अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १३

Natya Shastra Chapter 13

नाट्यशास्त्रम् अध्यायः १३

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ त्रयोदशोऽध्यायः ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः । तेषां विभागं विज्ञाय ततः कक्ष्यां प्रयोजयेत् ॥ १॥ ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते । तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥ २॥ कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् । परिक्रमेण रङ्गस्य कक्ष्या ह्यन्या विधीयते ॥ ३॥ कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च । उद्यानारामसरितस्त्वाश्रमा अटवी तथा ॥ ४॥ पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् । वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा ॥ ५॥ अलोकश्चैव लोकश्च रसातलमथापि च । दैत्यनागालयाश्चैव गृहाणि भवनानि च ॥ ६॥ नगरे वा वने वापि वर्षे वा पर्वतेऽपि वा । यत्र वार्ता प्रवर्तेत तत्र कक्ष्यां प्रवर्तयेत् ॥ ७॥ बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः । दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत् ॥ ८॥ पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्तेऽभ्यन्तरा बुधैः । पश्चात्प्रविष्टा विज्ञेयाः कक्ष्याभागे तु बाह्यतः ॥ ९॥ तेषां तु दर्शनेच्छुर्यः प्रविशेद्रङ्गमण्डपम् । दक्षिणाभिमुखः सोऽथ कुर्यादात्मनिवेदनम् ॥ १०॥ यतो मुखं भवेद्भाण्डं द्वारं नेपथ्यकस्य च । सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे न नित्यशः ॥ ११॥ निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् । यतस्तस्य कृतं तेन पुरुषेण निवेदनम् ॥ १२॥ निष्क्रान्तोऽर्थवशाच्चापि प्रविशेद्यदि तद्गृहम् । यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत् ॥ १३॥ अथवार्थवशाच्चापि तेनैव सह गच्छति । तथैव प्रविशेत् गेहमेकाकी सहितोऽपि वा ॥ १४॥ तयोश्चापि प्रविशतोः कक्ष्यामन्यां विनिर्दिशेत् । परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥ १५॥ समैश्च सहितो गच्छेन्नीचैश्च परिवाहितः । अथ प्रेक्षणिकाश्चापि विज्ञेया ह्यग्रतो गतौ ॥ १६॥ सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः । मध्या वा सन्निकृष्टा वा तेषामेवं विकल्पयेत् ॥ १७॥ नगरे वा वने वापि सागरे पर्वतेऽपि वा । दिव्यानां गमनं कार्यं द्वीपे वर्षेषु वा पुनः ॥ १८॥ आकाशेन विमानेन माययाप्यथ वा पुनः । विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः ॥ १९॥ नाटके च्छन्नवेषाणां दिव्यानां भूमिसञ्चरः । मानुषे कारणादेषां यथा भवति दर्शनम् ॥ २०॥ भारते त्वथ हैमे वा हरिवर्ष इलावृते । रम्ये किंपुरुषे वापि कुरुषूत्तरकेषु वा ॥ २१॥ दिव्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम् । भारते मानुषाणाञ्च गमनं संविधीयते ॥ २२॥ गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः । अङ्कच्छेदे तमन्यस्मिन् निर्दिशेद्धि प्रवेशके ॥ २३॥ अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेद् । तथालाभे तु कार्यस्य अङ्कच्छेदो विधीयते ॥ २४॥ क्षणो मुहूर्तो यानो वा दिवसो वापि नाटके । एकाङ्के स विधातव्यो बीजस्यार्थवशानुगः ॥ २५॥ अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा । नोर्ध्वं वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ २६॥ एवं तु भारते वर्षे कक्ष्या कार्या प्रयोगतः । मानुषाणां गतिर्या तु दिव्यानान्तु निबोधत ॥ २७॥ हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे । यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ २८॥ रक्षःपिशाचभूताश्च सर्वे हैमवताः स्मृताः । हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ २९॥ सर्वे नागाश्च निषधे शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशद् ज्ञेया देवगणा बुधैः ॥ ३०॥ नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयस्तथा । दैत्यानां दानवानाञ्च श्वेतपर्वत इष्यते ॥ ३१॥ पितरश्चापि विज्ञेया श‍ृङ्गवन्तं समाश्रिताः । इत्येते पर्वताः श्रेष्ठा दिव्यावासाः प्रकीर्तिताः ॥ ३२॥ तेषां कक्ष्याविभागश्च जम्बूद्वीपे भवेदयम् । तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ॥ ३३॥ परिच्छ(च्छे)दविशेषस्तु तेषां मानुषलोकवत् । सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ॥ ३४॥ तेषान्त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः । इह भावा रसाश्चैव दृष्टावेव प्रतिष्ठिताः ॥ ३५॥ दृष्ट्या हि सूचितो भावः पुनरङ्गैर्विभाव्यते । एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः ॥ ३६॥ पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनान्तु लक्षणम् । चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोगतः । आवन्ती दाक्षिणात्या च पाञ्चाली चोढ्रमागधी ॥ ३७॥ अत्राह प्रवृत्तिरिति कस्मात् ? उच्यते पृथिव्यां नानादेशवेषभाषाचारवार्ताः प्रख्यापयतीति वृत्तिः । प्रवृत्तिश्च निवेदने । अत्राह - यथा पृथिव्यां बहवो देशाः सन्ति , कथमासां चतुर्विधत्वम् उपपन्नं, समानलक्षणश्चासां प्रयोग उच्यते , सत्यमेतत् । समानलक्षण आसां प्रयोगः । किन्तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य वृत्तीनां मया चतुर्विधत्वमभिहितं भारती सात्त्वती कैशिक्यारभटी चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः । यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्यास्तावत् बहुनृत्तगीतवाद्या कैशिकीप्रायाः चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा - महेन्द्रो मलयः सह्यो मेकलः पालमञ्जरः । एतेषु ये श्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ ३८॥ कोसलाग्ग्स्तोशलाश्चैव कलिङ्गा यवना खसाः । द्रविडान्ध्रमहाराष्ट्रा वैष्णा वै वानवासजाः ॥ ३९॥ दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे । ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ ४०॥ आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा । सैन्धवास्त्वथ सौवीरा आवर्ताः सार्बुदेयकाः ॥ ४१॥ दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिकावताः । कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ॥ ४२॥ सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिता । भवेत् प्र्योगो नाट्येऽत्र स तु कार्यः प्रयोक्तृभिः ॥ ४३॥ अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः । पौण्ड्रा नेपालकाश्चैव अन्तर्गिरिबहिर्गिराः ॥ ४४॥ तथा प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः । ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ ४५॥ प्राज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः । प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम् ॥ ४६॥ अन्येऽपि देशाः प्राच्यां ये पुराणे सम्प्रकीर्तिताः । तेषु प्रयुज्यते ह्येषा प्रवृत्तिश्चोढ्रमागधी ॥ ४७॥ पाञ्चाला सौरसेनाश्च काश्मीरा हस्तिनापुराः । बाह्लीका शल्यकाश्चैव मद्रकौशीनरास्तथा ॥ ४८॥ हिमवत्संश्रिता ये तु गङ्गायाश्चोत्तरां दिशम् । ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमाः ॥ ४९॥ पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता । प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः ॥ ५०॥ द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे । प्रदक्षिणप्रदेशा च तथा चाप्यप्रदक्षिणा ॥ ५१॥ आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे । अपसव्यप्रदेशास्तु पाञ्चाली चोढ्रमागधी ॥ ५२॥ आवन्त्यां दाक्षिणात्यायां पार्श्वद्वारमथोत्तरम् । पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् ॥ ५३॥ एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः । पार्षदं देशकालौ वाप्यर्थयुक्तिमवेक्ष्य च ॥ ५४॥ येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता । तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ ५५॥ एकीभूताः पुनस्त्वेता नाटकादौ भवन्ति हि । अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत् ॥ ५६॥ सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् । येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तदा ॥ ५७॥ प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः । सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ॥ ५८॥ यत्त्वाविद्धाङ्गहारन्तु च्छेद्यभेद्याहवात्मकम् । मायेन्द्रजालबहुलं पुस्तनेपथ्यसंयुतम् ॥ ५९॥ पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च । सात्त्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् ॥ ६०॥ डिमः समवकारश्च व्यायोगेहामृगौ तथा । एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ ६१॥ एषां प्रयोगः कर्तव्यो दैत्यदानवराक्षसैः । उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः ॥ ६२॥ नाटकं सप्रकरणं भाणो वीथ्यङ्कनाटिके । सुकुमारप्रयोगाणि मानुषेष्वाश्रितास्तु ये ॥ ६३॥ अथ बाह्यप्रयोगेषु प्रेक्षागृहविवर्जिते । विदिक्ष्वपि भवेद्रङ्गः कदाचिद् भर्तुराज्ञया ॥ ६४॥ पृष्ठ कुतपं नाट्ये युक्ता यतो मुखं भरताः । सा पूर्वा मन्तव्या प्रयोगकाले तु नाट्यज्ञैः ॥ ६५॥ द्वाराणि षट् चैव भवन्ति चास्य रङ्गस्य दिग्भागविनिश्चितानि । नाट्यप्रयोगेण खलु प्रवेशे प्राच्यां प्रतीच्यां च दिशि प्रवेशः ॥ ६६॥ विधानमुत्क्रम्य यथा च रङ्गे विना प्रमाणाद्विदिशः प्रयोगे । द्वारन्तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाऽध्यवस्येत् ॥ ६७॥ वयोऽनुरूपः प्रथमन्तु वेशो वेशोऽनुरूपश्च गतिप्रचारः । गतिप्रचारानुगतश्च पाठ्यं पाठ्यानुरूपाभिनयश्च कार्यः ॥ ६८॥ धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः । लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ ६९॥ स्वभावभावोपगतं शुद्धं त्वविकृतं तथा । लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् ॥ ७०॥ स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ ७१॥ अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम् । लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ॥ ७२॥ स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ ७३॥ लोकप्रसिद्धं द्रव्यन्तु यदा नाट्ये प्रयुज्यते । मूर्तिमत् साभिलाषञ्च नाट्यधर्मी तु सा स्मृता ॥ ७४॥ आसन्नोक्तन्तु यद्वाक्यं न श‍ृण्वन्ति परस्परम् । अनुक्तं श्रूयते वाक्यं नाट्यधर्मी तु सा स्मृता ॥ ७५॥ शैलयानविमानानि चर्मवर्मायुधध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ॥ ७६॥ य एकां भूमिकां कृत्वा कुर्वीतैकान्तरेऽपराम् । कौशल्यादेककत्वाद्वा नाट्यधर्मी तु सा स्मृता ॥ ७७॥ या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते । गम्या भूमिष्वगम्या च नाट्यधर्मी तु सा स्मृता ॥ ७८॥ ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः । नृत्यते गम्यते यच्च नाट्यधर्मी तु सा स्मृता ॥ ७९॥ योऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः । सोऽङ्गाभिनयसंयुक्तो नाट्यधर्मी तु सा स्मृता ॥ ८०॥ यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः । दिव्यमानुषरत्यर्थं नाट्यधर्मी तु सा स्मृता ॥ ८१॥ यश्च कक्ष्याविभागोऽयं नानाविधिसमाश्रितः । रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ ८२॥ नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । न ह्यङ्गाभिनयात्किञ्चिदृते राग प्रवर्तते ॥ ८३॥ सर्वस्य सहजो भावः सर्वो ह्यभिनयोऽर्थतः । अङ्गालङ्कारचेष्टाभिर्नाट्यधर्मी प्रकीर्तिता ॥ ८४॥ एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च । विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ॥ ८५॥ उक्तो मयेहाभिनयो यथावत् शाखाकृतो यश्च कृतोऽङ्गहारैः । पुनश्च वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ॥ ८६॥ इति भरतीये नाट्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम त्रयोदशोऽध्यायः ।