अक्षर आकार:

पाणिनीय शिक्षा

pANinIya shikShA

पाणिनीय शिक्षा

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्वं तद्विदाद्यथोक्तं लोकवेदयोः ॥ १॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ २॥ त्रिषष्टिश्चतुःषटिर्वा वर्णा शम्भुमतेमताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥ ३॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ४॥ अनुस्वारो विसर्गश्च ꣳक-पौ चापि पराश्रितौ । दुःस्पृष्टो चापि विज्ञेयो ॡकारो प्लुत एव सः ॥ ५॥ ॥१॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति सः प्रेरयति मारुतम् ॥ ६॥ मारुस्तूरसिचरन्मन्द्रं जनयति स्वरम् । प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ ७॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगतम् ॥ ८॥ सोदीर्णो मूर्ध्न्यभिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ ९॥ स्वरतः कालतः स्थानात्प्रयत्नादनुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥ १०॥ ॥२॥ उदातानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ ११॥ उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ । स्वरित्प्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ १२॥ अष्टौ स्थानानि वर्णानामुर: कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३॥ ओभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४॥ ययोभावप्रसमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्यादन्यद्व्यक्तमूष्मणः ॥ १५॥ ॥३॥ हकारं पञ्चमैर्युक्तमन्स्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कठ्यमाहुरसंयुतम् ॥ १६॥ कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥ १७॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः । एऐ तु कण्ठतालव्या ओऔ तु कण्ठोष्ठजौ स्मृतौ ॥ १८॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संऋताः सर्वे अघोषा विवृतः स्मृताः ॥ २०॥ ॥४॥ स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचो तथैव च ॥ २१॥ अनुस्वार यमानां च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२॥ अलाबुवीणानिर्घोषो दन्तमूल्यस्वराननु । अनुस्वारस्तु कर्तव्यो नित्यम् होः शषसेषु च ॥ २३॥ अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये । द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः ॥ २४॥ व्याघ्री यथा हरेत्पुत्रान्दन्ताभ्यां न तु पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ २५॥ ॥५॥ यथा सौराष्ट्रिका नारी तक्रꣳ इत्यभिभाषते । एवम् रङ्गाः प्रयोक्तव्याः खे अराꣳ इव खेदया ॥ २६॥ रङ्गवर्णं प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥ २७॥ हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि । नासिकायां तथार्धं च रङ्गस्यैवं द्विमात्रता ॥ २८॥ हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरम् । मार्दवं च द्विमात्रं च जघन्वाꣳ इति निदर्शनम् ॥ २९॥ मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् । सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥ ३०॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णप्रयोगेन ब्रह्मलोके महीयते ॥ ३१॥ ॥६॥ गीती शीघ्री शिरःकम्पी तथा लिखितपाथकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्यं लयसमर्थं च षडेते पाठका गुणाः ॥ ३३॥ शङ्कितं भीतमुत्कृष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसि गतं तथ स्थानविवर्जितम् ॥ ३४॥ उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न न दीनं न तु सानुनास्यम् ॥ ३५॥ प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन ॥ ३६॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यमृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ ३७॥ ॥७॥ अचोऽस्पृष्टा गणस्त्वीषन्नमस्पृष्टा शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्तानिबोचानुप्रदानतः ॥ ३८॥ ञमोनुनासिका नह्रो नादिनो हझषः स्मृताः । ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः ॥ ३९॥ ईषत्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवः ॥ ४०॥ छन्दः पादौ तु वेदस्य हस्तः कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ ४१॥ शिक्षा प्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ॥ ४२॥ ॥८॥ उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा । उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ।४३॥ उदात्तं प्रदेशिनीं विद्यात्प्रचयो मध्यतोङ्गुलीम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ ४४॥ अन्तोदात्तमाद्युदत्तमुदात्तमनुदातं नीचस्वरितम् । मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥ ४५॥ अग्निः बोमः प्रवो वीर्यं हविषं स्वर्बृहस्पतिरिन्द्राबृहस्पती । अग्निरित्यन्तोदात्तं सोम इत्याद्युदत्तं प्रेत्युदात्तं दीर्घं नीचस्वरितम् ॥ ४६॥ हविषां मध्योदात्तंस्वरिति स्वरितं बृहस्पतिरिति । द्व्युदात्तमिन्द्राबृहस्पती इति त्रुदात्तम् ॥ ४७॥ अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः । स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥ ४८॥ ॥९॥ चाषस्तु वदते मारां द्विमात्रो चैव वायसः । शिखी रौति त्रिमात्रस्तु नकुलस्त्वर्धमात्रकः ॥ ४९॥ कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् । न तस्य पठे मोक्षोऽस्ति पापार्हरिव किल्बिषात् ॥ ५०॥ सुतिर्थदागतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् । सुस्वरेण सुवक्रेण प्रयुक्तं ब्रह्म राजते ॥ ५१॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तदर्थमाह । स वग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ ५३॥ अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् । अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥ ५४॥ हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ ५५॥ हस्तेन वेदं योऽधीते स्वरवर्णाथसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥ ५५॥ ॥१०॥ शङ्करः शङ्करीं प्रादाद्दाक्षीपुत्रायधीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥ ५६॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ ५७॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ ५८॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ ५९॥ त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानमतुलं च सुखं समश्नुते दिवीति दिवीति ॥ ६०॥