अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १८

Natya Shastra Chapter 18

नाट्यशास्त्रम् अध्यायः १८

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ अष्टादशोऽध्यायः वर्त्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् । नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ १॥ नाटकं सप्रकरणमङ्को व्यायोग एव च । भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ २॥ ईहामृगश्च विज्ञेया दशेमे नाट्यलक्षणे । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ३॥ सर्वेषामेव काव्यानां मातृका वृत्तयः स्मृताः । आभ्यो विनिसृतं ह्येतद्दशरूपं प्रयोगतः ॥ ४॥ जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः । यथा तथा वृत्तिभेदैः काव्यबन्धा भवन्ति हि ॥ ५॥ ग्रामौ पूर्णस्वरौ द्वौ तु यथा वै षड्जमध्यमौ । सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ ६॥ ज्ञेयं प्रकरणं चैव तथा नाटकमेव च । सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम् ॥ ७॥ वीथी समवकारश्च तथेहामृग एव च । उत्सृष्टिकाङ्को व्यायोगो भाणः प्रहसनं डिमः ॥ ८॥ कैशिकीवृत्तिहीनानि रूपाण्येतानि कारयेत् । अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ ९॥ प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥ १०॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ॥ ११॥ नृपतीनां यच्चरितं नानारसभावचेष्टितं बहुधा । सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम ॥ १२॥ अस्यावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात् । कर्तव्योऽङ्कः सोऽपि तु गुणान्वितं नाट्यतत्त्वज्ञैः ॥ १३॥ अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥ १४॥ अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः । वस्तुव्यापी बिन्दुः काव्यसमुत्थोऽत्र नित्यं स्यात् ॥ १५॥ यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः । किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः ॥ १६॥ ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयोगः । नानावस्थोपेतः कार्यस्त्वङ्कोऽविप्रकृष्टस्तु ॥ १७॥ नायकदेवीगुरुजनपुरोहितामात्यसार्थवाहानाम् । नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु ॥ १८॥ पञ्चाक्षरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च । निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ॥ १९॥ क्रोधप्रसादशोकाः शापोत्सर्गोऽथ विद्रवोद्वाहौ । अद्भुतसम्भवदर्शनमङ्के प्रत्यक्षजानि स्युः ॥ २०॥ एकदिवसप्रवृत्तः कार्यस्त्वङ्कोऽर्थबीजमधिकृत्य । आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ २१॥ एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् । आवश्यकाविरोधेन तत्र काव्यानि कार्याणि ॥ २२॥ रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः । बीजार्थयुक्तियुक्तं कृत्वा काव्यं यथार्थरसम् ॥ २३॥ न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् । आवश्यकानां कार्याणां विरोधो हि तथा भवेत् ॥ २४॥ ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम् । विभजेत्सर्वमशेषं पृथक्पृथक्काव्यमङ्केषु ॥ २५॥ दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् । अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् ॥ २६॥ विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः । अङ्कच्छेदेऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः ॥ २७॥ सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा । परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः ॥ २८॥ प्रकरणनाटकविषये पञ्चाद्या दशपरा भवन्त्यङ्काः । अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः ॥ २९॥ अनयोरन्तरविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य । संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः ॥ ३०॥ अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि । तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ॥ ३१॥ यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् । तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ञैः ॥ ३२॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशकः संविधातव्यः ॥ ३३॥ नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः । प्राकृतभाषाचारः प्रयोगमाश्रित्य कर्तव्यः ॥ ३४॥ कालोत्थानगतिरसौ व्याख्यासंरम्भकार्यविषयाणाम् । अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः ॥ ३५॥ बह्वाश्रयमपि कार्यं प्रवेशकैः संक्षिपेच्च सन्धिषु वा । बहुचूर्णपदैर्युक्तं जनयति खेदं प्रयोगस्य ॥ ३६॥ यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् । वृत्तान्तस्वल्पकथैः प्रवेशकैः सोऽभिधातव्यः ॥ ३७॥ युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव । प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ॥ ३८॥ अङ्के प्रवेशके च प्रकरणमाश्रित्य नाटके वापि । न वधः कर्तव्यः स्याद्योऽभ्युदयी नायकः ख्यातः ॥ ३९॥ अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः । काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः ॥ ४०॥ न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा । ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥ ४१॥ कार्यं गोपुच्छाग्रं कर्तव्यं काव्यबन्धमासाद्य । ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ ४२॥ सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् । निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः ॥ ४३॥ नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् । प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि ॥ ४४॥ यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ ४५॥ यदनार्षमथाहार्यं काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ ४६॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ ४७॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ ४८॥ नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् । बाह्यजनसम्प्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः ॥ ४९॥ दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु ॥ ५०॥ सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् । गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ ५१॥ यदि वेशयुवतियुक्तं न कुलस्त्री सङ्गमोऽपि स्यात् । अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ॥ ५२॥ यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् । अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् ॥ ५३॥ मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र तत्त्वज्ज्ञैः । संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत् ॥ ५४॥ शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि कर्तव्यः । मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः ॥ ५५॥ अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य । संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः ॥ ५६॥ अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः । प्रख्यातस्त्वितरो वा नाटकयोगे प्रकरणे वा ॥ ५७॥ प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या ॥ ५८॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव ॥ ५९॥ राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूती सपरिजना नाटिका ज्ञेया ॥ ६०॥ अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः । अत एव दशैतानि रूपाणीत्युदितानि वै ॥ ६१॥ प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन । वक्ष्याम्यतः परमहं लक्षणं युक्त्या समवकारम् ॥ ६२॥ देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिश‍ृङ्गारः ॥ ६३॥ द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च । वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र ॥ ६४॥ अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः । द्वादशनाडीविहितः प्रथमः कार्यः क्रियोपेतः ॥ ६५॥ कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु । वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु ॥ ६६॥ नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् । तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् ॥ ६७॥ या नाडिकेति संज्ञा कालविभागे क्रियाभिसम्पन्ना । कार्या च सा प्रयत्नाद्यथा क्रमेणैव शास्त्रोक्ता ॥ ६८॥ अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य । अर्थं हि समवकारे ह्यप्रतिसम्बन्धमिच्छन्ति ॥ ६९॥ युद्धजलसम्भवो वा वाय्वग्निगजेन्द्रसंभ्रमकृतो वा । नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः ॥ ७०॥ वस्तुगतक्रमविहितो देववशाद्वा परप्रयुक्तो वा । सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः ॥ ७१॥ त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्यविहितार्थः । श‍ृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ ७२॥ यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा । व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मश‍ृङ्गारः ॥ ७३॥ अर्थस्येच्छायोगाद्बहुधा चैवार्थतोऽर्थश‍ृङ्गारः । स्त्रीसम्प्रयोगविषयेष्वर्थार्था वा रतिर्यत्र ॥ ७४॥ कन्याविलोभनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा । निभृतं सावेगं वा यस्य भवेत्कामश‍ृङ्गारः ॥ ७५॥ उष्णिग्गायत्र्यादीन्यन्यानि च यानि बन्धकुटिलानि । वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि ॥ ७६॥ एवं कार्यस्तज्ज्ञैर्नानारससंश्रयः समवकारः । वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ॥ ७७॥ दिव्यापुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारकश्चैव ॥ ७८॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः सम्फेटकृतस्तथा चैव ॥ ७९॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुश‍ृङ्गारः । ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥ ८०॥ यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव । ईहामृगेऽपि ते स्युः केवलममरस्त्रिया योगः ॥ ८१॥ यत्र तु वधेप्सितानां वधो ह्युदग्रो भवेद्धि पुरुषाणाम् । किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम् ॥ ८२॥ ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन । डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि ॥ ८३॥ प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ ८४॥ श‍ृङ्गारहास्यवर्जं शेषैः सर्वै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः ॥ ८५॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसम्फेटकृतश्च कर्तव्यः ॥ ८६॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ ८७॥ षोडशनायकबहुलः सात्वत्त्यारभटीवृत्तिसम्पन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसम्पन्नः ॥ ८८॥ डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् । व्यायोगस्य तु लक्षणमतः परं सम्प्रवक्ष्यामि ॥ ८९॥ व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ ९०॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न च दिव्यनायकयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ ९१॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाघर्षणसंघर्षकृतश्च कर्तव्यः ॥ ९२॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः । वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टाङ्कस्य ॥ ९३॥ प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैर्युक्तो भवेत्पुंभिः ॥ ९४॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्यतप्रहारश्च । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ ९५॥ नानाव्याकुलचेष्टः सात्वत्त्यारभटिकैशिकीहीनः । कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥ ९६॥ यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम् । तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ ९७॥ कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु । हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ ९८॥ उपवनगमनक्रीडा विहारनारीरतिप्रमोदाः स्युः । तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ ९९॥ ये तेषामधिवासाः पुराणवादेषु पर्वताः प्रोक्ताः । सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन् ॥ १००॥ प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा सङ्कीर्णम् । अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम् ॥ १०१॥ प्रहसनमतः परं सलक्षणं सम्प्रवक्ष्यामि । वक्ष्यामि तयोर्युक्त्या पृथग्पृथग्लक्षणविशेषम् ॥ १०२॥ भगवत्तापसविप्रैरन्यैरपि हास्यवादसम्बद्धम् । कापुरुषसम्प्रयुक्तं परिहासाभाषणप्रायम् ॥ १०३॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितपदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ १०४॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम् ॥ १०५॥ लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः । स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः ॥ १०६॥ वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोग्यम् । भाणस्यापि तु लक्षणमतः परं सम्प्रवक्ष्यामि ॥ १०७॥ आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषस्तु । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ १०८॥ परवचनमात्मसंस्थं प्रतिवचनैरुत्तमोत्तमग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव ॥ १०९॥ धूर्तविटसम्प्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ ११०॥ भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् । वीथ्याः सम्प्रति निखिलं कथयामि यथाक्रमं विप्राः ॥ १११॥ सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥ ११२॥ अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्तिसृभिः । उद्धात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ॥ ११३॥ वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् । व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ॥ ११४॥ अथ वीथी सम्प्रोक्ता लक्षणमेषां प्रवक्ष्यामि । पदानि त्वगतार्थानि ये नराः पुनरादरात् ॥ ११५॥ योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते । यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ॥ ११६॥ तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः । आक्षिप्तेऽर्थे तु कस्मिँश्चिच्छुभाशुभसमुत्थिते ॥ ११७॥ कौशलादुच्यतेऽन्योऽर्थस्तदवस्पन्दितं भवेत् । हास्येनोपगतार्थप्रहेलिका नालिकेति विज्ञेया ॥ ११८॥ मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान् । न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ ॥ ११९॥ एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगेऽस्मिन् । यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु ॥ १२०॥ एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् । यत्कारणाद् गुणानां दोषीकरणं भवेद्विवादकृतम् ॥ १२१॥ दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् । परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र ॥ १२२॥ अन्योन्यार्थविशेषकमधिबलमिति तद् बुधैर्ज्ञेयम् । अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम् ॥ १२३॥ श्रुतिसारूप्याद्यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते । यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् ॥ १२४॥ प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः । संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम् ॥ १२५॥ बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः । इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः । पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये ॥ १२६॥ इति भरतीये नाट्यशास्त्रे दशरूपनिरूपणं नामाष्टादशोऽध्यायः ।