अक्षर आकार:

नाट्यशास्त्रम् अध्यायः ३५

Natya Shastra Chapter 35

नाट्यशास्त्रम् अध्यायः ३५

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ पञ्चत्रिंशोऽध्यायः । विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके । यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ ॥ १ ॥ गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः । परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने ॥ २ ॥ तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया । न खेदजननं बुद्धेराचार्यस्य भविष्यति ॥ ३ ॥ आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् । ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम् ॥ ४ ॥ अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् । न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् ॥ ५ ॥ श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् । एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् ॥ ६ ॥ स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् । रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् ॥ ७ ॥ रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् । पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः ॥ ८ ॥ सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः । स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः ॥ ९ ॥ स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः । न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ॥ १० ॥ सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः । कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः ॥ ११ ॥ अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि । न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् ॥ १२ ॥ अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् । सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् ॥ १३ ॥ पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा । कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ॥ १४ ॥ एवमन्येष्वपि तथा नाट्यधर्मविभागतः । देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु ॥ १५ ॥ मन्थरं वामनं कुब्जं विकृतं विकृताननम् । विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ॥ १६ ॥ दुर्जनं दुस्वभावं च विकृताचारमेव च । दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् ॥ १७ ॥ प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् । तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् ॥ १८ ॥ यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः । आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः ॥ १९ ॥ या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा । स तथाऽऽचार्ययोगेन नियम्या भावभाविनी ॥ २० ॥ अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् । भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी । नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव ॥ २१ ॥ मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च । कारककुशीलवाद्या विज्ञेया नामतश्चैव ॥ २२ ॥ धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः । भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात् ॥ २३ ॥ लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता । नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र ॥ २४ ॥ प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः । छेदविदूषितवचनो विदूषको नाम विज्ञेयः ॥ २५ ॥ तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः । तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम ॥ २६ ॥ नटनृति धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् । रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति ॥ २७ ॥ स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः । सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी ॥ २८ ॥ भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु । प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः ॥ २९ ॥ गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य । शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु ॥ ३० ॥ यस्मात् यथोपदिष्टान् रसांश्च भावांश्च सत्वसंयुक्तान् । भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् ॥ ३१ ॥ चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य । नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः ॥ ३२ ॥ नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे । विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः ॥ ३३ ॥ भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च । सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ॥ ३४ ॥ यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः । यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः ॥ ३५ ॥ यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः । यश्चापि वेषयोगं कुरुते स च वेषकारी तु ॥ ३६ ॥ चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः । जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव ॥ ३७ ॥ नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः । अतोद्येऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः ॥ ३८ ॥ यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा । तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः ॥ ३९ ॥ एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया । नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च ॥ ४० ॥ उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः । आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ॥४१ ॥ इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः ॥ ३५ ॥