अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २४

Natya Shastra Chapter 24

नाट्यशास्त्रम् अध्यायः २४

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् चतुर्विंशोऽध्यायः समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता । पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा ॥ १॥ जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा । दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ॥२॥ नानाशास्त्रार्थसम्पन्ना गाम्भीर्यौदार्यशालिनी । स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा ॥ ३॥ लोकोपचारचतुरा शिल्पशास्त्रविशारदा । विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता ॥ ४॥ रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः । क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः ॥ ५॥ पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः । मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः ॥ ६॥ सूचकाः पापकर्माणः परद्रव्यापहारिणः । एभिर्दोषैस्तुसम्पन्ना भवन्तीहाधमा नराः ॥ ७॥ एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता । स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः ॥ ८॥ मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा । गुरूणां वचने दक्षा सलज्जा विनयान्विता ॥ ९॥ रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता । गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा ॥ १०॥ नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः । अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता ॥ ११॥ अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता । विज्ञेया सैव नारीणामधमानां समासतः ॥ १२॥ नपुंसकस्तु विज्ञेयः संकीर्णोऽधम एव च । प्रेष्यादिरपि विज्ञेया संकीर्णा प्रकृतिद्विजाः ॥ १३॥ शकारश्च विटश्चैव ये चान्येप्येवमादयः । संकीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः ॥ १४॥ एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः । आसां तु सम्प्रवक्ष्यामि विधानं शीलसंश्रयम् ॥ १५॥ अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः । मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः ॥ १६॥ धीरोद्धता धीरललिता धीरोदात्तास्तथैव च । धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः ॥ १७॥ देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ १८॥ धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा । एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः ॥ १९॥ लिंगी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् । देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् ॥ २०॥ विप्रलंभसुहृदोमी संकथालापपेशलाः । व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः ॥ २१॥ तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः । यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः ॥ २२॥ सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः । दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ॥ २३॥ एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः । धीरा च ललिता च स्यादुदात्ता निभृता तथा ॥ २४॥ दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि । उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ॥ २५॥ ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके । [प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः ॥ २६॥ बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् । तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः ॥ २७॥ ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते । अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् ॥ २८॥ स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः । ] राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् ॥ २९॥ महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि । भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ॥३०॥ अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः । तथा संचारिकाश्चैव तथा प्रेषणकारिकाः ॥ ३१॥ महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि । आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः ॥ ३२॥ अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता । गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा ॥ ३३॥ मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा । शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी ॥ ३४॥ शान्ता पतिव्रता धीरा अन्तःपुरहिते रता । एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता ॥ ३५॥ एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः । गर्विताश्चातिसौभाग्याः पतिसंभोगतत्पराः । ३६॥ शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः । वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः ॥ ३७॥ सेनापतेरमात्यानां भृत्यानामथवा पुनः । भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः ॥ ३८॥ शीलरूपगुणैर्यास्तु सम्पन्ना नृपतेर्हिताः । स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः ॥ ३९॥ रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः । रतिसंभोगकुशलाः प्रतिपक्षाभ्यसूयकाः ॥ ४०॥ दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा । नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः ॥ ४१॥ उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः । मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः ॥ ४२॥ कुलशीललब्धपूजामृदवो नातिचोद्भटाः । मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः ॥ ४३॥ नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः । गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः ॥ ४४॥ शयनासनभागज्ञाश्चतुरा मधुरास्तथा । दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः ॥ ४५॥ ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः । चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः ॥ ४६॥ रूपयौवनसम्पन्ना नाटकीयास्तु ताः स्मृताः । हेलाभावविशेषाढ्या सत्वेनाभिनयेन च । ४७॥ माधुर्येन च सम्पन्ना ह्यातोद्यकुशला तथा । अङ्गप्रत्यङ्गसम्पन्ना चतुष्षष्ठिकलान्विता ॥ ४८॥ चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः । सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ ४९॥ नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा । अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसम्पन्ना ॥ ५०॥ पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च । समागतासु नारीषु रूपयौवनकन्तिभिः ॥ ५१॥ न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता । सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्। ॥ ५२॥ विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका । शय्यापाली छत्रधारी तथा व्यजनधारिणी ॥ ५३॥ संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका । तथाभरणयोक्त्री च माल्यसंयोजिका तथा ॥ ५४॥ एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः । नानाकक्ष्या विचारिण्यः तथोअपवनसंचराः ॥ ५५॥ देवतायतनक्रीडा प्रासादपरिचारिकाः । यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः ॥ ५६॥ संचारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः । प्रेषणेऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते ॥ ५७॥ नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः । सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च ॥ ५८॥ या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः । सन्धिविग्रहसंबद्धनानाचारसमुत्थितम् ॥ ५९॥ निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः । अप्राप्तरससंभोगा न संभ्रान्ता न चोद्भटाः ॥ ६०॥ निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः । पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः ॥ ६१॥ पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः । भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा ॥ ६२॥ फलमूलौषधीनां च तथा चैवान्ववेक्षकी । गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका ॥ ६३॥ बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः । इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः ॥ ६४॥ विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः । अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः ॥ ६५॥ या नियुक्ता नियोगेषु कार्येषु विविधेषु च । न चोद्भटा असंभ्रान्ता न लुब्धा नापि निष्ठुराः ॥ ६६॥ दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः । अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः ॥ ६७॥ सा त्वन्तःपुरसंचारे योज्या पार्थिववेश्मनि । कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः ॥ ६८॥ औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि । रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् ॥ ६९॥ अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् । सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् ॥ ७०॥ विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः । जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ७१॥ ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः । प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा ॥ ७२॥ एतदष्टादशविधं प्रोक्तमन्तःपुरं मया । अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंभवम् ॥ ७३॥ राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा । सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा ॥ ७४॥ एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु । वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत ॥ ७५॥ बलवान् बुद्धिसम्पन्नः सत्यवादी जितेन्द्रियः । दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः ॥ ७६॥ दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः । लोकपालव्रतधरः कर्ममार्गविशारदः ॥ ७७॥ उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् । परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः ॥ ७८॥ ऊहापोहविचारी च नानाशिल्पप्रयोजकः । नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् ॥ ७९॥ धर्मज्ञोऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः । कुलीना बुद्धिसम्पन्ना नानाशास्त्रविपश्चिताः ॥ ८०॥ स्निग्धा परेरहार्यश्च न प्रमत्ताश्च देशजाः । अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा ॥ ८१॥ पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि । बुद्धिमान्नीतिसम्पन्नस्त्यक्तालस्यः प्रियंवदः ॥ ८२॥ पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् । अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः ॥ ८३॥ देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा । व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ ८४॥ मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः । क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः ॥ ८५॥ ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः । उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः ॥ ८६॥ स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा । नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ ८७॥ सर्वशात्रार्थसम्पन्नाः कुमाराधिकृतास्तथा । बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् ॥ ८८॥ विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् । इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः ॥ ८९॥ अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ॥ इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो नामाध्यायश्चतुर्विंशः ॥