अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १५

Natya Shastra Chapter 15

नाट्यशास्त्रम् अध्यायः १५

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ पञ्चदशोऽध्यायः छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तानि तेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १॥ आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेत् । सा स्यात्तनुमध्या गायत्रसमुत्था ॥ २॥ यथा - संत्यक्तविभूषा भ्रष्टाञ्जननेत्रा । हस्तार्पितगण्डा किं ? त्वं तनुमध्या ॥ ३॥ लघुगण आदौ भवति चतुष्कः । गुरुयुगमन्त्ये मकरकशीर्षा ॥ ४॥ यथा - स्वयमुपयान्तं भजसि न कान्तम् । भयकरि किं ? त्वं मकरकशीर्षा ॥ ५॥ एकमात्रं षट्के स्याद् द्वितीयं पादे । ख्यातरूपा वृत्ते सा मालिनी नाम्ना ॥ ६॥ षडक्षरकृते पादे लघु यत्र द्वितीयकम् । शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ ७॥ स्नानगन्धाधिक्यैर्वस्त्रभूषायोगैः । व्यक्तमेवासौ त्वं मालिनी प्रख्याता ॥ ८॥ द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् । शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ ९॥ शोभते बद्धया षट्पदाविद्धया । मालतीमालया मानिनी लीलया ॥ १०॥ द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु । यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ ११॥ सौ त्रिकौ यदि पादे ह्यन्तिमश्च गकारः । उष्णिगुत्थितपादा उद्धता खलु नाम्ना ॥ १२॥ दन्तकृन्तकृतास्त्रं व्याकुलालकशोभम् । शंसतीव तवास्यं निर्दयं रतयुद्धम् ॥ १३॥ आदौ द्वे निधने चैव गुरुणी यत्र वै सदा । पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ १४॥ पादे पादे निविष्टौ सम्यग्विरचितौ त्सौ । अन्त्ये यदि गकारः सा तु भ्रमरमाला ॥ १५॥ यथा - नानाकुसुमचित्रे प्राप्ते सुरभिमासे । एषा भ्रमति मत्ता कान्ते भ्रमरमाला ॥ १६॥ आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा । गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा ॥ १७॥ जातु यस्य गौ न , पादे संस्थितः समस्वरूपे । तामनुष्टुबाश्रयस्थां वावदन्ति सिंहलेखाम् ॥ १८॥ यत्त्वया ह्यनेकभावैश्चेष्टितं रहः सुगात्रि । तन्मनो मम प्रविष्टं वृत्तमद्य सिंहलेखम् ॥ १९॥ चतुर्थं च द्वितीयं च षष्ठमष्टममेव च । गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ २०॥ यदा तु जात्परौ रलौ गकार एव च स्थितः । अनुष्टुबुद्भवं तदा वदन्ति मत्तचेष्टितम् ॥ २१॥ यथा - चरावघूर्णितेक्षणं विलम्बिताकुलालकम् । असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ २२॥ अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । गुरूणि यस्मिन्सा नाम्ना विद्युन्मालेति कीर्तिता ॥ २३॥ मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च । सा चानुष्टुप्छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥ २४॥ साम्भोभारैरानानद्भिः श्यामाम्भोदैर्व्याप्ते व्योम्नि । आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ २५॥ पञ्चमं सप्तमं चान्त्यं गुरु पादेऽष्टके तथा । छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ॥ २६॥ स्मितवशविप्रकाशैर्दशनपदैरमीभिः । वरतनु पूर्णचन्द्रं तव मुखमावृणोति ॥ २७॥ नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च । गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ २८॥ षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् । बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ २९॥ कुसुमितमभिपश्यन्ती विविधतरुगणैश्छन्नम् । वनमतिशयगन्धाढ्यं भ्रमति मधुकरी हृष्टा ॥ ३०॥ दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने । यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका ॥ ३१॥ त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये । पङ्क्तावन्तगतमकारः स्याद्विज्ञेया कुवलयमालाख्या ॥ ३२॥ यथा - अस्मिंस्ते शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये । शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ ३३॥ द्वितीयं च चतुर्थं च षष्टमष्टममेव च । ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ ३४॥ जौ त्रिकौ हि पादगौ तु यस्य गौ च संश्रितौ तथा समौ स्तौ । पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥ ३५॥ यथा - नैव तेऽस्ति संगमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् । गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम् ॥ ३६॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा । गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ ३७॥ भौ तु भगाविति यस्य गणाः स्युः स्याच्च यतिस्त्रिचतुर्भिरथाऽस्मिन् । त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥ ३८॥ यथा - प्रस्खलिताप्रपदप्रविचायं मत्तविघूर्णितगात्रविलासम् । पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयं प्रकरोति ॥ ३९॥ आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा । गुरुण्येकादशे पादे यत्र तन्मोटकं यथा ॥ ४०॥ एषोऽम्बुदतुल्यनिस्वनरवः क्षीवः स्खलमानविलम्बगतिः । श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रतिमोटयति द्विरदः ॥ ४१॥ नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु । सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा ॥ ४३॥ एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा । उपेन्द्रवज्रा विज्ञेया लघ्वादाविह केवलम् ॥ ४४॥ प्रिये श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावैः । अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ ४५॥ आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा । गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ ४६॥ किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम् । यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ ४७॥ यथा - किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् । यद् गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता ॥ ४८॥ आद्यं तृतीयमन्त्यं च सप्तमं दशमं गुरु । यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ ४९॥ यथा - अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् । आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥ ५०॥ षष्ठं च नवमं चैव लघुनी त्रैष्टुभे यदि । गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ ५१॥ दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीषि । तस्माच्छीलं साधुहेतोः सुवृत्तं माधुर्यात्स्यात्सर्वथा शालिनी त्वम् ॥ ५२॥ तृतीयं चैव षष्ठं च नवमं द्वादशं तथा । गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ ५३॥ यदि सोऽत्र भवेत्तु समुद्रसमस्त्रिषु चापि तथा नियमेन यतिः । सततं जगतीविहितं हि ततं गदितं खलु तोटकवृत्तमिदम् ॥ ५४॥ यथा - किमिदं कपटाश्रयदुर्विषहं बहुशाठ्यमथोल्बणरूक्षकथम् । स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥ ५५॥ आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च । तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ ५६॥ यौ त्रिकौ तथा न्यौ यदि खलु पादे षड्भिरेव वर्णैर्यदि च यतिः स्यात् । नित्यसंनिविष्टा जगतिविधाने नामतः प्रसिद्धा कुमुदनिभा सा ॥ ५७॥ यथा - मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा प्रविकसिताक्षी । निन्द्यमद्य किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च ॥ ५८॥ मतान्तरे - यदि खलु पादे न्यौ त्रिकौ यथा यौ यतिरपि वर्णैः षड्भिरेव चेत्स्यात् । जगतिविधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ ५९॥ यथा - कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा । मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ ६०॥ द्वादशाक्षरके पादे सप्तमं दशमं लघु । आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ ६१॥ वक्त्रं सौम्यं ते पद्मपत्रायताक्षम् कामस्यावासं सुनासोच्चप्रहासम् । कामस्यापीदं काममाहर्तुकामं कान्ते कान्त्या त्वं चन्द्रलेखेव भासि ॥ ६२॥ तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु । द्वादशाक्षरके पादे यत्र सा प्रमिताक्षरा ॥ ६३॥ यथा - स्मितभाषिणी ह्यचपलापरुषा निभृतापवादविमुखी सततम् । अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि पुमाञ्जयति ॥ ६४॥ द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे । गुरूणि द्वादशे पादे वंशस्था जगती तु सा ॥ ६५॥ यदि त्रिकौ ज्तौ भवतस्तु पादतस्तथैव च ज्राववसानसंस्थितौ । तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥ ६६॥ न मे प्रिया त्वं बहुमानवर्जितां प्रियं प्रिया ते परुषाभिभाषिणी । तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगतिं करिष्यति ॥ ६७॥ चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता ॥ ६८॥ परुषवाक्यकशाभिहिता त्वया भयविलोकनपार्श्वनिरीक्षणा । वरतनुः प्रततप्लुतसर्पणैरनुकरोति गतैर्हरिणप्लुतम् ॥ ६९॥ सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु । द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ ७०॥ करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च । गतिरपि चरणावलग्नमन्दा त्वमसि मृगनिभाक्षि कामदत्ता ॥ ७१॥ आद्यं चतुर्थं दशमं सप्तमं च यदा लघु । पादे तु जागते यस्या अप्रमेया तु सा यथा ॥ ७२॥ न ते काचिदन्या समा दृश्यते स्त्री नृलोके विशिष्टा गुणैरद्वितीयैः । त्रिलोक्यां गुणज्ज्ञान् समाहृत्य सर्वान् जगत्यप्रमेयासि सृष्टा विधात्रा ॥ ७३॥ द्वितीयं पञ्चमं चैव ह्यष्टमेकादशे यथा । पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ ७४॥ रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः । सन्निविष्टा जगत्यास्ततस्सा बुधैर् नामतश्चापि संकीर्त्यते पद्मिनी ॥ ७५॥ देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसस्मिता । केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ॥ ७६॥ फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी । पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ॥ ७७॥ आदौ षट् दशमं चैव पादे यत्र लघून्यथ । शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता ॥ ७८॥ यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः । भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस्तु ॥ ७९॥ उपवनसलिलानां बालपद्मैर्भ्रमरपरभृतानां कण्ठनादैः । मदनमदविलासैः कामिनीनां कथयति पुटवृत्तं पुष्पमासः ॥ ८०॥ द्वितीयान्त्ये चतुर्थं च नवमैकादशे गुरु । विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती ॥ ८१॥ कथं न्विदं कमलविशाललोचने गृहं धनैः पिहितकरे दिवाकरे । अचिन्तयन्त्यभिनववर्षविद्युतस्त्वमागता सुतनु यथा प्रभावती ॥ ८२॥ त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् । गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ ८३॥ भावस्थैर्मधुरकथैः सुभाषितैस्त्वं साटोपस्खलितविलम्बितैर्गतैश्च । शोभाढ्यैर्हरसि मनांसि कामुकानां सुव्यक्तं ह्यतिजगती प्रहर्षिणी च ॥ ८४॥ षष्ठं च सप्तमं चैव दशमैकादशे लघु । त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ ८५॥ विद्युन्नद्धाः सेन्द्रधनुरञ्जितदेहा वातोद्धूताः श्वेतवलाकाकृतशोभाः । एते मेघा गर्जितनादोज्ज्वलचिह्नाः प्रावृट्कालं मत्तमयूराः कथयन्ति ॥ ८६॥ आदौ द्वे चतुर्थं चैव चाष्टमैकादशे गुरु । अन्त्योपान्त्ये च शक्वर्या वसन्ततिलका यथा ॥ ८७॥ चित्रैर्वसन्तकुसुमैः कृतकेशहस्ता । स्रग्दाममाल्यरचना सुविभूषिताङ्गी । नानावसन्तकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी ॥ ८८॥ पञ्चादौ शक्वरी पादे गुरूणि त्रीणि नैधने । पञ्चाक्षरादौ च यतिरसंबाधा तु सा यथा ॥ ८९॥ यथा - मानालोकज्ञः सुतबलकुलशीलाढ्यो यस्मिन्सम्मानं न सदृशमनु पश्येद्धि । गच्छेत्तं त्यक्त्वा द्रुतगतिरपरं देशम् कीर्णा नानार्थैरवनिरियमसंबाधा ॥ ९०॥ चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा । अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा ॥ ९१॥ एषा कान्ता व्रजति ललिता वेपमाना गुल्मैश्च्छन्नं वनमभिनवैः सम्प्रविद्धम् । हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं कान्ते शरभललितान्त्वं करोषि ॥ ९२॥ अदौ षट् दशमं चैव लघु चैव त्रयोदशम् । यत्रातिशक्वरे पादे ज्ञेया नान्दीमुखी तु सा ॥ ९३॥ यथा - न खलु तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं दृष्टपूर्वं मयास्यम् । किमिह बहुभिरुक्तैर्या ममेच्छा हृदिस्था त्वमसि मधुरवाक्या देवि नान्दीमुखीव ॥ ९४॥ आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु । षोडशाक्षरके पादे यत्रेभललितं तु तत् ॥ ९५॥ भ्रौ यदि नाश्च नित्यमिह विरचितचरणः गश्च तथा वै भवति निधनमुपगतः । स्यादपि चाष्टिमेव यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ॥ ९६॥ कालतोयधरैः सुधीरधनपटुपटहरवैः सर्जकदम्बनीपकुटजकुसुमसुरभिः । कन्दलसेन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसितम् ॥ ९७॥ आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशः । अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ॥ ९८॥ यदा य्मौ पादस्थौ भवत इह चेत्स्तौ तथा गौ तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् । तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ॥ ९९॥ यथा - नखालीढं गात्रं दशनखचितं चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलितकेशालकान्तम् । गतिः खिन्ना चेयं वदनमपि संभ्रान्तनेत्रम् अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम् ॥ १००॥ आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् । अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च ॥ १०१॥ चतुर्भिस्तस्यैव प्रवरललितस्य त्रिकगणैः यदा लौ गश्चान्ते भवति चरणेऽत्यष्टिगदिते । यदा षड्भिश्च्छेदो भवति यदि मार्गेण विहितः तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ॥ १०२॥ यथा - महानद्या भोगं पुलिनमिव भाति ते जघनं तथास्यं नेत्राढ्यं भ्रमरसहितं पङ्कजमिव । गतिर्मन्दा चेयं सुतनु तव चेष्टा सुललिता स्तनाभ्यां ताभ्यां त्वं शिखरिणि सुपीनासि वनिते ॥ १०३॥ यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे । षोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् ॥ १०४॥ यदि हि चरणे न्सौ स्लौ गः क्रमाद्विनिवेशिताः यदि खलु यतिः षड्भिर्वर्णैर्स्तथा दशभिः पुनः । यदि विहितं स्यादत्यष्टिः प्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ॥ १०५॥ यथा - जलधररवं श्रुत्वा श्रुत्वा मदोच्छ्रयदर्पितो विलिखितमहीश‍ृङ्गाक्षेपैर्वृषैः प्रतिनर्द्य च । स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले ॥ १०६॥ चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशं चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ॥ १०७॥ यदा सप्तदशे पादे शेषाणि च लघून्यथ। भवन्ति यस्मिन्सा ज्ञेया श्रीधरी नामतो यथा ॥ १०८॥ मो भ्नौ च स्युश्चरणरचितास्तौ गुरू च प्रविष्टा श्छेदः शिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः । अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरी नामतस्तु ॥ १०९॥ स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः पुष्पैश्चान्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः । नानारत्नैः कनकखचितैरङ्गसंभोगसंस्थै र्व्यक्तं कान्ते कमलनिलया श्रीधरीवातिभासि ॥ ११०॥ आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु । तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ १११॥ यथा एष गजोऽद्रिमस्तकतटे कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभिरनते । मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ ११२॥ द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा । चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे ॥ ११३॥ भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ । विलम्बितगतिः सा तु विज्ञेया नामतो यथा ॥ ११४॥ यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ तथैव च पुनस्तयोर्निधनमाश्रितौ यौ लगौ । तदष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ॥ ११५॥ यथा - विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा । न मे प्रियमिदं जनस्य बहुमानरागेण य न्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ॥ ११६॥ पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु । चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता ॥ ११७॥ यथा नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थै र्नाना गन्धाढ्यैर्मदनजनकैरङ्गरागैर्विचित्रैः । केशैः स्नानाढ्यैः कुसुमभरितैर्वस्त्ररागैश्च तैस्तैः कान्ते संक्षेपात् किमिह बहुना चित्रलेखेव भासि ॥ ११८॥ अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् । त्रयोदशं द्वादशं च षष्ठमष्टममेव च ॥ ११९॥ त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके । पादे लघूनि शेषाणि शार्दूलक्रीडितं तु तत् ॥ १२०॥ म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेया परा सप्तभिः । नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूलविक्रीडितम् ॥ १२१॥ यथा - नानाशस्त्रशतघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः निर्भिन्नोदरपादबाहुवदना निर्णाशिताः शत्रवः । धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणैः वृत्तं ते रिपुघाति भाति समरे शार्दूलविक्रीडितम् ॥ १२२॥ तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गापहम् । यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः शार्दूलविक्रीडितम् ॥ १२३॥ चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् । तथा पञ्चदशं चैव षिडशं नैधनं तथा ॥ १२४॥ एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ । पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ १२५॥ म्रौ म्नौ य्भौ ल्गौ च सम्यग्यदि च विरचिताः पादे क्रमवशात् विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता । यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ॥ १२६॥ यथा - नेत्रे लीलालसान्ते कमलदलनिभे भ्रूचापविनते रक्तोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः । कर्णावंसप्रलम्बौ चिबुकमपि नतं घोणा सुरुचिरा व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका सुवदना ॥ १२७॥ चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् । अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ॥ १२८॥ अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा । एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ १२९॥ म्रौ म्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् । वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ॥ १३०॥ यथा - चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्वकुलकुवलयैः किंशुकैः सातिमुक्तैः । एतैर्नानाप्रकारैः बहुलसुरभिभिर्विप्रकीर्णैश्च तैस्तैः वासन्तैः पुष्पवृन्दैर्नरवर वसुधा स्रग्धरेवाद्य भाति ॥ १३१॥ चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा । षोडशाष्टादशे चैव नैधनं च गुरूण्यथ ॥ १३२॥ द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ । भवन्ति यत्र तज्ज्ञेयं भद्रकं नामतो यथा ॥ १३३॥ भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथातिकृतिविधौ न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः । तच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं भद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ॥ १३४॥ उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं बहुविधम् । भद्रकमेतदद्य सुभगे विदग्धगतिचेष्टितैः सुललितैः नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ १३५॥ अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् । एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ॥ १३६॥ शेषाणि च लघूनि स्युर्विकृत्याश्चरणे बुधैः । वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ १३७॥ यदि च नकार आदिरचितः पदे विरचितोऽन्त एव लगौ यदि च नभौ त्रिधा च निहितौ क्रमेण खलु मध्यावपि तथा । यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितैः तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ॥ १३८॥ विविधतुरङ्गनागरथयोधसङ्कुलमलं बलं समुदितं शरशतशक्तिकुन्तपरिधासियष्टिविततं बहुप्रहरणम् । रिपुशतमुक्तशस्त्ररवभीतशङ्कितभटं भयाकुलदिशं कृतमभिवीक्ष्य संयुगमुखे समर्पितगुणं त्वयाश्वललितम् ॥ १३९॥ षडादावष्टमं चैव ह्येकादशचतुर्दशे । विंशं सप्तदशं चैव त्रयोविंशं तथैव च ॥ १४०॥ एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च । चतुर्विंशतिके पादे मेघमालेति सा यथा ॥ १४१॥ यदि खलु चरणस्थितौ नौ त्रिकौ कृतिकारव्यास्तथा राः स्युः क्रमात् । भवति यदि यतिस्तथा सप्तभिः सप्तभि स्त्रिष्वतोऽन्या यतिः पञ्च विद्यात्तथा ॥ १४२॥ पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला क्षितिधरसदृशोच्चरूपा महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा । सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या तडिद्द्योतसन्नाहपट्टीज्वला गगनतलविसारिणी प्रावृषण्या दृढं मेघमालाधिकं शोभते ॥ १४३॥ आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च । नवमं दशमं चैव नैधनं च भवेद्गुरु ॥ १४४॥ लघून्यन्यानि शेषाणि पादे स्युः पञ्चविंशके । वृत्तज्ज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः ॥ १४५॥ भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् । पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ॥ १४६॥ यः किल दाक्षं विद्रुतसोमं क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिधमपशुकचरुकम् । कार्मुकमुक्तेनाशु चकार व्यपगतसुरगणपितृगणमिषुणा नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् ॥ १४७॥ या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ॥ १४८॥ अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् । एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् ॥ १४९॥ एतानि गुरु संख्यानि शेषाणि च लघून्यथ । षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ॥ १५०॥ यस्यां मौ तो नाः स्त्रौ नित्यं प्रतिचरणमथ गदितकास्त्रिका ह्यनुपूर्वशः षड्विंशत्यामेकोनायां च यदि हि खलु यतिरभिधा चतुर्भिरथाष्टाभिः । पश्चादन्त्यौ ल्गौ संयोज्यौ यदि भवति मनुजदयितां समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदन विकसनपरं भुजङ्गविजृम्भितम् ॥ १५१॥ यथा - रूपोपेतां देवैः सृष्टां समदगज विलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन मचलनयनं शिरः कृतवान् हरिः । दीर्घं निश्वस्यान्तर्गूढं स्तनवदन जघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि कनकवलयं भुजङ्गविजृम्भितम् ॥ १५२॥ दण्डकं नाम विज्ञेयमुत्कृतेरधिकतरम् । मेघमालादिकं तत्स्यान्नौ चादौ कागुहा त्रिकाः ॥ १५३॥ यथा - मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः । स्फुटितकलशाशुक्तिनिगीर्णमुक्ता फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः सम्प्रकीर्णमलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ॥ १५४॥ एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः । विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ॥ १५५॥ यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः । ग्रथिताः पादयोगेन तद् वृत्तं विषमं स्मृतम् ॥ १५६॥ द्वौ समं द्वौ च विषमौ वृत्तेऽर्धविषमे तथा । सर्वपादैश्च विषमैर्वृत्तं विषममुच्यते ॥ १५७॥ ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा । युग्मोजविषमैः पादैः वृत्तमर्धसमं भवेत् ॥ १५८॥ पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् । द्वयोरर्धसमं विद्यादेष छेदस्तु पादतः ॥ १५९॥ छेदास्तु ये मया प्रोक्ता समवृत्तविकल्पितः । त्रिकैर्विषमवृत्तानां सम्प्रवक्ष्यामि लक्षणम् ॥ १६०॥ नैधनेऽन्यतरस्यां वै प्रथमे पाद इष्यते । द्वितीये चरणे च स्यादित्यनुष्टुप् समासतः ॥ १६१॥ सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके । युग्मेऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ १६२॥ प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा । प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ॥ १६३॥ म्रौ गौ तु प्रथमे पादे य्सौ ल्गौ च द्वितीयके । पादे भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ ॥ १६४॥ नैवाचारो न ते मित्रं न संबन्धिगुणप्रिया । सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ॥ १६५॥ अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च । पथ्या हि विपरीता सा विज्ञेया नामतो यथा ॥ १६६॥ कृतेन रमणस्य किं सखि रोषेण तेऽप्यर्थम् । विपरीता न पथ्यासि त्वं जडे केन मोहिता ॥ १६७॥ चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः । अनुष्टुप्चपला सा तु विज्ञेया नामतो यथा ॥ १६८॥ न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या । नारदस्य प्रतिकृतिः कथ्यते चपला हीयम् ॥ १६९॥ विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु । सर्वत्र सप्तमस्यैव केषांचिद्विपुला यथा ॥ १७०॥ संक्षिप्ता वज्रमध्ये हि हेमकुम्भनिभस्तनी । विपुलासि प्रिये श्रोण्यां पूर्णचन्द्रनिभानने ॥ १७१॥ गङ्गेव मेघोपगमे आप्लावितवसुन्धरा । कूलवृक्षानारुजन्ती स्रवन्ती विपुला बलात् ॥ १७२॥ आगता मेघसमये भीरु भीरुकुलोद्गते । एकरात्रौ परगृहं चोरी बन्धनमर्हसि ॥ १७३॥ एवं विविधयोगास्तु पथ्यापादा भवन्ति हि । युग्मोजविषमैः पादैः शेषैरन्यैस्त्रिकैर्यथा ॥ १७४॥ गुर्वन्तकः सर्वलघुस्त्रिको नित्यं हि नेष्यते । प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ १७५॥ पथ्यापादं समास्थाप्य त्रीण्यन्ते तु गुरूण्यथ । भवन्ति पादे सततं बुधैस्तद्वक्रमिष्यते ॥ १७६॥ दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रं च । रतिसंभोगखिन्नं ते दर्शनीयतरं वक्त्रम् ॥ १७७॥ इत्येषा सर्वविषमा नामतोऽनुष्टुबुच्यते । तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ॥ १७८॥ पादे षोडशमात्रास्तु गाथांशकविकल्पिताः । चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ १७९॥ असंस्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा । क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ १८०॥ स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके । केतुमत्यां गणाः प्रोक्ताः भ्रौ न्गौ गश्च सदा बुधैः ॥ १८१॥ स्फुरिताधरं चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् । किमिदं रुषापहृतशोभं केतुमतीसमं वद मुखं ते ॥ १८२॥ वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः । नजौ रजौ द्वितीये च शेषाग्रं पुनरेव तु ॥ १८३॥ प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः । गणाश्चापरवक्त्रे तु नजौ ज्रौ द्विचतुर्थयोः ॥ १८४॥ सुतनु जलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् । किमिदमपरवक्त्रमेव ते शशिवदनेऽद्य मुखं पराङ्मुखम् ॥ १८५॥ नौ यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे । यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत् ॥ १८६॥ पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरम्यम् । मधुकरपरिगीयमानशब्दं वरतनु पश्य वनं सुपुष्पिताग्रम् ॥ १८७॥ स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः । स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ॥ १८८॥ तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी । नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ॥ १८९॥ स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके । स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ॥ १९०॥ ललिताकुलभ्रमितचारु वसनकरचारुपल्लवा । प्रविकसितकमलकान्तिमुखी प्रविभासि देवी सुरतश्रमातुरा ॥ १९१॥ एवमेतानि वृत्तानि समानि विषमाणि च । नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ १९२॥ सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः । न च तानि प्रयोज्यानि न शोभां जनयन्ति हि ॥ १९३॥ यान्यतः प्रतिषिद्धानि गीतके तानि योजयेत् । ध्रुवायोगे तु वक्ष्यामि तेषां चैव विकल्पनम् ॥ १९४॥ वृत्तलक्षणमेवं तु समासेन मयोदितम् । अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ॥ १९५॥ पथ्या च विपुला चैव चषला मुखतोऽपरा । जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ १९६॥ आसां तु सम्प्रवक्ष्यामि यतिमात्राविकल्पनम् । लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ॥ १९७॥ यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः । द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ स्मृतौ ॥ १९८॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः ॥ १९९॥ षष्ठो वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः । पश्चादर्धे तु षष्ठः स्यादेकमात्रस्तु केवलः ॥ २००॥ द्विविकल्पस्तु षष्ठो यो गुरुमध्यो भवेत्तु सः । तथा सर्वलघुश्चैव यतिसंज्ञासमाश्रिता ॥ २०१॥ द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः । प्रथमादिरथान्त्ये च पञ्चमे वा विधीयते ॥ २०२॥ गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् । अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा ॥ २०३॥ अयुजः सर्वगुरवो गुरुमध्या गणा युजः । यस्याः स्युः पादयोगे तु विज्ञेया चपला हि सा ॥ २०४॥ त्रिंशदाद्ये तु विज्ञेयाः सप्तविंशतिश्चापरे । उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ॥ २०५॥ त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु । त्रीण्यक्षराणि चान्यानि न्यस्य संख्याविभागशः ॥ २०६॥ एतानि लघुसंज्ञानि निर्दिष्टानि समासतः । सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् ॥ २०७॥ अर्धाष्टमगणार्धा च सववार्या प्रकीर्तिता । षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ २०८॥ पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते । द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥ २०९॥ यथा सर्वलघुश्चैव यतिः संख्यासमाश्रिता । सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ २१०॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यः युग्गणस्तु स एव च ॥ २११॥ प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या । विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ २१२॥ पथ्या यथा - रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी । कस्य तु पृथुमृदुजघना तनुबाह्वं सोदरी पथ्या ॥ २१३॥ विपुला यथा - विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः । आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ २१४॥ द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् । उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ॥ २१५॥ उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेषा । जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ २१६॥ पूर्वार्धे लक्षणं ह्येतदस्याः स च मुखेन तु । पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ॥ २१७॥ मुखचपला यथा - आर्यामुखे तु चपला तथापि चार्या न मे यतः सा किम् । दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ॥ २१८॥ जघनचपला यथा - वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये । कामस्य सारभूते न पूर्वमदचारुजघनेन ॥ २१९॥ उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि । वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला सखि ॥ २२०॥ कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ । अष्टादश द्वितीयं च तथा पञ्चदशोत्तमा ॥ २२१॥ चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः । प्रस्तारयोगमासाद्य बाहुल्यं सम्प्रदर्शयेत् ॥ २२२॥ पञ्चपञ्चाशदाद्या तु त्रिंशदाद्या तथैव च । आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥ २२३॥ त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् । शेषाणि गुरुसंख्यानि ह्येवं सर्वत्र निर्दिशेत् ॥ २२४॥ सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् । सर्वेषां जातिवृत्तानां पूर्वमुत्तरसंख्यया ॥ २२५॥ विकल्पगणनां कृत्वा संख्यापिण्डेन निर्दिशेत् । आर्यागीतिरथार्यैव केवलं त्वष्टभिर्गणैः ॥ २२६॥ इतरार्थे जः षष्ठस्तु नलघुगण इष्यते । वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः । काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ॥ २२७॥ इति भरतीये नाट्यशास्त्रे छन्दोविचितिर्नाम पञ्चदशोऽध्यायः ।