अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १६

Natya Shastra Chapter 16

नाट्यशास्त्रम् अध्यायः १६

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ षोडशोऽध्यायः विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च । प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादोऽतिशयश्च हेतुः ॥ १॥ सारूप्यमिथ्याध्यवसायसिद्धि पदोच्चयाक्रन्दमनोरथाश्च । आख्यानयाञ्चाप्रतिषेधपृच्छा दृष्टान्तनिर्भासनसंशयाश्च ॥ २॥ आशीः प्रियोक्तिः कपटः क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव । अर्थानुवृत्तिर्ह्युपपत्तियुक्ती कार्योऽनुनीतिः परिदेवनं च ॥ ३॥ षट्त्रिंशदेतानि हि लक्षणानि प्रोक्तानि वै भूषणसंमितानि । काव्येषु भावार्थगतानि तज्ज्ञैः सम्यग् प्रयोज्यानि यथारसं तु ॥ ४॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् । भूषणैरिव विन्यस्तैस्तद् भूषणमिति स्मृतम् ॥ ५॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ ६॥ सिद्धैरर्थैस्समं कृत्वा ह्यसिद्धोऽर्थः प्रसाध्यते । यत्र श्लक्ष्णविचित्रार्था सा शोभेत्यभिधीयते ॥ ७॥ धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः । न यः पर्यवतिष्ठेत सोऽभिमानस्तु संज्ञितः ॥ ८॥ कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः । दोषा न परिकथ्यन्ते तज्ज्ञेयं गुणकीर्तनम् ॥ ९॥ लोके गुणातिरिक्तानां बहूनां यत्र नामभिः । एकोऽभिशब्द्यते यस्तु विज्ञेयं गुणकीर्तनम् ॥ १०॥ उत्साहजननैः स्पष्टैरर्थैरोपम्यसंश्रयैः । प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधैः ॥ ११॥ यत्रैकस्यापि शब्दस्य दर्शनात्सुबहून्यपि । यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् ॥ १२॥ निरुक्तं द्विविधं प्रोक्तं तथ्यं चातथ्यमेव वा । सिद्धिप्रसाधितं तथ्यमतथ्यं चाप्रसाधितम् ॥ १३॥ गुणानुवादो हीनानामुत्तमैरुपमाकृतः । उत्तमार्थविशेषो यः स चाप्यतिशयः स्मृतः ॥ १४॥ बहूनां भाषमाणानामेकस्यार्थविनिर्णयात् । सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः ॥ १५॥ अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन । लक्षणसमानकरणात् सारूप्यं तत्तु निर्देश्यम् ॥ १६॥ अभूतपूर्वैर्यत्रार्थैस्तुल्यस्यार्थस्य निर्णयः । स मिथ्याध्यवसायस्तु प्रोच्यते काव्यलक्षणे ॥ १७॥ बहूनां तु प्रधानानां मध्ये यन्नाम कीर्त्यते । एकार्थसाधनकृतं सा सिद्धिरिति कीर्त्यते ॥ १८॥ गुणैर्बहुभिरेकार्थैः पदैर्यः सम्प्रशस्यते । पदोच्चयं तु तद्विद्यान्नानार्थग्रथनात्मकम् ॥ १९॥ आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः । तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः ॥ २०॥ हृदयस्थस्य भावस्य सुस्पष्टार्थप्रदर्शनम् । अन्यापदेशकथनैर्मनोरथ इति स्मृतः ॥ २१॥ अपृष्टैरथवा पृष्टैर्निर्णयः क्रियते तु यः । आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् ॥ २२॥ आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । यत्तु प्रियं पुनर्वाक्यं सा याञ्चा परिकीर्तिता ॥ २३॥ कार्येषु विपरीतेषु यदि किञ्चित् प्रवर्तते । निवार्यते च कार्यज्ज्ञैः प्रतिषेधः प्रकीर्तितः ॥ २४॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ २५॥ विद्वान् पूर्वोपलब्धौ यत्समत्वमुपपादयेत् । निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ॥ २६॥ अनेकयुक्तिमद्वाक्यमनेकार्थप्रसाधकम् । अनेकवाक्यसंयुक्तं तन्निर्भासनमुच्यते ॥ २७॥ अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते । सोऽनेकत्वाद्विचाराणां संशयः परिकीर्तितः ॥ २८॥ यत्र शास्त्रार्थसम्पन्नां मनोरथसमुद्भवाम् । अप्रार्थनीयामन्यां वा विदुस्तामाशिषं बुधाः ॥ २९॥ आदौ यत् क्रोधजननमन्ते हर्षप्रवर्धनम् । तत् प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ॥ ३०॥ छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकंकपटम् । द्वित्रिप्रयोगयुक्तो विज्ञेयः कपटसङ्घातः ॥ ३१॥ दुर्जनोदाहृतै रूक्षैः सभामध्येऽतिताडितः । अक्रोधः क्रोधजननैर्वाक्यैर्यः सा क्षमा भवेत् ॥ ३२॥ दृष्ट्वैवावयवं कञ्चिद्भावो यत्रानुमीयते । प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् ॥ ३३॥ अकार्यं सहसा कृत्वाऽकृत्वा कार्यमथापि वा । सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः ॥ ३४॥ प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम् । स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ॥ ३५॥ प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः । सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम् ॥ ३६॥ साध्यते योऽर्थसम्बन्धो महद्भिः समवायतः । परस्परानुकूल्येन सा युक्तिः परिकीर्तिता ॥ ३७॥ यत्रापसारयन् दोषं गुणमर्थेन योजयेत् । गुणाभिवादं दोषान् वा कार्यं तल्लक्षणं विदुः ॥ ३८॥ अपूर्वक्रोधजनितमपराधं प्रमृज्य यत् । सेवार्थं मधुरं वाक्यमनुनीतिः प्रकीर्तिता ॥ ३९॥ दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजयेत् । अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत् परिदेवनम् ॥ ४०॥ उपमा रूपकं चैव दीपकं यमकं तथा । अलङ्कारास्तु विज्ञेया चत्वारो नाटकाश्रयाः ॥ ४१॥ यत्किञ्चित् काव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ ४२॥ एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः । अनेकस्य तथैकेन बहूनां बहुभिस्तथा ॥ ४३॥ तुल्यं ते शशिना वक्त्रमित्येकेनैकसंश्रया । शशाङ्कवत् प्रकाशन्ते ज्योतींषीति भवेत्तु या ॥ ४४॥ एकस्यानेकविषया सोपमा परिकीर्तिता । श्येनबर्हिणभासानां तुल्यार्थमिति या भवेत् ॥ ४५॥ एकस्य बहुभिः साम्यादुपमा नाटकाश्रया । बहूनां बहुभिर्ज्ञेया घना इव गजा इति ॥ ४६॥ प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा । या किञ्चित्सदृशी ज्ञेया सोपमा पञ्चधा बुधैः ॥ ४७॥ प्रशंसा यथा - दृष्ट्वा तु तां विशालाक्षीं तुतोष मनुजाधिपः । मुनिभिः साधितां कृच्छ्रात् सिद्धिं मूर्तिमतीमिव ॥ ४८॥ निन्दा यथा - सा तं सर्वगुणैर्हीनं सस्वजे कर्कशच्छविम् । वने कण्टकिनं वल्ली दावदग्धमिव द्रुमम् ॥ ४९॥ कल्पिता यथा - क्षरन्तो दानसलिलं लालामन्थरगामिनः । मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः ॥ ५०॥ सदृशी यथा - यत्त्वयाद्य कृतं कर्म परिचित्तानुरोधिना । सदृशं तत्तवैव स्यादतिमानुषकर्मणः ॥ ५१॥ किञ्चित्सदृशी यथा - सम्पूर्णचन्द्रवदना नीलोत्पलदलेक्षणा । मत्तमातङ्गगमना सम्प्राप्तेयं सखी मम ॥ ५२॥ उपमाया बुधैरेते भेदा ज्ञेयाः समासतः । शेषा ये लक्षणैर्नोक्तास्ते ग्राह्याः काव्यलोकतः ॥ ५३॥ नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम् । एकवाक्येन संयुक्तं तद्दीपकमुच्यते ॥ ५४॥ प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कृतम् । काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम् ॥ ५५॥ यथा - सरांसि हंसैः कुसुमैश्च वृक्षा मत्तैर्द्विरेफैश्च सरोरुहाणि । गोष्ठीभिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते ॥ ५६॥ स्वविकल्पेन रचितं तुल्यावयवलक्षणम् । किञ्चित्सादृश्यसम्पन्नं यद्रूपं रूपकं तु तत् ॥ ५७॥ नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् । रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥ ५८॥ यथा - पद्माननास्ताः कुमुदप्रहासा विकासिनीलोत्पलचारुनेत्राः । वापीस्त्रियो हंसकुलैर्नः स्वनद्भिर्विरेजुरन्योन्यमिवाह्वयन्त्यः ॥ ५९॥ शब्दाभ्यासस्तु यमकं पदादिषु विकल्पितम् । विशेषदर्शनञ्चास्य गदतो मे निबोधत ॥ ६०॥ पादान्तयमकं चैव काञ्चीयमकमेव च । समुद्गयमकं चैव विक्रान्तयमकं तथा ॥ ६१॥ यमकं चक्रवालं च सन्दष्टयमकं तथा । पदादियमकञ्चैव ह्याम्रेडितमथापि च ॥ ६२॥ चतुर्व्यवसितञ्चैव मालायमकमेव च । एतादृशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥ ६३॥ चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम् । तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ॥ ६४॥ दिनक्षयात् संहृतरश्मिमण्डलं दिवीव लग्नं तपनीयमण्डलम् । विभाति ताम्रं दिवि सूर्यमण्डलं यथा तरुण्याः स्तनभारमण्डलम् ॥ ६५॥ लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः । जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ॥ ६६॥ पादस्यान्ते तथा चादौ स्यातां यत्र समे पदे । तत्काञ्चीयमकं चैव विज्ञेयं सूरिभिर्यथा ॥ ६७॥ यामं यामं चन्द्रवतीनां द्रवतीनां व्यक्ताव्यक्ता सारजनीनां रजनीनाम् । फुल्ले फुल्ले सम्भ्रमरे वाभ्रमरे वा रामा रामा विस्मयते च स्मयते च ॥ ६८॥ अर्धेनैकेन यद्वृत्तं सर्वमेव समाप्यते । समुद्गयमकं नाम तज्ज्ञेयं पण्डितैर्यथा ॥ ६९॥ केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती । केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती ॥ ७०॥ एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशौ यदि । विक्रान्तयमकं नाम तद्विज्ञेयमिदं यथा ॥ ७१॥ स पूर्वं वारणो भूत्वा द्विश‍ृङ्ग इव पर्वतः । अभवद्दन्तवैकल्याद्विश‍ृङ्ग इव पर्वतः ॥ ७२॥ पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः । चक्रवच्चक्रवालं तु विज्ञेयं नामतो यथा ॥ ७३॥ तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः । सर्वत्र चक्रवालन्तु तद्विज्ञेयं बुधैर्यथा ॥ ७४॥ शैला यथा शत्रुभिराहता हता हताश्च भूयस्त्वनुपुङ्खपुङ्खगैः । खगैश्च सर्वैर्युधि सञ्चिताश्चिता- श्चिताधिरूढा निहितास्तलैस्तलैः ॥ ७५॥ आदौ द्वौ यत्र पादौ तु भवेतामक्षरे समौ । सन्दष्टयमकं नाम विज्ञेयं तद्बुधैर्यथा ॥ ७६॥ पश्य पश्य रमणस्य मे गुणान् येन येन वशगां करोति माम् । येन येन हि समेति दर्शनं तेन तेन वशगां करोति माम् ॥ ७७॥ आदौ पादस्य तु यत्र स्यात् समावेशः समाक्षरः । पादादियमकं नाम तद्विज्ञेयं बुधैर्यथा ॥ ७८॥ विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः । विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम् ॥ ७९॥ पादस्यान्तं पदं यत्र द्विर्द्विरेकमिहोच्यते । ज्ञेयमाम्रेडितं नाम यमकं तत्र सूरिभिः ॥ ८०॥ विजृम्भितं निःश्वसितं मुहुर्मुहुः कथं विधेयं स्मरणं पदे पदे । यथा च ते ध्यानमिदं पुनः पुन- र्धुवंगता ते रजनी विना विना ॥ ८१॥ सर्वे पादाः समा यत्र भवन्ति नियताक्षराः । चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा ॥ ८२॥ वारणानामयमेव कालो वारणानामयमेव कालः । वारणानामयमेव कालो वारणानामयमेव कालः ॥ ८३॥ नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् । तन्मालायमकं नाम विज्ञेयं पण्डितैर्यथा ॥ ८४॥ लली बली हली माली खेली माली सली जली । खलो बलोऽबलो माली मुसली त्वाभिरक्षतु ॥ ८५॥ असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं मनोगतम् । रतेन रात्रिं रमयेत् परेण वा न चेदुदेष्यत्तरुणः परो रिपुः ॥ ८६॥ न पुष्कराक्षः क्षतजोक्षिताक्षः क्षरत्क्षतेव्यः क्षतजंदुरीक्षः । क्षतैर्गवाक्षैरिव संवृताज्ञः साक्षात् सहस्राक्ष इवावभाति ॥ ८७॥ एभिरर्थक्रियापेक्षैः कार्यं काव्यं तु लक्षणैः । अतः परं प्रवक्ष्यामि काव्ये दोषान् गुणांस्तथा ॥ ८८॥ गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् । न्यायावपेतं विषमं विसन्धि शब्दच्युतं वै दश काव्यदोषाः ॥ ८९॥ पर्यायशब्दाभिहतं गूढार्थमभिसंज्ञितम् । अवर्ण्यं वर्ण्यते यत्र तदर्थान्तरमिष्यते ॥ ९०॥ अर्थहीनं त्वसम्बद्धं सावशेषार्थमेव च । भिन्नार्थमभिविज्ञेयमसभ्यं ग्राम्यमेव च ॥ ९१॥ विवक्षितोऽन्य एवार्थो यत्रान्यार्थेन भिद्यते । भिन्नार्थं तदपि प्राहुः काव्यं काव्यविचक्षणाः ॥ ९२॥ अविशेषाभिधानं यत् तदेकार्थमिति स्मृतम् । अभिप्लुतार्थं विज्ञेयं यत् पदेन समस्यते ॥ ९३॥ न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम् । वृत्तभेदो भवेद्यत्र विषमं नाम तद्भवेत् ॥ ९४॥ अनुपशिष्टशब्दं यत् तद्विसन्धीति कीर्तितम् । शब्दच्युतञ्च विज्ञेयमशब्दस्वरयोजनात् ॥ ९५॥ एते दोषास्तु विज्ञेयाः सूरिभिर्नाटकाश्रयाः । गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः ॥ ९६॥ श्लेषः प्रसादः समतासमाधिर्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते ॥ ९७॥ ईप्सितेनार्थजातेन सम्बद्धानां परस्परम् । श्लिष्टता या पदानां हि श्लेष इत्यभिधीयते ॥ ९८॥ विचारगहनं यत्स्यात् स्फुटञ्चैव स्वभावतः । स्वतः सुप्रतिबद्धञ्च श्लिष्टं तत् परिकीर्त्यते ॥ ९९॥ अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते । सुखशब्दार्थसंयोगात् प्रसादः परिकीर्त्यते ॥ १००॥ नातिचूर्णपदैर्युक्ता न च व्यर्थाभिदायिभिः । दुर्बोधनैश्च न कृता समत्वात् समता मता ॥ १०१॥ अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः । अलङ्कारा गुणाश्चैव समाः स्युः समतां मताः ॥ १०२॥ अभियुक्तैर्विशेषस्तु योऽर्थस्येहोपलक्ष्यते । तेन चार्थेन सम्पन्नः समाधिः परिकीर्त्यते ॥ १०३॥ उपमास्विह दृष्टानामर्थानां यत्नतस्तथा । प्राप्तानां चातिसंक्षेपात् समाधिर्निर्णयो यतः ॥ १०४॥ बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः । नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥ १०५॥ समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सानुस्वारैरुदारैश्च तदोजः परिकीर्त्यते ॥ १०६॥ अवगीतोऽपि हीनोऽपि स्यादुदात्तावभासकः । यत्र शब्दार्थसम्पत्तिस्तदोजः परिकीर्तितम् ॥ १०७॥ सुखप्रयोज्यैर्यच्छब्दैर्युक्तं सुश्लिष्टसन्धिभिः । सुकुमारार्थसंयुक्तं सौकुमार्यं तदुच्यते ॥ १०८॥ सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रतीयते ॥ १०९॥ यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते । अनन्तरं प्रयोगस्तु साऽर्थव्यक्तिरुदाहृता ॥ ११०॥ दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारत्वं प्रकीर्तितम् ॥ १११॥ अनेकार्थविशेषैर्यत् सूक्तैः सौष्ठवसंयुतैः । उपेतमतिचित्रार्थैः उदात्तं तच्च कीर्त्यते ॥ ११२॥ यन्मनश्श्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः ॥ ११३॥ यो मनश्श्रोत्रविषयः प्रसादजनको भवेत् । शब्दबन्धः प्रयोगेण स कान्त इति भण्यते ॥ ११४॥ एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः । प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ॥ ११५॥ लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् । काव्यं कार्यं तु नाट्यज्ञैः वीररौद्राद्भुताश्रयम् ॥ ११६॥ गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा । कदाचिद्रौद्रवीराभ्यां यदाघर्षणजं भवेत् ॥ ११७॥ रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् । श‍ृङ्गारे च रसे वीरे काव्यं स्यान्नाटकाश्रयम् ॥ ११८॥ उत्तरोत्तरसंयुक्तं वीरे काव्यं तु यद्भवेत् । जगत्यतिजगत्यां वा संकृत्यां वापि तद्भवेत् ॥ ११९॥ तथैव युद्धसम्फेटा उत्कृत्यां सम्प्रकीर्तितौ । करुणे शक्वरी ज्ञेया तथैवातिधृतिर्भवेत् ॥ १२०॥ यद्वीरे कीर्तितं च्छन्दः तद्रौद्रेऽपि प्रयोजयेत् । शेषाणामर्थयोगेन च्छन्दः कार्यः प्रयोक्तृभिः ॥ १२१॥ यच्छन्दः पूर्वमुद्दिष्टं विषमार्धसमे समम् । उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् ॥ १२२॥ शब्दानुदारमधुरान् प्रमदाभिधेयान् नाट्याश्रयेषु कृतिषु प्रययेत कर्तुम् । तैर्भूषिता बहु विभान्ति हि काव्यबन्धाः पद्माकरा विकसिता इव राजहंसैः ॥ १२३॥ त्रिविधं ह्यक्षरं कार्यं कविभिर्नाटकाश्रयम् । ह्रस्वं दीर्घं प्लुतञ्चैव रसभावविभावकम् ॥ १२४॥ एकमात्रं भवेद् ह्रस्वं द्विमात्रं दीर्घमिष्यते । प्लुतं चैव त्रिमात्रं स्यादक्षरं स्वरयोजनात् ॥ १२५॥ स्मृते चासूयिते चैव तथा च परिदेविते । पठतां ब्राह्मणानाञ्च प्लुतमक्षरमिष्यते ॥ १२६॥ अकारस्तु स्मृते कार्यं ऊकारश्चाप्यसूयिते । परिदेविते तु हाकार ॐकारोऽध्ययने तथा ॥ १२७॥ ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् । काव्ययोगेषु सर्वेषु ह्यक्षराणि प्रयोजयेत् ॥ १२८॥ चेक्रीडितप्रभृतिभिर्विकृतैस्तु शब्दैः युक्ता न भान्ति ललिता भरतप्रयोगाः । यज्ञक्रियेव रुरुचर्मधुरैः कृताक्तैः वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥ १२९॥ मृदुललितपदार्थं गूढशब्दार्थहीनं बुधजनसुखभोग्यं युक्तिमन्नृत्तयोग्यम् । बहुरसकृतमार्गं सन्धिसन्धानयुक्तं भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ १३०॥ अनुबन्धः भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा । हेतुसंशयदृष्टान्ताः प्राप्ताभिप्राय एव च ॥ १३१॥ निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् । गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः ॥ १३२॥ दृष्टं चैवोपदिष्टं च विचारस्तद्विपर्ययः । भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा ॥ १३३॥ अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च । मनोरथश्च लेशश्च क्षोभोऽथ गुणकीर्तनम् ॥ १३४॥ ज्ञेयान्यनुक्तसिद्धिश्च प्रियं वचनमेव च । षट्त्रिंशल्लक्षणान्येव काव्यबन्धेषु निर्दिशेत् ॥ १३५॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलंकृतम् । भूषणैरिव चित्रार्थैस्तद् भूषणमिति स्मृतम् ॥ १३६॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ १३७॥ सिद्धैरर्थैः समं कृत्वा ह्यसिद्धोऽर्थः प्रयुज्यते । यत्र श्लिष्टा विचित्रार्था सा शोभेत्यभिधीयते ॥ १३८॥ यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् । साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ १३९॥ यत् प्रयोजनसामर्थ्यात् वाक्यमिष्टार्थसाधकम् । समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ १४०॥ अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते । अनेकत्वाद्विचाराणां स संशय इति स्मृतः ॥ १४१॥ सर्वलोकमनोग्राहि यस्तु पक्षार्थसाधकः । हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः ॥ १४२॥ दृष्ट्वैवावयवान् कांश्चिद् भावो यत्रानुमीयते । प्राप्तिं तामपि जानीयाल्लक्षणं नाटकाश्रयम् ॥ १४३॥ अभूतपूर्वो योऽप्यर्थः सादृश्यात्परिकल्पितः । लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः ॥ १४४॥ यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परापेक्षाद्युदासार्थं तन्निदर्शनमुच्यते ॥ १४५॥ निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये । यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥ १४६॥ बहूनां च प्रधानानां नाम यत्राभिकीर्त्यते । अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते ॥ १४७॥ सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ १४८॥ गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः । गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेदथ ॥ १४९॥ बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् । विशेषः कीर्त्यते यस्तु ज्ञेयः सोऽतिशयो बुधैः ॥ १५०॥ रूपकैरुपसाभिर्वा तुल्यार्थैः सुप्रयोजितैः । अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥ १५१॥ बहूनां च प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ १५२॥ यथादेशं यथाकालं यथारूपं च वर्ण्यते । यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतोऽपि वा ॥ १५३॥ परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ १५४॥ पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः । अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ॥ १५५॥ विचारस्यान्यथाभावस्तथा दृष्टोपदिष्टयोः । सन्देहात्कल्प्यते यस्तु स विज्ञेयो विपर्ययः ॥ १५६॥ वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा । अन्यस्मिन्नेव पतनादिह भ्रंशः स इष्यते ॥ १५७॥ उभयोः प्रीतिजननो विरुद्धाभिनिविष्टयोः । अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधैः ॥ १५८॥ ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यते यत्र सूरिभिः । प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ १५९॥ हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम् । क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमिति स्मृतम् ॥ १६०॥ यत्र संकीर्तयन् दोषं गुणमर्थेन दर्शयेत् । गुणातिपाताद् दोषाद्वा गर्हणं नाम तद्भवेत् ॥ १६१॥ अर्थान्तरस्य कथने यत्रान्योऽर्थः प्रतीयते । वाक्यमाधुर्यसम्पन्ना सार्थापत्तिरुदाहृता ॥ १६२॥ वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः । लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ॥ १६३॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छ्यते चाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ १६४॥ दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् । सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ॥ १६५॥ हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम् । अन्यापदेशैः कथनं मनोरथ इति स्मृतः ॥ १६६॥ यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते । सदृशार्थाभिनिष्पत्त्याः स लेश इति कीर्तितः ॥ १६७॥ परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते । अदृष्टोऽप्यन्योऽपि वा कश्चित् स तु क्षोभ इति स्मृतः ॥ १६८॥ लोके गुणातिरिक्तानां गुणानां यत्र नामभिः । एकोऽपि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ १६९॥ प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥ १७०॥ यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वचः । हृष्टप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता ॥ १७१॥ एतानि काव्यस्य च लक्षणानि षट्त्रिंशदुद्देशनिदर्शनानि । प्रबन्धशोभाकरणानि तज्ज्ञैः सम्यक् प्रयोज्यानि रसायनानि ॥ १७२॥ इति भरतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशोऽध्यायः ।