अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २८ जातिविकल्प

Natya Shastra Chapter 28

नाट्यशास्त्रम् अध्यायः २८ जातिविकल्प

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ अष्टाविंशोऽध्यायः । आतोद्यविधिमिदानीं वक्ष्यामः । ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ १॥ ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् । घनं तालस्तु विज्ञेयः सुषिरो वंश उच्यते ॥ २॥ प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः । ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः ॥ ३॥ ततः कुतपविन्यासो गायनः सपरिग्रहः । वैपञ्चिको वैणिकश्च वंशवादस्तथैव च ॥ ४॥ मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः । अवनद्धविधावेष कुतपः समुदाहृतः ॥ ५ ॥ ११/२२ उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः । कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ ६॥ एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् । अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः ॥ ७॥ यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तज्ज्ञेयं स्वरतालपदात्मकम् ॥ ८॥ अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः । गन्धर्वाणां च यस्माद्धि तस्माद्गन्धर्वमुच्यते ॥ ९॥ अस्य योनिर्भवेद्गानं वीणा वंशस्तथैव च । एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ १०॥ गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् । त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ ११॥ द्व्यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः । एतेषां सम्प्रवक्ष्यामि विधानं लक्षणान्वितम् ॥ १२॥ स्वरा ग्रामौ मूर्च्छनाश्च तानाः स्थानानि वृत्तयः । शुष्कं साधारणे वर्णा ह्यलङ्काराश्च धातवः ॥ १३॥ श्रुतयो यतयश्चैव नित्यं स्वरगतात्मकाः । दारव्यां समवायस्तु वीणायां समुदाहृतः ॥ १४॥ स्वरा ग्रामावलङ्कारा वर्णाः स्थानानि जातयः । साधारणे च शरीर्यां वीणायामेष संग्रहः ॥ १५॥ व्यञ्जनानि स्वरा वर्णाः सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः ॥ १६॥ छन्दोविधिरलङ्कारा ज्ञेयः पदगतो विधिः । निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ॥ १७॥ ध्रुवस्त्वावापनिष्कामौ विक्षेपोऽथ प्रवेशनम् । शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ॥ १८॥ मात्रा प्रकरणाङ्गानि विवारी यतयो लयाः । गीतयोऽवयवा मार्गाः पादमार्गाः सपाणयः ॥ १९॥ इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः । गान्धर्वसंग्रहो ह्येष विस्तरं तु निबोधत ॥ २०॥ तत्र स्वराः - षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैव सप्तमोऽथ निषादवान् ॥ २१॥ चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्तृभिः । वादी चैवाथ संवादी विवादी चानुवाद्यपि ॥ २२॥ संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्जग्रामे तु षड्जस्य संवादः पञ्चमस्य च ॥ २३॥ तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च । द्वे चैवाद्य चतस्रश्च षड्जग्रामे भवेद्विधिः ॥ २४॥ चतुःश्रुतिर्भवेत् षड्ज ऋषभस्त्रिश्रुतिः स्मृतः । द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ॥ २५॥ पञ्चमस्तद्वदेव स्यात् त्रिश्रुतिर्धैवतो मतः । द्विश्रुतिश्च निषादः स्यात् षड्जग्रामे विधिर्भवेत् ॥ २६॥ अथ मूर्च्छनाः द्वैग्रामिक्यश्चतुर्दश - आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता । चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरीकृता ॥ २७॥ अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्गता । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ २८॥ षड्जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्गता । अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ २९॥ पञ्चमे शुद्धषड्जा स्याद्धैवते चोत्तरायता । निषादे रजनी च स्यादित्येताः षड्जमूर्च्छनाः ॥ ३०॥ अथ मध्यमग्रामे - सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ ३१॥ अपि च - क्रमयुक्ताः स्वराः सप्त मूर्च्छनेत्यभिसंज्ञिताः । षट्पञ्चस्वरकास्तानाः षाडवौडुविताश्रयाः ॥ ३२॥ साधारणकृताश्चैव काकलीसमलङ्कृताः । अन्तरस्वरसंयुक्ता मूर्च्छना ग्रामयोर्द्वयोः ॥ ३३॥ यथा - छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य । न च नागतो वसन्तो न च निःशेषः शिशिरकालः ॥ ३४॥ भवतश्चात्र - अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः । कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ॥ ३५॥ क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः । जातिरागं श्रुतिं चैव नयन्ते त्वन्तरस्वराः ॥ ३६ ॥ इति॥ जातीरिदानीं वक्ष्यामः । स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा पञ्चमी चैव षड्जमध्या तथैव च ॥ ३७॥ आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथा स्वं दुर्बलतरा व्यक्ता सा पञ्चमी तथा ॥ ३८॥ जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा । तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ॥ ३९॥ षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा वै षड्जकैशिकी ॥ ४०॥ षड्जमध्या तथा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः ॥ ४१॥ गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ ४२॥ मध्यमोदीच्यवा चैव नन्दयन्ति तथैव च । कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ ४३॥ स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा षड्जमध्या च पञ्चमी चैव सूरिभिः ॥ ४४॥ आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्चमी ॥ ४५॥ शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते । पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ॥ ४६॥ तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः । तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ ४७॥ परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः । पृथग्लक्षणसंयुक्ता द्वैग्रामिकाः स्वराश्रयाः ॥ ४८॥ चतस्रो जातयो नित्यं ज्ञेयाः सप्तस्वरा बुधैः । चतस्रः षट्स्वरा ज्ञेयाः स्मृताः पञ्चस्वरा दश ॥ ४९॥ मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी । कार्मारवी च सम्पूर्णा तथा गान्धारपञ्चमी ॥ ५०॥ षाड्ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा । चतस्रः षट्स्वरा ह्येताः ज्ञेयाः पञ्च स्वरा दश ॥ ५१॥ नैषादी चार्षभी चैव धैवती षड्जमध्यमा । षड्जोदीच्यवती चैव पञ्च षड्जाश्रिताः स्मृताः ॥ ५२॥ गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा । कैशिकी चैव पञ्चैता मध्यमग्रामसंश्रयाः ॥ ५३॥ यास्ताः सप्तस्वरा ज्ञेया याश्चैताः षट्स्वराः स्मृताः । कदाचित् षाडवीभूताः कदाचिच्चौडुवे मताः । ५४॥ षड्जग्रामे तु सम्पूर्णा विज्ञेया षड्जकैशिकी । षट्स्वरा चैव विज्ञेया षाड्जी गान्धारयोगतः । ५५॥ गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । पुनश्च षट्स्वरा ज्ञेया गान्धारोदीच्यवा बुधैः । ५६॥ आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः । एवमेता बुधैर्ज्ञेया द्वैग्रामिक्योऽपि जातयः ॥ ५७॥ अत ऊर्ध्वं प्रवक्ष्यामि तासामंशविकल्पनम् । षट्स्वराः सप्तमे ह्यंशे नेष्यन्ते षड्जमध्यमाः ॥ ५८॥ संवाद्यलोपाद्गान्धारे तद्वदेव हि नेष्यते । गान्धारीरक्तगान्धारीकैशिकीनां तु पञ्चमः ॥ ५९॥ षड्जायां चैव गान्धारमंशकं विद्धि षाडवम् । षाडवं धैवते नास्ति षड्जोदीच्यामथांशके ॥ ६०॥ संवाद्यलोपात्सप्तैताः षाट्स्वर्येण विवर्जिताः । गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ॥ ६१॥ सप्तमश्चैव विज्ञेयो येषु नौडुवितं भवेत् । द्वौ षड्जमध्यमांशो तु गान्धारोऽथ निषादवान् ॥ ६२॥ ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव धैवतः । एवं तु द्वादशैवेह वर्ज्याः पञ्च स्वराः सदा ॥ ६३॥ तास्त्वनौडुविता नित्यं कर्तव्या हि स्वराश्रयाः । सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु ॥ ६४॥ न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन । सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः । गान्धर्वकल्पे विहितः सामस्वपि च मध्यमः ॥ ६५॥ दशकं जातिलक्षणम् - ग्रहांशौ तारमन्द्रौ च न्यासोऽपन्यास एव च । अल्पत्वं च बहुत्वं च षाडवौडुविते तथा ॥ ६६॥ अथ ग्रहाः । ग्रहास्तु सर्वजातीनामंशवत्परिकीर्तिताः । यत्प्रवृत्तं भवेद्गेयमंशो ग्रहविकल्पितः ॥ ६७॥ तत्रांशो नाम - यस्मिन् भवति रागश्च यस्माच्चैव प्रवर्तते । मन्द्रश्च तारमन्द्रश्च योऽत्यर्थं चोपलभ्यते ॥ ६८॥ ग्रहापन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यस्येह सोंऽशः स्याद्दशलक्षणः ॥ ६९॥ पञ्चस्वरपरा तारगतिर्यथा अंशात्तारगतिं विद्यादाचतुर्थस्वरादिह । आ पञ्चमात्पञ्चमाद्वा नातःपरमिहेष्यते ॥ ७०॥ त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा अपरन्यासपरा चेति । मन्द्रस्त्वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ । गान्धारन्यासलिङ्गे तु दृष्टमार्षभसेवनम् ॥ ७१॥ अथ न्यास एकविंशतिसङ्ख्यः । अङ्गसमाप्तौ न्यासः । तद्वदपन्यासो ह्यङ्गमध्ये षट्पञ्चाशत्सङ्ख्यः । यथा - न्यासोऽङ्गसमाप्तौ स चैकविंशतिसङ्ख्यस्तथा । १६ अक्षराणि षट्पञ्चाशत्संख्योऽपन्यासोऽङ्गमध्ये भवेत् ॥ ७२॥ तत्र प्रथमं विदारीमध्ये न्यासस्वरप्रयुक्तस्तु । विवदनशीलं मुक्त्वा संन्यासः सोऽभिधातव्यः । कृत्वा पदावसाने विन्यासात्क्वापि विन्यासः ॥ ७३॥ तथा - अल्पत्वेऽथ बहुत्वे बलवदबलता विनिश्चयादेव । जातिस्वरैस्तु नित्यं जात्यल्पत्वं द्विविधमेतत् ॥ ७४॥ सञ्चारांशे बलस्थानामल्पत्वे दुर्बलासु च । न्यासश्चान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ ७५॥ पञ्चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः । त्रिंशत्प्रकारविहितं पूर्वोक्तं लक्षणं चास्य ॥ ७६॥ षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च । चतुःस्वरप्रयोगोऽपि ह्यवकृष्टध्रुवास्विह ॥ ७७॥ द्वैग्रामिकीणां जातीनां सर्वासामपि नित्यशः । अंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद् ग्रहाः ॥ ७८॥ अंशग्रहमिदानीं वक्ष्यामः । तत्र - मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च । तथा गान्धारपञ्चम्याः पञ्चमोंऽशो ग्रहस्तथा ॥ ७९॥ धैवत्याश्च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ । पञ्चम्याश्च तथा ज्ञेयौ ग्रहांशौ पञ्चमर्षभौ ॥ ८०॥ गान्धारोदीच्यवायास्तु ग्रहांशौ षड्जमध्यमौ । आर्षभ्याश्च ग्रहा अंशा धैवतर्षभसप्तमाः ॥ ८१॥ गान्धारश्च निषादश्च ह्यार्षभश्च तथापरः । निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्च कीर्तिताः ॥ ८२॥ षड्जपञ्चमगान्धारैस्त्रिभिरेव प्रकीर्तिताः । अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्जकैशिकी ॥ ८३॥ षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । षड्जोदीच्यवतीजातेर्ग्रहा अंशाश्च कीर्तिताः ॥ ८४॥ पञ्चमश्चार्षभश्चैव निषादो धैवतस्तथा । कार्मारव्या बुधैरंशा ग्रहाश्च परिकीर्तिताः ॥ ८५॥ गान्धारश्चार्षभश्चैव पञ्चमोऽथ निषादवान् । चत्वरोंशा भवन्त्यान्ध्र्या ग्रहाश्चैव तथैव हि ॥ ८६॥ षड्जश्चाथर्षभश्चैव मध्यमः पञ्चमस्तथा । मध्यमाया ग्रहा ज्ञेया अंशाश्चैव सधैवताः ॥ ८७॥ निषादषड्जगान्धारमध्यमाः पञ्चमस्तथा । गान्धारीरक्तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ॥ ८८॥ षड्जी धैवतगान्धारषड्जमध्यमपञ्चमैः । ग्रहैरंशैश्च विज्ञेया विकृता स्वरयोगतः ॥ ८९॥ कैशिक्याश्चार्षभं हित्वा ग्रहांशाः षट् स्वराः स्मृताः । सप्तस्वरग्रहांशा तु विज्ञेया षड्जमध्यमा ॥ ९०॥ एते त्रिषष्टिर्विज्ञेयाः सर्वास्वंशास्तु जातिषु । अंशवच्च ग्रहास्तासां सर्वासामेव नित्यशः ॥ ९१॥ सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः । ते च सप्त गणा ज्ञेया वर्धमानस्वरा बुधैः ॥ ९२॥ एकस्वरो द्विस्वरश्च त्रिस्वरोऽथ चतुःस्वरः । पञ्चस्वरश्चतुर्था स्यादेकधा सप्तषट्स्वरौ ॥ ९३॥ एतदुक्तं मया त्वासां ग्रहांशपरिकल्पनम् । पुनश्चैव प्रवक्ष्यामि न्यासापन्यासयोगतः ॥ ९४॥ पञ्चांशा तु भवेत् षाड्जी निषादर्षभवर्जिता । अपन्यासो भवेदत्र गान्धारः पञ्चमस्तथा ॥ ९५॥ न्यासश्चात्र भवेत् षड्जो लोप्यः सप्तम एव च । षड्जगान्धारसञ्चारः षड्जधैवतयोस्तथा ॥ ९६॥ षाडवं सप्तमोपेतमल्पौ वै सप्तमर्षभौ । गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्तुभिः ॥ ९७॥ आर्षभ्यामृषभस्त्वंशो निषादो धैवतस्तथा । एत एव ह्यपन्यासा न्यासश्चाप्यृषभः स्मृतः । षट्पञ्चस्वरता चात्र षड्जपञ्चमयोर्विना ॥ ९८॥ धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतो । अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ॥ ९९॥ षड्जपञ्चमहीनं तु पाञ्च्स्वर्यं विधीयते । पञ्चमेन विना चैव षाडवं परिकीर्तितम् ॥ १००॥ आरोहिणौ च तौ कार्यौ लङ्घनीयौ तथैव च । निषादश्चर्षभश्चैव गान्धारो बलवांस्तथा ॥ १०१॥ निषादिन्यां निषादोंऽशो सगान्धारर्षभस्तथा । एत एव ह्यपन्यासा न्यासश्चैवात्र सप्तमः ॥ १०२॥ धैवत्या इव कर्तव्ये षाडवौडुविते तथा । तद्वच्च लङ्घनीयौ तु बलवन्तौ तथैव च ॥ १०३॥ अंशास्तु षड्जकैशिक्याः षड्जगान्धारपञ्चमाः । अपन्यासा भवन्त्यत्र षड्जपञ्चमसप्तमाः ॥ १०४॥ गान्धारश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु । दौर्बल्यं चात्र कर्तव्यं धैवत(मध्यम) स्यार्षभस्य च ॥ १०५॥ षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । स्युः षड्जोदीच्यवांशास्तु न्यासश्चैव तु मध्यमः ॥ १०६॥ अपन्यासो भवत्यस्य धैवतः षड्ज एव च । परस्परांशगमनमिष्टतश्च विधीयते ॥ १०७॥ षाट्स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः । पञ्चमार्षभहीनं तु पाञ्चस्वर्यं तु तत्र वै ॥ १०८॥ षड्जश्चाप्यृषभश्चैव गान्धारश्च बली भवेत् । गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ॥ १०९॥ सर्वेंशाः षड्जमध्यायामपन्यासास्तथैव च । षड्जश्च मध्यमश्चापि न्यासौ नार्यौ प्रयोक्तृभिः ॥ ११०॥ गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं सप्तमापेतं कार्यं चात्र प्रयोगतः ॥ १११॥ सर्वस्वराणां सञ्चार इष्टतस्तु विधीयते । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्त जातयः ॥ ११२॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धार्याः पञ्च एवांशा धैवतर्षभवर्जिताः ॥ ११३॥ षड्जश्च पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । गान्धारश्च भवेन्न्यासः षाडवं चर्षभं विना ॥ ११४॥ धैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् । लङ्घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् । विहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ॥ ११५॥ लक्षणं रक्तगान्धार्या गान्धार्या एव यत्स्मृतम् । धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ॥ ११६॥ गान्धारषड्जयोश्चात्र सञ्चारश्चार्षभाद्विना । अपन्यासस्तथा चैव मध्यमस्तु विधीयते ॥ ११७॥ गान्धारोदीच्यवांशौ तु विज्ञेयौ षड्जमध्यमौ । पाञ्चस्वर्यं न चैवात्र षाट्स्वर्यमृषभं विना ॥ ११८॥ कार्यश्चान्तरमार्गश्च न्यासोपन्यास एव च । षड्जोदीच्यवतीवत्तु पाञ्चस्वर्येण जातुचित् ॥ ११९॥ मध्यमाया भवन्त्यंशा विना गान्धारसप्तमौ । एत एव ह्यपन्यासा न्यासश्चैव तु मध्यमः ॥ १२०॥ गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ १२१॥ षड्जमध्यमयोश्चात्र कार्यं बाहुल्यमेव हि । गान्धारलङ्घनं चात्र कार्यं नित्यं प्रयोक्तृभिः ॥ १२२॥ मध्यमोदीच्यवा पूर्णा ह्यंश एकस्तु पञ्चमः । शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ १२३॥ द्वावंशावथ पञ्चम्यामृषभः पञ्चमस्तथा । स(ऋ)निषादावपन्यासौ न्यासश्चैव तु पञ्चमः ॥ १२४॥ मध्यमावत्तु कर्तव्ये षाडवौडुविते तथा । दौर्बल्यं चात्र कर्तव्यं षड्जगान्धारमध्यमैः ॥ १२५॥ कुर्यादप्यत्र सञ्चारं पञ्चमस्यार्षभस्य च । गान्धारगमनं चैव कार्यं त्वल्पश्च (ल्पं च) सप्तमः (मात्) ॥ १२६॥ अथ गान्धारपञ्चम्याः पञ्चमोंऽशः प्रकीर्तितः । तारगत्या तु षड्जोऽपि कदाचिन्नातिवर्तते ॥ १२७॥ ऋषभः पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । न्यासश्चैव तु गान्धारो सा च पूर्णस्वरा सदा । पञ्चम्या यश्च गान्धार्याः सञ्चारः स विधीयते ॥ १२८॥ पञ्चमश्चार्षभश्चैव गान्धारोऽथ निषादवान् । चत्वारोंऽशा भवन्त्यान्ध्र्यामपन्यासास्त एव हि ॥ १२९॥ गान्धारश्च भवेन्न्यासः षड्जापेतं तु षाडवम् । गान्धारार्षभयोश्चापि सञ्चारस्तु परस्परम् ॥ १३०॥ सप्तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः । षड्जस्य लङ्घनं चात्र नास्ति चौडुवितं सदा ॥ १३१॥ नन्दयन्त्याः क्रमान् न्यासापन्यासांशाः प्रकीर्तिताः । गान्धारो मध्यमश्चैव पञ्चमश्चैव नित्यशः ॥ १३२॥ षड्जो लोप्यश्च लङ्घ्यश्च नान्ध्रीसञ्चरणं भवेत् । लङ्घनं ह्यृषभस्यापि तच्च मन्द्रगतं स्मृतम् ॥ १३३॥ तारगत्या तु षड्जस्तु कदाचिन्नातिवर्तते । गान्धारो वा ग्रहः कार्यस्तथा न्यासश्च नित्यशः ॥ १३४॥ कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्चमस्तथा । धैवतश्च निषादश्चाप्यपन्यासास्त एव तु । पञ्चमश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु ॥ १३५॥ गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ १३६॥ कैशिक्यास्तु तथा ह्यंशाः सर्वे चैवार्षभं विना । एत एव ह्यपन्यासा न्यासौ गान्धारसप्तमौ ॥ १३७॥ धैवतेंशे निषादे च न्यासः पञ्चम इष्यते । अपन्यासः कदाचित्तु ऋषभोऽपि विधीयते ॥ १३८॥ आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् । तथा चौडुवितं कुर्याद् बलिनौ चान्त्यपञ्चमौ ॥ १३९॥ दौर्बल्यमृषभस्यात्र लङ्घनं च विशेषतः । अंशवत् कल्पितश्चान्यैः षाडवे तु विधीयते । षड्जमध्यावदत्रापि सञ्चारस्तु भवेदिह ॥ १४०॥ एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः । यथा यस्मिन् रसे याश्च गदतो मे निबोधत ॥ १४१॥ ॥ इति जातिविकल्पाध्यायोऽष्टाविंशः समाप्तः॥