अक्षर आकार:

नाट्यशास्त्रम् अध्यायः ३७

Natya Shastra Chapter 37

नाट्यशास्त्रम् अध्यायः ३७

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ सप्तत्रिंशोऽध्यायः । कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः । प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ १ ॥ प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् । गान्धर्वं चैअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् ॥ २ ॥ स चिन्तयित्वा मनसा कथमेष गृहे मम । नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ ३ ॥ कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः । अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ४ ॥ प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः । दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ ५ ॥ हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् । आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥ प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः । इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ७ ॥ पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् । व्यक्तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम ॥ ८ ॥ पितामहगृहेऽस्माकं तदन्तःपुरे जने । पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् ॥ ९ ॥ तस्याः प्रणाशशोकेन उन्मादोपरते नृपे । विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ १० ॥ प्रकाशमेतदिच्छामो भूयस्तत् सम्प्रयोजितम् । तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः ॥ ११ ॥ तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् । स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ १२ ॥ तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा । सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह ॥ १३ ॥ अयं हि नहुषो राजा याचते नः कृताञ्जलिः । गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च ॥ १४ ॥ करिष्यमश्च शापान्तमस्मिन् सम्यक् प्रयोजिते । ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ १५ ॥ तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले । न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ १६ ॥ अस्माकं चैव सर्वेषां नहुषस्य महात्मनः । आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयंभुवा ॥ १७ ॥ शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति । प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च ॥ १८ ॥ अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् । अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥ ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ २० ॥ अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः । बद्धवन्तोऽधिकस्नेहं तासु तद् द्विजसत्तमाः ॥ २१ ॥ पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् । ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः ॥ २२ ॥ एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् । भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः ॥ २३ ॥ कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः । मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः ॥ २४ ॥ एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् । त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् । मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ २५ ॥ य इदं श्रुणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा । कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः ॥ २६ ॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ २७ ॥ दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ २८ ॥ न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ २९ ॥ गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं पराम् ॥ ३० ॥ एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् । नोक्तं यच्चात्र लोकादनुकृतिकरणात् । संविभाव्यं तु तज्ज्ञैः ॥ किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा । शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ ३१ ॥ इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ॥ ३७॥ ॥ नाट्यशास्त्रम् सम्पूर्णम् ॥