अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २५

Natya Shastra Chapter 25

नाट्यशास्त्रम् अध्यायः २५

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् पञ्चविंशोऽध्यायः । अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् । अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः ॥ १॥ उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ । उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् ॥ २॥ प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा । ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् ॥ ३॥ दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् । तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ॥ ४॥ एभिरेव करैर्भूयस्तेनैव शिरसा पुनः । अधो निरीक्षणेनाथ भूमिस्थान् सम्प्रदर्शयेत् ॥ ५॥ स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च । चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् ॥ ६॥ वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा । भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः ॥ ७॥ ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् । उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ॥८॥ यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च । गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् ॥ ९॥ यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः । असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः ॥ १०॥ गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः । साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः ॥ ११॥ यज्ञोपवीतदेशस्थमरालं हासमादिशेत् । स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् ॥ १२॥ भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च । अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् ॥ १३॥ श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः । आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् ॥ १४॥ विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा । त्रस्तांगाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः ॥ १५॥ उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः । असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् ॥ १६॥ वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च । रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत् ॥ १७॥ कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ । सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ॥१८॥ स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ ॥ १९॥ एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा । नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत् ॥ २०॥ दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च । पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः ॥ २१॥ दशाख्यगणनायास्तु परतो या भवेदिह । वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ॥ २२॥ छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् । नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् ॥ २३॥ एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा । सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते ॥ २४॥ उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ । अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः ॥ २५॥ उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् । प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् ॥ २६॥ अरालं च शिरस्थाने समुद्वाह्य तु वामकम् । गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् ॥ २७॥ सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा । विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् ॥ २८॥ गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् । हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः ॥ २९॥ शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च । कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् ॥ ३०॥ अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि । शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम् ॥ ३१॥ ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च । रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः ॥ ३२॥ प्रमोदजननारंभैरुपभोगैः पृथग्विधिः । वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥ ३३॥ स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः ॥ ३४॥ कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः । मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् ॥ ३५॥ मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा । विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् ॥ ३६॥ यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा । निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् ॥ ३७॥ एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् । सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् ॥ ३८॥ यो येन भावेनाविष्टः सुखदेनेतरेअन वा । स तदाहितसंकारः सर्वं पश्यति तन्मयम् ॥ ३९॥ भावाभिनयनं कुर्याद्विभावानां निदर्शनैः । तथैव चानुभावानां भावसिद्धिः प्रवर्तिता ॥ ४०॥ विभावेनाहृतं कार्यमनुभावेन नीयते । आत्मानुभवनं भावो विभावः परदर्शनम् ॥ ४१॥ गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा । आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः ॥ ४२॥ यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः । पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः ॥ ४३॥ एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् । विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः ॥ ४४॥ यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते । सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः ॥ ४५॥ एवं भावो विभावो वाप्यनुभावश्च कीर्तितः । पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा ॥ ४६॥ स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् । आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः ॥ ४७॥ प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि । नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः ॥ ४८॥ धैर्यलीलाङ्गसम्पन्नं पुरुषाणां विचेष्टितम् । मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् ॥ ४९॥ करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः । सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः ॥ ५०॥ यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् । नराणां प्रमदानां च भावाभिनयनं पृथक् ॥ ५१॥ भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः । आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ॥ ५२॥ तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः । क्षिप्रस!न्जातरोमाञ्चात् बाष्पेणावृतलोचना ॥ ५३॥ कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः । उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च ॥ ५४॥ निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः । नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकंपनात् ॥ ५५॥ शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च । मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् ॥ ५६॥ आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः । निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः ॥ ५७॥ आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् । रुदितैः श्वसितैश्चैव शिरोभिहननेन च ॥ ५८॥ भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् । आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा ॥ ५९ ॥ यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् । संभ्रमावेगचेष्टाभिश्शस्त्रसम्पातनेन च ॥ ६० ॥ पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः । चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः ॥ ६१॥ सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः । भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि ॥ ६२॥ प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः । मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् ॥ ६३॥ मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् । नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा ॥ ६४॥ गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः । अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः ॥ ६५॥ पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति । सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः ॥ ६६॥ धैर्यमाधुर्यसम्पन्ना भावाः कार्यास्तु पौरुषाः । त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् ॥ ६७॥ शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः । शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः ॥ ६८॥ रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् । खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय ॥ ६९॥ गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः । भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः ॥ ७०॥ अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि । अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ॥ ७१॥ प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः । देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः ॥ ७२॥ अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः । सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ॥ ७३॥ नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते । खटकावर्धमानेन कपोताख्येन वा पुनः ॥ ७४॥ दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् । दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये ॥ ७५॥ तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् । महाजनं सखीवर्गं विटधूर्तजनं तथा ॥ ७६॥ परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः । पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् ॥ ७७॥ प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् । समूहसागरं सेना बहुविस्तीर्णमेव च ॥ ७८॥ पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् । शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् ॥ ७९॥ ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् । वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ ॥ ८०॥ विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् । अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ ॥ ८१॥ कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् । कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः ॥ ८२॥ एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः । दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः ॥ ८३॥ संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च । यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् ॥ ८४॥ आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् । आकाशवचनानीह वक्ष्याम्यात्मगतानि च ॥ ८५॥ अपवारितकं चैव जनान्तिकमथापि च । दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् ॥ ८६॥ परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् । तत्रोत्तरकृतैर्वाक्यैः संलापं सम्प्रयोजयेत् ॥ ८७॥ नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः । हृदयस्य वचो यत्तू तदात्मगतमीष्यते ॥ ८८॥ सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु । निगूढभावसंयुक्तमपवारितकं स्मृतम् ॥ ८९॥ कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् । हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ॥ ९०॥ इति गूढार्थयुक्तानि वचनानीह नाटके । जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ॥ ९१॥ पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् । कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ॥८२॥ अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् । प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च ॥ ९३॥ हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥ ९४॥ स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः । सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् ॥ ९५॥ मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् । पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् ॥ ९६॥ प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः । हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले ॥ ९७॥ हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् । अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् ॥ ९८॥ वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् । असमाप्ताक्षरं चैव बालानां तु कलस्वनम् ॥ ९९॥ नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु । विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् ॥ १००॥ व्याधिप्लुते च मरणं निषण्णगात्रैस्तु सम्प्रयोक्तव्यम् । हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम् ॥ १०१॥ विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् । विषवेगसम्प्रयुक्तं विस्फुरितांगक्रियोपेतम् ॥ १०२॥ प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु । दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु ॥ १०३॥ फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते । जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ॥ १०४॥ तत्र प्रथमवेगे तु क्षामवक्रकपोलता । कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् ॥ १०५॥ सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् । विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु ॥ १०६॥ उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः । अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् ॥ १०७॥ उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः । फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च ॥ १०८॥ अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः । सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु ॥ १०९॥ संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा । एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि ॥ ११०॥ संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च । यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह ॥ १११॥ साध्वहो मां च हेहेति किं त्वं मामावदेति च । एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् ॥ ११२॥ प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते । न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः ॥ ११३॥ भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् । यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् ॥ ११४॥ पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः । ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति ॥ ११५॥ एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः । अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः ॥ ११६॥ नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् । अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ॥ ११७॥ या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः । तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् ॥ ११८॥ एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् । अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः ॥ ११९॥ लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् ॥ १२०॥ वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् । लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा ॥ १२१॥ न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ १२२॥ नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् । तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः ॥ १२३॥ एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते । स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके ॥ १२४॥ एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता ॥ १२५॥ इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम पञ्चविंशोऽध्यायः ॥