अक्षर आकार:

न्यासतिलकम्

nyAsatilakam

न्यासतिलकम्

श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥ १॥ प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् । हस्तः श्रीरङ्गभर्तुर्मामव्यादभय मुद्रितः ॥ २॥ अनादेर्निःसीम्नो दुरितजलधेर्यन्निरूपमं विदुः प्रायश्चित्तं यदुरघुधुरीणाशयविदः । तदारम्भे तस्या गिरमवदधानेन मनसा प्रपद्ये तामेकां श्रियमखिलनाथस्य महिषीम् ॥ ३॥ महेन्द्राग्नाविष्णुप्रभृतिषु महत्त्वप्रभृतिवत् प्रपत्तव्ये तत्त्वे परिणमितवैशिष्ट्यविभवाम् । अधृष्यत्वं धूत्वा कमितुरभिगम्यत्वजननीं श्रियं शीतापाङ्गामहमशरणो यामि शरणम् ॥ ४॥ स्वतःसिद्ध श्रीमानमितगुणभूमा करुणया विधाय ब्रह्मादीन्वितरति निजादेशमपि यः । प्रपत्त्या साक्षाद्वा भजन शिरसा वाऽपि सुलभं मुमुक्षुर्देवेशं तमहमधिगच्छामि शरणम् ॥ ५॥ वृन्दानि यः स्ववशयन्व्रजसुन्दरीणाम् वृन्दावनान्तरभुवां सुलभो बभूव । श्रीमानशेषजनसङ्ग्रहणाय शेते रङ्गे भुजङ्गशयने स महाभुजङ्गः ॥ ६॥ रङ्गास्तीर्णभुजङ्गपुङ्गववपुःपर्यङ्कवर्यं गतौ सर्गस्थित्यवसानकेलिरसिकौ तौ दम्पती नः पती । नाभीपङ्कजशायिनः श्रुतिसुखैरन्योन्यबद्धस्मितौ डिम्भस्याम्बुजसम्भवस्य वचनैरोन्तत्सदित्यादिभिः ॥ ७॥ घनकरुणारसौघभरितां परितापहरां नयनमहश्छटां मयि तरङ्गय रङ्गपते । दुरितहुताशनस्फुरितदुर्दमदुःख मषी- मलिनितविश्वसौधदुरपह्नववर्णसुधाम् ॥ ८॥ दुर्मोचोद्भटकर्मकोटिनिबिडोऽप्यादेशवश्यः कृतः बाह्मैर्नैव विमोहितोऽस्मि कुद्दशां पक्षैर्न विक्षोभितः । यो माहानसिको महान्यतिपतेर्नीतश्च तत्पौत्रजान् आचार्यानिति रङ्गधुर्य मयि ते स्वल्पावशिष्टो भरः ॥ ९॥ आर्तेष्वाशुफला तदन्यविषयेऽप्युच्छिन्नदेहान्तरा वह्न्यादेरनपेक्षणात्तनुभृतां सत्यादिवद्व्यापिनी । श्रीरङ्गेश्वर यावदात्मनियतत्वत्पारतन्त्रयोचिता त्वय्येव त्वदुपायधीरपिहितस्वोपायभावाऽस्तु मे ॥ १०॥ त्वय्याचार्यैविनिहितभरास्तावका रङ्गनाथ त्वत्कैङ्गर्यप्रवणमनसस्त्वद्गुणास्वादमत्ताः । त्वय्येकस्मिन्नपि विजहतो मुक्तवत्साधनत्वं त्वच्छेषत्वस्वरसरसिकाः सूरयो मे स्वदन्ताम् ॥ ११॥ कल्पस्तोमेऽप्यपास्तत्वदितरगतयोऽशक्तिधीभक्तीभूम्ना रङ्गेश प्रातिकूल्यक्षरणपरिणमन्निर्विघातानुकूल्याः । त्रातारं त्वामभेद्याच्छरणवरणतो नाथ निर्विघ्नयन्तः त्वन्निक्षिप्तात्मरक्षां प्रति रभसजुषः स्वप्रवृत्तिं त्यजन्ति ॥ १२॥ त्यक्तोपायव्यपायांस्तदुभयकरणे सत्रपान्सानुतापान् भूयोऽपि त्वत्प्रपत्त्या प्रशमितकलुषान्हन्त सर्वंसहस्त्वम् । रङ्गिन् न्यासान्तरङ्गाखिलजनहिततागोचरत्वन्निदेश- प्रीतिप्राप्तस्ववर्णाश्रमशुभचरितान्पासि धन्याननन्यान् ॥ १३॥ शोकास्पदांशमथनः श्रयतां भवाब्धौ रागास्पदांशसहजं न रुणत्सि दुःखम् । नो चेदमी जगति रङ्गधुरीण भूयः क्षोदिष्ठभोगरसिकास्तव न स्मरेयुः ॥ १४॥ हेतुवैधे विमर्शे भजनवदितरत् किं त्वनुष्टानकाले वेद्यत्वद्रूपभेदो विविध इह स तूपायान्यनपेक्षा । रङ्गिन्प्रारब्धभङ्गात्फलमधिकमनावृत्तिरुक्तेष्टिवन्स्यात् नाना शब्दादिभेदात्प्रपदनभजने सूचिते सूत्रकारैः ॥ १५॥ भक्तौ रङ्गपते यथा खलु पशुच्छागादिवत्वेदन- ध्यानोपासनदर्शनादिवचसामिच्छन्त्यभिन्नार्थताम् । व्यक्त्यैक्याच्छरणागतिप्रपदनत्यागात्मनिक्षेपण- न्यासाद्येषु तथैव तन्त्रनिपुणैः पर्यायता स्मर्यते ॥ १६॥ विश्वासायासभूम्नोर्न्यसनभजनयोर्गौरवे को विशेषः तत्सद्भावेऽपि धर्मान्तर इव घटते कर्तृभेदाद्विकल्पः । तद्भेदो रङ्गशायिन्ननितरगतिताद्युत्थशोकातिरेकात् सद्विद्यादौ विकल्पस्त्वभिमतिभिदया तेन तत्रैकराश्यम् ॥ १७॥ ध्रृवमधिकृतिभेदाद्कर्मवत्रङ्गशायिन् फलति फलमनेकं त्वत्पदे भक्तिरेका । शरणवरणवाणी सर्वहेतुस्तथाऽसौ कृपणभजननिष्ठा बुद्धिदौर्बल्यकाष्ठा ॥ १८॥ कर्तव्यं सकृदेव हन्त कलुषं सर्वं ततो नश्यति ब्रह्मेशादिसुदुर्लभं पदमपि प्राप्यं मया द्रागिति । विश्वासप्रतिबन्धिचिन्तनमिदं पर्यस्यति न्यस्यतां रङ्गाधीश रमापतित्वसुभगं नारायणत्वं तव ॥ १९॥ धीकर्मभक्तिरहितस्य कदाऽप्यशक्त्या रङ्गेश भावकलुषप्रणतिद्वयोक्तेः । मन्ये बलं प्रबलदुष्कृतशालिनो मे त्वन्मूलदेशिककटाक्षनिपातमाद्यम् ॥ २०॥ अन्धोऽनन्धग्रहणवशगो याति रङ्गेश यद्वत् पङ्गुर्नौकाकुहरनिहितो नीयते नाविकेन । भुङ्क्ते भोगानविदितनृपः सेवकस्यार्भकादिः त्वत्सम्प्राप्तौ प्रभवति तथा देशिको मे दयाळुः ॥ २१॥ उक्त्या धनञ्जयविभीषणलक्ष्यया ते प्रत्याय्य लक्ष्मणमुनेर्भवता वितीर्णम् । श्रुत्वा वरं तदनुबन्धमदावलिप्ते नित्यं प्रसीद भगवन्मयि रङ्गनाथ ॥ २२॥ सकृदपि विनतानां सर्वदे सर्वदेहिनि उपनिषदभिधेये भागधेये विधेये । विरमति न कदाचिन्मोहतो हा हतोऽहं विषमविषयचिन्तामेदुरा मे दुराशा ॥ २३॥ यावज्जीवं जगति नियतं देहयात्रा भवित्री त्यक्ताः सर्वे त्रिचतुरदिनग्लानभोगा नभोगाः । दत्ते रङ्गी निजमपि पदं देशिकादेशकाङ्क्षी किं ते चिन्ते परमभिमतं खिद्यसे यत् पुनस्त्व्म् ॥ २४॥ अपि मुहुरपराधैरप्रकम्प्यानुकम्पे वहति महति योग क्षेम वृन्दं मुकुन्दे । मदकलुषमनीषावज्रलेपावलेपान् अणुगुणयितुमीहे न प्रभूनप्रभूतान् ॥ २५॥ मातर्भारति मुञ्च मानुषचटून्हे देह लब्धैरलं लुब्धद्वारदुरासिकापरिभवैस्तोषं जुषेथा मनः । वाचः सीमनि रङ्गधामनि महानन्दोन्नमद्भूमनि स्वामिन्यात्मनि वेङ्गटेश्वरकवेः स्वेनार्पितोऽयं भरः ॥ २६॥ दास्यं लास्यवताऽनुमत्य मनसा रङ्गेश्वर त्वत्पदे नित्यं किङ्करवाण्यहं न तु पुनः कुर्यां कदर्याश्रयाम् । मीलच्चक्षुषि वेल्लितभ्रुणि मुहुर्दत्तावमानाक्षरे भीमे कस्यचिदाढ्यकस्य वदने भिक्षाविलक्षां द्दशम् ॥ २७॥ त्वय्येकाञ्चलिकिङ्करे तनुभृतां निर्व्याजसर्वंसहे कल्याणात्मनि रङ्गनाथ कमलाकान्ते मुकुन्दे स्थिते । स्वामिन्पाहि दयस्व देव कुशलिन्जीव प्रभो भावयेति आलापानवलेपिषु प्रलपितुं जिह्रेति जिह्वा मम ॥ २८॥ त्वयि सति रङ्गधुर्य शरणागतकामदुधे निरुपधिकप्रवाहकरुणापरिणाहवति । परिमितदेशकालफलदान्फलदाकृतिकान् कथमधिकुर्महे विधिशिवप्रमुखानमुखान् ॥ २९॥ ओमित्यभ्युपगम्य रङ्गनृपतेऽनन्योचितां शेषतां स्वातन्त्र्यादिमयीमपोह्य महतीमाद्यामविद्यास्थितिम् । नित्यासङ्ख्यविसीमभूतिगुणयोर्यायामनायासतः सेवासम्पदमिन्दिरेश युवयोरैकान्तिकात्यन्तिकीम् ॥ ३०॥ आचार्याद्रङ्गधुर्य द्वयसमधिगमे लब्धसत्तं तदात्वे विश्लिष्टाश्लिष्टपूर्वोत्तरदुरितभरं यापितारब्धदेहम् । नीतं त्वत्कैस्त्वया वा निरवधिकदयोद्भूतबोधादिरूपं त्वद्भोगैकस्वभोगं दयितमनुचरं त्वत्कृते मां कुरुष्व ॥ ३१॥ विधानां रङ्गेशादधिगतवतो वेङ्गटकवेः स्फुरद्वर्णं वक्त्रे परिकलयतां न्यासतिलकम् । इहामुत्राप्येष प्रणतजनचिन्तामणिगिरिः स्वपर्यङ्के सेवां दिशति फणिपर्यङ्करसिकः ॥ ३२॥ इति वेदान्तदेशिकविरचितं न्यासतिलकं सम्पूर्णम् ।