अक्षर आकार:

भर्तृहरिप्रणीतं पुरुषार्थदशकम्

puruShArthadashakam by Bhartrihari

भर्तृहरिप्रणीतं पुरुषार्थदशकम्

तस्मादनन्तमजरं परमं विकासि तच्चित्त ! चिन्तय किमेभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्य- भोगादयः कृपणलोकमता भवन्ति ॥ १॥ पातालमाविशसि चापि नभौ विलङ्घ्य दिङ्मण्डलं भ्रमसि मानस।! चापलेन । भ्रान्त्यापि जातु [विमलं] कथमात्मनीनं न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ २॥ यूयं वयं वयं यूयम् इत्यासीन्मतिरावयोः किं जातमधुना येन यूयं यूयं वयं वयम् ॥ ३॥ महीशय्या शय्या विततमुपधानं भुजलता वितानस् त्वाकाशो व्यजनमनुकूलोऽयमनिलः । स्फुरन् दीपश् चन्द्रो विरतिवनितासङ्गम् उदितः सुखं शान्तः शेते तनुतरविभूतिर् नृप इव ॥ ४॥ किं वेदै स्मृतिभिः पुराणवचनैः शास्त्रैर्मद्वाविस्तरैः स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । मुक्त्वैक्षकं भवदुःखभाररचनाविध्वंसकालानल- स्वात्मानन्दपदप्रवेशकथनाः शेते वणिग्वृत्तिभिः ॥ ५॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः सङ्कल्पकल्पा घनसमयतटिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत् प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ६॥ यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि । इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस् त्रिभुवनमपि ब्रह्म मनुते ॥ ७॥ किं कन्दर्प ! वृथा कदर्थयसि मां कोदण्डटङ्कारितै रे रे कोकिल ! कोमलं कलरवं किं वाभिधन् स्वादुना । मुग्धे ! स्निग्ध [विदग्ध] मुग्धमधुरच्छायैः कटाक्षैरलं चेतश् चुम्बति चन्द्रचूडचरणध्यानामृतं सम्प्रति ॥ ८॥ प्रशान्तशास्त्रार्थविचारचापलं निवृत्तनानारसकाव्यकौतुकम् । निरस्तनिश्शेषविकल्पविप्लवं प्रपत्तुमन्विच्छति शूलिनं मनः ॥ ९॥ मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल ! भ्रातर्व्योम निबद्ध एष भवतामन्त्यं प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मलं ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १०॥ इति पुरुषार्थप्रकरणम् । इत्याचार्यभर्तृहरिप्रणीतं पुरुषार्थदशकं समाप्तम् ॥