अक्षर आकार:

नाट्यशास्त्रम् अध्यायः १०

Natya Shastra Chapter 10

नाट्यशास्त्रम् अध्यायः १०

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ दशमोऽध्यायः । एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च । समानकरणे चेष्टा सा चारीत्यभिधीयते ॥ १॥ विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् । यस्मादङ्गसमायुक्तास्तस्माद्व्यायाम उच्यते ॥ २॥ एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता । द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ ३॥ करणानां समायोगः खण्डमित्यभिधीयते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ ४॥ चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा । चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः ॥ ५॥ यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संज्ञितम् । नहि चार्या विना किञ्चिन्नाट्येऽङ्गं सम्प्रवर्तते ॥ ६॥ तस्माच्चारीविधानस्य सम्प्रवक्ष्यामि लक्षणम् । या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा ॥ ७॥ समपादा स्थितावर्ता शकटास्या तथैव च । अध्यर्धिका चाषगतिर्विच्यवा च तथापरा ॥ ८॥ एडकाक्रीडिता बद्धा उरुद्वृत्ता तथाड्डिता । उत्स्पन्दिता च जनिता स्यन्दिता चापस्यन्दिता ॥ ९॥ समोत्सरितमत्तल्ली मत्तल्ली चेति षोडश । एता भौम्यः स्मृताश्चार्यः श‍ृणुताकाशिकीः पुनः ॥ १०॥ अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च । ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥ ११॥ डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते । विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा ॥ १२॥ मृगप्लुता च दण्डा च भ्रमरी चेति षोडश । आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ १३॥ पादैर्निरन्तरकृतैस्तथा समनखैरपि । समपादा स्मृता चारी विज्ञेया स्थानसंश्रया ॥ १४॥ भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम्। पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता ॥ १५॥ निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम्। उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १६॥ सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् । तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः ॥ १७॥ पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः । वामः सव्यापसर्पी च चाषगत्यां विधीयते ॥ १८॥ विच्यवात् समपादाया विच्यवां सम्प्रयोजयेत् । निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम्॥ १९॥ तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् । पर्यायतश्च क्रियते एडकाक्रीडिता तु सा ॥ २०॥ अन्योन्यजङ्घासंवेगात् कृत्वा तु स्वस्तिकं ततः । ऊरुभ्याम् वलनं यस्मात् सा बद्धा चार्युदाहृता ॥ २१॥ तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा । जङ्घाञ्चिता तथोद्वृत्ता ऊरुद्वृत्तेति सा स्मृता ॥ २२॥ अग्रतः पृष्ठतो वापि पादस्तु तलसञ्चरः । द्वितीयपादो निर्घृष्टः यस्यां स्यादड्डिता तु सा॥ २३॥ शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च । यद्रेचकानुसारेण सा चार्युत्स्यन्दिता स्मृता ॥ २४॥ मुष्टिहस्तश्च वक्षःस्थः करोऽन्यश्च प्रवर्तितः । तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ २५॥ पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् । द्वितीयेन तु पादेन तथापस्यन्दितामपि ॥ २६॥ तलसञ्चरपादाभ्याम् घूर्णमानोपसर्पणैः । समोत्सरितमत्तल्ली व्यायामे समुदाहृता ॥ २७॥ उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः । उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता ॥ २८॥ एता भौम्यः स्मृताश्चार्यो नियुद्धकरणाश्रयाः । आकाशकीनां चारीणां सम्प्रवक्ष्यामि लक्षणम् ॥ २९॥ कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् । उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता ॥ ३०॥ ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् । पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥ ३१॥ कुञ्चितं पादमुत्क्षिप्य पार्श्वेनोत्पतनं न्यसेत् । उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते ॥ ३२॥ कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् । द्वितीयं च क्रमात् स्तब्धमूर्ध्वजानुः प्रकीर्तिता ॥ ३३॥ कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् । पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ ३४॥ पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु । द्रुतं निर्यातयेद्भूमौ चारी नूपुरपादिका ॥ ३५॥ कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु दोलयेत् । पातयेदञ्चितं चैवं दोलपादा तु सा स्मृता ॥ ३६॥ कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् । जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता ॥ ३७॥ स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः । निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥ ३८॥ पादमाविद्धमावेष्ट्य समुत्क्षिप्य निपातयेत् । परिवृत्त्य द्वितीयं च सोद्वृत्ता चार्युदाहृता ॥ ३९॥ पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् । सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ ४०॥ पृष्ठः प्रसारितः पादो वलितोऽभ्यन्तरीकृतः । पार्ष्णिप्रपतितश्चैव ह्यलाता सम्प्रकीर्तिता ॥ ४१॥ कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् । कटिजानुविवर्ताच्च भुजङ्गत्रासिता भवेत् ॥ ४२॥ अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् । जङ्घाञ्चितोपरिक्षिप्ता सा ज्ञेया हरिणप्लुता ॥ ४३॥ नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥ ४४॥ अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् । द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥ ४५॥ आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मकाः । धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या प्रयोक्तृभिः ॥ ४६॥ अग्रगौ पृष्ठगौ वापि ह्यनुगौ चापि योगतः । पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ ४७॥ यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् । पादस्य निर्गमं ज्ञात्वा तथोपाङ्गानि योजयेत् ॥ ४८॥ पादचार्यां यथा पादो धरणीमेव गच्छति । एवं हस्तश्चरित्वा तु कटिदेशं समाश्रयेत् ॥ ४९॥ एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मकाः । स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ ५०॥ वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढं तथालीढं स्थानान्येतानि षण् नृणां ॥ ५१॥ द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् । तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितोऽपरः ॥ ५२॥ किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् । वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ ५३॥ स्थानेनानेन कर्तव्यः संल्लापस्तु स्वभावजः । नानाकार्यान्तरापेतैर्नृभिरुत्तममध्यमैः ॥ ५४॥ चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा । धैर्यदानाङ्गलीलासु तथा क्रोधे प्रयोजयेत् ॥ ५५॥ इदमेव विपर्यस्तं प्रणयक्रोध इष्यते । उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा ॥ ५६॥ शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि । दैन्ये चपलतायोगे गर्वाभीष्टेषु शक्तिषु ॥ ५७॥ श‍ृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् । समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ ५८॥ स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् । अनेन कार्यं स्थानेन विप्रमङ्गलधारणम् ॥ ५९॥ रूपणे पक्षिणां चैव वरं कौतुकमेव च । स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ॥ ६०॥ लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् । तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥ ६१॥ तालांस्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् । त्र्यश्रौ वक्षःस्थितौ चैव तत्र पादो प्रयोजयेत् ॥ ६२॥ वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् । स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ ६३॥ व्यायामनिर्गमश्चैव स्थूलपक्षिनिरूपणम् । शराणां च समुत्क्षेपो व्यायामकरणे तथा ॥ ६४॥ रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः । ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ॥ ६५॥ त्र्यश्रौ पक्षःस्थितौ चैव कटिजानू समौ तथा । धनुर्वज्रासिशस्त्राणि मण्डलेन प्रयोजयेत् ॥ ६६॥ वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् । अस्यैव दक्षिणं पादं पञ्च तालान् प्रसार्य तु ॥ ६७॥ आलीढं स्थानकं कुर्याद् रुद्रश्चात्राधिदैवतम् । अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत् ॥ ६८॥ उत्तरोत्तरसञ्जल्पो रोषामर्षकृतस्तु यः । मल्लानाञ्चैव सम्फेटः शत्रूणां च निरूपणम् ॥ ६९॥ तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् । कुञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ ७०॥ आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् । आलीढसंहितं शस्त्रं प्रत्यालीढेन मोक्षयेत् ॥ ७१॥ नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः । न्यायाच्चैव हि विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ॥ ७२॥ भारतः सात्वतश्चैव वार्षगण्योऽथ कैशिकः । भारते तु कटीच्छेद्यं पादच्छेद्यं तु सात्वते ॥ ७३॥ वक्षसो वार्षगण्ये तु शिरश्छेद्यन्तु कैशिके । एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः ॥ ७४॥ प्रविचार्य प्रयोक्तव्यं नानाशस्त्रविमोक्षणे । न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ॥ ७५॥ यस्माद् युद्धानि वर्तन्ते तस्मान्न्यायाः प्रकीर्तिताः । वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम् ॥ ७६॥ शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् । प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि ॥ ७७॥ खेटकं भ्रामयेत् पश्चात् पार्श्वात् पार्श्वमथापि च । शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ॥ ७८॥ कपोलस्यान्तरे वापि शस्त्रस्योद्वेष्टनं तथा । पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च ॥ ७९॥ खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः । एवं प्रचारः कर्तव्यो भारते शस्त्रमोक्षणे ॥ ८०॥ सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधिः । स एव प्रविचारस्तु खड्गखेटकयोः स्मृतः ॥ ८१॥ केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते । गतिश्च वार्षगण्येऽपि सात्वतेन क्रमेण तु ॥ ८२॥ शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते । शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा ॥ ८३॥ उरस्युद्वेष्टनं कार्यं शस्त्रस्यांशेऽथवा पुनः । भारते प्रविचारोऽयं कर्तव्यः स तु कैशिके ॥ ८४॥ विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् । प्रविचारा प्रयोक्तव्या ह्येवमेतेऽङ्गलीलया ॥ ८५॥ धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे । न भेद्यं नापि तु च्छेद्यं न चापि रुधिरस्रुतिः ॥ ८६॥ रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् । संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः ॥ ८७॥ अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः । अङ्गसौष्ठवसंयुक्तैरङ्गहारैर्विभूषितम् ॥ ८८॥ व्यायामं कारयेत् सम्यक् लयतालसमन्वितम् । सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामसेविभिः ॥ ८९॥ सौष्ठवे लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् । शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता ॥ ९०॥ अचञ्चलमकुब्जं चासन्नगात्रमथापि च । नात्युच्चं चलपादञ्च सौष्ठवाङ्गं प्रयोजयेत् ॥ ९१॥ कटी कर्णसमा यत्र कूर्परांसशिरस्तथा । समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ॥ ९२॥ नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः । अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः ॥ ९३॥ नाट्यं नृत्तं च सर्वं हि सौष्ठवे सम्प्रतिष्ठितम् । कटीनामभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ॥ ९४॥ वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् । परिमार्जनमादानं सन्धानं मोक्षणम् तथा ॥ ९५॥ धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् । संमार्जनं परामर्षमादानं ग्रहणं क्रिया ॥ ९६॥ सन्धानं शरविन्यासो विक्षेपो मोक्षणं भवेत् । तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च ॥ ९७॥ व्यायामं कारयेत् श्रीमान् भित्तावाकालिके तथा । योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत् ॥ ९८॥ भित्तौ प्रसारिताङ्गन्तु व्यायामं कारयेन्नरम् । बलार्थं च निषेवेत नस्यं बस्तिविधिं तथा ॥ ९९॥ स्निग्धान्यन्यानि च तथा रसकं पानकं तथा । आहारेऽधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः ॥ १००॥ तस्माद्योग्याप्रसिध्यर्थमाहारे यत्नवान् भवेत् । अशुद्धकायं प्रक्लान्तमतीवक्षुत्पिपासितम् ॥ १०१॥ अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् । अचलैर्मधुरैगात्रैश्चतुरश्रेण वक्षसा ॥ १०२॥ व्यायामं कारयेद्धीमान् नरमङ्गक्रियात्मकम् । एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः ॥ १०३॥ अत ऊर्ध्वं प्रवक्ष्यामि मण्डलानां विकल्पनम् । इति भरतीये नाट्यशास्त्रे चारीविधानो नाम दशमोऽध्यायः ।