॥ अथ मदगुरुपक्षैलोकपालद्विपाना- मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥ १२-१०२॥ यन्ता हरेः सपदि संहृतकार्मुकज्य- मापृच्छ्य राघवमनुष्ठितदेवकार्यम् । नामाङ्करावणशराङ्कितकेतुयष्टि- मूर्ध्वं रथं हरिसहस्रयुजं निनाय॥ १२-१०३॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि बिभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥ १२-१०४॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रावणवधो नाम द्वादशः सर्गः ॥