अक्षर आकार:

नाट्यशास्त्रम् अध्यायः २१

Natya Shastra Chapter 21

नाट्यशास्त्रम् अध्यायः २१

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकविंशोऽध्यायः । आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः । य्स्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ॥ १॥ नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः । अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ २॥ आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः । तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ ३॥ [तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता । नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम् ॥] ॥ ४॥ चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च । तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च ॥ ५॥ पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ ६॥ किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः । सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः ॥ ७॥ व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः । वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु संज्ञितः ॥ ८॥ शैलयानविमानानि चर्मवर्मध्वजा नगाः । ये क्रियन्ते हि नाट्ये तु स पुस्त इति संज्ञितः ॥ ९॥ अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् । नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ १०॥ वेष्टिमं विततं चैव संघात्यं ग्रन्थिमं तथा । प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥११॥ चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च ॥ १२॥ आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् । आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ १३॥ श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा । प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च ॥ १४॥ भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् । नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ॥१५॥ चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् । कुण्डलं मोचकं कीला कर्णाभरणमिष्यते ॥ १६॥ मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् । वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥१७॥ हस्तली वलयं चैव बाहुनालीविभूषणम् । रुचकश्चूलिका कार्या मणिबन्धविभूषणम् ॥ १८॥ केयूरे अङ्गदे चैव कूर्परोपरिभूषणे । त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् ॥ १९॥ व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् । तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ २०॥ अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः । देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ २१॥ शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च । चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ॥२२॥ शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् । कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः ॥ २३॥ ललाटतिलकं चैव नानाशिल्पप्रयोजितम् । भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा ॥ २४॥ कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका । कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च ॥ २५॥ नानारत्नविचित्राणि दन्तपत्राणि चैव हि । कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च ॥ २६॥ तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् । त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ २७॥ नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् । दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा ॥ २८॥ रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः । मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः ॥ २९॥ सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः । अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ ३०॥ विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् । मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका ॥ ३१॥ रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् । द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥३२॥ तथा श‍ृङ्खलिका चैव भवेत्कण्ठविभूषणम् । अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ ३३॥ नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् । मणिजालावनद्धं च भवेत् स्तनविभूषणम् ॥ ३४॥ खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् । कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् ॥ ३५॥ मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् । मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा ॥ ३६॥ रशना च कलापश्च भवेच्छ्रोणीविभूषणम् । एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ ३७॥ द्विरष्टयष्टि रशना कलापः पञ्चविंशकः । द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा ॥ ३८॥ मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् । नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥३९॥ सघोषे कटके चैव गुल्फोपरिविभूषाणम् । जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् ॥ ४०॥ अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् । तथालक्तकरागश्च नानाभक्तिनिवेशितः ॥ ४१॥ अशोकपलावच्छायः स्यात् स्वाभाविक एव च । एतद्विभूषणं नार्या आकेशादानखादपि ॥ ४२॥ यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः । आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा ॥ ४३॥ विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः । न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ ४४॥ स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् । विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ ४५॥ यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् । न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु ॥ ४६॥ खेदं जनयते तद्धि सव्यायतविचेष्टनात् । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ ४७॥ गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः । तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ ४८॥ रत्नवज्जतुबद्धं वा न खेदजननं भवेत् । स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते ॥ ४९॥ यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् । [वेष्टितं विततं चैव संघात्यं ग्रथिमं तथ ॥ ५०॥ लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् । आच्छादनं बहुविधं नानापत्तनसंभवम् ॥ ५१॥ तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्] । दिव्यानां भूषणविधिर्य एष परिकीर्तितः ॥ ५२॥ मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः । भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः ॥ ५३॥ दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा । विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ ५४॥ ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते । तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ ५५॥ दिव्यानां नरनारीणां तथैव च शिखण्डकम् । शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ ५६॥ विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः । यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः ॥ ५७॥ समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा । दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ ५८॥ मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः । कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ ५९॥ न चापि विभूषणविधिस्तासां वेषो वनोचितः । मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ ६०॥ तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् । पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ ६१॥ वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा । इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् ॥ ६२॥ सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् । वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ ६३॥ शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः । पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः ॥ ६४॥ दिव्यवानरनारीणां कार्यो नीलपरिच्छदः । एवं श‍ृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः ॥ ६५॥ अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा । मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ ६६॥ वेषाभरणसंयोगान् गदतस्तान्निबोधत । आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् ॥ ६७॥ गौडीयानामलकप्रायं सशिखापाशवेणिकम् । आभीरयुवतीनां तु द्विवेणीधर एव तु ॥ ६८॥ शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् । तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् ॥ ६९॥ आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् । तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् ॥ ७०॥ कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् । [गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्] ॥ ७१॥ देशजातिविधानेन शेषाणामपि कारयेत् । वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् ॥ ७२॥ [आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] । अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ ७३॥ मेखलोरसि बद्धा तु हास्यं समुपपादयेत् । तथा प्रोषितकान्तासु व्यसनाभिहतासु च ॥ ७४॥ वेषो वै मलिनः कार्य एकवेणीधरं शिरः । विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह ॥ ७५॥ नात्याभरणसंयुक्तो न चापि मृजयान्वितः । एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः ॥ ७६॥ पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः । तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ ७७॥ ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः । सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ ७८॥ एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् । संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ॥७९॥ तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः । सितनीलसमायोगे कारण्डव इति स्मृतः ॥ ८०॥ सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः । सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः ॥ ८१॥ पीतनीलसमायोगाद्धरितो नाम जायते । नीलरक्तसमायोगात्कषायो नाम जायते ॥ ८२॥ रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः । एते संयोगजा वर्णा ह्युपवर्णास्तथापरे ॥ ८३॥ त्रिचतुर्वर्णसंयुक्ता बहवः सम्प्रकीर्तिताः । बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः ॥ ८४॥ दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् । नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके ॥ ८५॥ बलवान्सर्ववर्णानां नील एव प्रकीर्तितः । एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् ॥ ८६॥ ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः । वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् ॥ ८७॥ नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् । स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः ॥ ८८॥ आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता । यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ॥८९॥ तत्स्वभावं हि भजते देहान्तरमुपाश्रितः । वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ ९०॥ परभावं प्रकुरुते यस्य वेषं समाश्रितः । देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ ९१॥ प्राणिसंज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे । [स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च ॥ ९२॥ नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया] । शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ ९३॥ नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः । अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ ९४॥ वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु । वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ ९५॥ कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् । देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा ॥ ९६॥ रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः । सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः ॥ ९७॥ समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा । रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ॥ ९८॥ नारायणो नरश्चैव श्यामो नागश्च वासुकिः । दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ ९९॥ पिशाचा जलमाकाशमसितानि तु वर्णतः । भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः ॥ १००॥ कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः । जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः ॥ १०१॥ उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः । भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा ॥ १०२॥ केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः । नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः ॥ १०३॥ विद्याधरास्तथा चैव पितरस्तु समा नराः । पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत ॥ १०४॥ राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च । ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः ॥ १०५॥ कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः । आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः ॥ १०६॥ ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः । तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः ॥ १०७॥ कारणव्यपदेशेन तथा चात्मेच्छया पुनः । वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः ॥ १०८॥ देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् । विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः ॥ १०९॥ किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः । पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः ॥ ११०॥ शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये । प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् ॥ १११॥ पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः । अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ ११२॥ ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि । वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ ११३॥ एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् । श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ॥११४॥ शुद्धं विचित्रं श्यामं च तथा रोमशमेव च । भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् ॥ ११५॥ शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् । मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ ११६॥ दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः । पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः ॥ ११७॥ श‍ृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये । तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः ॥ ११८॥ अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् । व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् ॥ ११९॥ ऋषीणां तापसानां च ये च दीर्घव्रता नराः । तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ १२०॥ एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः । अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् ॥ १२१॥ शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते । तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ १२२॥ देवाभिगमने चैव मङ्गले नियमस्थिते । तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ १२३॥ धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा । वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः ॥ १२४॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । नृपाणां कर्कशानां च चित्रो वेष उदाहृतः ॥ १२५॥ वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् । वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् ॥ १२६॥ विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः । शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ १२७॥ उन्मत्तानां प्रमत्तानामध्वगानां तथैव च । व्यसनोपहतानां च मलिनो वेष उच्यते ॥ १२८॥ शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च । योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ १२९॥ कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः । मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च ॥ १३०॥ व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः । चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ १३१॥ परिवाण्मुनिष्क्यानां वासः काषायमिष्यते । नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ १३२॥ कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः । अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ १३३॥ काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि । अवस्थानतरतश्चैव नृणां वेषो भवेदथ ॥ १३४॥ वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः । विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः ॥ १३५॥ चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च । केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले ॥ १३६॥ एवमेष भवेद्वेषो देशजातिवयोऽनुगः । उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ १३७॥ एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये । नानावस्थां समासाद्य शुभाशुभकृतस्तथा ॥ १३८॥ तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् । दिव्यानां मानुषाणां च देशजातिवयःश्रितम् ॥ १३९॥ पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः । त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ १४०॥ देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् । कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः ॥ १४१॥ उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः । मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः ॥ १४२॥ नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः । विद्याधराणां च सिद्धानां चारणानां तथैव च ॥ १४३॥ ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः । राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि ॥ १४४॥ हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् । उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ १४५॥ कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे । केशानां छेदनं दृष्टं वेदवादे यथाश्रुति ॥ १४६॥ भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया । केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ १४७॥ सेनापतेः पुनश्चापि युवराजस्य चैव हि । योजयेदर्धमुकुटं महामात्राश्च ये नराः ॥ १४८॥ अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ १४९॥ पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् । अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ १५०॥ शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च । शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च ॥ १५१॥ तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः । मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ १५२॥ धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः । श‍ृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ १५३॥ बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् । जटामकुटबद्धं च मुनीनां तु भवेच्छिरः ॥ १५४॥ चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा । विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ १५५॥ शीषाणामर्थयोगेन देशजातिसमाश्रयम् । शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् ॥ १५६॥ भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि । एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् ॥ १५७॥ पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् । स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ॥ १५८॥ सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः । तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः ॥ १५९॥ इह भावरसाश्चैव दृष्टिभिः सम्प्रतिष्ठिताः । दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ १६०॥ एवं ज्ञीयाङ्गरचना नानाप्रकृतिसंभवा । सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ १६१॥ यः प्राणिनां प्रवेशो वै सजीव इति संज्ञितः । चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः ॥ १६२॥ उरगानपदान् विद्याद् द्विपदान्खगमानुषान् । ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः ॥ १६३॥ ये ते तु यद्धसंफेटैरुपरोधैस्तथैव च । नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः ॥ १६४॥ आयुधानि च कार्याणि पुरुषाणां प्रमाणतः । तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः ॥ १६५॥ भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ । अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा ॥ १६६॥ अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः । शरो गदा च वज्रा च चतुस्तालं विधीयते ॥ १६७॥ अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः । द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ॥ १६८॥ प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः । विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ १६९॥ शोडषाङ्गुलविस्तीर्णं सबलं सम्प्रघण्टिकम् । त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः ॥ १७०॥ जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् । छत्रं चामरं चैव ध्वजो श‍ृङ्गार एव च ॥ १७१॥ यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् । यच्चोपकरणं सर्वे नाट्ये तत्सम्प्रकीर्तितम् ॥ १७२॥ यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् । जर्जरे दण्डकाष्ठे च सम्प्रवक्ष्यामि लक्षणम् ॥ १७३॥ माहेन्द्रा वै ध्वजाज़् प्रोक्ता लक्षणैर्विश्वकर्मणा । एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः ॥ १७४॥ अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः । वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥१७५॥ श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा । संग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः ॥ १७६॥ प्रमाणमङ्गुलानां तु शतमष्टोत्तर<ं भवेत् । पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ १७७॥ स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् । न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ १७८॥ मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् । उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति ॥ १७९॥ यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः ॥ १८०॥ भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च । पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः ॥ १८१॥ विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज़्ः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ॥ १८२॥ कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ । वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् ॥ १८३॥ कीटैर्नोपहतं यच्च व्याधिना न च पीडितम् । मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् ॥१८४॥ यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् । कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् ॥ १८५॥ अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः । स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै ॥ १८६॥ बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया । स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता ॥ १८७॥ भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् । संछाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः ॥ १८८॥ बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् । न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्। ॥ १८९॥ तस्यामातपशुष्कायां सुशुष्कायामथापि वा । छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १९०॥ सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च । स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् ॥ १९१॥ अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् । अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् ॥ १९२॥ कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् । त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि ॥ १९३॥ ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला । घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया ॥ १९४॥ तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः । नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ १९४॥ तथोपकरणानीह नाट्ययोगकृतानि वै । बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ १९६॥ यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते । विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥१९७॥ यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति । नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ १९८॥ यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा । तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ १९९॥ या काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना । न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ २००॥ यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् । तस्यानुकृतिसंस्थानं नाट्यूपकरणं भवेत् ॥ २०१॥ प्रासादगृहयानानि नानाप्रहरणानि च । न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ २०२॥ लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा । स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि ॥ २०३॥ आयसं न तु कर्तव्यं न च सारमयं तथा । नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर< भवेत् ॥ २०४॥ काष्ठचर्मसु वस्त्र्षु जतुवेणुदलेषु च । नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ २०५॥ चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः । हयवारणयानानि विमानानि गृहाणि च ॥ २०६॥ पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः । ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ २०७॥ अथवा यदि वस्त्राणामसान्निध्यं भवेदिह । तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् ॥ २०८॥ तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः । जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ २०९॥ प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् । तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् ॥ २१०॥ यद्यस्य सदृशं रूपं सारूप्यगुणसंभवम् । मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥२११॥ भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च । नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ २१२॥ नानाकुसुमजातीश्च फलानि विविधानि च । भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥२१३॥ भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च । सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ २१४॥ रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् । उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् ॥ २१५॥ विविधा मुकुटा दिवा पूर्वं ये गदिता मया । तेऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः ॥ २१६॥ न शास्त्रप्रभवं कर्म तेषां हि समुदाहृतम् । आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् ॥ २१७॥ एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया । कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति ॥ २१८॥ मर्त्यानामपि नो शक्या विभावाः सर्वकाञ्चनाः । नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा ॥ २१९॥ युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ २२०॥ स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति । प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया ॥ २२१॥ तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि । भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु ॥ २२२॥ एवं लोकोपचारेण स्वबुद्धिविभवेन च । नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् ॥ २२३॥ न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च । रङ्गे प्रहरणैः कार्यं संज्ञामात्रं तु कारयेत् ॥२२४॥ अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा । शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ २२५॥ एवं नानाप्रकारैस्तु आयुधाभरणानि च । नोक्तानि यानि च मया लोकाद् ग्राह्याणि तान्यपि ॥ २२६॥ आहार्याभिनयो ह्येष मया प्रोक्तः समासतः । अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ २२७॥ इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः ।