अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २३

Natya Shastra Chapter 23

नाट्यशास्त्रम् अध्यायः २३

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ त्रयोविंशोऽध्यायः । विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः । वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः ॥ १॥ यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः । स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् ॥ २॥ गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः । आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ ३॥ शास्त्रविच्छिल्पसम्पन्नो रूपवान् प्रियदर्शनः विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः ॥ ४॥ सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः ॥ ५॥ कामोपचारकुशलो दक्षिणो देशकालवित् । अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः ॥ ६॥ स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः । गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः ॥ ७॥ अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् । भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः ॥ ८॥ विज्ञानगुणसम्पना कथिनी लिङ्गिनी तथा । प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी ॥ ९॥ धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी । प्रोत्साहनेऽथकुशला मधुरकथा दक्षिणाथकालज्ञा ॥ १०॥ लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या । तयाप्युत्साहनं कार्यं नानादर्शितकारणम् ॥ ११॥ यथोक्तकथनं चैव तथा भावप्रदर्शनम् । न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् ॥ १२॥ दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन । कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् ॥ १३॥ दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् । न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः ॥ १४॥ नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः । उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि ॥ १५॥ धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे । व्याधितव्यपदेशेन शुन्यागारनिवेशने ॥ १६॥ कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे । एवं समागमं कृत्वा सोपायं विधिपूर्वकम् ॥ १७॥ अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् । स्वभावभावातिशयैर्नारी या मदनाश्रया ॥ १८॥ करोति निभृतां लीलां नित्यं सा मदनातुरा । सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति ॥ १९॥ पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा । गमागमे सखीनां या हृष्टा भवति चाधिकम् ॥ २०॥ तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते । सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति ॥ २१॥ उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च । उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ २२॥ एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता । विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति ॥ २३॥ इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥