अक्षर आकार:

रघुवंशं सर्गः ११ कालिदासकृतम्

Raghuvansha 11 by Kalidas

रघुवंशं सर्गः ११ कालिदासकृतम्

कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ ११-१॥ कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् । अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ ११-२॥ यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् । तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥ ११-३॥ तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः । भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ ११-४॥ तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ । धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ११-५॥ लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ११-६॥ मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः । रेचतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ११-७॥ वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत । तूयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ११-८॥ तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः । मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ११-९॥ पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ ११-१०॥ तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः । वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११-११॥ नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ ११-१२॥ स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः । विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ ११-१३॥ तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि । निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ ११-१४॥ ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः । ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ ११-१५॥ तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया । अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ ११-१६॥ उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् । तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ ११-१७॥ यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ ११-१८॥ बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ ११-१९॥ राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ ११-२०॥ नैरृतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् । ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥ ११-२१॥ वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् । उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ ११-२२॥ आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् । बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ ११-२३॥ तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः । लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ ११-२४॥ वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् । संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ ११-२५॥ उन्मुखः सपदि लक्षमणाग्रजो बाणमाश्रयमुखात्समुद्धरन् । रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ ११-२६॥ तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् । किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ ११-२७॥ सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् । तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥ ११-२८॥ यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया । तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहिः ॥ ११-२९॥ इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् । ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः ॥ ११-३०॥ तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाप्लुतो मुनिः । आशिषामनुपदं समस्पृशद्दर्भपाटलतलेन पाणिना ॥ ११-३१॥ तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी । राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ ११-३२॥ तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतनुष्वगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ११-३३॥ प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी । स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥ ११-३४॥ राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ११-३५॥ तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू । मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥ ११-३६॥ यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः । राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥ ११-३७॥ तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥ ११-३८॥ अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् । तत्र नाहमनुमन्तुमुत्सहे मोक्षवृत्ति कलभस्य चेष्टितम् ॥ ११-३९॥ ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः । ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥ ११-४०॥ प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् । चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ ११-४१॥ एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे । श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ११-४२॥ व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः । तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ११-४३॥ तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः । विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजत्वृषध्वजः ॥ ११-४४॥ आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः । शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ११-४५॥ भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः । भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ११-४६॥ दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः । राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ११-४७॥ मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् । संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ ११-४८॥ प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥ ११-४९॥ अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मि काङ्क्षितम् ॥ ११-५०॥ तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः । उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ ११-५१॥ आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः । प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ ११-५२॥ तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ११-५३॥ पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ११-५४॥ ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ ११-५५॥ ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् । सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥ ११-५६॥ एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ११-५७॥ तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ ११-५८॥ लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः । वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ११-५९॥ श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ११-६०॥ भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे । क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥ ११-६१॥ तत्प्रतीपपवनादिवैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यविद् । अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् ॥ ११-६२॥ तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे । यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥ ११-६३॥ पित्र्यवंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् । यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ११-६४॥ येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा । वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ११-६५॥ अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः । क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन् ॥ ११-६६॥ तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् । बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ ११-६७॥ नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे । हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥ ११-६८॥ अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ११-६९॥ तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः । अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ११-७०॥ क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः । सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् ॥ ११-७१॥ मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः । तन्निशम्य भवता समर्थये वीर्यश‍ृङ्गमिव भग्नमात्मनः ॥ ११-७२॥ अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् । व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥ ११-७३॥ बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रुपू मम मतौ समागसौ । धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ११-७४॥ क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि । पावकस्य महिमा स गण्यते कक्षवज्जलति सागरेऽपि यः ॥ ११-७५॥ विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया । खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ ११-७६॥ तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् । तिष्ठतु प्रधवमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ११-७७॥ कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम । ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभययाचनाञ्जलिः ॥ ११-७८॥ एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः । तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ११-७९॥ पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् । केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥ ११-८०॥ तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् । निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ११-८१॥ तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥ ११-८२॥ तं कृपामुदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः ॥ ११-८३॥ न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभत्यपि त्वयि । शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ॥ ११-८४॥ प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥ ११-८५॥ भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागराम् । आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ ११-८६॥ तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरमोघलोलुपम् ॥ ११-८७॥ प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् । भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ ११-८८॥ राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ११-८९॥ राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा । नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुगृहीकृतः ॥ ११-९०॥ साधयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः । ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषितिरोदधे ॥ ११-९१॥ तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातम् । तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ ११-९२॥ अथ पथि गमयित्वा कॢप्तरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ११-९३॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ सीतविवाहवर्णनो नामैकादशः सर्गः ॥