अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २९ ततातोद्यविधानं

Natya Shastra Chapter 29

नाट्यशास्त्रम् अध्यायः २९ ततातोद्यविधानं

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकोनत्रिंशत्तमोऽध्यायः षड्जोदीच्यवती चैव षड्जमध्या तथैव च । मध्यपञ्चमबाहुल्यात् कार्या श‍ृङ्गारहास्ययोः ॥ १॥ षाड्जी त्वथार्षभी चैव स्वस्वरांशपरिग्रहात् । वीररौद्राद्भुतेष्वेते प्रयोज्ये गानयोक्तृभिः ॥ २॥ निषादेऽंशे तु नैषादी गान्धारे षड्जकैशिकी । करुणे तु रसे कार्या जातिगानविशारदैः ॥ ३॥ धैवती धैवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिर्गाने प्रयत्नतः । रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः । षड्जग्रामाश्रिता ह्येताः प्रयोज्या जातयो बुधैः ॥ ४॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः । करुणे तु रसे कार्ये निषादेऽंशे तथैव च ॥ ५॥ मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात् कार्याः श‍ृङ्गारहास्ययोः ॥ ६॥ कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा । वीरे रौद्रेऽद्भुते कार्याः षड्जर्षभांशयोजिताः । कैशिकी धैवतांशे तु बीभत्से सभयानके ॥ ७॥ एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वरास्तु विहिताः प्रयोगविधौ ॥ ८॥ यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् । तत्प्रवृत्तं रसे कार्यं गानं गेये प्रयोक्तृभिः ॥ ९॥ मध्यपञ्चमभूयिष्ठं गानं श‍ृङ्गारहास्ययोः । षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ॥ १०॥ गान्धारः सप्तमश्चायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ ११॥ एकैव षड्जमध्या विज्ञेयाखिलरसाश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ १२॥ सर्वेष्वंशेषु रसा नियमविधानेन सम्प्रयोक्तव्याः । काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः । एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ॥ १३॥ पाठ्यप्रयोगविहितान् स्वरांश्चापि निबोधत । हास्यश‍ृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ । षड्जर्षभौ च कर्तव्यौ वीररौद्राद्भुतेष्वथ ॥ गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे । धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके ॥ अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् । आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ १४॥ आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः । यत्र चैवावरोहन्ति सोऽवरोही प्रकीर्तितः ॥ १५॥ स्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते । सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः ॥ १६॥ शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः । चत्वारो लक्षणोपेता वर्णास्तत्र प्रकीर्तिताः ॥ १७॥ एवं लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति । तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ॥ १८॥ एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः । एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ॥ १९॥ प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ २०॥ अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत । मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च । सन्निवृत्तः प्रवृत्तश्च रेचितः कम्पितः समः ॥ २१॥ कुहरश्चैव वेणुश्च रञ्चितो ह्यवलोकितः । आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश ॥ २२॥ निष्कर्षोभ्युचयश्चैव हसितो बिन्दुरेव च । प्रेङ्खोलितस्तथाक्षिप्तो विस्तीर्णोद्धटितस्तथा ॥ २३॥ ह्रादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा । प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ॥ २४॥ विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च । उद्गीतश्च तथा वेणिर्विज्ञेया ह्यवरोहिणः ॥ २५॥ सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे । नैते सर्वे ध्रुवास्विष्टाः श्रुतिवर्णप्रकर्षणात् ॥ २६॥ न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते । श्येनो वाप्यथवा बिन्दुर्ये चान्येति प्रकर्षिणः ॥ २७॥ ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः । तद्ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः ॥ २८॥ यस्मादर्थानुरूपा हि ध्रुवा कार्यार्थदर्शिका । वर्णानां तु पुनः कार्यं कृशत्वं पदसंश्रयम् ॥ २९॥ येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत । प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥ ३०॥ प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ ३१॥ सन्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च । ऊर्मिः प्रेङ्खोऽवलोकश्च इत्येते सर्ववर्णगाः ॥ ३२॥ स्थायिवर्णादृते चैषां सम्प्रवक्ष्यामि लक्षणम् । क्रमशो दीपितो यः स्यात् प्रसन्नादिः स कथ्यते ॥ ३३॥ व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते । आद्यन्तयोः प्रसन्नत्वात् प्रसन्नाद्यन्त इष्यते ॥ ३४॥ प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः । सर्वसाम्यात् समो ज्ञेयः स्थितस्त्वेकस्वरोऽपि यः ॥ ३५॥ आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः । श्रुतयोऽन्त्याद् द्वितीयस्य मृदुमध्यायताः स्वराः ॥ ३६॥ आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये । स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा । दीप्तायते करुणानां श्रुतीनामेष निश्चयः ॥ ३७॥ बिन्दुरेककलो ज्ञेयः कम्पितश्च कलाद्वयम् । गतागतप्रवृत्तो यः स प्रेङ्खोलित इष्यते ॥ ३८॥ यस्तु कण्ठे स्वरोऽधः स्यात् स तु तारः प्रकीर्तितः । उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरस्तथा ॥ ३९॥ क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा । तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च ॥ ४०॥ लङ्घयित्वा परान् मन्द्रात् परां तारगतिं गतः । मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात् ॥ ४१॥ प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः । अपाङ्गकिस्तु विज्ञेयः स्वराणामथ सञ्चरात् ॥ ४२॥ रेचितः शिरसि ज्ञेयः कम्पितं तु कलात्रयम् । कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥ ४३॥ एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः । अथ गीतीः प्रवक्ष्यामि छन्दोऽक्षरसमन्विताः ॥ ४४॥ शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव । अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ॥ ४५॥ प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी । सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ ४६॥ त्रिनिवृत्तप्रगीता या गीतिः सा मागधी स्मृता । अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ॥ ४७॥ सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता । पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ॥ ४८॥ एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि । गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ॥ ४९॥ गीतयो गदिताः सम्यग् धातूंश्चैव निबोधत । विस्तारः करणश्च स्यादाविद्धो व्यञ्जनस्तथा । चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ॥ ५०॥ सङ्घातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः । ज्ञेतश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च ॥ ५१॥ विधयस्तु स्मृतास्तस्य पूर्वं विस्तार एव च । सङ्घातसमवायौ तु विज्ञेयौ तौ द्विअत्रिकौ ॥ ५२॥ पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः । करणानां विशेषेण विज्ञेयौ तौ पृथक् पृथक् ॥ ५३॥ अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ । सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति ॥ ५४॥ द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च । ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ॥ ५५॥ समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः । द्विरधरोत्तराधरान्तो द्विरधरश्चोत्तरविरामश्च ॥ ५६॥ उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च । मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यधरमध्यश्च ॥ ५७॥ अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि । एवं चतुर्दशविधो विस्तारो धातुराख्यातः ॥ ५८॥ रिभितोच्चयनीरिभितो ह्रादस्तु तथानुबन्धः स्यात् । पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ॥ ५९॥ त्रिकपञ्चसप्तनवकैर्यथाक्रमं संयुतो भवेद्वाद्ये । सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ॥ ६०॥ क्षेपः प्लुतोऽतिपातोऽतिकीर्णमनुबन्धसंज्ञितश्चैव । आविद्धो विष्टो यो धातुर्वै पञ्चविध एव ॥ ६१॥ द्वित्रिचतुष्कनवकैः प्रहारैः क्रमशः कृतैः । आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥ ६२॥ व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृष्टम् । रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ॥ ६३॥ कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम् । अङ्गुष्ठाभ्यां समं तन्त्र्योः स्पर्शनं यत् कलं तु तत् ॥ ६४॥ वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले । सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ॥ ६५॥ प्रहारो वामतर्जन्या उद्धृष्टमिति संज्ञितम् । सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ।६६॥ तलस्थानेऽधस्तन्त्रीणामनुस्वनितमुच्यते । गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ ६७॥ कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् । तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ॥ ६८॥ व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः । इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ॥ ६९॥ इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः । तिसृणामपि वृत्तीनां येषु वाद्यं प्रतिष्ठितम् ॥ ७०॥ तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः । वाद्यगीतोभयगुणा निर्दिष्टान्ता यथाक्रमम् ॥ ७१॥ तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां सङ्क्षिप्तवाद्यतालद्रुतलयसमायत्य्नागतग्रहाणां प्राधान्यम् । तथा वृत्तौ गीतवादित्रद्विकलातालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्यतीतग्रहमार्गाणां प्राधान्यम् । सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः । धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ॥ ७२॥ एतेषां धातूनां समवायाज्जातयस्तु जायन्ते । स्यादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ॥ ७३॥ तत्रोदाता विस्तारधातुविषया ह्युदात्तत्वात् । ललिता व्यञ्जनधातोर्ललितत्वादेव सम्प्रयोक्तव्या ॥ ७४॥ आविद्धधातुविषया रिभिता लघुसञ्चयाद् विनिर्दिष्टा । करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात् ॥ ७५॥ त्रिविधं गीते कार्यं वाद्यं वीणासमुद्भवं तज्ज्ञैः । तत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ॥ ७६॥ लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् । गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ॥ ७७॥ आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च । अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ॥ ७८॥ एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः । लक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ॥ ७९॥ आश्रावणा तथाऽरम्भो वक्त्रपाणिस्तथैव च । सङ्खोटना तथा कार्यं पुनश्च परिघट्टना ॥ ८०॥ मार्गासारितमेतत् स्याल्लीलाकृतमथापि च । आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ ८१॥ एतानि तु बहिर्गीतान्याहुर्वाद्यविदो जनाः । सतालानि ह्यतालानि चित्तवृत्तौ कृतानि तु ॥ ८२॥ प्रयोजनं च विज्ञेयं पूर्वरङ्गविधिं प्रति । एतेषां सम्प्रवक्ष्यामि लक्षणं सनिदर्शनम् ॥ ८३॥ आस्रावणा नाम । विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः । द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ॥ ८४॥ गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् । सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ॥ ८५॥ लघुनी गुरु चैव स्यादथाष्टमं गुरु भवेत्तथा च पुनः । षट् च लघूनि ततोऽन्त्ये गुर्वाद्याश्रावणायां तु ॥ ८६॥ त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकिकवान् । समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ ८७॥ भूयः शम्यातालाववपाणावुत्तरस्था चैव । चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ ८८॥ अत्रोदाहरणम् । ज़्हण्टुं जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुम् । दिङ्गले गणपतिपशुपतिजम्बुक दिङ्गले वरभुज दिगिनगि चा । तिति चादिनि निगिचा पशुपति नीतिचा ॥ अथारम्भः । दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव । चत्वारि गुरूणि तथा ह्रस्वान्यष्टौ च दीर्घं च ॥ ८९॥ लघुसंज्ञानि चतुर्धा निधनं द्विगुणीकृतानि दीर्घे द्वे । अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ॥ ९०॥ अत्रोदाहरणम् । ज़्हण्टुं झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा । दिङ्ग्ले दिङ्ग्ले तिति झझलकुचझलजम्बुक तितिचा । गणपति सुरपति पशुपति चा ॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्तारभूयिष्ठैः ॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालः । द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ॥ ९१॥ त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः । चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ॥ ९२॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्ताभूयिष्ठैः ॥ ९३॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ ९४॥ अथ वक्त्रपाणिः । गुरूणि पञ्च ह्रस्वानि षड्गुरुश्च चतुर्गुणः । गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ॥ ९५॥ चत्वार्यथ लघूनि स्युस्त्रीणि दीर्घाणि चैव हि । लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ॥ ९६॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले । घेन्दृं घेटो घाटो भट्टुनकिटि इनं दुङ् ॥ घदुगदुकिटमटनम् । अस्य वाद्यम् । आविद्धकरणयुक्तो द्व्यङ्गः स्यादेकप्रवृत्तौ वा । अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ॥ ९७॥ द्विकले मद्रके यत्तु शम्यातालादिपातम् । तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम् ॥ ९८॥ तस्याधस्तात् पुनः कार्यं पञ्चपाणिचतुष्टयम् । वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥ ९९॥ अथ सङ्खोटना । गुरुणी लघून्यथाष्टौ दीर्घं द्विगुणं तथा च कर्तव्यम् । लघुदीर्घे लघु च पुनश्चतुर्गुणं सम्प्रकर्तव्यम् ॥ १००॥ पुनरष्टौ ह्रस्वानि स्युरिह तथा नैधनं च कर्तव्यम् । सङ्खोटनवस्तुविधौ ह्रस्वगुरुविधिः समुद्दिष्टः ॥ १०१॥ सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् । दिङ्गले जगति य वलति कतेचातिचातिझ लघु चझल पशुपतिचा । अस्या वाद्यविधिः । अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य दक्षिणाङ्गुल्या । अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम् ॥ १०२॥ सङ्खोटयेत् स्वरं वादिना तु संवादिना तथाधिबलम् । समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ॥ १०३॥ विस्तारचित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः । उपचययुक्तैः क्रमशो वदन्ति सङ्खोटनावाद्यम् । तालोऽस्या गदितस्तज्ज्ञैः शीर्षवत् पञ्चपाणिना ॥ १०४॥ अथ परिघट्टना । दीर्घाण्यादावष्टौ लघूनि कुर्यात् पुनर्द्विगुणितानि । ह्रस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ १०५॥ षोडश लघूनि च स्युः सह निधने चैव कार्याणि । एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ॥ १०६॥ एतस्यामप्युदाहरणं प्रकल्प्य कृतम् । दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क । तितिझलकुचझलदिगिनिगि गणपति चा । चलति क गणपति पशुपतिसुरपति चा । वाद्यं चास्यास्तज्ज्ञैः सोद्वहनं हस्तलाघवात् कार्यम् । व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ॥ १०७॥ सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः । गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ॥ १०८॥ मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् । सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् ॥ १०९॥ चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि । गुरुणी लघून्यथाष्टौ गुरुणी चेत्येतत् त्रिधा योज्यम् ॥ ११०॥ अथवा । चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि । गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जगति य । थलितक झण्टुं तिति । झलकुच झलतितिचा । बालासारितवच्चैव तालोऽस्य परिकीर्तितः ॥ ११०॥ श्रवणमधुराणि लीलाकृतान्यभिसृतपरिसृतान्तरकृतानि । तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ ॥ १११॥ यथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि तालविधाने वक्ष्यामः । एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरजम् । विपञ्चीवाद्ययुक्तानि करणानि निबोधत ॥ ११२॥ रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च । षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ॥ ११३॥ वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् । रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ॥ ११४॥ युगपत्कृतेऽन्यकरणं प्रतिभेदो दीर्घलाघवकृतः स्यात् । कृतमेकस्यां तन्त्र्यां प्रतिशुष्का नाम विज्ञेया ॥ ११५॥ वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् । आविद्धकरणयुक्तो ह्युपर्युपरिपाणिकस्त्वोघः ॥ ११६॥ कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः । स्थानप्राप्त्यर्थं चेद्यत्तत्र भवेदयं नियमः ॥ ११७॥ तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु । सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव । कोणवादना विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ॥ ११८॥ ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन । वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ॥ ११९॥ ॥ इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम एकोनत्रिंशत्तमोऽध्यायः॥