अक्षर आकार:

नाट्यशास्त्रम् अध्यायः ४

Natya Shastra Chapter 4

नाट्यशास्त्रम् अध्यायः ४

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ चतुर्थोऽध्यायः । एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ १॥ ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं तथा ॥ २॥ योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥ ३॥ तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ ४॥ कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ ५॥ ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् । समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ६॥ मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम । श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ७॥ पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् । ततो मामाह भगवान् सज्जो भव महामते ॥ ८॥ ततो हिमवतः पृष्ठे नानानागसमाकुले । बहुभूतगणाकीर्णे रम्यकन्दरनिर्ज़्हरे ॥ ९॥ पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥ १०॥ ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ ११॥ अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते । यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥ १२॥ मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥ १३॥ पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् । वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥ १४॥ महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ १५॥ एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा ॥ १६॥ प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः ॥ १७॥ प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै । ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना॥ १८॥ तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् । स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥ १९॥ सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च । आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥ २०॥ विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च ॥ २१॥ स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च । वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥ २२॥ मत्तस्खलितकश्चैव मदाद्विलसितस्तथा । गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ २३॥ परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः । परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥ २४॥ पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च । ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥ २५॥ रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः । आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ २६॥ अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः । द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥ २७॥ एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् । हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥ २८॥ अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥ २९॥ तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥ ३०॥ द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ ३१॥ त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् । पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥ ३२॥ षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥ ३३॥ एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ ३४॥ अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥ ३५॥ तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च । अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ ३६॥ उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । दिक्स्वस्तिकमलातं च तथैव च कटीसमम् ॥ ३७॥ आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा । अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ ३८॥ भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च । निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ ३९॥ स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् । वलितं घूर्णितं चैव ललितं च तथापरम् ॥ ४०॥ दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४१॥ भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥४२॥ कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४३॥ वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥ उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४५॥ विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४६॥ गजक्रीडितकं चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ ४७॥ परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४८॥ अर्धसूचीति करणं सूचिविद्धं तथैव च । अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ ४९॥ सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ ५०॥ प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ ५१॥ तलसंघट्टितं चैव जनितं चावहित्थकम् । निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥ ५२॥ मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ ५३॥ वृषभक्रीडितं चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥ ५४॥ गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ५५॥ नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे । गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ ५६॥ यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ ५७॥ चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ ५८॥ उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत । यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥ ५९॥ सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् । कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥ ६०॥ समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ॥ ६१॥ तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥ ६२॥ हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥ ६३॥ उरू च वलितौ यस्मिन्वलितोरुकमुच्यते । आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥ ६४॥ वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् । श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥ ६५॥ देहः स्वाभाविको यत्र भवेत्समनखं तु तत् । पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥ ६६॥ निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् । स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ ६७॥ यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥ ६८॥ तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ॥ ६९॥ पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् । अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥ ७०॥ निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् । पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ ७१॥ पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् । अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥ ७२॥ संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ ७३॥ निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् । आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥ ७४॥ उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः । हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ ७५॥ तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ ७६॥ अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् । पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥ ७७॥ स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते । अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ ७८॥ ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् । स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ ७९॥ पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥८०॥ रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥ ८१॥ यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ ८२॥ वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥ ८३॥ अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ ८४॥ कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् । कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥ ८५॥ प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् । वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ ८६॥ नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् । वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥८७॥ उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् । स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ ८८॥ सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् । रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥ ८९॥ दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् । कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ ९०॥ सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके । अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ ९१॥ तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ ९२॥ स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् । करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ ९३॥ बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः । ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ ९४॥ दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ ९५॥ वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् । त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ ९६॥ नूपुर्श्च तथा पादः करण्E नूपुरे न्यसेत् । रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥ ९७॥ वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् । आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥ ९८॥ त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ ९९॥ दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ १००॥ लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् । विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ १०१॥ रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् । वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ १०२॥ विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ १०३॥ रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ १०४॥ लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् । अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ १०५॥ वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥ १०६॥ रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् । बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥ १०७॥ दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् । आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ॥ १०८॥ ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥ १०९॥ यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ ११०॥ ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ १११॥ आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ ११२॥ उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥ ११३॥ अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् । स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ ११४॥ उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् । आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ ११५॥ आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः । ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥ ११६॥ प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥ ११७॥ तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् । विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ॥ ११८॥ एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् ॥ ११९॥ प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥ १२०॥ प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥ १२१॥ रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥ १२२॥ करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥ १२३॥ प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ १२४॥ तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते । पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ १२५॥ सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते । अतिक्रान्तक्रमं कृत्वा पुरस्तात्सम्प्रसारयेत् ॥ १२६॥ प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ १२७॥ द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥ १२८॥ दोलापादस्तथा चैव गजक्रीडितकं भवेत् । द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ १२९॥ तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ । पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥ १३०॥ समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् । सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥ १३१॥ द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते , ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥ १३२॥ परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते । एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः ॥ १३३॥ मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते । पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥ १३४॥ यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् । उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ १३५॥ सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ १३६॥ प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता । अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ १३७॥ यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः । पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥ १३८॥ कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते । कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥ १३९॥ प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते । वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥ १४०॥ तथा त्रिकं विवृत्तं च मयूरललितं भवेत् । अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥ १४१॥ रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् । नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥ १४२॥ क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते । अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ १४३॥ जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । (see the cluster ~NghA. A new ligature may be added to represent this cluster) डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥१४४॥ परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते । भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभि ( धो ) मुखाङ्गुली ॥ १४५॥ बद्धा चारी तथ चैव नितम्बे करणे भवेत् । दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥ १४६॥ रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् । एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ॥ १४७॥ अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके । एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥ १४८॥ प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् । अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ १४९॥ हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ । पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥ १५०॥ पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः । आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥ १५१॥ अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् । आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥ १५२॥ आनतं च तथ गात्रं तयोपसृतकं भवेत् दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ १५३॥ रेचयेच्च करं वामं तलसङ्घट्टिते सदा । एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥ १५४॥ तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ १५५॥ शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् । करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥ १५६॥ मण्डलस्थानकं चैव निवेशं करणं तु तत् । तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥१५७॥ संनतं वलितं गात्रमेलकाक्रीडितं तु तत् । करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् ॥ १५८॥ जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् । करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥ १५९॥ पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः । पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥ १६०॥ करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥१६१॥ ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ १६२॥ वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥ १६३॥ नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा । प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥ १६४॥ कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा । रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ १६५॥ उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् । स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्॥ १६६॥ रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ १६७॥ उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् । ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ १६८॥ हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥ १६९॥ पादप्रचारस्त्वेषां तु करणानामयं भवेत् । ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥ १७०॥ तेषां समासतो योगः करणेषु विभाव्यते । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ १७१॥ चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ १७२॥ सा मातृकेति विज्ञेया तद्भेदात्करणानि तु । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ १७३॥ अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् । प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥ १७४॥ व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् । प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् ॥ १७५॥ ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ १७६॥ स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः । तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥ १७७॥ ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १७८॥ एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः । अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥१७९॥ आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ १८९॥ करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् । अपविद्धं तु करणं सूचीविद्धं तथैव च ॥ १८१॥ उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ १८२॥ अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः । करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ १८३॥ पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १८४॥ आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः । उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥ १८५॥ पुनस्तैनैव योगेन वामपार्श्वे भवेदथ । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ १८६ कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा । पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ १८७॥ कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च । चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥ १८८॥ भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः । परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ १८९॥ करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥ १९०॥ व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ १९१॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥ १९२॥ रेचितेन तु हस्तेन पताकं हस्तमादिशेत् । आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ १९३॥ लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् । त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥ १९४॥ भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् । आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ १९५॥ बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १९६॥ मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः । रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ १९७॥ पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् । निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥१९८॥ लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते । पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥ १९९॥ द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि । ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥ २००॥ ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २०१॥ पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥ २०२॥ तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥ २०३॥ करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् । कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ २०४॥ परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ २०५ ॥ कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः । मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥ १०६॥ कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥ २०७॥ करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ २०८॥ अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥ २०९॥ करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ २१०॥ उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् । आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ २११॥ कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ २१२॥ आविद्धेन तु पादेन बाह्यभ्रमरकं तथा । वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ २१३॥ करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ । २१४॥ ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ २१५॥ लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ २१६॥ आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च । पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥ २१७॥ करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिती । रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥ २१८॥ पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् । कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ २१९॥ रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ २२०॥ करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते । आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥२२१॥ तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् । अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥ २२२॥ कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥ २२३॥ अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् । अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ २२४॥ करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके । निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ २२५॥ आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ २२६॥ कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥ २२७॥ दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः । परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥ २२८॥ लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ २२९॥ करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् । ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ २३०॥ लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा । आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ २३१॥ नूपुरश्चरणो वामस्तथालातश्च दक्षिणः । तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥२३२॥ करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् । हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥ २३३॥ पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् । रेचितं करणं कार्यमुरोमण्डलमेव च ॥ २३४॥ कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥२३५॥ व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् । वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥२३६॥ करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ २३७॥ कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥ २३८॥ उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २३९॥ आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः । विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥ २४०॥ वामसूचिसहकृतं विक्षिपेद्वामकं करम् । वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ २४१॥ नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥ २४२॥ कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः । अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ २४३॥ कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ २४४॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥ २४५॥ पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ २४६॥ करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ २४७॥ चतुरो रेचकांश्चापि गदतो मे निबोधत । पादरेचक एकः स्यात् द्वितीयः कटिरेचकः ॥ २४८॥ कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । [रेचिताख्यः पृथग्भावे वलने चाभिधीयते ॥ उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः । पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ॥ विविधैश्चैव पादस्य पादरेचक उच्यते । त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ॥ तथाऽपसर्पणं चैव कटिरेचक उच्यते । उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ॥ विसर्पणं च हस्तस्य हस्तरेचक उच्यते । उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ॥ भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः । ] रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ २४९॥ सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् । मृदङ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥२५०॥ पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ २५१॥ नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ २५२॥ चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् । ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि पट्टसी ॥ २५३॥ चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः ॥ २५४॥ शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ २५५॥ धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ॥ वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ २५६॥ हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी॥२५७॥ त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ २५८॥ ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः । रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥ २५९॥ सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा । तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥ २६०॥ नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः । ऋषय ऊचुः - यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥ २६१॥ कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥ २६२॥ कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । भरतः - अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥ २६३॥ किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् । प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ २६४॥ मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥ २६५॥ विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् । अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः॥ २६६॥ ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः। देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ २६७॥ गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् । प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥२६८॥ सुकुमारप्रयोगश्च श‍ृङ्गाररससम्भवः । तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्॥२६९॥ वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥ २७०॥ लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥ २७१॥ आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः । तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥ २७२॥ कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥२७३॥ गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् । वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ २७४॥ पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् । पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥ २७५॥ प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् । यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥ २७६॥ अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते । समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥२७७॥ नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ २७८॥ अनेनैव विधानेन प्रविशन्त्यपराः पृथक् । अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥ २७९॥ तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते । पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ २८०॥ पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः । पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥ २८१॥ तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि । ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥ २८२॥ पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ॥ २८३॥ तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् । आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ २८४॥ पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि । एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ २८५॥ भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च । एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ २८६॥ तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ २८७॥ पिण्डी श‍ृङ्खलिका चैव लताबन्धोऽथ भेद्यकः । पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः श‍ृङ्खलिका भवेत् ॥ २८८॥ जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु श‍ृङ्खला तु लयान्तरे ॥ २८९॥ मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः । पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥ २९०॥ शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः । एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥ २९१॥ गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥ २९२॥ गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः । तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥ २९३॥ क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् । प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥ २९४ तदेव च पुनर्वस्तु नृत्तीनापि प्रदर्शेयत् । यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥ २९५॥ आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि । एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥ २९६॥ श‍ृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥ २९७॥ तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥ २९८॥ मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ २९९॥ तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ ३००॥ त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥ ३०१॥ [ ततं चानुगतं चापि ओघं च करणान्वितम् । स्थिरे तत्त्वं (तं) प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥ एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ॥ अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ॥] एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि । देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ ३०२॥ स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि श‍ृङ्गाररससम्भवम् ॥ ३०३॥ यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वंं सम्प्रवक्ष्यामि तच्च मे श‍ृणुत द्विजाः ॥ ३०४॥ अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु । तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ ३०५॥ यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥ ३०६॥ यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् । गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ॥ ३०७॥ खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा । यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥३०८॥ सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये । न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥ ३०९॥ [ दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् । औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत् ॥] यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् । ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥ ३१०॥ देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥३११॥ यत्तु श‍ृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् । देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ ३१२॥ चतुष्पदा नर्कुटके खञ्जके परिगीतके । विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥ ३१३॥ खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा । पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ३१४॥ या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा । तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥३१५॥ कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च । पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥३१६॥ अऽङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु । तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ ३१७॥ येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ३१८ महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ३१९॥ एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ ३२०॥ इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः ॥