अक्षर आकार:

श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रम्

Shri Ramayana Tatparya Sangraha Stotram

श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रम्

वाल्मीकिरादिकविराट् अखिलार्थदर्शी साक्षाद्विरिञ्च इव संप्रतिपन्नभावः । विश्वेश विष्णुमधिकृत्य कृते प्रबन्धे व्यक्त्या तवैव निबबन्ध परं परत्वम् ॥ १॥ रामायणे हि कलशप्रभवाश्रमस्था देवादयोपि तमुपासत इत्युदीर्य । स्थानानि चात्र मधुजिन्मघवन्मुखानां तस्याश्रमे निगदितानि न ते कपर्दिन् ॥ २॥ तेनत्वमेव ननु सिद्ध्यसि पारिशेष्या त्तस्येन्दुशेखर तपोनिकरैरुपास्यः । तस्याप्युपासकतया विनिवेशितेभ्यः तेभ्यस्तवत्वतितरां महिमा प्रसिद्धयेत् ॥ ३॥ अत्यन्तपूज्य विषयं किलयत्प्रसिद्धं श्रीमद्विशेषणमिदं हरिमूर्तिरूपात् । अस्त्रात्वदाप्तमधिकं किमपि त्रिशूलं व्यङ्क्तुं त्वयीव न परत्र निवेशितं तत् ॥ ४॥ कुम्भोद्भवस्य सुरसंसदुपास्यता च श्रीमद्विशेषणमिदं च तवेन्दुमौले । श्रीरामचन्द्र वचनेविति तन्निबन्धः तस्यापि भक्तिमधिकां भवति व्यनक्ति ॥ ५॥ यस्यास्ति हि स्म शिबिरं शिवदक्षिणाग्रे कुक्षिङ्गते जलनिधेर्नलसेतु कॢप्त्यै । तस्मिन् जगद्विदित भूमनि सेतुबन्धे पूर्वं प्रसन्न इति च त्वयि भक्तिमूचे ॥ ६॥ श्रान्तस्सुदीर्घसमरेण रघुप्रवीर श्चिआन्ताकुलः कलशयोनिकृतोपदेशः । ब्रह्मच्युतत्रिणयनेश भवत्स्वरूपं स्तोत्रेण यद्रिपुजयाय रविं प्रपन्नः ॥ ७॥ रक्षोधिपो निहत एव दिवं प्रयाहि कार्यं कृतं खलु नः इत्युदिते विधात्रा । राज्यस्थितः कुरुतुरङ्गममेधयज्ञ मित्युक्तमेवजगृहे तव यच्चशम्भो ॥ ८॥ इक्ष्वाकुवंश भवराज्यपदे निविष्टः त्वामेव यच्च सुचिरं हयमेधकॢप्त्या । ईजेकथान्तर गिरा शिवतेन चक्री यष्टव्य इत्यवरजस्य निरस्य भावम् ॥ ९॥ एतैस्त्वयि प्रकटिता रघुनन्दनस्य भक्तिः स्थिरा परतरत्वमतिश्च नित्या । सुव्यक्तमादिकविना स्वयमात्मनश्च रुद्रस्सविष्णुरिव चेत्युपमोक्तिभङ्ग्या ॥ १०॥ संवत्सरं वरद वासयितुं प्रवृत्तः सीतां दशाननगृहे जगतां नियन्तुः । सङ्कल्प एव तव तद्वसतेरबोधे रामस्य हेतुरिति भावममुष्य मन्ये ॥ ११॥ सीतापहारमवलोक्य रघूत्तमाय ब्रूयुर्नजात्विति मुनिः विदितत्वदाज्ञः । पृष्टो यदस्य रघुचन्द्रमसा निवासं उक्त्वागतः खगपतिः कियदन्यदन्यत् ॥ १२॥ संसूच्य वक्ष्य इति नाह कबन्ध एत दज्ञानमभ्यनयदत्र च सूर्यसूनुः । उक्तं हि तत्र भगवन्ननिमित्तमन्यत् सङ्कल्प एव भवतश्शिव तस्य दृष्टिः ॥ १३॥ ज्ञातेरिपुं रघुपतिः लघुसञ्जिहीर्षेत् यःक्रोधतः समजिहीर्षदशेषलोकान् । मोघो भवेच्छिवतदा निहते रिपौ ते सङ्कल्प एव न हतेतु तदीयबाणः ॥ १४॥ तत्रोद्यते सकलसंहरणाय भीत्या सद्यो दशाननवधोस्त्विति वाञ्च्छया च । यन्नाहरोपित शरन्तमुपेत्यदेवः तत्रापि सर्वजगदीश स एव हेतुः ॥ १५॥ गङ्गाशिवेशिरसिते पतनेन पुण्या पापापनोदन विनोदपटीयसीति । देवादयोऽपि वसुधातल वासमाप्ताः स्नातास्तथेति स वचो निबबन्ध चार्षम् ॥ १६॥ नारायणस्य धनुषस्तव भीमचापात् उत्कृष्टतां गणयतः किल भार्गवस्य । यन्मेनिरेत्वदधिकं तमितीववाक्यं तद्बाधितं च वचनेन रघूद्वहस्य ॥ १७॥ दृप्तस्य कोपकलुषस्य वचः किलाद्यं धर्मस्य विग्रहवतस्तु वचोद्वितीयम् । युद्धे क्वचित्त्वदधिकत्वमरेर्वचश्च त्वद्दत्तसत्यवरनिर्वहणाययुक्तम् ॥ १८॥ इत्थं तव श्रुतिशत प्रथितं परत्वं प्राधान्यतः स्मरहर प्रतिपादनीयम् । द्वारं तु रामचरितं कविना गृहीतं- रामायणे महितं उत्तमकाव्यरत्ने ॥ १९॥ केचिद्विभीषणसमाचरितं प्रधानं कोणे श्रुतं प्रपदनं प्रतिपाद्यमाहुः । प्राधान्यमत्र कथमुत्तमनाम्नि काव्ये- वाच्यातिशायिविषयार्थि तदश्नुवीत ॥ २०॥ स्याच्चत्तदीशफलगौरवतः प्रधानं इक्ष्वाकु-नायक समाचरितं तथा स्यात् । तच्चापि वायसकृतं धनलाभतोऽपि दारात्मलाभमधिकं हि बुधा वदन्ति ॥ २१॥ तच्चेद्विमुक्तिफलकं फलगौरवं स्यात् राज्येप्सयैव तु कृतं तदिति प्रसिद्धम् । श्रीरामचन्द्रपवनात्मजयोश्च सूक्त्या साक्षाच्च तस्य वचनेन विभीषणस्य ॥ २२॥ लङ्का सुहृद्धन सुखानुभवादि सर्वं त्यक्तं मयेति तु वचो न ततो विरक्त्या । श्रीरामचन्द्रकरुणा कटाक्षलब्धे तत्रैव रागपिशुनः खलु वाक्यशेषः ॥ २३॥ ज्ञात्वातदीप्सितमतोऽथ रघुप्रवीरः तेनैव रावणबलादि च वाचयित्वा । कृत्वा च रावणतदिष्टवध प्रतिज्ञां राज्याधिपत्यमददां अभिषेकपूर्वम् ॥ २४॥ प्राचेतसाय कवये प्रथमाय तस्मै तत्काव्यहारतरळाय च राघवाय । विश्वात्मने तदुभयस्थिर भावलक्ष्य मुख्यास्पदाय विभवे च नमश्शिवाय ॥ २५॥ इति श्रीअप्पय्यदीक्षितविरचितं श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रं समूर्णम् ।