अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २६

Natya Shastra Chapter 26

नाट्यशास्त्रम् अध्यायः २६

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् षड्विंशोऽध्यायः अनुरूपा विरूपा च तथा रूपानुरूपिणी । त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ १॥ नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा । भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ २॥ बहुबाहूबहुमुखास्तथा च विकृताननाः । पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः ॥ ३॥ एते चान्ये च बहवो नानारूपा भवन्ति ये । आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः ॥ ४॥ स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् । आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि ॥ ५॥ यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ॥ वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ ६॥ यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् । परभावं प्रकुरुते परभावं समाश्रितः ॥ ७॥ एवं बुधः परंभावं सोऽस्मीति मनसा स्मरन् । येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ ८॥ सुकुमारप्रयोगो यो राज्ञामामोदसंभवः । श‍ृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ ९॥ युद्धोद्धताविद्धकृता संरंभारभटाश्च ये । न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ १०॥ अनुद्भटमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियताक्षरम् ॥ ११॥ सुविभक्तपदालापमनिष्ठुरमकाहलम् । ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् ॥ १२॥ एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् । स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच ॥ १३॥ यथा वयो यथावस्थमनुरूपेति सा स्मृता । पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः ॥ १४॥ रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः । छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ १५॥ न परस्परचेष्टासु कार्यौ स्थविरबालिशौ । पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ १६॥ स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः । यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् ॥ १७॥ माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् । यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ १८॥ प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ । प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ १९॥ स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन । रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ २०॥ तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह । उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ २१॥ न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके । स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ २२॥ यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते । तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् ॥ २३॥ ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः । प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ २४॥ सुकुमारस्तथाविद्धो नानाभावरसाश्रयः । नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ २५॥ ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु । सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः ॥ २६॥ श‍ृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् । युद्धोद्धताविद्धकृतासंरंभारभटाश्च ये ॥ २७॥ न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते । यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् ॥ २८॥ मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् । पुरुषप्रायसंचारमल्पस्त्रीकमथोद्धतम् ॥ २९॥ सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसंज्ञितम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ ३०॥ एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः । एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ ३१॥ उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः । योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन ॥ ३२॥ न हि योग्यया विना भवति च भावरससौष्ठवं किंचित् । संगीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ ३३॥ यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण । प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् । कामोपचारकुशला भवन्ति च काम्या विशेषेण ॥३४॥ गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया । शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ॥ ३५॥ एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः । ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ॥ ३६॥ मेधास्मृतिर्गुणश्लाघारागः संघर्ष एव च । उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ॥ ३७॥ एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ ३८॥ इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो नाम षड्विंशोऽध्यायः ॥