अक्षर आकार:

नाट्यशास्त्रम् अध्यायः ३६ नाट्यशापः

Natya Shastra Chapter 36

नाट्यशास्त्रम् अध्यायः ३६ नाट्यशापः

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ षट्त्रिंशोऽध्यायः अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ १॥ विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ २॥ दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३॥ स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः । नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ ४॥ नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः । जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ ५॥ एवं ते मुनयः श्रुत्वा सर्वज्ञं भरतं ततः । पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम् ॥ ६॥ यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः । एकचित्तैः स चास्माभिः सम्यक् समुपधारितः ॥ ७॥ एकश्च संशयोऽस्माकं तं नो व्याख्यातुमर्हसि । को वान्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति ॥ ८॥ न वयं परिहासेन न विरोधेन न चेर्ष्यया । पृच्छामो भगवन् नाट्यमुपदेशार्थमेव तु ॥ ९॥ अस्माभिश्च तदा नोक्तं कथाच्छेदो भवेदिति । इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय ॥ १०॥ लोकस्य चरितं नाट्यमित्यवोचस्त्वमीदृशम् । तेषां तु लोकं गुह्यानां निश्चयं वक्तुमर्हसि ॥ ११॥ देवस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ । किमर्थं भुज्यते ह्येष प्रयुक्तः किं करोति वा ॥ १२॥ कस्माच्चैव पुनः शौचं सम्यक् चरति सूत्रदृक् । कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ १३॥ कथं तवायं वंशश्च नटसंज्ञः प्रतिष्ठितः । सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ १४॥ तेषं तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ १५॥ ब्रवीमि वः कथां गुह्यां यन्मां पृच्छन् सुव्रताः । पूर्वरङ्गविधानस्य तां च मे सन्निबोधत ॥ १६॥ प्रोक्तवानस्मि यत्पूर्वं शुभं विघ्ननिबर्हणम् । तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ १७॥ शस्त्राणां प्रतिकारार्थं शरीरावरणं यथा । क्रियते हि तथा पापं हुतेनैव प्रशाम्यति ॥ १८॥ एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च । सर्वातोद्यविधानैश्च तथा गीतस्वनेन च ॥ १९॥ स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः । मया पापापहरणैः कृते विघ्ननिबर्हणे ॥ २०॥ स्तुतिगीतादिसंसृष्टैर्देवैरभिहितोऽस्म्यहम् । नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ॥ २१॥ देवतासुरमानन्द्य यस्माँल्लोकश्च नन्दति । तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ २२॥ गीतवाद्यानुनादो हि यत्र काकुस्वनः शुभः । तस्मिन् देशे विपाप्मानो माङ्गल्यं च भविष्यति ॥ २३॥ यावत्तं पूरयेद्देशं ध्वनिर्नाट्यसमाश्रयः । न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ २४॥ आवाहे च विवाहे च यज्ञे नृपतिमङ्गले । नान्दीशब्दमुपश्रुत्य हिंस्रा नश्यन्ति चैव हि ॥ २५॥ पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च । वेदमन्त्रार्थवचनैः समं ह्येतद् भविष्यति ॥ २६॥ श्रुतं मया देवदेवात् तत्त्वतः शङ्कराद्धितम् । स्नानजप्यसहस्रेभ्यः पवित्रं गीतवादितम् ॥ २७॥ यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः । भविष्यत्यशुभं देशे नैव तस्मिन् कदाचन ॥ २८॥ एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया । नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ २९॥ यतोऽभिवादनं क्लिष्टं शिष्टं तद्रङ्गमण्डले । ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ ३०॥ शौचं कृत्वा यतो मन्त्रं पूजनं जर्जरस्य तु । उच्यते पूर्वरङ्गेऽस्मिन् तस्माच्छौचं प्रकीर्तितम् ॥ ३१॥ यथावतारितं चैव नाट्यमेतन्महीतले । वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ॥ ३२॥ ममैते तनयाः सर्वे नाट्यवेदसमन्विताः । सर्वलोकं प्रहसनैः बाधन्ते नाट्यसंश्रयैः ॥ ३३॥ कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम् । ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गुणसंश्रयम् ॥ ३४॥ अश्राव्यं तद्दुराचारं ग्राम्यधर्मप्रवर्तितम् । निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम् ॥ ३५॥ तच्छ्रुत्वा मुनयः सर्वे भीमरोषप्रकम्पिताः । ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयः ॥ ३६॥ मा तावद्भो द्विजा युक्तमिदमस्मद्विडम्बनम् । को नामायं परिभवः किञ्च नास्मासु सम्मतम् ॥ ३७॥ यस्माज्ज्ञानमदोन्मत्ता न वेत्थाविनयाश्रिताः । तस्मादेतद्धि भवतां कुज्ञानं नाशमेष्यति ॥ ३८॥ ऋषीणां ब्राह्मणानां च समवायसमागताः । निराहुता विना होमैः शूद्राचारा भविष्यथ ॥ ३९॥ अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ । यश्च वो भविता वंशः सर्वाशौचो भविष्यति ॥ ४०॥ ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः । परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः ॥ ४१॥ शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः । सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः ॥ ४२॥ याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः । इदानीं दुःखमुत्पन्नं नाट्यमेतद् विनङ्क्षति ॥ ४३॥ ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनक्ष्यति । शेषमन्यत्र यद् प्रोक्तं सर्वमेतद् भविष्यति ॥ ४४॥ एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम् । विष्ण्णास्ते ततः सर्वे श्रुत्वा मां समुपस्थिताः ॥ ४५॥ प्रोक्तवन्तश्च मां पुत्रास्त्वयाहो नाशिता वयम् । अनेन नाट्यदोषेण शूद्राचारा हि यत् कृताः ॥ ४६॥ मयापि सान्त्वयित्वोक्ता मा क्रोधं व्रजतानघाः । कृतान्तविहितोऽस्माकं नूनमेष विधिः सुताः ॥ ४७॥ मुनीनां हि मृषा वाक्यं भविष्यति कदाचन । निधने च मनो मा भूद् युष्माकमिति सान्त्विताः ॥ ४८॥ जानीध्वं तत्तथा नाट्यं ब्रह्मणा सम्प्रवर्तितम् । शिष्येभ्यश्च तदन्येभ्यः प्रयच्छामः प्रयोगतः ॥ ४९॥ मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् । महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसम्भवम् ॥ ५०॥ अप्सरोभ्य इदं चैव यथातत्त्वं यथाश्रुतम् । नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ॥ ५१॥ । इति भरतीये नाट्यशास्त्रे नाट्यशापो नाम षट्त्रिंशोऽध्यायः ।