रघुवंशं सर्गः १ कालिदासकृतम्
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १-१॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ १-२॥ मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ १-३॥ अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ १-४॥ सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ १-५॥ यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥ १-६॥ त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ १-७॥ शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ १-८॥ रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ १-९॥ तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा ॥ १-१०॥ वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ १-११॥ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ १-१२॥ व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ १-१३॥ सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥ १-१४॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥ १-१५॥ भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥ १-१६॥ रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥ १-१७॥ प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ १-१८॥ सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥ १-१९॥ तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ १-२०॥ जुगोपात्मानमत्रस्तः भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥ १-२१॥ ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ १-२२॥ अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥ १-२३॥ प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ १-२४॥ स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ १-२५॥ दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । सम्पद्विनियमेनोभौ दधतुर्भुवनद्वयम् ॥ १-२६॥ न किलानुनयुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ १-२७॥ द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ १-२८॥ तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन्परार्थैकफला गुणाः ॥ १-२९॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥ १-३०॥ तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥ १-३१॥ कलत्रवन्तमात्मानमवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ १-३२॥ तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥ १-३३॥ सन्तानार्थाय विधये स्वभुजादवतारिता । तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ १-३४॥ अथाभ्यर्च विधातारं प्रयतौ पुत्रकामया । तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ १-३५॥ स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥ १-३६॥ मा भूदाश्रमपीडेति परिमेयपुरस्सरौ । अनुभावविशेषात्तु सेनापरिवृताविव ॥ १-३७॥ सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥ १-३८॥ मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ १-३९॥ परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ १-४०॥ श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥ १-४१॥ पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥ १-४२॥ सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ १-४३॥ ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः ॥ १-४४॥ हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ १-४५॥ काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ १-४६॥ तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः । अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥ १-४७॥ स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ १-४८॥ वनान्तरादुपावृत्तैः समित्कुशफलाहरैः । पूर्यमाणमदृश्याग्निप्रत्युद्यात्यैस्तपस्विभिः ॥ १-४९॥ आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः । अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ १-५०॥ सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहङ्गानामालवालाम्बुपायिनम् ॥ १-५१॥ आतपात्ययसंक्षिप्तनीवारासु निषादिभिः । मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ १-५२॥ अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् । पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ॥ १-५३॥ अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः । तामवारोहयत्पत्नीं रथादवततार च ॥ १-५४॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥ १-५५॥ विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ १-५६॥ तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ १-५७॥ तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ १-५८॥ अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ १-५९॥ उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥ १-६०॥ तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ १-६१॥ हविरावर्जितं होतस्त्वया विधिवदग्निषु । वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ १-६२॥ पुरुषायुष्यजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ १-६३॥ त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ १-६४॥ किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् । न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ १-६५॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ १-६६॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥ १-६७॥ सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥ १-६८॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ १-६९॥ तया हीनं विधातर्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥ १-७०॥ असह्यपीडं भगवनृणमन्त्यमवेहि मे । अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥ १-७१॥ तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ १-७२॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ १-७३॥ सोऽपश्यत्प्रणिधानेन सन्ततेः स्तम्भकारणम् । भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ १-७४॥ पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः । आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥ १-७५॥ धर्मलोपभयाद्राज्ञीमृतुस्नातामनुस्मरन् । प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥ १-७६॥ अवजानासि मां यस्मादतस्ते नाभविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ १-७७॥ स शापो न त्वया राजन्न च सारथिना श्रुतः । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ १-७८॥ ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ १-७९॥ हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः । भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥ १-८०॥ सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥ १-८१॥ इति वादिन एवास्य होतुराहुतिसाधनम् । अनिन्द्या नंदिनी नाम धेनुराववृते वनात् ॥ १-८२॥ ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला । बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥ १-८३॥ भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि । प्रस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ १-८४॥ रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् । तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ १-८५॥ तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः । याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥ १-८६॥ अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ १-८७॥ वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् । विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ १-८८॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ १-८९॥ वधूर्भक्तिमती चैनामर्चितामा तपोवनात् । प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥ १-९०॥ इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ १-९१॥ तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ १-९२॥ अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक्स्रष्टुर्विससर्जोर्जितश्रियम् ॥ १-९३॥ सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ १-९४॥ निर्दिष्टां कुलपतिना स पर्णशाला- मध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्यननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ १-९५॥ ॥ इति श्रीमत्कालिदासकृते रघुवंशे महाकाव्ये प्रथमः सर्गः ॥Encoding by Arvind Kolhatkar and Mrs. and Mr. Desriraju H. Rao.