अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १९

Natya Shastra Chapter 19

नाट्यशास्त्रम् अध्यायः १९

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकोनविंशोऽध्यायः । इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् । पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः ॥ १॥ इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् । आधिकरिकमेकं स्यात् प्रासङ्गिकमथापरम् ॥ २॥ यत्कार्यं हि फलप्राप्त्या सामर्थ्यात्परिकल्प्यते । तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः ॥ ३॥ कारणात्फलयोग्यस्य वृत्तं स्यादाधिकारिकम् । तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् ॥ ४॥ कवेः प्रयत्नान्नेतॄणां युक्तानां विद्ध्युपाश्रयात् । कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च ॥ ५॥ (लौकिकी सुखदुःखाख्या यथावस्था रसोद्भवा । दशधा मन्मथावस्था व्यवस्थास्त्रिविधा मता ॥) ६॥ संसारे फलयागे तु व्यापारः कारणस्य यः । तस्यानुपूर्व्या विज्ञेया पञ्चावस्था प्रयोक्तृभिः ॥ ७॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ ८॥ औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते । महतः फलयोगस्य स फलारम्भ इष्यते ॥ ९॥ अपश्यतः फलप्राप्तिं व्यापारो यः फलं प्रति । परं चौत्सुक्यगमनं स प्रयत्नः प्रकीर्तितः ॥ १०॥ ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्पते । भावमात्रेण तु प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् ॥ ११॥ नियतां तु फलप्राप्तिं यदा भावेन पश्यति । नियतां तां फलप्राप्तिं सगुणां परिचक्षते ॥ १२॥ अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् । इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः ॥ १३॥ सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः । एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ १४॥ आसां स्वभावभिन्नानां परस्परसमागमात् । विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ १५॥ इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् । तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् ॥ १६॥ पूर्णसन्धि च कर्तव्यं हीनसन्ध्यपि वा पुनः । नियमात् पूर्णसन्धि स्याद्धीनसन्ध्यथ कारणात् ॥ १७॥ एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः । द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ १८॥ प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् । यद्वृत्तं सम्भवेत्तत्र तद्योज्यमविरोधतः ॥ १९॥ इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः । अर्थप्रकृतयः पञ्च तथा बीजादिका अपि ॥ २०॥ बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ २१॥ स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति । फलावसानं यच्चैव बीजं तत्परिकीर्तितम् ॥ २२॥ प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ॥ २३॥ यद्वृत्तं तु परार्थं स्यात् प्रधानस्योपकारकम् प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ २४॥ फलं प्रकल्प्यते यस्याः परार्थायैव केवलम् । अनुबन्धविहीनत्वात् प्रकरीति विनिर्दिशेत् ॥ २५। यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते । तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् ॥ २६॥ एतेषां यस्य येनार्थो यतश्च गुण इष्यते । तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ २७॥ एकोऽनेकोऽपि वा सन्धिः पताकायां तु यो भवेत् । प्रधानार्थानुयायित्वादनुसन्धिः प्रकीर्त्यते ॥ २८॥ आगर्भादाविमर्शाद्वा पताका विनिवर्तते । कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते ॥ २९॥ यत्रार्थे चिन्तितेऽन्यस्मिन्स्तल्लिन्ङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ३०। सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ३१॥ वचः सातिशयं क्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीअयं परिकीर्तितम् ॥ ३२॥ अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ ३३॥ द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥ ३४॥ [यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् । विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत् ]॥ ३५॥ चतुष्पताकापरमं नाटके कार्ययिष्यते । पञ्चभिः सन्धिभिर्युक्तं तांश्च वक्ष्याम्यतः परम् ॥३६॥ मुखं प्रतिमुखं चैव गर्भो विमर्श एव च । तथा निर्वहणं चेति नाटके पञ्च सन्धयः ॥ ३७॥ [पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते । शेषाः प्रधानसन्धीनामनुग्राह्यनुसन्धयः ]॥ ३८॥ यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा । काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ ३९॥ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ४०॥ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ ४१॥ गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽथवा । क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ ४२॥ समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ ४३॥ एते तु सन्धयो ज्ञेया नाटकस्य प्रयोक्तृभिः । तथा प्रकरणास्यापि शेषाणां च निबोधत ॥ ४४॥ डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ । न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ ४५॥ व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ । गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी ॥ ४६॥ द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च । मुखनिर्वहने तत्र कर्तव्ये कविभिः सदा ॥ ४७॥ [वीथी चैव हि भाणश्च तथा प्रहसनं पुनः । कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ]॥ ४८॥ एवं हि सन्धयः कार्या दशरूपे प्रयोक्तृभिः । पुनरेषां तु सन्धीनामङ्गकल्पं निबोधदत ॥ ४९॥ सन्धिनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः । स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥५०॥ इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ ५१॥ आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । अङ्गानां षड्विधं ह्येतद् दॄष्टं शास्त्रे प्रयोजनम् ॥५२॥ अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् । अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् ॥ ५३॥ उदात्तमपि तत्काव्यं स्यादङ्गैः परिवर्जितम् । हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः ॥ ५४॥ काव्यं यदपि हीनार्थं सम्यदङ्गैः समन्वितम् । दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ ५५॥ [तस्मात् सन्धिप्रदेशेषु यथायोगं यथारसम् । कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत] ॥ ५६॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ ५७॥ उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे । तथा प्रतिमुखे चैव श‍ृणुताङ्गानि नामतः ॥ ५८॥ विलासः परिसर्पश्च विधूतं‍ तापनं तथा । नर्म नर्मद्युतिश्चैव तथा प्रगयणं पुनः ॥ ५९॥ निरोधश्चैव विज्ञेयः पर्युपासनमेव च । पुष्पं वज्रमुपन्यासो वर्णसंहार एव च ॥ ६०॥ एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥ ६१॥ संग्रहश्चानुमानं च प्रार्थनाक्षिप्तमेव च । तोटकाधिबले चैव ह्युद्वेगो विद्रवस्तथा ॥६२॥ एतान्यङ्गानि वै गर्भे ह्यवमर्शे निबोधत । अपवादश्च संफेटो विद्रवः शक्तिरेव च ॥ ६३॥ व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् ॥ विरोधनमथादानं छादनं च प्ररोचना ॥ ६४॥ व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च । सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् ॥ ६५॥ द्युतिः प्रसाद आनन्दः समयो ह्युपगूहनम् । भाषणं पूर्ववाक्यं च काव्यसंहार एव च ॥ ६६॥ प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः । चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु ॥ ६७॥ [सम्पादनार्थं बीजस्य सम्यक्सिद्धिकराणि च । कार्याण्येतानि कविभिर्विभज्यार्थानि नाटके ] ॥ ६८॥ पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् । काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ॥ ६९॥ यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः । तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा ॥ ७०॥ गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् । सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते ॥ ७१॥ सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता । बीजार्थस्योपगमनं समाधानमिति स्मृतम् ॥ ७२॥ सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् । कुतूहलोत्तरावेगो विज्ञेया परिभावना ॥ ७३॥ बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः । प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् ॥ ७४॥ संघातभेदनार्थो यः स भेद इति कीर्तितः । [एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः] ॥ ७५॥ समीहा रतिभोगार्था विलास इति संज्ञितः । दृष्टनष्टानुसरणं परिसर्प इति स्मृतः ॥ ७६॥ कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः । अपायदर्शनं यत्तु तापनं नाम तद्भवीत् ॥ ७७॥ क्रीडार्थं विहितं यत्तु हास्यं नर्मेति तत्स्मृतम् दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता ॥ ७८॥ उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः । या तु व्यसनसम्प्राप्तिः स निरोधः प्रकीर्तितः ॥ ७९॥ क्रुद्धस्यनुनयो यस्तु भवेत्तत्पर्युपासनम् । विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ॥ ८०॥ प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते । उपपत्तिकृतो योऽर्थ उपन्यासश्च स स्मृतः ॥ ८१॥ चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते । कपटापाश्रयं वाक्यमभूताहरणं विदुः ॥ ८२॥ तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते । चित्रार्थसमवाये तु वितर्को रूपमिष्यते । यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ॥ ८३॥ भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते । सामदानादिसम्पन्नः संग्रहः परिकीर्तितः ॥ ८४॥ रूपानुरूपगमनमनुमानमिति स्मृतम् । रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् । गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते ॥ ८६॥ संरम्भवचनं चैव तोटकं त्विति संज्ञितम् । कपटेनातिसंधानं ब्रुवतेऽधिबलं बुधाः ॥ ८७॥ भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः । शङ्का भयत्रासकृतो विद्रयः समुदाहृतः ॥ ८८॥ दोषप्रख्यापनं यत्तु सोऽपवाद इति स्मृतः । रोषग्रथितवाक्यं तु सम्फेटः परिकीर्तितः ॥ ८९॥ गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः । विरोधिप्रशमो यश्च स शक्तिः परिकीर्तिता ॥९०॥ व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभवः । प्रसङ्गश्चैव विज्ञेयो गुरूणा परिकीर्तनम् ॥ ९१॥ वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता । मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः ॥ ९२॥ ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः । कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥ ९३॥ बीजकार्योपगमनमातानमिति संज्ञितम् । अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् ॥ ९४॥ प्ररोचना स विज्ञेया संहारार्थप्रदर्शिनी । [प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः ॥ ९५॥ सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता । ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुत] ॥ ९६॥ [एतान्यवमृशेऽङ्गानि संहारे तु निबोधत] । मुखबीजोपगमनं सन्धिरित्यभिधीयते ॥ ९७॥ कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः । उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् ॥ ९८॥ अनुभूतार्थकथनं निर्णयः समुदाहृतः । परिवादकृतं यस्यात्तदाहुः परिभाषणम् ॥ ९९॥ लब्धस्यार्थस्य शमनं द्युतिमाचक्षते पुनः । समागमस्तथार्थानामानन्दः परिकीर्तितः ॥ १००॥ दुःखस्यापगमो यस्तु समयः स निगद्यते । शुश्रूषाद्युपसम्पन्नः प्रसादः प्रीतिरुच्यते ॥ १०१॥ अद्भुतस्य तु सम्प्राप्तिरूपगूहनमिष्यते । सामदानादि सम्पन्नं भाषणं समुदाहृतम् ॥१०२॥ पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम् । वरप्रदानसम्प्राप्तिः काव्यसंहार इष्यते ॥ १०३॥ नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते । यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके ॥ १०४॥ कविभिः काव्यकुशलै रसभावमपेक्ष्य तु । संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः ॥ १०५॥ ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु । एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः ॥ १०६॥ सन्ध्यन्तराणि सन्धीनां विशेषास्त्वेकविंशतिः । सामभेदस्तथा दण्डः प्रदानं वध एव च ॥ १०७॥ प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च । साहसं च भयं चैव ह्रीर्माया क्रोध एव च ॥ १०८॥ ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम् । दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम् ॥ १०९॥ [विष्कम्भचूलिका चैव तथ चैव प्रवेशकः । अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥११०॥ मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसंचारः । विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः ॥ १११॥ शुद्धः संकीर्णो वा द्विविधो विष्कंभकस्तु विज्ञेयः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ ११२॥ अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा । अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ ११३॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ ११४॥ अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य । बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ॥ ११५॥ विष्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा । यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते ] ॥ ११६॥ अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगीनि । अस्माद्विनिःसृतानि तु भाण इवैअकप्रयोज्यानि ॥ ११७॥ [भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा । प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्] ॥ ११८॥ गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका । प्रच्छेदकं त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ॥ ११९॥ उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ॥ १२०॥ आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् । गायनेऐर्गीयते शुष्कं तद्गेयपदमुच्यते ॥ १२१॥ [या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् । साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते ] ॥ १२२॥ प्राकृतं यद्वियुक्ता तु पठेदात्तरसं स्थिता । मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते ॥ १२३॥ [बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् । चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते ]॥ १२४॥ आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् । अप्रसारितगात्रं च चिन्ताशोकसमन्वितम् ॥ १२५॥ नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितन् । चेष्टाभिश्चाश्रयः पुंसा यत्र सा पुष्पगण्डिका ॥ १२६॥ [यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् । सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका ॥ १२७॥ नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् । स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका] ॥ १२८॥ प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः । स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु ॥ १२९॥ अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् । नाट्यं पुरुषभावाढ्यं त्रिमूढकमिति स्मृतम् ॥ १३०॥ पात्रं विभ्रष्टसंकेतं सुव्यक्तकरणान्वितम् । प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः ॥ १३१॥ [रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् । नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः] ॥ १३२॥ मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् । श्लिष्टभावरसोपेतं वैचित्र्यार्थं द्विमूढके ॥ १३३॥ उत्तमोत्तमकं विद्यादनेकरससंश्रयम् । विचित्रैः लोकबन्धैश्च हेलाहावविचित्रितम् ॥ १३४॥ कोपप्रसादजनितं साधिक्षेपपदाश्रयम् । उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् ॥ १३५॥ यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् । मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते ॥ १३६॥ दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता । करोतिविविधान् भावांस्तद्वै भाविकमुच्यते ॥ १३७॥ एतेषां लास्यविधौ विज्ञेयं लक्षणं प्रयोगज्ञैः । तदिहैव तु यन्नौक्तं प्रसङ्गविनिवृत्तहेतोस्तु ॥१३८॥ पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् । षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूषितम् ॥ १३९॥ महारसं महाभोगमुदात्तवचनान्वितम् । महापुरुषसंचारं साध्वाचारजनप्रियम् ॥१४०॥ सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥१४१॥ अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । नानापुरुषसंचारा नाटकेऽसौ विधीयते ॥ १४२॥ न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । न तत् कर्म न वा योगो नाट्येऽसिम्न्यन्न दृश्यते ॥ १४३॥ योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः । सोऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते ॥ १४४॥ देवतानामृषीनां च राज्ञां चोत्कृष्टमेधसाम् । पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत्। ॥१४५॥ यस्मात्स्वभावं संत्यज्य साङ्गोपाङ्गगतिक्रमैः । प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम्। ॥१४६॥ सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः । नानावस्थान्तरोपेतं नाटकं संविधीयते ॥ १४७॥ [अनेकशिल्पजातानि नैककर्मक्रिअयाणि च । तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ] ॥ १४८॥ लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् । संभोगं चैव युक्तिं च ततः कार्यं तु नाटकम् ॥ १४९॥ भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः । ये चापि हि भविष्यन्ति ते यत्नश्रुतबुद्धयः ॥ १५०॥ कर्मशिल्पानि शास्त्राणि विचक्षणबलानि च । सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति ॥ १५१॥ तदेवं लोकभाषाणां प्रसमीक्ष्य बलाबलम् । मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् ।१५२॥ चैक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये । वेश्या इव न ते भान्ति कमण्डलुधरैर्द्विजैः ॥ १५३॥ दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः । अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ॥१५४॥ इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः ॥