अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १२ गतिप्रचार

Natya Shastra Chapter 12 gatiprachAra

नाट्यशास्त्रम् अध्यायः १२ गतिप्रचार

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ द्वादशोऽध्यायः गतिप्रचार एवं व्यायामसंयोगे कार्यं मण्डलकल्पनम् । अतः परं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ १॥ तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ २॥ ध्रुवायां सम्प्रयुक्तायां पटे चैवापकर्षिते । कार्यः प्रवेशः पात्राणां नानार्थरससम्भवः ॥ ३॥ स्थानं तु वैष्णवं कृत्वा ह्युत्तमे मध्यमे तथा । समुन्नतं समं चैव चतुरस्रमुरस्तथा ॥ ४॥ बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् । ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ ५॥ कर्णादष्टाङ्गुलस्थे च बाहुशीर्षे प्रयोजयेत् । उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् ॥ ६॥ हस्तौ तथैव कर्तव्यौ कटीनाभितटस्थितौ । दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ॥ ७॥ पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ ८॥ चतुस्तालो द्वितालश्चाप्येकतालस्तथैव च । चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ ९॥ द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् । चतुष्कलोऽथ द्विकलस्तथा ह्येककलः स्मृतः ॥ १०॥ चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् । तथा चैककलः पादो नीचानां सम्प्रकीर्तितः ॥ ११॥ स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् । यथाप्रकृतिनाट्यज्ञो गतिमेवं प्रयोजयेत् ॥ १२॥ धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसम्मतानाम् । द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥ १३॥ एष एव तु विज्ञेयः कलाताललये विधिः । पुनर्गतिप्रचारस्य प्रयोगं श्रुणुतानघाः ॥ १४॥ स्वभावात्तूत्तमगतौ कार्यं जानुकटीसमम् । युद्धचारीप्रयोगेषु जानुस्तनसमं न्यसेत् ॥ १५॥ पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । रङ्गकोणोन्मुखं गच्छेत् सम्यक् पञ्चपदानि च ॥ १६॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन तु । परिवृत्य द्वितीयं तु गच्छेत् कोणं ततः परम् ॥ १७॥ तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च । ततो भाण्डोन्मुखो गच्छेत् तान्येव तु पदानि च ॥ १८॥ एवं गतागतैः कृत्वा पदानामिह विंशतिम् । वामवेधं ततः कुर्यात् विक्षेपं दक्षिणस्य च ॥ १९॥ रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । त्र्यश्रस्त्रिकोणे चतुरस्ररङ्गे गतिप्रचारश्चतुरस्र एव ॥ २०॥ यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः । चतुष्कलोऽथ द्विकलस्तथैवैककलः पुनः ॥ २१॥ अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः । चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ २२॥ दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् । चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ २३॥ दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते । तत्रापि चोद्धता ये तु तेषां देवैः समा गतिः ॥ २४॥ ऋषय ऊचुः - यदा मनुष्या राजानस्तेषां देवगतिः कथम् । अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति ॥ २५॥ इह प्रकृतयो दिव्या दिव्यमानुष्य एव च । मानुष्य इति विज्ञेया नाट्यनृत्तक्रियां प्रति ॥ २६॥ देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी । या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ २७॥ देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः । एवं देवानुकरणे दोषो ह्यत्र न विद्यते ॥ २८॥ अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति । संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ २९॥ सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया । उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः ॥ ३०॥ चतुरर्धकलं वा स्यात् तदर्धकलमेव च । अवस्थान्तरमासाद्य कुर्याद् गतिविचेष्टितम् ॥ ३१॥ ज्येष्ठे चतुष्कलं ह्यत्र मध्यमे द्विकलं भवेत् । द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् ॥ ३२॥ कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् । एवमर्धार्धहीनं तु जडानां सम्प्रयोजयेत् ॥ ३३॥ ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते । विस्मिते चावहित्थे च तथौत्सुक्यसमन्विते ॥ ३४॥ श‍ृङ्गारे चैव शोके च स्वच्छन्दगमने तथा । गतिः स्थितलया कार्याधिकलान्तरपातिता ॥ ३५॥ पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला । अस्वस्थकामिते चैव भये वित्रासिते तथा ॥ ३६॥ आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम् । अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ॥ ३७॥ अपि चात्यायिके कार्ये दुःखिते शत्रुमार्गणे । अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ ३८॥ एतेष्वेवं गतिं प्राज्ञो विकलां सम्प्रयोजयेत् । उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ ३९॥ या गतिर्मध्यमानां तु न तां नीचेषु योजयेत् । गतिः श‍ृङ्गारिणी कार्या स्वस्थकामितसम्भवा ॥ ४०॥ दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम् ॥ ४१॥ हृद्यैर्गन्धैस्तथा वस्त्रैरलङ्कारैश्च भूषितः । नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः ॥ ४२॥ गच्छेत् सललितैः पादैरतिक्रान्तस्थितैस्तथा । तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः ॥ ४३॥ पादयोरनुगौ हस्तौ नित्यं कार्यौ प्रयोक्तृभिः । उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥ ४४॥ प्रच्छन्नकामिते चैव गतिं भूयो निबोधत । विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ ४५॥ निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः । वेलासदृशवस्त्रश्च सह दूत्या शनैस्तथा ॥ ४६॥ व्रजेत् प्रच्छन्नकामस्तु पादैर्निश्शब्दमन्दगैः । शब्दशंक्युत्सुकश्च स्यादवलोकनतत्परः ॥ ४७॥ वेपमानशरीरश्च शंकितः प्रस्खलन् मुहुः । रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ ४८॥ एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च ॥ ४९॥ तथा स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः । रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ ५०॥ तथा पिशितहस्तश्च रौद्रो नेपथ्यजस्तु सः । बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ ५१॥ स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः । रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ ५२॥ रूक्षो निर्भर्त्सनपरो रौद्रः सोऽयं स्वभावजः । चतुस्तालान्तरोत्क्षिप्तैः पादैस्त्वन्तरपातितैः ॥ ५३॥ गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः । अहृद्या तु मही यत्र श्मशानरणकश्मला ॥ ५४॥ गतिं तत्र प्रयुञ्जीत बीभत्साभिनयं प्रति । क्वचिदासन्नपतितैः विकृष्टपतितैः क्वचित् ॥ ५५॥ एलकाक्रीडितैः पादैरुपर्युपरि पातितैः । तेषामेवानुगैर्हस्तैर्बीभत्से गतिरिष्यते ॥ ५६॥ अथ वीरे च कर्त्तव्या पादविक्षेपसंयुता । द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला ॥ ५७॥ पार्श्वक्रान्तैद्रुताविद्धैः सूचीविद्धैस्तथैव च । कलाकालगतैः पादैरावेगे योजयेत् गतिम् ॥ ५८॥ उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः । मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः ॥ ५९॥ विस्मये चैव हर्षे च विक्षिप्तपदविक्रमान् । आसाद्य तु रसं हास्यमेतच्चान्यं च योजयेत् ॥ ६०॥ पुनश्च करुणे कार्या गतिः स्थिरपदैरथ । बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च ॥ ६१॥ उत्क्षिप्तपातितकरस्तथा सस्वनरोदनः । गच्छेत्तथाध्यधिकया प्रत्यग्राप्रियसंश्रये ॥ ६२॥ एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च । उत्तमानां तु कर्तव्या सधैर्या बाष्पसङ्गता ॥ ६३॥ निःश्वासैरायतोत्सृष्टैस्तथैवोर्ध्वनिरीक्षितैः । न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ ६४॥ मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः । उरःपातहतोत्साहः शोकव्याकुलचेतनः ॥ ६५॥ नात्युत्क्षिप्तैः पदैर्गच्छेत् इष्टबन्धुनिपातने । गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया ॥ ६६॥ विघूणितशरीरा च गतिश्चूर्णपदैरथ । शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च ॥ ६७॥ गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ । पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् ॥ ६८॥ करौ वक्षसि निक्षिप्य कुब्जीभूतस्तथैव च । दन्तोष्ठस्फुरणं चैव चिबुकस्य प्रकम्पनम् ॥ ६९॥ कार्यं शनैश्च कर्तव्यं शीताभिनयने गतौ । तथा भयानके चैव गतिः कार्या विचक्षणैः ॥ ७०॥ स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः । विस्फारिते चले नेत्रे विधुतं च शिरस्तथा ॥ ७१॥ भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकनैः । द्रुतैश्चूर्णपदैश्चैव बद्ध्वा हस्तं कपोतकम् ॥ ७२॥ प्रवेपितशरीरश्च शुष्कोष्ठस्स्खलितं व्रजेत् । एषानुकरणे कार्या तर्जने त्रासने तथा ॥ ७३॥ सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं स्वरम् । एषा स्त्रीणां प्रकर्त्तव्या नृणां चाक्षिप्तविक्रमा ॥ ७४॥ क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । एलकाक्रीडितैः पादैरुपर्युपरि पातितैः ॥ ७५॥ एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् । वणिजां सचिवानां च गतिः कार्या स्वभावजा ॥ ७६॥ कृत्वा नाभितटे हस्तमुत्तानखटकामुखम् । आद्यं चारालमुत्तानं कुर्यात्पार्श्वं स्तनान्तरे ॥ ७७॥ न निषण्णं न च स्तब्धं न चापि परिवाहितम् । कृत्वा गात्रं तथा गच्छेत्तेन चैव क्रमेण तु ॥ ७८॥ अतिक्रान्तैर्पदैर्विप्रा द्वितालान्तरगामिभिः । यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः ॥ ७९॥ तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमाश्रिताः । आलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः ॥ ८०॥ उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च । अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः ॥ ८१॥ विनीतवेषश्च भवेत् कषायवसनस्तथा । प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः ॥ ८२॥ हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत् । प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगः ॥ ८३॥ अनिषण्णेन गात्रेण गतिं गच्छेद् व्यतिक्रमात् । उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ॥ ८४॥ एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् । तथा व्रतानुगावस्था ह्यन्येषां लिङ्गिनां गतिः ॥ ८५॥ विभ्रान्ता वाप्युदात्ता वा विभ्रान्तनिभृतापि वा । शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ॥ ८६॥ कार्या पाशुपतानां च गतिरुद्धतगामिनी । अन्धकारेऽथ याने च गतिः कार्या प्रयोक्तृभिः ॥ ८७॥ भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः । रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ ॥ ८८॥ समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् । धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् ॥ ८९॥ सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः । वाहनानि विचित्राणि कर्तव्यानि विभागशः ॥ ९०॥ द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले । विमानस्थस्य कर्तव्या ह्येषैव स्यन्दिनी गतिः ॥ ९१॥ आरोढुमुद्वहेद् गात्रं किञ्चित् स्यादुन्मुखस्थितम् । अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ॥ ९२॥ अधोऽवलोकनैश्चैव मण्डलावर्तनेन च । आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः ॥ ९३॥ स्थानेन समपादेन तथा चूर्णपदैरपि । व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेत् गतिम् ॥ ९४॥ ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ । भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः ॥ ९५॥ विकीर्णवसना चैव तथा भूगतलोचना । प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च ॥ ९६॥ आरोहणावतरणं च कार्यमर्थवशाद्बुधैः । प्रासादारोहणं कार्यं अतिक्रान्तैः पदैरथ ॥ ९७॥ उद्वाह्य गात्रं पादं च सोपाने निक्षिपेन्नरः । तथावतरणं चैव गात्रमानम्य रेचयेत् ॥ ९८॥ प्रासादे यन्मया प्रोक्तः प्रतारः केवलो भवेत् । किञ्चिन्नताग्रकाया तु प्रतारे गतिरिष्यते ॥ ९९॥ जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् । तोयेऽल्पे वसनोत्कर्षः प्राज्ये पाणिविकर्षणैः ॥ १००॥ प्रसार्य बाहुमेकैकं मुहुर्बारिविकर्षणैः । तिर्यक् प्रसारिता चैव हियमाणा च वारिणा ॥ १०१॥ अशेषाङ्गाकुलाधूतवदना गतिरिष्यते । नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ॥ १०२॥ अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च । प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् ॥ १०३॥ केवलमूर्ध्वनिक्षेपमद्रिष्वङ्गं भवेदथ । द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः ॥ १०४॥ सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च । एतदेवावतरणं सरित्स्वपि नियोजयेत् ॥ १०५॥ अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् । संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् ॥ १०६॥ कस्मान्मृत इति प्रोक्ते किं कर्तव्यं प्रयोक्तृभिः । अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् ॥ १०७॥ प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि । अश्वयाने गतिः कार्या वैशाखस्थानकेन तु ॥ १०८॥ यथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः । पन्नगानां गतिः कार्या पादैः स्वस्तिकसंज्ञितैः ॥ १०९॥ पार्श्वक्रान्तं पदं कुर्यात् स्वस्तिकं रेचयेदिह । विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ॥ ११०॥ पादैराकुञ्चितैः किञ्चित् तालाभ्यन्तरपातितैः । स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ ॥ १११॥ खटकावर्धमानौ तु कृत्वा विटगतिं व्रजेत् । कञ्चुकीयस्य कर्तव्या वयोवस्थाविशेषतः ॥ ११२॥ अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् । अर्धतालोत्थितैः पादैर्विष्कम्भैः ऋजुभिस्तथा ॥ ११३॥ समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत् । अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ॥ ११४॥ विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदक्रमा । कृशस्याप्यभिनेया वै गतिर्मन्दपरिक्रमा ॥ ११५॥ व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते । विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा ॥ ११६॥ क्षामस्वरकपोलश्च दीननेत्रस्तथैव च । शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः ॥ ११७॥ कम्पनं चैव गात्राणां क्लेशनं च तथैव च । दूराध्वानं गतस्यापि गतिर्मन्दपदक्रमा ॥ ११८॥ विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् । स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ॥ ११९॥ समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा । विष्कम्भगामी च भवेन्निःश्वासबहुलस्तथा ॥ १२०॥ श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा । मत्तानां तु गतिः कार्या मदे तरुणमध्यमे ॥ १२१॥ वामदक्षिणपादाभ्यां घूर्णमानापसर्पणैः । अवकृष्टे पदे चैव ह्यनवस्थितपादिका ॥ १२२॥ विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा । उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ १२३॥ बहुचारीसमायुक्ता लोकानुकरणाश्रया । रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा ॥ १२४॥ अनिमित्तप्रकथनो बहुभाषी विकारवान् । गायत्यकस्माद्धसति सङ्गे चापि न सज्जते ॥ १२५॥ नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः । कदाचिद्धावति जवात् कदाचिदवतिष्ठते ॥ १२६॥ कदाचिदुपविष्टस्तु शयानः स्यात् कदाचन । नानाचीरधरश्चैव रथ्यास्वनियतालयः ॥ १२७॥ उन्मत्तो भवति ह्येवं तस्यैतां कारयेद् गतिम् । स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ॥ १२८॥ बद्धां चारीं तथा चैव कृत्वा स्वस्तिकमेव च । अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् ॥ १२९॥ बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् । त्रिकं सुललितं कृत्वा लताख्यं हस्तमेव च ॥ १३०॥ विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् । त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः ॥ १३१॥ विकलाङ्गप्रयोगेण कुहकाभिनयं प्रति । एकः खञ्जगतौ नित्यं स्तब्धो वै चरणो भवेत् ॥ १३२॥ तथा द्वितीयः कार्यस्तु पादोऽग्रतलसञ्चरः । स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु ॥ १३३॥ गमनेन निषण्णः स्यादन्येन चरणेन तु । इतरेण निषीदेच्च क्रमेणानेन वै व्रजेत् ॥ १३४॥ एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च । पादेनाग्रतलस्थेन ह्यञ्चितेन व्रजेत्तथा ॥ १३५॥ निषण्णदेहा पङ्गोस्तु नतजङ्घा तथैव च । सर्वसङ्कुचिताङ्गा च वामने गतिरिष्यते ॥ १३६॥ न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च । सोद्वाहिता चूर्णपदा सा कार्या कुहनात्मिका ॥ १३७॥ विदूषकस्यापि गतिर्हास्यत्रयसमन्विता । अङ्गवाक्यकृतं हास्यं हास्यं नेपथ्यजं स्मृतम् ॥ १३८॥ दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः । य ईदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत् ॥ १३९॥ यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः । अन्यायतपदत्वाच्च अङ्गहास्यो भवेत्स तु ॥ १४०॥ कार्यहास्यं तु विज्ञेयमसंबद्धप्रभाषणात् । अनर्थकैर्विकारैश्च तथा चाश्लीलभाषितैः ॥ १४१॥ चीरचर्ममशीभस्मगैरिकाद्यैस्तु मण्डितः । यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः ॥ १४२॥ तस्मात्तु प्रकृतिं ज्ञात्वा भावः कार्यस्तु तत्त्वतः । गतिप्रचारं विभजेत् नानावस्थान्तरात्मकम् ॥ १४३॥ स्वभावजायां विन्यस्य कुटिलं वामके करे । तदा दक्षिणहस्ते च कुर्याच्चतुरकं पुनः ॥ १४४॥ पार्श्वमेकं शिरश्चैव हस्तोऽथ चरणस्तथा । पर्यायशः सन्नमयेल्लयतालवशानुगः ॥ १४५॥ स्वभावजा तु तस्यैषा गतिरन्या विकारजा । अलाभलाभात् मुक्तस्य स्तब्धा तस्य गतिर्भवेत् ॥ १४६॥ कार्या चैव हि नीचानां चेटादीनां परिक्रमात् । अधमा इति ये ख्याता नानाशीलाश्च ते पुनः ॥ १४७॥ पार्श्वसेकं शिरश्चैव करः सचरणस्तथा । शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका । गतौ नमेत चेटानां दृष्टिश्चार्धविचारिणी ॥ १४८॥ वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः । गात्रैर्विकारविक्षिप्तैः लम्बवस्त्रस्रजा तथा ॥ १४९॥ सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् । जात्या नीचेषु योक्तव्या विलोकनपरा गतिः ॥ १५०॥ असंस्पर्शाच्च लोकस्य स्वाङ्गानि विनिगूह्य च । म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः ॥ १५१॥ तेषां देशानुसारेण कार्यं गतिविचेष्टितम् । पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ॥ १५२॥ स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत् । सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ॥ १५३॥ या कृता नरसिंहेन विष्णुना प्रभविष्णुना । आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् ॥ १५४॥ जानूपरि करं ह्येकमपरं वक्षसि स्थितम् । अवलोक्य दिशः कृत्वा चिबुकं बाहुमस्तके ॥ १५५॥ गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः । नियुद्धसमये चैव रङ्गावतरणे तथा ॥ १५६॥ सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः । शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ॥ १५७॥ वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ॥ १५८॥ नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च लोकतः । अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ १५९॥ स्त्रीणां स्थानानि कार्याणि गतिष्वाभरणेषु च । आयतं चावहित्थं च अश्वक्रान्तमथापि च ॥ १६०॥ स्थानान्येतानि नारीणामथ लक्षणमुच्यते । वामः स्वभावतो यत्र पादो विरचितः समः ॥ १६१॥ तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः । प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥ १६२॥ लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् । दक्षिणस्तु समः पादः त्र्यश्रः पक्षस्थितोऽपरः ॥ १६३॥ वामः समुन्नतकटिश्चायते स्थानके भवेत् । आवाहने विसर्गे च तथा निर्वर्णनेषु च ॥ १६४॥ चिन्तायां चावहित्थे च स्थानमेतत् प्रयोजयेत् । रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् ॥ १६५॥ मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् । निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ॥ १६६॥ स्थानेऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् । समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः ॥ १६७॥ समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत् । पुरो विचलितस्त्र्यश्रस्तदन्योपसृतः समः ॥ १६८॥ पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् । पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ॥ १६९॥ अवहित्थं समाख्यातं स्थानमागमभूषणैः । स्त्रीणामेतत् स्मृतं स्थानं संलापे तु स्वभावजे ॥ १७०॥ निश्चये परितोषे च वितर्के चिन्तने तथा । विलासलीलाविब्वोकश‍ृंगारात्मनिरूपणे ॥ १७१॥ स्थानमेतत्प्रयोक्तव्यं भर्तुर्मार्गविलोकने । पादः समस्थितश्चैक एकश्चाग्रतलाञ्चितः ॥ १७२॥ सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते । स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ॥ १७३॥ कुसुमस्तबकादानं परिरक्षणमेव च । वित्रासनं सललितं तरुशाखावलम्बनम् ॥ १७४॥ स्थानेऽस्मिन् संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः । शाखावलम्बने कार्यं स्तबकग्रहणे तथा ॥ १७५॥ विश्रामेष्वथ देवानां नराणां चार्थयोगतः । स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ १७६॥ भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता । एवं स्थानविधिः कार्यः स्त्रीणां नृणामथापि च ॥ १७७॥ पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् । कृत्वावहित्थं स्थानं तु वामं चाधोमुखं करम् ॥ १७८॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । ततः सललितं पादं तालमात्रसमुत्थितम् ॥ १७९॥ दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् । तेनैव समकालं च लताख्यं वामकं भुजम् ॥ १८०॥ दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः । नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ॥ १८१॥ ततो वामपदं दद्यात् लताहस्तं च दक्षिणम् । लीलयोद्वाहितेनाथ शिरसानुगतेन च ॥ १८२॥ किञ्चिन्नतेन गात्रेण गच्छेत्पञ्चपदीं ततः । यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे ॥ १८३॥ स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः । षट्कलं तु न कर्तव्यं तथाष्टकलमेव च ॥ १८४॥ पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत्स्त्रियाः । सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ॥ १८५॥ स्थवीयसीनामेतासां सम्प्रवक्ष्याम्यहं गतिम् । कृत्वापविद्धं स्थानन्तु वामं न्यस्य कटीतटे ॥ १८६॥ आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे । न निषण्णं न च स्तब्धं न चापि परिवाहितम् ॥ १८७॥ कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु । प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी ॥ १८८॥ क्वचिदुन्नमितैर्गात्रैः आविद्धभुजविक्रमा । स्थानं कृत्वावहित्थं च वामं चाधोमुखं भुजम् ॥ १८९॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ॥ १९०॥ उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः । या पूर्वमेवाभिहिता ह्युत्तमानां गतिर्मया ॥ १९१॥ स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं तु योजयेत् । मध्यमोत्तमनीचानां नृणां यद् गतिचेष्टितम् ॥ १९२॥ स्त्रीणां तदेव कर्तव्या ललितैः पदविक्रमैः । बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा ॥ १९३॥ न तस्याः सौष्ठवं कार्यं न प्रमाणं प्रयोक्तृभिः । तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ॥ १९४॥ नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् । विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसके ॥ १९५॥ स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह । व्याजेन क्रीडया वापि तथा भूयं च वञ्चनात् ॥ १९६॥ स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषोऽपि च । धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ॥ १९७॥ स्त्री पुमांसं त्वभिनयेत् वेषवाक्यविचेष्टितैः । स्त्रीवेषभाषितैर्युक्तं प्रेषिताप्रेषितैस्तथा ॥ १९८॥ मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् । जातिहीनाश्च या नार्यः पुलिन्दशबराङ्गनाः ॥ १९९॥ याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः । व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथैव च ॥ २००॥ खस्थानां चैव नारीणां समपादं प्रयोजयेत् । उद्धता येऽङ्गहाराः स्युः याश्चार्यो मण्डलानि च ॥ २०१॥ तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् । तथासनविधिः कार्यो नृणां स्त्रीणां विशेषतः ॥ २०२॥ नानाभावसमायुक्तस्तथा च शयनाश्रयः । विष्कम्भिताञ्चितौ पादौ त्रिकं किञ्चित्समुन्नतम् ॥ २०३॥ हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने । पादः प्रसारितः किञ्चिदेकश्चैवासनाश्रयः ॥ २०४॥ शिरः पार्श्वनतं चैव सचिन्त उपवेशने । चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ॥ २०५॥ सम्प्रणष्टेन्द्रियमनाः शोकौत्सुक्योपवेशने । प्रसार्य बाहू शिथिलौ तथा श्रोपाश्रयाश्रितः ॥ २०६॥ मोहमूर्च्छामदग्लानिविषादेषूपवेशयेत् । सर्वपिण्डीकृताङ्गस्तु संयुक्तैः पादजानुभिः ॥ २०७॥ व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः । तथा चोत्कटिकं स्थानं स्फिक्पार्ष्णीनां समागमः ॥ २०८॥ पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमनेऽपि च । विष्कम्भितं पुनश्चैवं जानुं भूमौ निपातयेत् ॥ २०९॥ प्रियाप्रसादने कार्यं होमादिकरणेषु च । महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ २१०॥ देवाभिगमने चैव रुषितानां प्रसादने । शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने ॥ २११॥ त्रासने च कुसत्त्वानां नीचानां चैव याचने । होमयज्ञक्रियायां च प्रेष्याणां चैव कारयेत् ॥ २१२॥ मुनीनां नियमेष्वेष भवेदासनजो विधिः । तथासनविधिः कार्यो विविधो नाटकाश्रयः ॥ २१३॥ स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा । आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च ॥ २१४॥ देवानां नृपतीनां च दद्यात् सिंहासनं द्विजः । पुरोधसाममात्यानां भवेद्वेत्रासनं तथा ॥ २१५॥ मुण्डासनं च दातव्यं सेनानीयुवराजयोः । काष्ठासनं द्विजातीनां कुमाराणां कुथासनम् ॥ २१६॥ एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः । स्त्रीणां चाप्यासनविधिं सम्प्रवक्ष्याम्यहं पुनः ॥ २१७॥ सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् । पुरोधोऽमात्यपत्नीनां दद्याद्वेत्रासनं तथा ॥ २१८॥ भोगिनीनां तथा चैव वस्त्रं चर्म कुथोऽपि वा । ब्राह्मणीतापसीनां च पट्टासनमथापि च ॥ २१९॥ वेश्यानां च प्रदातव्यमासनं च मयूरकम् । शेषाणां प्रमदानां तु भवेद् भूम्यासनं द्विजाः ॥ २२०॥ एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विधिः । तथा स्वगृहवार्तासु च्छन्देनासनमिष्यते ॥ २२१॥ नियमस्थमुनीनां च भवेदासनजो विधिः । लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ॥ २२२॥ ब्रुषीमुण्डासनप्रायं वेत्रासनमथापि च । होमे यज्ञक्रियायां च पित्र्येऽर्थे च प्रयोजयेत् ॥ २२३॥ स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः । तेषामासनसत्कारः कर्त्तव्य इह पार्थिवैः ॥ २२४॥ समे समासनं दद्यात् मध्ये मध्यममासनम् । अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं भवेत् ॥ २२५॥ उपाध्यायस्य नृपतेर्गुरूणामग्रतो बुधैः । भूम्यासनं तथा कार्यमथवा काष्ठमासनम् ॥ २२६॥ नौनागरथयानेषु भूमिकाष्ठासनेषु च । सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ २२७॥ आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्वाहितं नतं चैव शयने कर्म कीर्त्यते ॥ २२८॥ सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ २२९॥ उत्तानितमुखं चैव स्रस्तमुक्तकरं तथा । समं नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ २३०॥ एकं भुजमुपाधाय सम्प्रसारितजानुकम् । स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ २३१॥ अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् । शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ २३२॥ अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ २३३॥ ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ २३४॥ गतिप्राचारस्तु मयोदितोऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः । अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यां प्रविभागयुक्ताम् ॥ २३५॥ ॥ इति भरतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः ॥