अक्षर आकार:

नाट्यशास्त्रम् अध्याय १७ काकुस्वरव्यञ्जनः

Natya Shastra Chapter 17

नाट्यशास्त्रम् अध्याय १७ काकुस्वरव्यञ्जनः

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ सप्तदशोऽध्यायः । एवं तु संस्कृतं पाठ्यं मया प्रोक्तं द्विजोत्तमाः । प्राकृतस्यापि पाठ्यस्य सम्प्रवक्ष्यामि लक्षणम् ॥ १॥ एतदेव विपर्यस्तं संस्कारगुणवर्जितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ २॥ त्रिविधं तच्च विज्ञेयं नाट्ययोगे समासतः । समानशब्दं विभ्रष्टं देशीगतमथापि च ॥ ३॥ कमलामलरेणुतरङ्गलोलसलिलादिवाक्यसम्पन्नम् । प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति ॥ ४॥ ये वर्णाः संयोगात् स्वरवर्णान्यत्वं न्यूनतां चापि । गच्छन्ति पदन्यस्तास्ते विभ्रष्टा इति ज्ञेयाः ॥ ५॥ ये वर्णा वर्णगता व्यञ्जनयुक्ताश्च ये स्वरा नियताः । तानपरस्परवृत्ते प्राकृतयुक्त्या प्रवक्ष्यामि ॥ ६॥ यथा - एओआरपराणिअ अं आरपरं अ पाअए णत्थि । बसआरमज्झिमाइ अ कच वग्गतवाणिहणाइं ॥ ७॥ वच्चन्ति कगतदयवा लोपं अत्थं च से वहंति सरा । खधथधभा उण हत्तं उर्वेति अत्थं अ मुंचंता ॥ ८॥ उप्परहुत्तरआरो हेटाहुत्तो अ पाअए णत्थि । मोत्तूण भद्रचोद्रह पद्रह्वदचन्द्रजाई स ॥ ९॥ खधथधभाण हआरो मुहमेहकहावहूपह्वएसु । कगतदयवाण णिच्चं वीयम्मि ठिओ सरो होई ॥ १०॥ छ इति षकारो नित्यं बोद्धव्यः षटपदादियोगेषु । किल शब्दान्त्यो रेफो भवति तथा खु त्ति खलुशब्दः ॥ ११॥ ड इति च भवति टकारो भटकटककुटीतटाद्येषु । सत्वं च भवति शषयोः सर्वत्र तथा हि स स आदेशः ॥ १२॥ अष्टस्पश्च दकारो भवत्यनादौ तकार इतराद्यः । बडवातडागतुल्यो भवति डकारोऽपि च ककारः ॥ १३॥ वर्धनगते च भावे धकारवर्णोऽपि ढत्वमुपयाति । सर्वत्र च प्रयोगे भवति नकारोऽपि च णकारः ॥ १४॥ आपानम् आवानं भवति पकारेन वत्वयुक्तेन । अयथातथादिकेषु तु भकारवर्णो व्रजीत हत्वम् ॥ १५॥ परुषं फरुसं विद्यात्पकारवर्णोऽपि फत्वमुपयाति । यस्तु मृतः सोऽपि मओ यश्च मृगः सोऽपि हि तथैव ॥ १६॥ ओकारत्वं गच्छेदौकारश्चौषधादिषु नियुक्तः । प्रचलाचिराचलादिषु भवति चकारोऽपि तु यकारः ॥ १७॥ अपरस्परनिष्पन्ना ह्येवं प्राकृतसमाश्रया वर्णाः । संयुक्तानां तु पुनर्वक्ष्ये परिवृत्तिसंयोगम् ॥ १८॥ श्चप्सत्सध्याः छ इति तथाभ्यह्यध्या भवन्ति तु झकाराः । ष्टः ट्ठः स्तः स्थः ष्मौ म्हः क्ष्णो ह्णः ष्णो ण्हः क्षः खकाररूपोऽपि ॥ १९॥ आश्चर्यं अच्छरियं निश्चयमिच्छन्ति णिच्छयं च यथा । वत्सं वच्छं च यथा अप्सरसं तद्वदच्छरअम् ॥ २०॥ उत्साहो उच्छाहो पथ्यं च पच्छं विज्ञेयम् । तुभ्यं तुज्झं मह्यं मज्झं विन्ध्यश्च भवति विंज्झोत्ति ॥ २१॥ दष्टो वट्ठोत्ति तहा हस्तोऽपि च भवति हत्थोत्ति । ग्रीष्मो गिम्होत्ति तथा श्लक्ष्णं सह्णं सदा तु विज्ञेयम् ॥ २२॥ उष्णं उह्णं यक्षो जक्खो पर्यङ्को भवति पल्लंकु । विपरीतं हमयोगे ब्रह्मादौ स्याद् बृहस्पतौ फत्वम् ॥ २३॥ यज्ञो भवति न जन्नो भीष्मो भिम्होत्ति विज्ञेयः । उपरिगतोऽधस्ताद्वा भवेत्ककारादिकस्तु यो वर्णः ॥ २४॥ स हि संयोगविहीनः शुद्धः कार्यः प्रयोगेऽस्मिन् । एवमेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा ॥ २५॥ अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाविकल्पनम् । भाषा चतुर्विधा ज्ञेया दशरूपे प्रयोगतः ॥ २६॥ संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते । अतिभाषार्यभाषा च जातिभाषा तथैव च ॥ २७॥ तथा योन्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता । अतिभाषा तु देवानामार्यभाषा तु भूभुजाम् ॥ २८॥ संस्कारपाठ्यसंयुक्ता सम्यङ् न्याय्यप्रतिष्ठिता । विविधा जातिभाषा च प्रयोगे समुदाहृता ॥ २९॥ म्लेच्छशब्दोपचारा च भारतं वर्षमाश्रिता । अथ योन्यन्तरी भाषा ग्राम्यारण्यपशूद्भवा ॥ ३०॥ नानाविहङ्गजा चैव नाट्यधर्मी प्रतिष्ठिता ॥ ३१॥ जातिभाषाश्रयं पाठ्यं द्विविधं समुदाहृतम् । प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम् । धीरोद्धते सललिते धीरोदात्ते तथैव च ॥ ३२॥ धीरप्रशान्ते च तथा पाठ्यं योज्यं तु संस्कृतम् । एषामेव तु सर्वेषां नायकानां प्रयोगतः ॥ ३३॥ कारणव्यपदेशेन प्राकृतं सम्प्रयोजयेत् । दारिद्र्याध्ययनाभावयदृच्छादिभिरेव च ॥ ३४॥ ऐश्वर्येण प्रमत्तानां दारिद्र्येण प्लुतात्मनाम् । अनधीतोत्तमानां च संस्कृतं न प्रयोजयेत् ॥ ३५॥ व्याजलिङ्गप्रविष्टानां श्रमणानां तपस्विनाम् । भिक्षुचक्रचराणां च प्राकृतं सम्प्रयोजयेत् ॥ ३६॥ भागवततापसोन्मत्तबालनीचग्रहोपसृष्टेषु । स्त्रीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम् ॥ ३७॥ परिव्राण्मुनिशाक्येषु चोक्षेषु श्रोत्रियेषु च । शिष्टा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् ॥ ३८॥ राज्ञाश्च गणिकायाश्च शिल्पकार्यास्तथैव च । कलावस्थान्तरकृतं योज्यं पाठ्यं तु संस्कृतम् ॥ ३९॥ सन्धिविग्रहसम्बन्धं तथा च प्राप्तवाग्गतिम् । ग्रहनक्षत्रचरितं खगानां रुतमेव च ॥ ४०॥ सर्वमेतत्तु विज्ञेयं काव्यबन्धे शुभाशुभम् ॥ ४१॥ क्रीडार्थं सर्वलोकस्य प्रयोगे च सुखाश्रयम् । कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् ॥ ४२॥ कलोपचारज्ञानार्थं क्रीडार्थं पार्थिवस्य च । निर्दिष्टं शिल्पकार्यास्तु नाटके संस्कृतं वचः ॥ ४३॥ आम्नायसिद्धं सर्वासां शुभमप्सरसां वचः । संसर्गाद्देवतानां च तद्धि लोकोऽनुवर्तते ॥ ४४॥ छन्दतः प्राकृतं पाठ्यं स्मृतमप्सरसां भुवि । मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया ॥ ४५॥ सर्वास्वेह हि शुद्धासु जातिषु द्विजसत्तमाः । शौरसेनीं समाश्रित्य भाषां काव्येषु योजयेत् ॥ ४६॥ अथवा छन्दतः कार्या देशभाषा प्रयोक्तृभिः । नानादेशसमुत्थं हि काव्यं भवति नाटके ॥ ४७॥ मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाह्लीका दक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ ४८॥ शकाराभीरचण्डालशवरद्रमिलोद्रजाः । हीना वनेचराणां च विभाषा नाटके स्मृता ॥ ४९॥ मागधी तु नरेन्द्राणामन्तःपुरसमाश्रया । चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी ॥ ५०॥ प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । नायिकानां सखीनां च शूरसेन्यविरोधिनी ॥ ५१॥ यौधनागरकादीनां दक्षिणात्याथ दीव्यताम् । बाह्लीकभाषोदीच्यानां खसानां च स्वदेशजा ॥ ५२॥ शकारघोषकादीनां तत्स्वभावश्च यो गणः । शकारभाषा योक्तव्या चाण्डाली पुल्कसादिषु ॥ ५३॥ अङ्गारकारकव्याधकाष्ठयन्त्रोपजीविनाम् । योज्या शकारभाषा तु किंचिद्वानौकसी तथा ॥ ५४॥ गजाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् । आभीरोक्तिः शावरी वा द्रामिडी वनचारिषु ॥ ५५॥ सुरङ्गाखनकादीनां सन्धिकाराश्वरक्षताम् । व्यसने नायकानां चाप्यात्मरक्षासु मागधी ॥ ५६॥ न बर्बरकिरातान्ध्रद्रमिलाद्यासु जातिषु । नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम् ॥ ५७॥ गङ्गासागरमध्ये तु ये देशाः सम्प्रकीर्तिताः । एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५८॥ विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः । नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५९॥ सुराष्ट्रावन्तिदेषेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम् ॥ ६०॥ हिमवत्सिन्धुसौवीरान्ये जनाः समुपाश्रिताः । उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ ६१॥ चर्मण्वतीनदीतीरे ये चार्बुदसमाश्रिताः । तकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ ६२॥ एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् । अत्र नोक्तं मया यत्तु लोकाद् ग्राह्यं बुधैस्तु तत् ॥ ६३॥ एवं भाषाविधानं तु मया प्रोक्तं द्विजोत्तमाः । पुनर्वाक्यविधानं तु लौकिकं सन्निबोधत ॥ ६४॥ उत्तमैर्मध्यमैर्नीचैर्ये संभाष्या यथा नराः । समानोत्कृष्टहीनाश्च नाटके तान्निबोधत ॥ ६५॥ देवानामपि ये देवा महात्मानो महर्षयः । भगवन्निति ते वाच्या यास्तेषां योषितस्तथा ॥ ६६॥ देवाश्च लिङ्गिनश्चैव नानाश्रुतधराश्च ये । भगवन्निति ये वाच्याः पुरुषैः स्त्रीभिरेव च ॥ ६७॥ आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम् । उपाध्यायेति चाचार्यं वृद्धं तातेति चैव हि ॥ ६८॥ नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः । तत्क्षाम्यं हि महीपालैर्यस्मात्पूज्या द्विजाः स्मृताः ॥ ६९॥ ब्राह्मणैः सचिवो वाच्यो ह्यमात्यः सचिवेति वा । शेषैरन्यैर्जनैर्वाच्यो हीनैरार्येति नित्यशः ॥ ७०॥ समैः सम्भाषणं कार्यं येन नाम्ना स संज्ञितः । हीनैः सपरिवारं तु नाम्ना सम्भाष्य उत्तमः ॥ ७१॥ नियोगाधिकृताश्चैव पुरुषा योषितस्तथा । कारुकाः शिल्पिनश्चैव सम्भाष्यास्ते तथैव हि ॥ ७२॥ मार्षो भावेति वक्तव्यः किञ्चिदूनस्तु मार्षकः । समानोऽथ वयस्येति हं ह्वो हण्डेति वाधमः ॥ ७३॥ आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा । तपस्वीति प्रशान्तस्तु साधो इति च शब्द्यते ॥ ७४॥ स्वामीति युवराजस्तु कुमारो भर्तृदारकः । सौम्य भद्रमुखेत्येवं हे पूर्वं चाधमं वदेत् ॥ ७५॥ यद्यस्य कर्म शिल्पं वा विद्या वा जातिरेव वा । स तेन नाम्ना भाष्यो हि नाटकादौ प्रयोक्तृभिः ॥ ७६॥ वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः । वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा ॥ ७७॥ सम्भाष्या शाक्यनिर्ग्रन्था भदन्तेति प्रयोक्तृभिः । आमन्त्रणैस्तु पाषण्डाः शेषाः स्वसमयाश्रितैः ॥ ७८॥ देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । भट्टेति सार्वभौमस्तु नित्यं परिजनेन हि ॥ ७९॥ राजन्नित्यृषिभिर्वाच्यो ह्यपत्यप्रत्ययेन वा । वयस्य राजन्निति वा भवेद्वाच्यो महीपतिः ॥ ८०॥ विदूषकेण राज्ञी च चेटी च भवतीत्यपि । नाम्ना वयस्येत्यपि वा राज्ञा वाच्यो विदूषकः ॥ ८१॥ सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने । अन्यदा पुनरार्येति महाराजेति भूपतिः ॥ ८२॥ आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजः । योषिद्भिरथ काम्येति राजपुत्रेति योधनैः ॥ ८३॥ पुरुषाभाषणं ह्येव कार्यं नाट्ये प्रयोक्तृभिः । पुनः स्त्रीणां प्रवक्ष्यामि यथाभाष्यास्तु नाटके ॥ ८४॥ तपस्विन्यो देवताश्च वाच्या भगवतीति च । गुरुभार्या तु वक्तव्या स्थानीया भवतीति च ॥ ८५॥ गम्या भद्रेति वाच्या वै वृद्धाम्बेति च नाटके । राजपत्न्यस्तु सम्भाष्याः सर्वाः परिजनेन वै ॥ ८६॥ भट्टिनी स्वामिनी देवीत्येवं वै नाटके बुधैः । देवीति महिषी वाच्या राज्ञा परिजनेन वा ॥ ८७॥ भोगिन्यः परिशिष्टास्तु स्वामिन्य इति वा पुनः । कुमार्यश्चैव वक्तव्याः प्रेष्याभिर्भर्तृदारिकाः ॥ ८८॥ स्वसेति भगिनी वाच्या वत्सेति च यवीयसी । ब्राह्मण्यार्येति वक्तव्या लिङ्गस्था व्रतिनी च या ॥ ८९॥ पत्नी चार्येति सम्भाष्या पितृनाम्ना सुतस्य सा । समानाभिस्तथा सख्यो हलेति स्यात्परस्परम् ॥ ९०॥ प्रेष्या हज्जेति वक्तव्या स्त्रियो या तूत्तमा भवेत् । अज्जुकेति च वक्तव्या वेश्या परिजनेन च ॥ ९१॥ अत्तेति गणिका माता वाच्या परिजनेन हि । प्रियेति भार्या श‍ृङ्गारे वाच्या राज्ञेतरेण वा ॥ ९२॥ पुरोधः सार्थवाहानां भार्यास्त्वार्येति सर्वदा । तल्लिङ्गार्थानि नामानि कार्याणि कविभिः सदा ॥ ९३॥ औत्पत्तिकानि यानि स्युर्न प्रख्यातानि नाटके । ब्रह्मक्षत्रस्य नामानि गोत्रकर्मानुरूपतः ॥ ९४॥ काव्ये कार्याणि कविभिः शर्मवर्मकृतानि हि । दत्तप्रायाणि नामानि वणिजां सम्प्रयोजयेत् ॥ ९५॥ कापालिकास्तु घण्टान्तनामानः समुदाहृता । शौर्योदात्तानि नामानि तथा शूरेषु योजयेत् ॥ ९६॥ विजयार्थानि नामानि राजस्त्रीणां तु नित्यशः । दत्ता मित्रा सेनेति वेश्यानामानि योजयेत् ॥ ९७॥ नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके । मङ्गलार्थानि नामानि चेटानामपि योजयेत् ॥ ९८॥ गम्भीरार्थानि नामानि ह्युत्तमानां प्रयोजयेत् । यस्मान्नामानुसदृशं कर्म तेषां भविष्यति ॥ ९९॥ जातिचेष्टानुरूपाणि शेषाणामपि कारयेत् । नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः ॥ १००॥ एवं नामविधानं तु कर्तव्यं कविभिः सदा । एवं भाषाविधानं तु ज्ञात्वा कर्माण्यशेषतः ॥ १०१॥ पाठ्यगुणानिदानीं वक्ष्यामः । तद्यथा सप्तस्वराः, त्रीणि स्थानानि, चत्वारो वर्णाः, द्विविधा काकुः, षडलङ्काराः, षडङ्गानीति । एषामिदानीं लक्षणमभिव्याख्यास्यामः । तत्र सप्तस्वरा नाम - षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः त एते रसेषूपपाद्याः ॥ १०२॥ यथा - ततः पाठ्यं प्रयुञ्जीत षडलङ्कारसंयुतम् । हास्यश‍ृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ॥ १०३॥ षड्जर्षभौ तथा चैव वीररौद्राद्भुतेष्वथ । गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ १०४॥ धैवतश्चैव कर्तव्यो बीभत्से सभयानके । त्रीणि स्थानानि - उरः कण्ठः शिर इति । भवत्यपि च शारीर्यामथ वीणायां त्रिभ्यः स्थानिभ्य एव तु । उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥ १०५॥ आभाषणं च दूरस्थे शिरसा सम्प्रयोजयेत् । नातिदूरे च कण्ठेन ह्युरसा चैव पार्श्वतः ॥ १०६॥ उरसोदाहृतं वाक्यं शिरसा दीपयेद् बुधः । कण्ठेन शमनं कुर्यात्पाठ्ययोगेषु सर्वदा ॥ १०७॥ उदात्तश्चानुदात्तश्च स्वरितः कम्पितस्तथा । वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः ॥ १०८॥ तत्र हास्यश‍ृङ्गारयोः स्वरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यं, वीररौद्राद्भुतेषूदात्तकम्पितैः करुणबीभत्सभयानकेष्वनुदात्तस्वरितकम्पितैरिति । द्विविधा काकुः साकांक्षा निराकांक्षा चेति वाक्यस्य साकांक्षनिराकांक्षकत्वात् ॥ १०९॥ अनियुक्तार्थकं वाक्यं साकांक्षमिति संज्ञितम् । नियुक्तार्थं तु यद्वाक्यं निराकांक्षं तदुच्यते ॥ ११०॥ तत्र साकांक्षं नाम तारादिमन्द्रान्तमनियुक्तार्थमनिर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् । निराकांक्षं नाम नियुक्तार्थं निर्यातितवर्णालङ्कारं शिरःस्थानगतं मान्द्रादितारान्तमिति । अथ षडलङ्कारा नाम - उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ । पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत ॥ ११२॥ उच्चो नाम शिरःस्थानगतस्तारस्वरः, स च दूरस्थाभाषणविस्मयोत्तरोत्तरसंजल्पदूराह्वानत्रासनाबाधाद्येषु । दीप्तो नाम शिरःस्थानगतस्तारतरः, स चाक्षेपकलहविवादामर्षक्रुष्टाधर्षणक्रोधशौर्यदर्पती- क्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दितादिषु । मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानिचिन्तौत्सुक्यदैन्यव्याधिक्रीडा- गाढशस्त्रक्षतमूर्छामदगुह्यार्थवचनादिषु । नीचो नाम उरःस्थानगतो मन्द्रतरः, स च स्वभावाभाषणव्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु । द्रुतो नाम कण्ठगतः स च त्वरितः, लल्लनमन्मनभयशीतज्वरत्रासात्यस्तात्ययिककार्यावेदनादिषु । विलम्बितो नाम कण्ठस्थानगतस्तनुमन्द्रः, स च श‍ृङ्गारकरुणवितर्कितविचारामर्षासूयिताव्यक्तार्थप्रवादलज्जा- चिन्तातर्जनविस्मयदोषानुकीर्तनदीर्घरोगनिपीडनादिषु अत्रानुवंश्या श्लोका भवन्ति ॥ ११३-११४॥ उत्तरोत्तरसंजल्पपरुषाक्षेपणेषु च । तीक्ष्णरूक्षाभिनयने आवेगे क्रन्दिते तथा ॥ ११५॥ परोक्षस्य समाह्वाने तर्जने त्रासने तथा । दूरस्थाभाषणे चैव तथा निर्भर्त्सनेषु च ॥ ११६॥ भावेष्वेतेषु नित्यं हि नानारससमाश्रया । उच्चा दीप्ता द्रुता चैव काकुः कार्या प्रयोक्तृभिः ॥ ११७॥ व्याधिते च ज्वरार्ते च भयार्ते शीतविप्लुते । नियमस्थे वितर्के च गाढशस्त्रक्षतेषु च ॥ ११८॥ गुह्यार्थवचने चैव चिन्तायां तपसि स्थिते । मन्द्रा नीचा च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ ११९॥ लल्ले च मन्मने चैव भयार्ते शीतविप्लुते । मन्द्रा द्रुता च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ १२०॥ दृष्टनष्टानुसरणे इष्टानिष्टश्रुते तथा । इष्टार्थख्यापने चैव चिन्ताध्याने तथैव च ॥ १२१॥ उन्मादेऽसूयिते चैव उपालम्भे तथैव हि । अव्यक्तार्थप्रवादे च कथायोगे तथैव च ॥ १२२॥ उत्तरोत्तरसंजल्पे कार्येऽतिशयसंयुते । विकृते व्याधिते क्रोधे दुःखे शोके तथैव च ॥ १२३॥ विस्मयामर्षयोश्चैव प्रहर्षे परिदेविते । विलम्बिता च दीप्ता च काकुर्मन्द्रा च वै भवेत् ॥ १२४॥ लघ्वक्षरप्रायकृते गुर्वक्षरकृते तथा । उच्चा दीप्ता च कर्तव्या काकुस्तत्र प्रयोक्तृभिः ॥ १२५॥ यानि सौम्यार्थयुक्तानि सुखभावकृतानि च । मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते ॥ १२६॥ यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च तेष्वपि । एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः ॥ १२७॥ हास्यश‍ृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता । वीररौद्राद्भुतेषूच्चा दीप्ता वापि प्रशस्यते ॥ १२८॥ भयानके सबीभत्से द्रुता नीचा च कीर्तिता । एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥ १२९॥ अथाङ्गानि षट् - विच्छेदोऽर्पण विसर्गोऽनुबन्धो दीपनं प्रशमनमिति । तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम लीलायमानमधुरवल्गुना स्वरेण पूरयतेव रङ्गं यत्पठ्यते तदर्पणम् । विसर्गो नाम वाक्यन्यासः । अनुबन्धो नाम पदान्तरेष्वपि विच्छेदः, अनुच्छ्वसनं वा । दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं चेति । प्रशमनं नाम तारगतानां स्वराणां प्रशाम्यतामवैस्वर्येणावतारणमिति । एषां च रसगतः प्रयोगः - तत्र हास्यश‍ृङ्गारयोराकांक्षायामर्पणविच्छेददीपनप्रशमनयुक्तं पाठ्यं कार्यम् । दीपनप्रशमनयुक्तं करुणे । विच्छेदप्रशमनदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु विसर्गविच्छेदयुक्तं बीभत्सभयानकयोरिति । सर्वेषामप्येषां मन्द्रमध्यतारकृतः प्रयोगस्त्रिस्थानगतः । तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति । मन्द्रात्तारं न गच्छेत्, ताराद्वा मन्द्रमिति ॥ १३०॥ एषां च द्रुतमध्यविलम्बितास्त्रयो लया रसेषूपपाद्याः । तत्र हास्यश‍ृङ्गारयोर्मध्यलयः, करुणे विलम्बितो, वीररौद्राद्भुतबीभत्सभयानकेषु द्रुत इति । अथ विरामः अर्धसमाप्तो कार्यवशान्न छन्दोवशात् । कस्मात्, दृश्यन्ते ह्येकद्वित्रिचतुरक्षरा विरामाः । यथा - किं ! गच्छ, मा विश सुदुर्जन ! वारितोऽऽसि कार्यं त्वया न मम सर्वजनोपयुक्तम् । सूचासु चाङ्कुरगते च तथोपचारे - ष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये ॥ १३२॥ एवं विरामे प्रयत्नोऽनुष्ठेयः । कस्मात्, विरामो ह्यर्थानुदर्शकः सः । अत्र श्लोकौ - विरामेषु प्रयत्नो हि नित्यं कार्यः प्रयोक्तृभिः । कस्मादभिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः ॥ १३३॥ यत्र व्यग्रावुभौ हस्तौ तत्र दृष्टिसमन्वितः । वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः ॥ १३४॥ प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ । बीभत्से कुत्सितत्वाच्च भवतः कुञ्चितौ करौ ॥ १३५॥ हास्ये चोद्देशमात्रेण करुणे च प्रलम्बितौ । अद्भुते विस्मयात्स्तब्धौ भयाच्चैव भयानके ॥ १३६॥ एवमादिषु चान्येषु प्रविचारेऽपि हस्तयोः । अलङ्कारविरामाभ्यां साध्यते ह्यर्थनिश्चयः ॥ १३७॥ ये विरामाः स्मृता वृत्ते तेष्वलङ्कार इष्यते । समाप्तेऽर्थे पदे वापि तथा प्राणवशेन वा ॥ १३८॥ पदवर्णसमासे च द्रुते बह्वर्थसङ्कटे । कार्यो विरामः पादान्ते तथा प्राणवशेन वा ॥ १३९॥ शेषमर्थवशेनैव विरामं सम्प्रयोजयेत् । अत्र च भावगतानि च कृष्याक्षराणि बोद्धव्यानि, तद्यथा - आकारैकारसंयुक्तमैकारौकारसंयुतम् । व्यञ्जनं यद्भवेद्दीर्घं कृष्यं तत्तु विधीयते ॥ १४०॥ विषादे च वितर्के च प्रश्नेऽथामर्ष एव च । कलाकालप्रमाणेन पाठ्यं कार्यं प्रयोक्तृभिः ॥ १४१॥ शेषाणामर्थयोगेन विरामे विरमेदिह । एकद्वित्रिचतुःपञ्चषट्कलं च विलम्बितम् ॥ १४२॥ विलम्बिते विरामे हि सदा गुर्वक्षरं भवेत् । षण्णां कलानां परतो विलम्बो च विधीयते ॥ १४३॥ अथवा कारणोपेतं प्रयोगं कार्यमेव च । समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः ॥ १४४॥ ये विरामाः स्मृताः पाठ्ये वृत्तपादसमुद्भवाः । उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्तेऽर्थवशानुगाः ॥ १४५॥ नापशब्दं पठेत्तज्ज्ञो भिन्नवृत्तं तथैव हि । विश्रमेन्नाविरामेषु दैन्ये काकुं न दीपयेत् ॥ १४६॥ वर्जितं काव्यदोषैस्तु लक्षणाढ्यं गुणान्वितम् । स्वरालङ्कारसंयुक्तं पठेत्पाठ्यं यथाविधि ॥ १४७॥ अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते स्मृताः । त एव सर्वे कर्तव्या स्त्रीणां पाठ्ये त्वसंस्कृते ॥ १४८॥ एवमेतत्स्वरकृतं कलाताललयान्वितम् । दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः ॥ १४९॥ उक्तं काकुविधानं तु यथावदनुपूर्वशः । अत ऊर्ध्वं प्रवक्ष्यामि दशरूपविकल्पनम् ॥ १५०॥ ॥ इति भरतीये नाट्यशास्त्रे वागभिनये काकुस्वरव्यञ्जनो नाम सप्तदशोऽध्यायः ॥