अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २२

Natya Shastra Chapter 22

नाट्यशास्त्रम् अध्यायः २२

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ द्वाविंशोऽध्यायः । सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः । तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ॥ १॥ सत्त्वातिरिक्तोऽभिनयो ज्येष्ठ इत्यभिधीयते । समसत्त्वो भवेन्मध्यः सत्वहीनोऽधमः स्मृतः ॥ २॥ अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम् । यथास्थानरसोपेतं रोमाञ्चास्रादिभिर्गुणैः ॥ ३॥ अलङ्कारास्तु नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः । यौवनेऽभ्यधिकाः स्त्रीणा विकारा वक्त्रगात्रजाः ॥ ४॥ आदौ त्रयोऽङ्गजस्तेषां दश स्वाभाविकाः परे । अयत्नजाः पुनः सप्त रसभावोपबृंहिताः ॥ ५॥ देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाद्धेला समुत्थिता ॥ ६॥ हेला हावश्च भावश्च परस्परसमुत्थिताः । सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः ॥ ७॥ वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ ८॥ [भावस्यातिकृतं सत्त्वं व्यतिरिक्तं स्वयोनिषु । नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्] ॥ ९॥ तत्राक्षिभ्रूविकाराढ्यः श‍ृङ्गाराकारसूचकः । सग्रीवारेचको ज्ञेयो हावः स्थितसमुत्थितः ॥ १०॥ यो वै हावः स एवैषा श‍ृङ्गाररससंभवा । समाख्याता बुधैर्हेला ललिताभिनयात्मिका ॥ ११॥ लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् । मोट्टायितं कुट्टिमितं बिब्बोको ललितं तथा ॥ १२॥ विहृतं चेति विज्ञेया दश स्त्रीणां स्वभावजाः । पुनरेषां स्वरूपाणि प्रवक्ष्यामि पृथक्पृथक् ॥ १३॥ वागङ्गालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः । इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः ॥ १४॥ स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ १५॥ माल्याच्छादनभूषण विलेपनानामनादरन्यासः । स्वल्पोऽपि परां शोभां जनयति यस्मात्तु विच्छितिः ॥ १६॥ विविधानामर्थानां वागङ्गाहार्यसत्त्वानाम् । मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः ॥ १७॥ स्मितरुदितहसितभयहर्षगर्वदुःखश्रमाभिलाषाणाम्। सङ्करकरणं हर्षादसकृत् किलिकिञ्चितं ज्ञेयम् ॥ १८॥ इष्टजनस्य कथायां लीलाहेलादिदर्शने वापि । तद्भावभावनाकृतमुक्तं मोट्टायितं नाम ॥ १९॥ केशस्तनधरादिग्रहणादतिहर्षसंभ्रमोत्पन्नम् । कुट्टमितं विज्ञेअयं सुखमपि दुःखोपचारेण ॥ २०॥। इष्टानां भावानां प्राप्तावभिमानगर्वसंभूतः । स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः ॥ २१॥ हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः । सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् ॥ २२॥ [करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसम्प्रयुक्तस्तु । सुकुमारविधानेन स्त्रीभिउरितीदं स्मृतं ललितम्] ॥ २३॥ वाक्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम् । व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् ॥ २४॥ [प्राप्तानामपि वचसां क्रियते यदभाषणं ह्रिया स्त्रीभिः । व्याजात्स्वभावतो वाप्येतत्समुदाहृतं विहृतम्] ॥२५॥ शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च । धैर्यं प्रागल्भ्यमौदार्यमित्येते स्युरयत्नजाः ॥ २६॥ रूपयौवनलावण्यैरुपभोगोपबृंहितैः । अलङ्करणमङ्गानां शोभेति परिकीर्तिता॥ २७॥ विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा । कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ २८॥ सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च । अनुल्बणत्वं चेष्टाया माधुर्यमिति संज्ञितम् ॥ २९॥ चापलेनानुपहता सर्वार्थेष्वविकत्थना । स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते ॥ ३०॥ प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् । औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ॥ ३१॥ सुकुमारे भवन्त्येते प्रयोगे ललितात्मिके । विलासललिते हित्वा दीप्तेऽप्येते भवन्ति हि ॥ ३२॥ शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च । ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥ ३३॥ दाक्ष्यं शौर्यमथोत्साहो नीचार्थेषु जुगुप्सनम् । उत्तमैश्च गुणैः स्पर्धा यतः शोभेति सा स्मृता ॥ ३४॥ धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता । स्मितपूर्वमथालापो विलास इति कीर्तितः ॥ ३५॥ अभ्यासत्करणानां तु श्लिष्टत्वं यत्र जायते । महत्स्वपि विकारेषु तन्माधुर्यमिति स्मृतम् ॥ ३६॥ धर्र्मार्थकामसंयुक्ताच्छुभाशुभसमुत्थितात् । व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् ॥ ३७॥ यस्य प्रभावादाकारा हर्षक्रोधभयादिषु । भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यमिति स्मृतम् ॥ ३८॥ अबुद्धिपूर्वकं यत्तु निर्विकारस्वभाजम् । श‍ृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम् ॥ ३९॥ दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् । स्वजने च परे वापि तदौदार्यं प्रकीर्तितम् ॥ ४०॥ अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणत्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ४१॥ सत्त्वजोऽभिनयोः पूर्वं मया प्रोक्तओ द्विजोत्तमाः । शारीरं चाप्याभिनयं व्याख्यास्याम्यनुपूर्वशः ॥ ४२॥ षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा । शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च ॥ ४३॥ नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः सचूर्णपदैः । प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः ॥ ४४॥ वाक्यर्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् । पश्चाद्वाक्याभिनयः सूचेत्यभिसंज्ञिता सा तु ॥ ४५॥ हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः । सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः ॥ ४६॥ यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते । शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः ॥ ४७॥ नाट्यायितमुपचारैर्यः क्रियतेऽभिनयसूचया नाट्ये । कालप्रकर्षहेतोः प्रवेशकैः संगमो यावत् ॥ ४८॥ स्थाने ध्रुवास्वभिनयो यः क्रियते हर्षशोकरोषाद्यैः । भावरससम्प्रयुक्तैर्ज्ञेयं नाट्यायितं तदपि ॥ ४९॥ यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः । तत्संबन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सोऽथ ॥ ५०॥ एतेषां तु भवेन्मार्गो यथाभावरसान्वितः । काव्यवस्तुषु निर्दिष्टो द्वादशाभिनयात्मकः ॥ ५१॥ आलापश्च प्रलापश्च विलापः स्यात्तथैव च । अनुलापोऽथ संलापस्त्वपलापस्तथैव च ॥ ५२॥ सन्देशाश्चातिदेशश्च निर्देशः स्यात्तथापरः । उपदेशोऽपदेशश्च व्यपदेशश्च कीर्तितः ॥ ५३॥ आभाषणं तु यद्वाक्यमालापो नाम स स्मृतः । अनर्थकं वचो यत्तु प्रलापः स तु कीर्तितः ॥ ५४॥ करुणप्रभवो यस्तु विलापः स तु कीर्तितः । बहुशोऽभिहितं वाक्यमनुलाप इति स्मृतः ॥ ५५॥ उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीर्तितः । पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः ॥ ५६॥ तदिदं वचनं ब्रूहीत्येष सन्देश उच्यते । यत्त्वयोक्तं मयोक्तं तत्सोऽतिदेश इति स्मृतः ॥ ५७॥ स एषोऽहं ब्रवीमीति निर्देश इति कीर्तितः । व्याजान्तरेण कथनं व्यपदेश इहोच्यते ॥ ५८॥ इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः । अन्यार्थकथनं यत् स्यात् सोऽपदेशः प्रकीर्तितः ॥ ५९॥ एते मार्गास्तु विज्ञेयाः सर्वाभिनययोजकाः । सप्तप्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम् ॥ ६०॥ प्रत्यक्षश्च परोक्षश्च तथा कालकृतास्त्रयः । आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु ॥ ६१॥ एषा ब्रवीमि नाहं भो वदामीति च यद्वचः । प्रत्यक्षश्च परोक्षश्च वर्तमानश्च तद्भवेत् ॥ ६२॥ अहं करोमि गच्छामि वदामि वचनं तव । आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः ॥ ६३॥ करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः । आत्मस्थश्च परोक्षश्च भविष्यत्काल एव च ॥ ६४॥ हता जिता च भग्नाश्च मया सर्वे द्विषद्गणाः । आत्मस्थश्च परोक्षश्च वृत्तकालश्च स स्मृतः ॥ ६५॥ [त्वया हत जिताश्चेति यो वदेन्नाट्यकर्मणि । परोक्षश्च परस्थश्च वृत्तकालस्तथैव च ॥ ६६॥ एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः । परस्थो वर्तमानश्च (प्रत्यक्षश्च) भवेत्तथा ॥ ६७॥ स गच्छति करोतीति वचनं यदुताहृतम् । परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् ॥ ६८॥ करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः । परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत्] ॥ ६९॥ हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि । आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् ॥ ७०॥ परेषामात्मनश्चैव कालस्य च विशेषणात् । सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा ॥ ७१॥ एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः । एतेष्विह विनिष्पन्नो विविधोऽभिनयो भवेत् ॥ ७२॥ शिरो हस्तकटीवक्षोजङ्घोरुकरणेषु तु । समः कर्मविभागो यः सामान्याभिनयस्तु सः ॥ ७३॥ ललितैर्हस्तसंचारस्तथा मृद्वङ्गचेष्टितैः । अभिनेयस्तु नाट्यज्ञै रसभावसमन्वितैः ॥ ७४॥ अनुद्धतमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियतात्मकम् ॥ ७५॥ सुविभक्तपदालापमनिष्ठुरमकाहलम् । यदीदृशं भवेन्नाट्यं ज्ञेयमाभ्यन्तरं तु तत् ॥ ७६॥ एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् । अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् ॥ ७७॥ लक्षणाभ्यन्तरत्वाद्धि तदाभ्यन्तरमिष्यते । शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते ॥ ७८॥ अनेन लक्ष्यते यस्मात् प्रयोगः कर्म चैव हि । तस्माल्लक्षणमेतद्धि नाट्येऽस्मिन् सम्प्रयोजितम् ॥ ७९॥ अनाचार्योषिता ये च ये च शास्त्रबहिष्कृताः । बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् ॥ ८०॥ शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च । इन्द्रियानीइन्द्रियार्थांश्च भावैरभिनयेद्बुधः ॥ ८१॥ कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वनतं तथा । तर्जनी कर्णदेशे च बुधः शब्दं विनिर्दिशेत् ॥ ८२॥ किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च । तथांऽसगण्डयोः स्पर्शात् स्पर्शमेवं विनिर्दिशेत् ॥ ८३॥ कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः । निर्वर्णयन्त्या दृष्ट्या च रूपं त्वभिनयेद् बुधः ॥ ८४॥ किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्लां च नासिकाम् । एकोच्छ्वासेन चेष्टौ तु रसगन्धौ विनिर्दिशेत् ॥ ८५॥ पञ्चानामिन्द्रियार्थानां भावा ह्येतेऽनुभाविनः । श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि ॥ ८६॥ इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः । न वेत्ति ह्यमनाः किंचिद्विषयं पञ्चधागतम् ॥ ८७॥ मनसस्त्रिविधो भावो विज्ञेयोऽभिनये बुधैः । इष्टस्तथा ह्यनिष्टश्च मध्यस्थश्च तथैव हि ॥ ८८॥ प्रह्लादनेन गात्रस्य तथा पुलकितेन च । वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् ॥ ८९॥ इष्टे शब्दे तथा रूपे स्पर्शे गन्धे तथा रसे । इन्द्रियैर्मनसा प्राप्तैः सौमुख्यं सम्प्रदर्शयेत् ॥ ९०॥ परावृत्तेन शिरसा नेत्रनासाविकर्षणैः । चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् ॥ ९१॥ नातिहृष्टेन मनसा न चात्यर्थजुगुप्सया । मध्यस्थनैव भावेन मध्यस्थमभिनिर्दिशेत् ॥ ९२॥ तेनेदं तस्य वापीदं स एवं प्रकरोति वा । परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः ॥ ९३॥ आत्मानुभावी योऽर्थः स्यादात्मस्थ इति स स्मृतः । परार्थवर्णना यत्र परस्थः स तु संज्ञितः ॥ ९४॥ प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते । स चेच्छागुणसम्पन्नो बहुधा परिकल्पितः ॥ ९५॥ धर्मकामोऽर्थकामश्च मोक्षकामस्तथैव च । स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः ॥ ९६॥ सर्वस्यैव हि लोकस्य सुखदुःखनिबर्हणः । भूयिष्ठं दृष्यते कामः स सुखं व्यसनेष्वपि ॥ ९७॥ यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः । स श‍ृङ्गार इति ज्ञेय उपचारकृतः शुभः ॥ ९८॥ भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा । सुखस्य हि स्त्रियो मूलं नाना शीलाश्चा ताः पुनः ॥ ९९॥ देवदानवगन्धर्वरक्षोनागपतत्रिणाम् । पिशाचयक्षव्यालानां नरवानरहस्तिनाम् ॥ १००॥ मृगमीनोष्ट्रमकरखरसूकरवाजिनाम् । महीषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः ॥ १०१॥ स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणि । अरोगा दीप्त्युपेता च दानसत्त्वार्जवान्विता ॥ १०२॥ अल्पस्वेदा समरता स्वल्पभुक् सुरतप्रिया । गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता ॥ १०३॥ अधर्मशाठ्याभिरता स्थिरक्रोधातिनिष्ठुरा । मद्यमांसप्रिअया नित्यं कोपना चातिमानिनी ॥ १०४॥ चपला चातिलुब्धा च परुषा कलहप्रिया । ईर्ष्याशीला चलस्नेहा चासुरं शीलमाश्रिता ,, १०५॥ क्रीडापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः । स्वऽङ्गी च स्थिरभाषी च मन्दापत्या रतिप्रिया ॥ १०६॥ गीते वाद्ये च नृत्ते च रता हृष्टा मृजावती । गन्धर्वसत्त्वा विज्ञेया स्निग्धत्वक्केशलोचना ॥ १०७॥ बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना । खररोमा दिवास्वप्ननिरतात्युच्चभाषिणी ॥ १०८॥ नखदन्तक्षतकरी क्रोधेर्ष्याकलहप्रिया । निशाविहारशीला च राक्षसं शीलमाश्रिता ॥ १०९॥ तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना । नीलोत्पलसवर्णा च स्वप्नशीलाऽतिकोपना ॥ ११०॥ तिर्यग्गतिश्चलारम्भा बहुश्वासातिमानिनी । गन्धमाल्यासवरतानागसत्त्वाऽङ्गना स्मृता ॥ १११॥ अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया । सुरासवक्षीररता बह्वपत्या फलप्रिया ॥ ११२॥ नित्यं श्वसनशीलाच तथोद्यानवनप्रिया । चपला बहुवाक्छीघ्रा शाकुनं सत्त्वमाश्रिता ॥ ११३॥ ऊनाधिकाङ्गुलिकरा रात्रौ निष्कुटचारिणि । बालोद्वेजनशीला च पिशुना क्लिष्टभाषिणि ॥११४॥ सुरते कुत्सिताचारा रोमशाङ्गी महास्वना । पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया ॥ ११५॥ स्वप्नप्रस्वेदनाङ्गी च स्थिरशय्यासनप्रिया । मेधाविनी बुद्धिमती मद्यगन्धामिषप्रिया ,, ११६,, चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा । अदीर्घशायिनी चैव यक्षशीलाऽङ्गना स्मृता ॥ ११७॥ तुल्यमानावमाना या परुषत्वक् खरस्वरा । शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक् ॥११८॥ विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया । धर्मकामार्थनिरता ह्यहङ्कारविवर्जिता । सुहृत्प्रिया सुशीला च मानुषं सत्त्वमाश्रिता ॥ १२०॥ संहताल्पतनुर्हृष्टा पिङ्गरोमा छलप्रिया । प्रगल्भा चपला तीक्ष्णा वृक्षारामवनप्रिया ॥ १२१॥ स्वल्पमप्युपकारं तु नित्यं या बहुमन्यते । प्रसह्यरतिशीला च वानरं सत्त्वमाश्रिता ॥ १२२॥ महाहनुललाटा च शरीरोपचयान्विता । पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया ॥ १२३॥ कोपना स्थिरचित्ता च जलोद्यानवनप्रिया । मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता ॥ १२४॥ स्वल्पोदरी भग्ननासा तनुजङ्घा वनप्रिया । चलवीस्तीर्णनयना चपला शीघ्रगामिनी ॥ १२५॥ दिवात्रासपरा नित्यं गीतवाद्यरतिप्रिया । निवासस्थिरचित्ता च मृगसत्त्वा प्रकीर्तिता ॥ १२६॥ दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी । बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया ॥ १२७॥ लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी । कृशोदरी पुष्पफललवणाम्लकटुप्रिया ॥ १२८॥ उद्बन्धकटिपार्श्वा च खरनिष्ठुरभाषिणी । अत्युन्नतकटीग्रीवा उष्ट्रसत्त्वाऽटवीप्रिया ॥ १२९॥ स्थूलशीर्षाञ्चितग्रीवा दारितास्या महस्वना । ज्ञेया मकरसत्त्वा च क्रूरा मत्स्यगुणैर्युता ॥ १३०॥ स्थूलजिह्वोष्ठदशना रूक्षत्वक्कटुभाषिणी । रतियुद्धकरी धृष्टा नखदन्तक्षतप्रिया ॥ १३१॥ सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी । सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता ॥ १३२॥ दीर्घपृष्ठोदरमुखी रोमशाली बलान्विता । सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया ॥ १३३॥ कृष्णा दंष्टोत्कटमुखी ह्रस्वोदरशिरोरुहा । हीनाचारा बह्वपत्या सौकरं सत्त्वमाश्रिता ॥ १३४॥ स्थिरा विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा । सुभगा दानशीला च ऋजुस्थूलशिरोरुहा ॥ १३५॥ कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी । कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता ॥ १३६। स्थूलपृष्ठाक्षिदशना तनुपार्श्वोदरा स्थिरा । हरिरोमाञ्चिता रौद्री लोकद्विष्टा रतिप्रिया ॥ १३७॥। किञ्चिदुन्नतवक्त्रा च जलक्रीडावनप्रिया । बृहल्ललाटा सुश्रोणी माहिषं सत्त्वमाश्रिता ॥ १३८॥ कृशा तनुभुजोरस्का निष्टब्धस्थिरलोचना । संक्षिप्तपाणिपादा च सूक्ष्मरोमसमाचिता ॥ १३९॥ भयशीला जलोद्विग्ना बह्वपत्या वनप्रिया । चञ्चला शीघ्रगमना ह्यजसत्त्वाऽङ्गना स्मृता ॥ १४०॥ उद्बन्धगात्रनयना विजृम्भणपरायणा । दीर्घाल्पवदना स्वल्पपाणिपादविभूषिता ॥ १४१॥ उच्चःस्वना स्वल्पनिद्रा क्रोधना सुकृतप्रिया । हीनाचारा कृतज्ञा च श्वशीला परिकीर्तिता ॥ १४२॥ पृथुपीनून्नतश्रोणी तनुजङ्घा सुहृत्प्रिया । संक्षिप्तपाणिपादा च दृढारम्भा प्रजाहिता ॥ १४३॥ पितृदेवार्चनरता सत्यशौचगुरुप्रिया । स्थिरा परिक्लेशसहा गवां सत्त्वं समाश्रिता ॥ १४४॥ नानाशीलाः स्त्रियो ज्ञेयाः स्वं स्वं सत्त्वं समाश्रिताः । विज्ञाय च यथासत्त्वमुपसेवेत ताः पुनः ॥ १४५॥ उपचारो यथासत्त्वं स्त्रीणामल्पोऽपि हर्षदः । महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् ॥ १४६॥ यथा सम्प्रर्थितावाप्त्या रतिः समुपजायते । स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते ॥ १४७॥ धर्मार्थं हि तपश्चर्या सुखार्थं धर्म इष्यते । सुखस्य मूलं प्रमदास्तासु सम्भोग इष्यते ॥ १४८॥ कामोपभागो द्विविधो नाट्यधर्मेऽभिधीयते । बाह्याभ्यन्तरतश्चैव नारीपुरुषसंश्रयः ॥ १४९॥ आभ्यन्तरः पार्थिवानां स च कार्यस्तु नाटके । बाह्यो वेश्यागतश्चैव स च प्रकरणे भवेत् ॥ १५०॥ तत्र राजोपभोगं तु व्याख्यास्याम्यनुपूर्वशः । उपचारविधिं सम्यक् कामतन्त्रसमुत्थितम् ॥ १५१॥ त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा । बाह्या चाभ्यन्तरा चैव स्याद्बाह्याभ्यन्तरापरा ॥ १५२॥ कुलीनाभ्यन्तरा ज्ञेया बाह्या वेश्याङ्गना स्मृता । कृतशौचा तु या नारी सा बाह्याभ्यन्तरा स्मृता ॥ १५३॥ अन्तःपुरोपचारे तु कुलजा कन्यकापि वा । न हि राजोपचारे तु बाह्यस्त्रीभोग इष्यते ॥ १५४॥ आभ्यन्तरो भवेद्राज्ञो बाह्यो बाह्यजनस्य च । दिव्यवेशाङ्गनानां हि राज्ञां भवति सङ्गमः ॥ १५५॥ कुलजाकामितं यच्च तज्ज्ञेयं कन्यकास्वपि । या चापि वेश्या साप्यत्र यथैव कुलजा तथा ॥ १५६॥ इह कामसमुत्पतीर्नानाभावसमुद्भवा । स्त्रीणां वा पुरुषाणां वा उत्तमाधममध्यमा ॥ १५७॥ श्रवणाद्दर्शनाद्रूपादङ्गलीलाविचेष्टितैः । मधुरैश्च समालापैः कामः समुपजायते ॥ १५८॥ रूपगुणादिसमेतं कलादिविज्ञानयौवनोपेतम् । दृष्ट्वा पुरुषविशेषं नारी मदनातुरा भवति ॥ १५९॥ ततः कामयमानानां नृणां स्त्रीणामथापि च । कामाभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत् ॥ १६०॥ ललिता चलपक्ष्मा च तथा च मुकुलेक्षणा । स्रस्तोत्तरपुटा चैव काम्या दृष्टिर्भवेदिह ॥ १६१॥ [वलितान्ता सलालित्यसंमितैर्व्यञ्जितैरस्तथा । दृष्टिः सा ललिता नाम स्त्रीणामर्धावलोकने ॥] १६१॥ ईष्त्संरक्तगण्डस्तु सस्वेदलवचित्रितः । प्रस्पन्दमानरोमाञ्चो मुखरागो भवेदिह ॥ १६३॥ काम्येनाङ्गविकारेण सकटाक्षनिरीक्षितैः । तथाभरणसंस्पर्शैः कर्णकण्डुयनैरपि ॥ १६४॥ अङ्गुष्ठाग्रविलिखनैः स्तननाभिप्रदर्शनैः । नखनिस्तोदनाच्चैव केशसंयमनादपि ॥ १६५॥ वेश्यामेवंविधैर्भावैर्लक्षयेन्मदनातुराम् । कुलजायास्तथा चैव प्रवक्ष्यामीङ्गितानि तु ॥ १६६॥ प्रहसन्तीव नेत्राभ्यां प्रततं च निरीक्षते । स्मयते सा निगूढं च वाचं चाधोमुखी वदेत् ॥ १६७॥ स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी । प्रस्पन्दिताधरा चैव चकिता च कुलाङ्गना ॥ १६८॥ एवंविधैः कामलिङ्गैरप्राप्तसुरतोत्सवा । दशस्थानगतं कामं नानाभावैः प्रदर्शयेत् ॥ १६९॥ प्रथमे त्वभिलाषः स्याद् द्वितीये चिन्तनं भवेत् । अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ॥ १७०॥ उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो भवेद्व्याधिस्तथाष्टमे ॥ १७१॥ नवमे जडता चैव दशमे मरणं भवेत् । स्त्रीपुंसयोरेष विधिर्लक्षणं च निबोधत ॥ १७२॥ व्यवसायात्समारब्धः संकल्पेच्छासमुद्भवः । समागमोपायकृतः सोऽभिलाषः प्रकीर्तितः ॥ १७३॥ निर्याति विशति च मुहुः करोति चाकारमेव मदनस्य । तिष्ठति च दर्शनपथे प्रथमस्थाने स्थिता कामे ॥ १७४॥ केनोपायेन सम्प्राप्तिः कथं वासौ भवेन्मम । दूतीनिवेदितैर्भावैरिति चिन्तां निदर्शयेत् ॥ १७५॥ आकेकरार्धविप्रेक्षितानि वलयरशनापरामर्शः । नीवीनाभ्याः संस्पर्शनं च कार्यं द्वितीये तु ॥ १७६॥ सुमुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः । प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहृता ॥ १७७॥ नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता । तच्चिन्तोपगतत्वात् तृतीयमेव प्रयुञ्जीत ॥ १७८॥ अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षितैः । नास्त्यन्यः सदृशस्तेनेत्येतत् स्याद् गुणकीर्तनम् ॥ १७९॥ गुणकीर्तनोल्लुकसनैरश्रुस्वेदापमार्जनैश्चापि । दूत्यविरहविस्रम्भैरभिनययोगश्चतुर्थे तु ॥ १८०॥ आसने शयने चापि न तुष्यति न तिष्ठति । नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता ॥ १८१॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । कुर्यात्तदेवमत्यन्तमुद्वेगाभिनयेन च ॥ १८२॥ इह स्थित इहासीन इह चोपगतो मया । इति तैस्तैर्विलपितैर्विलापं सम्प्रयोजयेत् ॥ १८३॥ उद्विग्नात्यर्थमौत्सुक्यादधृत्या च विलापिनी । ततस्ततश्च भ्रमति विलापस्थानमाश्रिता ॥ १८४॥ तत्संश्रितां कथां युङ्क्ते सर्वावस्थागतापि हि । पुंसः प्रद्वेष्टि चाप्यन्यानुन्मादः सम्प्रकीर्तितः ॥ १८५॥ तिष्ठत्यनिमिषदृष्टिर्दीर्घं निःश्वसिति गच्छति ध्यानम् । रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे ॥ १८६॥ सामदानार्थसंभोगैः काम्यैः सम्प्रेषणैरपि । सर्वैर्निराकृतैः पश्चाद् व्याधिः समुपजायते ॥ १८७॥ मुह्यति हृदयं क्वापि प्रयाति शिरसश्च वेदना तीव्रा । न धृतिं चाप्युपलभते ह्यष्टममेवं प्रयुञ्जीत ॥ १८८॥ पृष्टा न किञ्चित् प्रब्रते न श‍ृणोति न पश्यति । हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः ॥ १८९॥ अकाण्डे दत्तहुंकारा तथा प्रशिथिलाङ्गिका । श्वासग्रस्तानना चैव जडताभिनये भवेत् ॥ १९०॥ सर्वैः कृतैः प्रतीकारैर्यदी नास्ति समागमः । कामाग्निना प्रदीप्ताया जायते मरणं ततः ॥ १९१॥ एवं स्थानानि कार्याणि कामतन्त्रं समीक्ष्य तु । अप्राप्तौ यानि कामस्य वर्जयित्वा तु नैधनम् ॥ १९२॥ विविधैः पुरुषोऽप्येवं विप्रलम्भसमुद्भवैः । भावैरेतानि कामस्य नानारूपाणि योजयेत्। ॥ १९३॥ एवं कामयमानानां स्त्रीणा नृणामथापि वा । सामान्यगुणयोगेन युञ्जीताभिनयं बुधः ॥ १९४॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । तथानुगमन्नाच्चापि तथैवाध्वनिरीक्षणात् ॥ १९५॥ आकाशवीक्षणाच्चापि तथा दीनप्रभाषणात् । स्पर्शनान्मोटनाच्चापि तथा सापाश्रयाश्रयात् ॥ १९६॥ एभिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः । कामस्थानानि सर्वाणि भूयिष्ठं सम्प्रयोजयेत् ॥ १९७॥ स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च । कामाग्निना दह्यमानः शीतलानि निषेवते ॥ १९८॥ प्रदह्यमानः कामार्तो बहुस्थानसमर्दितः । प्रेषयेत्कामतो दूतीमात्मावस्थाप्रदर्शिनीम् ॥१९९॥ सन्देशं चैव दूत्यास्तु प्रदद्यान्मदनाश्रयम् । तस्येयं समवस्थेति कथयेद्विनयेन सा ॥ २००॥ अथावेदितभावार्थो रत्युपायं विचिन्तयेत् । अयं विधिर्विधानज्ञैः कार्यः प्रच्छन्नकामिते ॥ २०१॥ विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः । अभ्यन्तरगतं सम्यक् कामतन्त्रसमुत्थितम् ॥ २०२॥ सुखदुःखकृतान् भावान् नानाशीलसमुत्थितान् । यान्यान् प्रकुरुते राजा तान्स्तान् लोकानुवर्तते ॥ २०३॥ न दुर्लभाः पार्थिवानां स्त्र्यर्थमाज्ञाकृताः गुणाः । दाक्षिण्यात्तु समुद्भूतः कामो रतिकरो भवेत् ॥ २०४॥ बहुमानेन देवीनां वल्लभानां भयेन च । प्रच्छन्नकामितं राज्ञा कार्यं परिजनं प्रति ॥ २०५॥ यद्यप्यस्ति नरेन्द्राणां कामतन्त्रमनेकधा । प्रच्छन्नाकामितं यत्तु तद्वै रतिकरं भवेत् ॥ २०६॥ यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते । दुर्लभत्वं च यन्नार्याः सा कामस्य परा रतिः ॥ २०७॥ राज्ञामन्तःपुरजने दिवासम्भोग इष्यते । वासोअपचारो यश्चैअषां स रात्रौ परिकीर्तितः ॥ २०८॥ परिपाट्यां फलार्थे वा नवे प्रसव एव वा । दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ २०९॥ उचिते वासके स्त्रीनामृतुकालेऽपि वा नृपैः । प्रेष्याणामथवेष्टानां कार्यं चैवोपसर्पणम् ।२१०॥ तत्र वासकसज्जा च विरहोत्कण्ठितापि वा । स्वाधीनभर्तृका चापि कलहान्तरितापि वा ॥ २११॥ खण्डिता विप्रलब्धा वा तथा प्रोषितभर्तृका । तथाभिसारिका चैव ज्ञेयास्त्वष्टौ तु नयिकाः ॥ २१२॥ उचिते वासकए या तु रतिसंभोगलालसा । मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका ॥ २१३॥ अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः । तदनागतदुःखार्ता विरहोत्कण्ठिता तु सा ॥ २१४॥ सुरतातिरसैर्बद्धो यस्याः पार्श्वे तु नायकः । सान्द्रामोदगुणप्राप्ता भवेत् स्वाधीनभर्तृका ॥ २१५॥ ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सामर्षवशसम्प्राप्ता कलहान्तरिता भवेत् ॥ २१६॥ व्यासङ्गादुचिते यस्या वासके नागतः प्रियः । तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता ॥ २१७॥ यस्या दूतीं प्रियः प्रेष्य दत्त्वा संकेतमेव वा । नागतः कारणेनेह विप्रलब्धा तु सा भवेत् ॥ २१८॥ नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रियः । सारूढालककेशान्ता भवेत् प्रोषितभर्तृका ॥ २१९॥ हित्वा लज्जां तु या श्लिष्टा मदेन मदनेन च । अभिसारयते कान्तं सा भवेदभिसारिका ॥ २२०॥ आस्ववस्थासु विज्ञेया नायिका नाटकाश्रया । एतासां चैव वक्ष्यामि कामतन्त्रमनेकधा ॥ २२१॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । सखीभिः सह संलापैरात्मावस्थावलोकनैः ॥ २२२॥ ग्लानिदैन्याश्रुपातैश्च रोषस्यागमनेन च । निर्भूषणमृजात्वेन दुःखेन रुदितेन च ॥ २२३॥ खण्डिता विप्रलब्धा वा कलहान्तरितापि वा । तथा प्रोषितकान्ता च भावानेतान् प्रयोजयेत् ॥ २२४॥ विचित्रोज्ज्वलवेषा तु प्रमोदोद्योतितानना । उदीर्णशोभा च तथा कार्या स्वाधीनभर्तृका ॥ २२५॥ वेश्यायाः कुलजायायाश्च प्रेष्यायाश्च प्रयोक्तृभिः । एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् ॥ २२६॥ समदा मृदुचेष्टा च तथा परिजनावृता । नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः ॥ २२७॥ संलीना स्वेषु गात्रेषु त्रस्ता विनमितानना । अवकुण्ठनसंविता हच्छेत्तु कुलजाङ्गना ॥ २२८॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना । आविद्धगतिसंचारा गच्छेत्प्रेष्या समुद्धतम् ॥ २२९॥ गत्वा सा चेद्यदा तत्र पश्येत्सुप्तं प्रियं तदा । अनेन तूपचारेण तस्य कुर्यात्प्रबोधनम् ॥ २३०॥ अलङ्कारेण कुलजा वेश्या गन्धैस्तु शीतलैः । प्रेष्या तु वस्त्रव्यजनैः कुर्वीत प्रतिबोधनम् ॥ २३१॥ कुलाङ्गनानामेवायं नोक्तः कामाश्रयो विधिः । सर्वावस्थानुभाव्यं हि यस्माद्भवति नाटकम् ॥ २३२॥ नवकामप्रवृत्ताया क्रुद्धाया वा समागमे । सापदेशैरुपायैस्तु वासकं सम्प्रयोजयेत् ॥ २३३॥ नानालङ्करवस्त्राणि गन्धमाल्यानि चैव हि । प्रिययोजितभुक्तानि निषेवेत मुदान्वितः ॥ २३४॥ न तथा भवति मनुष्यो मदनवशः कामिनीमलभमानः । द्विगुणोपजातहर्षो भवति यथ सङ्गतः प्रियया ॥ २३५॥ विलासभावेङ्गितवाक्यलीलामाधुर्यविस्तारगुणोपपन्नः । परस्परप्रेमनिरीक्षितेन समागमः कामकृतस्तु कार्यः ॥ २३६॥ ततः प्रवृत्ते मदने उपचारसमुद्भवे । वासोपचारः कर्तव्यो नायकागमनं प्रति ॥ २३७॥ गन्धमाल्ये गृहीत्वा तु चूर्णवासस्तथैव च । आदर्शो लीलया गृह्यश्छन्दतो वा पुनः पुनः ॥ २३८॥ वासोपचारे नात्यर्थं भूषणग्रहणं भवेत् । रशनानूपुरप्रायं स्वनवच्च प्रशस्यते ॥ २३९॥ नाम्बरग्रहणं रङ्गे न स्नानं न विलेपनम् । नाञ्जनं नाङ्गरागश्च केशसंयमनं तथा ॥ १४०॥ नाप्रावृत्ता नैकवस्त्रा न रागमधरस्य तु । उत्तमा मध्यमा वापि कुर्वीत प्रमदा क्वचित् ॥ २४१॥ अधमानां भवेदेष सर्व एव विधिः सदा । कारणान्तरमासाद्य तस्मादपि न कारयेत् ॥ २४२॥ प्रेष्यादीनां च नारीणां नराणां वापि नाटके । भूषणग्रहणं कार्यं पुष्पग्रहणमेव च ॥ २४३॥ गृहीतमण्डना चापि प्रतीक्षेत प्रियागमम् । लीलया मण्डितं वेषं कुर्याद्यन्न विरुध्यते ॥ २४४॥ विधिवद्वासकं कुर्यान्नायिका नायकागमे । प्रतीक्षमाणा च ततो नालिकाशब्दमादिशेत् ॥ २४५॥ श्रुत्वा तु नालिकाशब्दं नायकागमविक्लवा । विषण्णा वेपमाना च गच्छेत्तोरणमेव च ॥ २४६॥ तोरणं वामहस्तेन कवाटं दक्षिणेन च । गृहीत्वा तोरणाश्लिष्टा सम्प्रतीक्षेत नायकम् ॥ २४७॥ शङ्कां चिन्तां भयं चैव प्रकुर्यात्तोरणाश्रिता । अदृष्ट्वा रमणं नारी विषण्णा च क्षणं भवेत् ॥ २४८॥ दीर्घं चैव विनिःश्वस्य नयनाम्बु निपातयेत् । सन्नं च हृदयं कृत्वा विसृजेतदङ्गमासने ॥ २४९॥ व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति । तैस्तैर्विचारणोपायैः शुभाशुभसमुत्थितैः ॥ २५०॥ गुरुकार्येण मित्रैर्वा मन्त्रिणा राज्यचिन्तया । अनुबद्धः प्रियं किं नु वृतो वल्लभयापि वा ॥ २५१॥ उत्पातान्निर्दिशेच्चापि शुभाशुभसमुत्थितान् । निमितैरात्मसंस्थैस्तु स्फुरितैः स्पन्दिअतैस्तथा ॥ २५२॥ शोभनेषु तु कार्येषु निमित्तं वामतः स्त्रियाः । अनिष्टेष्वथ सर्वेषु निमित्तं दक्षिणं भवेत् ॥ २५३॥ सव्यं नेत्रं ललाटं च भ्रूनासोष्ठं तथैव च । उरुबाहुस्तनं चैव स्फुरेद्यदि समागमः ॥ २५४॥ एतेषमन्यथाभावे दुर्निमित्तं विनिर्दिशेत् । दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः ॥ २५५॥ अनागमे नायकस्य कार्यो गण्डाश्रयः करः । भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् ॥ २५६॥ अथ चेच्छोभनं तत्स्यान्निमित्तं नायकागमे । सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः ॥ २५७॥ दृष्ट्वा चोत्थाय संहृष्टा प्रत्युद्गच्छेद्यथाविधि । ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना ॥ २५८॥ सखीस्कन्धार्पितकरा कृत्वा स्थानकमायतम् । दर्शयेत ततः कान्तं सचिह्नं सरसव्रणम् ॥ १५९॥ यदि स्यादपराद्धस्तु कृतैस्तैस्तैरुपक्रमैः । उपालम्भकृअतैर्वाक्यैरुपालभ्यस्तु नायकः ॥ २६०॥ मानापमानसंमोहैरवहित्थभयक्रमैः । वचनस्य समुत्पत्तिः स्त्रीणामीर्ष्याकृता भवेत् ॥ २६१॥ विस्रंभस्नेहरागेषु सन्देहे प्रणये तथा । परितोषे च घर्षे च दाक्षिण्याक्षेपविभ्रमे ॥ २६२॥ धर्मार्थकामयोगेषु प्रच्छन्नवचनेषु च । हास्ये कुतूहले चैव संभ्रमे व्यसने तथा ॥ २६३॥ स्त्रीपुंसयोः क्रोधकृते पृथङ्मिश्रे तथापि वा । अनाभाष्योऽपि संभाष्यः प्रिय एभिस्तु कारणैः ॥ २६४॥ यत्र स्नेहो भवेत्तत्र हीर्ष्या मदनसंभवा । चतस्रो योनयस्तस्याः कीर्त्यमाना निबोधत ॥ २६५॥ वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च । एतेषां सम्प्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ २६६॥ निद्राखेदालसगतिं सचिह्नं सरसव्रणम् । एवविधं प्रियं दृष्ट्वा वैमनस्यं भवेत् स्त्रियाः ॥ २६७॥ निद्राभ्यसूयितावेक्षणेन रोषप्रकम्पमानाङ्ग्या । साध्विति सुष्ठ्विति वचनैः शोभत इत्येवमभिनेयम् ॥ २६८॥ बहुधा वार्यमाणोऽपि यस्तस्मिन्नेव दृश्यते । संघर्षमत्सरात्तत्र व्यलीकं जायते स्त्रियाः ॥ २६९॥ कृत्वोरसि वामकरं दक्षिणहस्तं तथा विधुन्वन्त्या । चरणविनिष्ठम्भेन च कार्योऽभिनयो व्यलीके तु ॥ २७०॥ जीवन्त्या त्वयि जीवामि दासोऽहं त्वं च मे प्रिया । उक्त्वैवं योऽन्यथा कुर्याद्विप्रियं तत्र जायते ॥ २७१॥ दूतीलेखप्रतिवचनभेदनैः क्रोधहसितरुदितैश्च । विप्रियकरणेऽभिनयः सशिरःकम्पैश्च कर्तव्यः ॥ २७२॥ प्रतिपक्षसकाशात्तु यः सौभाग्यविकत्थनः । उपसर्पेत् सचिन्ह्नस्तु मन्युस्तत्रोपजायते ॥ २७३॥ वलयपरिवर्तनैरथ सुशिथलमुत्क्षेपेणेन रशनायाः । मन्युस्त्वभिनेतव्यः सशङ्कितं बाष्पपूर्णाक्ष्या ॥ २७४॥ दृष्ट्वा स्थितं प्रियतमं सशङ्कितं सापराधमतिलज्जम् । ईर्ष्यावचनसमुत्थैः खेदयितव्यो ह्युपालम्भैः ॥ २७५॥ न च निष्ठुरमभिभाष्यो न चाप्यतिक्रोधनस्तु परिहासः । बाष्पोन्मिश्रैर्वचनैरात्मोपन्याससंयुक्तैः ॥ २७६॥ मध्याङ्गुल्यङ्गुष्ठाग्रविच्यवात्पाणिनोरसि कृतेन । उद्वर्तितनेत्रतया प्रततैरभिवीक्षणैश्चापि ॥ २७७॥ कटिहस्तविवर्तनया विच्छिन्नतया तथाञ्जलेः करणात् । मूर्धभ्रमणनिहञ्चितनिपातसंश्लेअष्णाच्चापि ॥ २७८॥ अवहित्थवीक्षणाद्वा अङ्गुलिभङ्गेन तर्जनैललितैः । एभिर्भावविशेषैरनुनयनेष्वभिनयः कार्यः ॥ २७९॥ शोभसे साधु दृष्टोऽसि गच्छ त्वं किंं विलम्बसे । मा मां स्प्राक्षीः प्रिया यत्र तत्र या ते हृदि स्थिता ॥ २८०॥ गच्छेत्युक्त्वा परावृत्य विनिवृत्तान्तरेण तु । केनचिद्वचनार्थेन प्रहर्षं योजयेत्पुनः ॥ २८१॥ रभसग्रहणाच्चापि हस्ते वस्त्रे च मूर्धनि । कार्यं प्रसादनं नार्या ह्यपराधं समीक्ष्य तु ॥ २८२॥ हस्ते वस्त्रेऽथ केशान्ते नार्याप्यथ गृहीतया । कान्तमेवोपसर्पन्त्या कर्तव्यं मोक्षणं शनैः ॥ २८३॥ गृहीतायाथ केशान्ते हस्ते वस्त्रेऽथवा पुनः । हुं मुञ्चेत्युपसर्पन्त्या वाच्यः स्पर्शालसं प्रियः ॥ २८४॥ पादाग्रस्थितया नार्या किंचित्कुट्टमितोत्कटम् । अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः ॥ २८५॥ अमुच्यमाने केशान्ते संजातस्वेदलेशया । हं हु मुञ्चापसर्पेति वाच्यः स्पर्शालसाङ्गया ॥ २८६॥ गच्छेति रोषवाक्येन गत्वा प्रतिनिवृत्य च । केनचिद्वचनार्थेन वाच्यं यास्यसि नेति च ॥ २८७॥ विधूननेन हस्तेन हुंकारं सम्प्रयोजयेत् । स चावधूनने कार्यः शपथैर्व्याज एव च ॥ २८८॥ अक्ष्णोः संवरणे कार्यं पृष्ठतश्चोपगूहनम् । नार्यास्त्वपहृते वस्त्रे दीपच्छादनमेव च ॥ २८९॥ तावत् खेदयितव्यस्तु यावत्पादगतो भवेत् । ततश्चरणयोर्याते कुर्याद्दूतीनिरीक्षणम् ॥ २९०॥ उत्थाप्यालिङ्गयेच्चैव नायिका नायकं ततः । रतिभोगगता हृष्टा शयनाभिमुखी व्रजेत् ॥ २९१॥ एतद्गीतविधानेन सुकुमारेण योजयेत् । यदा श‍ृङ्गारसंयुक्तं रतिसम्भोगकारणम् ॥ २९२॥ यदा चाकाशपुरुषपरस्थवचनाश्रयम् । भवेत्काव्यं तदा ह्येष कर्तव्योऽभिनयः स्त्रिया ॥ २९३॥ यदन्तपुरसम्बन्धं कार्यं भवति नाटके । श‍ृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत्॥ २९४॥ न कार्यं शयनं रङ्गे नाट्यधर्मं विजानता । केनचिद्वचनार्थेन अङ्कच्छेदो विधीयते ॥ २९५॥ यद्वा शयीतार्थवशादेकाकी सहितोऽपि वा । चुम्बनालिङ्गनं चैव तथ गुह्यं च यद्भवेत् ॥ २९६॥ दन्तच्छेद्यं नखच्छेद्यं नीवीस्रंसनमेव च । स्तनान्तरविमर्दं च रङ्गमध्ये न कारयेत् ॥ २९७॥ भोजनं सलिलक्रीडा तथा लज्जाकरं च यत् । एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत् ॥ २९८॥ पितापुत्रस्नुषाश्वश्रूदृश्यं यस्मात्तु नाटकम् । तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः ॥ २९९॥ वाक्यैः सातिशयैः श्रव्यैर्मधुरैर्नातिनिष्ठुरैः । हितोपदेशसंयुक्तैस्तज्ज्ञः कुर्यात्तु नाटकम् ॥ ३००॥ एवमन्तःपुरकृतः कार्यस्त्वभिनयो बुधः । समागमेऽथ नारीणां वाच्यानि मदनाश्रये ॥ ३०१॥ प्रियेषु वचनानीह यानि तानि निबोधत । प्रिअयः कान्तो विनीतश्च नाथः स्वाम्यथ जीवितम् ॥ ३०२॥ नन्दनश्चेत्यभिप्रीते वचनानि भवन्ति हि । दुःशीलोऽथ दुराचारः शठो वामो विकत्थनः ॥ ३०३॥ निर्लज्जो निष्ठुरश्चैअव प्रियः क्रोधेऽभिधीयते । यो विप्रियं न कुरुते न चायुक्तं प्रभाषते ॥ ३०४॥ तथार्जवसमाचारः स प्रियस्त्वभिधीयते । अन्यनारीसमुद्भूतं चिह्नं यस्य न दृष्यते ॥ ३०५॥ अधरे वा शरीरे वा स कान्त इति भाष्यते । संक्रुद्धेऽपि हि यो नार्या नोत्तरं प्रतिपद्यते ॥ ३०६॥ परुषं वा न वदति विनीतः साऽभिधीयते । हितैषी रक्षणे शक्तो न मानी न च मत्सरी ॥ ३०७॥ सर्वकार्येष्वसंमूढः स नाथ इति संज्ञितः । सामदानार्थसंभोगैस्तथा लालनपालनैः ॥ ३०८॥ नारीं निषेवते यस्तु स स्वामीत्यभिधीयते । नारीप्सितैरभिप्रायैर्निपुणं शयनक्रियाम् ॥ ३०९॥ करोति यस्तु संभोगे स जीवितमिति स्मृतः । कुलीनो धृतिमान्दक्षो दक्षिणो वाग्विशारदः ॥ ३१०॥ श्लाघनीयः सखीमध्ये नन्दनः सोऽभिधीयते । एते वचनविन्यासा रतिप्रीतिकराः स्मृताः ॥ ३११॥ तथा चाप्रीतिवाक्यानि गदतो मे निबोधत । निष्ठुरश्चाहिष्णुश्च मानि धृष्टो विकत्थनः ॥ ३१२॥ अनवस्थितचित्तश्च दुःशील इति स स्मृतः । ताडनं बन्धनं चापि यो विमृश्य समाचरेत् ॥ ३१३॥ तथा परुषवाक्यश्च दुराचारः स तन्यते । वाचैअव मधुरो यस्तु कर्मण नोपपादकः ॥ ३१४॥ योषितः किञ्चिदप्यर्थं स शठः परिभाष्यते । वार्यते यत्र यत्रार्थे तत्तदेव करोति यः ॥ ३१५॥ विपरीतनिवेशी च स वाम इति संज्ञितः । सरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः ॥ ३१६॥ अतिमानी तथा स्तब्धो विकत्थन इति स्मृतः । वार्यमाणो दृढतरं यो नारीमुपसर्पति ॥ ३१७॥ सचिह्नाः सापराधश्च स निर्लज्ज इति स्मृतः । योऽपराद्धस्तु सहसा नारीं सेवितुमिच्छति ॥ ३१८॥ अप्रसादनबुद्धिश्च निष्ठुरः सोऽभिधीयते । एते वचनविन्यासाः प्रियाप्रियविभाषिताः ॥ ३१९॥ नर्तकीसंश्रिताः कार्या बहवोऽन्येऽपि नाटके । एष गीतविधाने तु सुकुमारे विधिर्भवेत् ॥ ३२०॥ श‍ृङ्गाररससंभूतो रतिसंभोगखेदनः । यच्चैवाकाशपुरुषं परस्थवचनाश्रयम् ॥ ३२१॥ श‍ृङ्गार एवं वाच्यं स्यात्तत्राप्येष क्रमो भवेत् । यद्वा पुरुसंबन्धं कार्यं भवति नाटके ॥ ३२२॥ श‍ृङ्गाररससंयुक्तं तत्राप्येष क्रमो भवेत् । एवमन्तःपुरगतः प्रयोज्योऽभिनयो भवेत् ॥ ३२३॥ दिव्याङ्गनानां तु विधिं व्याख्यास्यम्यनुपूर्वशः । नित्यमेवोज्वलो वेषो नित्यं प्रमुदितं मनः ॥ ३२४॥ नित्यमेव सुखः कालो देवानां ललिताश्रयः । न चैर्ष्या नैव च क्रोधो नासूया न प्रसादनम् ॥ ३२५॥ दिव्यानां दृष्यते पुंसां श‍ृङ्गारे योषितां तथा । ये भावा मानुषाणां स्युर्यदङ्गं यच्च चेष्टितम् ॥३२६॥ सर्वं तदेव कर्तव्यं दिव्यैर्मानुषसङ्गमे । यदा मानुषसंभोगो दिव्यानां योषितां भवत् ॥ ३२७॥ तदा सर्वाः प्रकर्तव्या ये भावा मानुषाश्रयाः । शापभ्रंशात्तु दिव्यानां तथा चापत्यलिप्सया ॥ ३२८॥ कार्यो मानुषसंयोगः श‍ृङ्गाररससंश्रयः । पुष्पैर्भूषणजैः शब्दैरदृश्यापि प्रलोभयेत् ॥ ३२९॥ पुनः संदर्शनं दत्त्वा क्षणादन्तरिता भवेत् । वस्त्राभरणमाल्याद्यैर्लेखसम्प्रेषणैरपि ॥ ३३०॥ ईदृशैरुपचारैस्तु समुन्माद्यस्तु नायकः । उन्मादनात्समुद्भूतः कामो रतिकरो भवेत् ॥ ३३१॥ स्वभावोपगतो यस्तु नासावत्यर्थभाविकः । एवं राजोपचारो हि कर्तव्योऽभ्यन्तराश्रयः ॥ ३३२॥ बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके । इति भारतीये नाट्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशः ॥