अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १४

Natya Shastra Chapter 14

नाट्यशास्त्रम् अध्यायः १४

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ चतुर्दशोऽध्यायः यो वागभिनयः प्रोक्तो मया पूर्वं द्विजोत्तमाः । लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसम्भवम् ॥ १॥ वाचि यत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता । अङ्गनेपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥ २॥ वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च । तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥ ३॥ आगमनामाख्यातनिपातोपसर्गसमासतद्धितैर्युक्तः । सन्धिवचनविभक्त्युपग्रहनियुक्तो वाचिकाभिनयः ॥ ४॥ द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा । तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ॥ ५॥ व्यञ्जनानि स्वराश्चैव सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ ६॥ एतैरङ्गैः समासैश्च नानाधातुसमाश्रयम् । विज्ञेयं संस्कृतं पाठ्यं प्रयोगञ्च निबोधत ॥ ७॥ अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश । हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ॥ ८॥ तत्र स्वराश्चतुर्दश - अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ इति स्वरा ज्ञेयाः ॥ कादीनि व्यञ्जनानि यथा - क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह इति व्यञ्जनवर्गः । वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ॥ ९॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलश्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १०॥ अ कु ह विसर्जनीयाः कण्ठ्याः । इ चु य शास्तालव्याः । ऋ टु र षा मूर्धन्याः । ऌ तु ल सा दन्त्याः । उ पूपध्मानीया ओष्ठ्याः । ^प ^फ इति पफाभ्यां प्राक् अर्धविसर्गसदृशः उपध्मानीयः । ^क ^ख इति कखाभ्यां प्राक् अर्धविसर्गसदृशो जिह्वमूलीयः । ए ऐ कण्ठ्यतालव्यौ । ओ औ कण्ठ्योष्ठ्यौ । वकारो दन्त्योष्ठ्यः । ङ ञ ण न मा अनुनासिकाः । विसर्जनीयः औरस्यः इत्येके । सर्ववर्णानां मुखं स्थानमित्यपरे । द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयोऽपरे । अघोषा घोषवन्तस्तु ततोऽन्ये परिकीर्तिताः ॥ ११॥ एते घोषाघोषाः कण्ठ्योष्ठ्या दन्त्यजिह्वानुनासिक्याः । ऊष्माणस्तालव्याः विसर्जनीयाश्च बोद्धव्याः ॥ १२॥ गघङ जझञ डढण दधन बभम तथैव यरलवा मता घोषाः । कख चछ टठ तथ पफ इति वर्गेष्वघोषाः स्युः ॥ १३॥ कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः । टठडढणा मूर्धन्यास्तथदधनाश्चैव दन्तस्थाः ॥ १४॥ पफबभमास्त्वोष्ठ्याः स्युः दन्त्या ऌलसा अहौ च कण्ठस्थौ । तालव्या इचुयशा स्युरृटुरषा मूर्धस्थिता ज्ञेयाः ॥ १५॥ ऌॡ दन्त्यौ ओऔ कण्ठोष्ठ्यौ एऐकारौ च कण्ठतालव्यौ । कण्ठ्यो विसर्जनीयो जिह्वामूलमुद्भवः कखयोः ॥ १६॥ पफयोरोष्ठस्थानं भवेदुकारः स्वरो विवृतः । स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ॥ १७॥ अन्तस्थाः संवृतजाः ङञणनमा नासिकोद्भवा ज्ञेयाः । ऊष्माणश्च शषसहाः यरलववर्णास्तथैव चान्तःस्थाः ॥ १८॥ जिह्वामूलीयः ^कः ^प उपध्मानीयसंज्ञया ज्ञेयः । कचटतपा स्वरिताः स्युः खछठथफा स्युः सदा क्रम्याः ॥ १९॥ कण्ठ्योरस्यान् विद्यात् घझढधभान् पाठ्यसम्प्रयोगे तु । वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः ॥ २०॥ एते व्यञ्जनवर्णाः समासतः संज्ञया मया कथिताः । शब्दविषयप्रयोगे स्वराँस्तु भूयः प्रवक्ष्यामि ॥ २१॥ यस्मिन् स्थाने स समो विज्ञेयो यः सवर्णसंज्ञोऽसौ । य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वः तेषां परश्च दीर्घोऽवगन्तव्यः ॥ २२॥ इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः । काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गास्तु ॥ २३॥ एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गनिपातैः । तद्धितसन्धिविभक्तिभिरधिष्ठितः शब्द इत्युक्तः ॥ २४॥ पूर्वाचार्यैरुक्तं शब्दानां लक्षणं समासयोगेन । विस्तरशः पुनरेव प्रकरणवशात् सम्प्रवक्ष्यामि ॥ २५॥ अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् । द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम् ॥ २६॥ तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् । निर्देशसम्प्रदानापदानप्रभृतिसंज्ञाभिः ॥ २७॥ नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते । पृथक्तत्रोपसर्गेभ्यो निपाता नियमेऽच्युते ॥ २८॥ सम्प्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् । वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् ॥ २९॥ पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि । स्वाद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् । प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् ॥ ३०॥ आख्यातं पाठ्यकृतं ज्ञेयं नानार्थाश्रयविशेषम् । वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥ ३१॥ प्रातिपदिकार्थयुक्तान्धात्वर्थानुपसृजन्ति ये स्वार्थैः । उपसर्गा ह्युपदिष्टास्तस्मात् संस्कारशास्त्रेऽस्मिन् ॥ ३२॥ प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च । यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ॥ ३३॥ प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्ववचनैश्च । यस्मात्पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ॥ ३४॥ लोके प्रकृतिप्रत्ययविभागसंयोगसत्ववचनैश्च । तांस्तान् पूरयतेऽर्थांस्तेषु यस्तद्धितस्तस्मात् ॥ ३५॥ एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा । विभजन्त्यर्थं यस्मात् विभक्तयस्तेन ताः प्रोक्ताः ॥ ३६॥ विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । सन्धीयते पदे यस्मात्तस्मात् सन्धिः प्रकीर्तितः ॥ ३७॥ वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च । सन्धीयते च यस्मात्तस्मात् सन्धिः समुद्दिष्टः ॥ ३८॥ लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासोऽपि । तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधो विप्राः ॥ ३९॥ एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः । पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ ४०॥ विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च । तत्र चूर्णपदस्येह सन्निबोधत लक्षणम् ॥ ४१॥ अनिबद्धपदं छन्दोविधानानियताक्षरम् । अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ ४२॥ निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ ४३॥ एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः । चतुर्भिस्तु भवेद्युक्तं छन्दो वृत्ताभिधानवत् ॥ ४४॥ षड्विंशतिः स्मृतान्येभिः पादैश्छन्दसि संख्यया । समञ्चार्धसमञ्चैव तथा विषममेव च ॥ ४५॥ छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते । नानावृत्तिविनिष्पन्ना शब्दस्यैषा तनूस्स्मृता ॥ ४६॥ छन्दोहीनो न शब्दोऽस्ति न च्छन्दश्शब्दवर्जितम् । तस्मात्तूभ्यसंयोगो नाट्यस्योद्योतकः स्मृतः ॥ ४७॥ एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् । मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ ४८॥ सुप्रतिष्ठा भवेत् पञ्च गायत्री षड् भवेदिह । सप्ताक्षरा भवेदुष्णिगष्टाक्षरानुष्टुबुच्यते ॥ ४९॥ नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा । एकादशाक्षरा त्रिष्टुब् जगती द्वादशाक्षरा ॥ ५०॥ त्रयोदशाऽतिजगती शक्वरी तु चतुर्दशा । अतिशक्वरी पञ्चदशा षोडशाष्टिः प्रकीर्तिता ॥ ५१॥ अत्यष्टिः स्यात्सप्तदशा धृतिरष्टादशाक्षरा । एकोनविंशतिर्धृतिः कृतिर्विंशतिरेव च ॥ ५२॥ प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा । विकृतिः स्यात् त्रयोविंशा चतुर्विंशा च संकृतिः ॥ ५३॥ पञ्चविंशत्यतिकृतिः षड्विंशत्युत्कृतिर्भवेत् । अतोऽधिकाक्षरं छन्दो मालावृत्तं तदिष्यते ॥ ५४॥ छन्दसां तु तथा ह्येते भेदाः प्रस्तारयोगतः । असंख्येयप्रमाणानि वृत्तान्याहुरतो बुधाः ॥ ५५॥ गायत्रीप्रभृतित्त्वेषां प्रमाणं संविधीयते । प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि ॥ ५६॥ वृत्तानि च चतुष्षष्टिर्गायत्र्यां कीर्तितानि तु । शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते ॥ ५७॥ षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि । शतानि पञ्च वृतानां बृहत्यां द्वादशैव च ॥ ५८॥ पङ्क्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव च । त्रैष्टुभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट च ॥ ५९॥ सहस्राण्यपि चत्वारि नवतिश्च षडुत्तरा । जगत्यां समवर्णानां वृत्तानामिह सर्वशः ॥ ६०॥ अष्टौ सहस्राणि शतं द्व्यधिका नवतिः पुनः । जगत्यामतिपूर्वायां वृत्तानां परिमाणतः ॥ ६१॥ शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश । वृत्तानि चैव चत्वारि शक्वर्याः परिसंख्यया ॥ ६२॥ द्वात्रिंशच्च सहस्राणि सप्त चैव शतानि च । अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ॥ ६३॥ पञ्चषष्टिसहस्राणि सहस्रार्धञ्च संख्यया । षट्त्रिंशच्चैव वृत्तानि ह्यष्ट्यां निगदितानि च ॥ ६४॥ एकत्रिंशत्सहस्राणि वृत्तानाञ्च द्विसप्ततिः । तथा शतसहस्रञ्च छन्दांस्यत्यष्टिसंज्ञिते ॥ ६५॥ धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु । तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च ॥ ६६॥ द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः । चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु ॥ ६७॥ अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्च वृत्तशतद्वयम् ॥ ६८॥ अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि च । कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया ॥ ६९॥ चत्वारिंशत्तथा चाष्टौ सहस्राणि शतानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः ॥ ७०॥ तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् । सप्त वै गदितास्त्वत्र नवतिश्चैव संख्यया ॥ ७१॥ सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्तज्ञैर्गदितानि तु ॥ ७२॥ चत्वारिंशत्तथैकञ्च लक्षाणामथ संख्यया । तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ॥ ७३॥ शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् । ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ॥ ७४॥ अष्टाशीति सहस्राणि वृत्तानां षट् शतानि च । अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ॥ ७५॥ तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः । सप्त चैव सहस्राणि षोडशे द्वे शते तथा ॥ ७६॥ कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै । कोटित्रयञ्चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् ॥ ७७॥ पञ्चाशद्भिः सहस्रैश्च चतुर्भिरधिकैस्तथा । चतुष्टयं शतानाम् च द्वात्रिंशद्भिः समन्वितम् ॥ ७८॥ षट् कोटयस्तथोत्कृत्यां लक्षाणामेकसप्ततिः । चतुष्षष्टिशतान्यष्टौ सहस्राण्यष्ट चैव हि ॥ ७९॥ उक्तादुत्कृतिपर्यन्तवृत्तसंख्यां विचक्षणः । एतेन च विकल्पेन वृत्तेष्वेतेषु निर्दिशेत् ॥ ८०॥ सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै । तिस्रः कोटयो दश तथा सहस्राणां शतानि तु ॥ ८१॥ चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु । सप्तभिः सहितान्येव सप्त चैव शतानि च ॥ ८२॥ षड्विंशतिरिहान्यानि व्याख्यातानि समासतः । समानि गणनायुक्तिमाश्रित्य कथितानि वै ॥ ८३॥ सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् । ज्ञेयाश्चाष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमच्छरम् ॥ ८४॥ त्रीण्यक्षराणि विज्ञेयस्त्रिकोऽंशः परिकल्पितः । गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ॥ ८५॥ गुरुपूर्वो भकारः स्यान्मकारे तु गुरुत्रयम् । जकारो गुरुमध्यस्थः सकारोऽन्त्यगुरुस्तथा ॥ ८६॥ लघुमध्यस्थितो रेफस्तकारोऽन्त्यलघुः परः । लघुपूर्वो यकारस्तु नकारे तु लघुत्रयम् ॥ ८७॥ एते ह्यष्टौ त्रिकाः प्राज्ञैर्विज्ञेया ब्रह्मसम्भवाः । लाघवार्थं पुनरमी छन्दोज्ञानमवेक्ष्य च ॥ ८८॥ एभिर्विनिर्गताश्चान्या जातयोऽथ समादयः । अस्वराः सस्वराश्चैव प्रोच्यन्ते वृत्तलक्षणैः ॥ ८९॥ गुर्वेकं गिति विज्ञेयं तथा लघु लिति स्मृतम् । नियतः पदविच्छेदो यतिरित्यभिधीयते ॥ ९०॥ गुरु दीर्घं प्लुतञ्चैव संयोगपरमेव च । सानुस्वारविसर्गं च तथान्त्यञ्च लघु क्वचित् ॥ ९१॥ गायत्र्यां द्वौ त्रिकौ ज्ञेयौ उष्णिक् चैकाधिकाक्षरा । अनुष्टुप् द्व्यधिका चैव बृहत्यां च त्रिकास्त्रयः ॥ ९२॥ एकाक्षराधिका पङ्क्तिस्त्रिष्टुप् च द्व्यधिकाक्षरा । चतुस्त्रिका तु जगती सैकातिजगती पुनः ॥ ९३॥ शक्वरी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्वरी । एकाधिकाक्षराष्टिश्च द्व्यधिकात्यष्टिरुच्यते ॥ ९४॥ षट्त्रिकास्तु धृतिः प्रोक्ता सैका चातिधृतिस्तथा । कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः ॥ ९५॥ आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा । अष्टत्रिकाः संकृतौ स्यात् सैका चाभिकृतिः पुनः ॥ ९६॥ उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः । गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ । लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ ॥ ९७॥ सम्पद्विरामपादाश्च दैवतस्थानमक्षरम् । वर्णः स्वरो विधिर्वृत्तमिति छन्दोगतो विधिः ॥ ९८॥ नैवातिरिक्तं हीनं वा यत्र सम्पद्यते क्रमः । विधाने च्छन्दसामेष सम्पदित्यभिसंज्ञितः ॥ ९९॥ यत्रार्थस्य समाप्तिः स्यात् स विराम इति स्मृतः । पादश्च पद्यतेर्धातोश्चतुर्भाग इति स्मृतः ॥ १००॥ अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते । शरीराश्रयसंभूतं दिगाश्रयमथापि च ॥ १०१॥ शारीरं मन्त्रसंभूतं छन्दो गायत्रसंज्ञितम् । क्रुष्टे मध्यं दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ॥ १०२॥ तृतीयसवनञ्चापि शीर्षण्यं जागतं हि यत् । ह्रस्वं दीर्घं प्लुतञ्चैव त्रिविधञ्चाक्षरं स्मृतम् ॥ १०३॥ श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह । तारश्चैव हि मन्द्रश्च मध्यमस्त्रिविधः स्वरः ॥ १०४॥ ध्रुवाविधाने चैवास्य सम्प्रवक्ष्यामि लक्षणम् । विधिर्गणकृतश्चैव तथैवार्थकृतो भवेत् ॥ १०५॥ छन्दतो यस्य पादे स्याद्धीनं वाऽधिकमेव वा । अक्षरं निचृदिति प्रोक्तं भूरिक् चेति द्विजोत्तमाः ॥ १०६॥ अक्षराभ्यां सदा द्वाभ्यामधिकं हीनमेव वा । तच्छन्दो नामतो ज्ञेयं स्वराडिति विराडपि ॥ १०७॥ सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रयः । दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ॥ १०८॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । त्रिष्टुप् च जगती चैव दिव्योऽयं प्रथमो गणः ॥ १०९॥ तथातिजगती चैव शक्वरी चातिशक्वरी । अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः ॥ ११०॥ कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा । संकृत्यभिकृती चैव उत्कृतिर्दिव्यमानुषा ॥ १११॥ एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् । लक्षणं सम्प्रवक्ष्यामि नष्टमुद्दिष्टमेव च ॥ ११२॥ प्रस्तारोऽक्षरनिर्दिष्टो मात्रोक्तश्च तथैव हि । द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ ॥ ११३॥ गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् । अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा ॥ ११४॥ प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् । वृत्तन्तु सर्वछन्दस्सु प्रस्तारविधिरेव तु ॥ ११५॥ गुर्वधस्ताल्लघुं न्यस्य तथा द्विद्वि यथोदितम् । न्यस्येत् प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः ॥ ११६॥ मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः । मिश्रौ ग्लाविति विज्ञेयौ पृथक् लक्ष्यविभागतः ॥ ११७॥ मात्रागणो गुरुश्चैव लघुनी चैव लक्षिते । आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः ॥ ११८॥ गीतकप्रभृतीनान्तु पञ्चमात्रो गणः स्मृतः । वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च ॥ ११९॥ त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः । मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः ॥ १२०॥ अन्त्याद् द्विगुणिताद्रूपाद् द्विद्विरेकं गुरोर्भवेत् । द्विगुणाञ्च लघोः कृत्वा संख्यां पिण्डेन योजयेत् ॥ १२१॥ आद्यं सर्वगुरु ज्ञेयं वृत्तन्तु समसंज्ञितम् । कोशं तु सर्वलघ्वन्त्यं मिश्ररूपाणि सर्वतः ॥ १२२॥ वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् । राश्यूनामर्धविषमां समासादभिनिर्दिशेत् ॥ १२३॥ एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु । यावत् पूर्णन्तु पूर्वेण पूरयेदुत्तरं गणम् ॥ १२४॥ समानां विषमाणां च संगुणय्य तथा स्फुटम् । राश्यूनामभिजानीयाद्विषमाणां समासतः ॥ १२५॥ एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् । क्रमान्नैधनमेकैकं प्रतिलोमं विसर्जयेत् ॥ १२६॥ सर्वेषां छन्दसामेवं लघ्वक्षरविनिश्चयम् । जानीत समवृत्तानां संख्यां संक्षेपतस्तथा ॥ १२७॥ वृत्तस्य परिमाणन्तु छित्वार्धेन यथाक्रमम् । न्यसेल्लघु यथा सैकमक्षरं गुरु चाप्यथ ॥ १२८॥ एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः । गुरुलघ्वक्षराणीह सर्वछन्दस्सु दर्शयेत् ॥ १२९॥ इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तान्येतेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १३०॥ इति भरतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं नाम चतुर्दशोऽध्यायः ।