अक्षर आकार:

नाट्यशास्त्रम् अध्यायः ३३

Natya Shastra Chapter 33

नाट्यशास्त्रम् अध्यायः ३३

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ त्रयस्त्रिंशोऽध्यायः । गुणात् प्रवर्तते गानं दोषं चैव निरस्यते । तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः ॥ १ ॥ गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः । लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः ॥ २ ॥ रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः । पेशलमधुरस्निग्धानुनादिसमरक्त गुरु (शुभ) कण्ठाः ॥ ३ सुविहितगमकविधायिन्योऽक्षोभ्यो(भ्यास्)ताललयकुशलाः । आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः ॥ ४ ॥ प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः । स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च ॥ ५ ॥ यत्र स्त्रीणां पाठ्यात्(ठ्यं) गुणैर्नराणां च गानमधुरत्वम् । ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् ॥ ६ ॥ सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ । गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ ॥ ७ ॥ स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च । चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः ॥ ८ ॥ बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः । श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः ॥ ९ ॥ अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् । स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् ॥ १० ॥ ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि षडाचार्यगुणा इति । तत्र ज्ञानं शास्त्रावबोधः । यथा च क्रियासम्पादनं विज्ञानम् । कण्ठहस्तगौण्यं करणम् । जितग्रन्थता वचनम् । देशादिसम्पदाराधनं प्रयोगसिद्धिः । शिष्यस्वभावमविशेष्योपात्तय उपदेशाच्छिष्यनिष्पादनमिति ॥ ११ ॥ श्रावणोऽथ घनः स्निग्धो मधुरोह्यवधानवान् । त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः ॥ १२ ॥ उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते । श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः ॥ १३ ॥ अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः । मनःप्रह्लादनकरः स वै मधुर उच्यते ॥ १४ ॥ स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् । शिरःकण्ठेष्वभिहितंत्रिस्थानमधुरस्वरः । त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ १५ ॥ कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च । काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि ॥ १६ ॥ वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् । कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च ॥ १७ ॥ ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते । रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः ॥ १८ ॥ दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः । यो न विस्तरति स्थाने स्वरमुच्चारणागतम् ॥ १९ ॥ नासाग्रग्रस्तशब्दस्तुतुम्बकी सोऽभिधीयते ॥ २० ॥ अन्ये तु समप्रहरणे चैव जविनौ विशदौ तथा । जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ । तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया । अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ॥ २२ ॥ पूर्वं यदुक्तं प्रपितामहेन । कुर्यात् य एवं तु नरः प्रयोगे सम्मानमग्रयं लभते स लोके ॥ २३ ॥ इति भरतीये नाट्यशास्त्रे गुणदोषविचारो नामाध्यायस्त्रयस्त्रिंशः ॥ ३३ ॥