अक्षर आकार:

नाट्यशास्त्रम् अध्यायः ११

Natya Shastra Chapter 11

नाट्यशास्त्रम् अध्यायः ११

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकादशोऽध्यायः । एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे । चारीसंयोगजानीह मण्डलानि निबोधत ॥ १॥ अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् । सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ २॥ वामबन्धं सललितं क्रान्तञ्चाकाशगामि च । मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ ३॥ भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् । समाक्रन्दितमप्याहुरेडकाक्रीडितं तथा ॥ ४॥ अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च । पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ५॥ एतान्यपि दशोक्तानि भूमिगानीह नामतः । आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ६॥ अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ ७॥ सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ ८॥ तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् । परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ ९॥ अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् । विज्ञेयमेतद् व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ १०॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ ११॥ वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् । भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ १२॥ उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् । पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ १३॥ विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् । बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ १४॥ विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् । कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ १५॥ अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् । वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १६॥ पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् । सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ १७॥ पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् । परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ १८॥ एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः । सूचीवामपदं दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १९॥ पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ २०॥ पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले । आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ २१॥ वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् । उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ २२॥ पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा । अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ २३॥ वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले । आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ २४॥ आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च । अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ २५॥ पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ २६॥ सूचीवामपदं दद्यात् त्रिकं तु परिवर्तयेत् । भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च ॥ २७॥ एष चारीप्रयोगस्तु विहृते मण्डले भवेत् । सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ २८॥ पार्श्वक्रान्तस्ततश्चाद्योऽप्यलातश्चैव वामकः । भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ २९॥ षट्संख्यं सप्तसंख्यं च ललितैः पादविक्रमैः । अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ ३०॥ अपक्रन्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ ३१॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ ३२॥ कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः । आक्षिप्तं वामकं कुर्यात् दण्डपार्श्वं च दक्षिणम् ॥ ३३॥ उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु । सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ ३४॥ अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः । अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ ३५॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ ३६॥ अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ ३७॥ अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः । सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ ३८॥ अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः । एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ ३९॥ सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् । पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ ४०॥ भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ ४१॥ स्वभावगमने ह्येतन्मण्डलं संविधीयते । क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ ४२॥ एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु । अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ ४३॥ आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् । शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ ४४॥ आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् । आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ ४५॥ वामः पृष्ठापसर्पी च दद्याद् भ्रमरकं तथा । स एवास्पन्दितः कार्यस्त्वेतद् भ्रमरमण्डलम् ॥ ४६॥ आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् । कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ ४७॥ उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः । कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ ४८॥ शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् । एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ ४९॥ आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् । शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ ५०॥ पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् । आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ ५१॥ आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् । पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ ५२॥ समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् । निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ ५३॥ कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत् क्रमात् । यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ ५४॥ चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् । समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ ५५॥ पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च । एडकाक्रीडितैश्चैव तूर्णैस्त्रिकविवर्तितैः ॥ ५६॥ सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् । एडकाक्रीडितं विद्यात् खण्डमण्डलसंज्ञितम् ॥ ५७॥ सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् । तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ५८॥ आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् । अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ५९॥ वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् । तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ ६०॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ ६१॥ विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् । पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ ६२॥ आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् । अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ६३॥ भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ ६४॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ ६५॥ भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् । पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ ६६॥ सर्वैश्चाषगतैः पादैः परिभ्राम्य तु मण्डलम् । एतच्चाषगतं विद्यान्नियुद्धे चापि मण्डलम् ॥ ६७॥ नानाचारीसमुत्थानि मण्डलानि समासतः । उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ ६८॥ समचारीप्रयोगो यस्तत्समं नाम मण्डलम् । आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ ६९॥ एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च । लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ७०॥ इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशोऽध्यायः समाप्तः ।