अक्षर आकार:

नैष्कर्म्यसिद्धिः

Naishkarmyasidhi

नैष्कर्म्यसिद्धिः

अथ प्रथमोऽध्यायः । आब्रह्मस्तम्बपर्यन्तैः सर्वप्राणिभिः सर्वप्रकारस्यापि दुःखस्य स्वरसत एव जिहासितत्वात्तन्निवृत्त्यर्था प्रवृत्तिरस्ति स्वरसत एव । दुःखस्य च देहोपादानैकहेतुत्वाद्देहस्य च पूर्वोपचितधर्माधर्ममूलत्वादनुच्छित्तिः । तयोश्चविहितप्रतिषिद्धकर्ममूलत्वादनिवृत्तिः । कर्मणश्च रागद्वेषास्पदत्वाद्रागद्वेषयोश्च शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्द्वैतस्य च शुक्तिकारजतादिवत्सर्वस्यापि स्वतस्सिद्धाद्वितीयात्मानवबोधमात्रोपादानत्वादव्यावृत्तिः । अतः सर्वानर्थहेतुरात्मानवबोध एव । सुखस्य चानागमापायिनोऽपरतन्त्रस्यात्मस्वभावत्वात्तस्यानवबोधः पिधानम् । अतस्तस्यात्यन्तोच्छित्तावशेषपुरुषार्थपरि- समाप्तिः । अज्ञाननिवृत्तेश्च सम्यग्ज्ञानस्वरूपलाभ- मात्रहेतुत्वात्तदुपादानम् । अशेषानर्थहेत्वात्मानवबोध- विषयस्य चानागमिकप्रत्यक्षादिलौकिकप्रमाणाविषयत्वा- द्वेदान्तागमवाक्यादेव सम्यग्ज्ञानम् । अतोऽशेषवेदान्तसारसंग्रहप्रकरणमिदमारभ्यते । तत्राभिलषितार्थप्रचयाय प्रकरणार्थसंसूत्रणाय चायमाद्यः श्लोकः । खानिलाग्न्यब्धरित्र्यन्तं स्रक्फणीवोद्गतं यतः । ध्वान्तच्छिदे नमस्तस्मै हरये बुद्धिसाक्षिणे ॥ १॥ स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय विशिष्टगुणसम्बन्धसंकीर्तनपूर्विका गुरोर्नमस्कारक्रिया । अलब्ध्वातिशयं यस्माद्व्यावृत्तास्तमबादयः । गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २॥ नमस्कारनिमित्तस्वाशयाविष्करणार्थः । वेदान्तोदरसंगूढं संसारोत्सारि वस्तुगम् । ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया ॥ ३॥ किंविशयं प्रकरणमिति चेत्तदुपन्यासः । यत्सिद्धाविदमः सिद्धिर्यदसिद्धौ न किंचन । प्रत्यग्धर्मैकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् ॥ ४॥ विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकारण- शङ्काव्युदासेनस्वगुरोः प्रामाण्योपवर्णनम् । गुरूक्तो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः । सहस्रकिरणव्याप्ते खद्योतः किं प्रकाशयेत् ॥ ५॥ गुरुणैव वेदार्थस्य परिसमापितत्वात्प्रकरणोक्तौ ख्यात्याद्यप्रामाण्य- कारणाशङ्केति चेत्तद्व्युदासार्थमाह । न ख्यातिलाभपूजार्थं ग्रन्थोऽस्माभिरुदीर्यते । स्वबोधपरिशुद्ध्यर्थं ब्रह्मविन्निकषाश्मसु ॥ ६॥ अनर्थानर्थहेतुपुरुषार्थतद्धेतुप्रकरणार्थसंग्रहज्ञाप - नायोपन्यासः । ऐकात्म्याप्रतिपत्तिर्या स्वात्मानिभवसंश्रया । साऽविद्या संसृतेर्बीजं तन्नाशो मुक्तिरात्मनः ॥ ७॥ पुरुषार्थहेतोरवशिष्टत्वात्तदभिव्याहारः । वेदावसानवाक्योत्थसम्यग्ज्ञानाशुशुक्षणिः । दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः ॥ ८॥ प्रतिज्ञातार्थसंशुद्ध्यर्थं पूर्वपक्षोक्तिः । तत्र ज्ञानमभ्युपगम्य तावदुपन्यासः । मुक्तेः क्रियाभिः सिद्धत्वाज्ज्ञानं तत्र करोति किम् । कथं चेच्छृणु तत्सर्वं प्रणिधाय मनो यथा ॥ ९॥ अकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथा । नित्यनैमित्तिकं कर्म विधिवच्चानुतिष्ठतः ॥ १०॥ किमतो भवति । काम्यकर्मफलं तस्माद्देवादीमं न ढौकते । निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोजनिम् ॥ ११॥ देहारम्भकयोश्च धर्माधर्मयोर्ज्ञानिना सह कर्मिणः समानौ चोद्यपरिहारौ । वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् । आरब्धं पुण्यपापाभ्यां भोगादेव तयोः क्षयः ॥ १२॥ काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य तन्निरासेनैवाशेषानर्थनिरासस्य सिद्धत्वात्किं नित्यानुष्ठानेनेति चेत्तन्न । तदकरणादप्यनर्थप्रसक्तेः । नित्यानुष्ठानतश्चैनं प्रत्यवायो न संस्पृशेत् । अनादृत्यात्मविज्ञानमतः कर्माणि संश्रयेत् ॥ १३॥ अभ्युपेत्यैवमुच्यते न तु यथावस्थितात्मवस्तुविषयं ज्ञानमस्ति । तत्प्रतिपादकप्रमाणाभावात् । यावन्त्यश्चेह विद्यन्ते श्रुतयस्स्मृतिभिस्सह । विदधत्युरुयत्नेन कर्मातो भूरिसाधनम् ॥ १४॥ स्यात्प्रमाणसम्भवो भवदपराधादिति चेत्तन्न । यतः । यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न क्वचित् । श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः ॥ १५॥ स्यात्प्रवृत्तिरन्तरेणापि विधिं लोकवदिति चेत्तन्न । यतः । अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् । न तत्स्यादुपकाराय भस्मनीव हुतं हविः ॥ १६॥ अभ्युपगतप्रामाण्यवेदार्थविज्जैमिन्यनुशासनाच्च । ᳚आम्नायस्य क्रियार्थत्वादानर्थक्यम् ᳚ इतोऽन्यथा । इति साटोपमाहोच्चैर्वेदविज्जैमिनिः स्वयम् ॥ १७॥ मन्त्रवर्णाच्च । ᳚कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ᳚ । इति मन्त्रोऽपि निश्शेषं कर्मण्यायुरवासृजत् ॥ १८॥ ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च क्रियापदप्रधानत्वात्ततश्चाभिप्रेतज्ञानाभावः । विरहय्य क्रियां नैव संहन्यन्ते पदान्यपि । न समस्त्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् ॥ १९॥ ज्ञानाभ्युपगमेऽपि न दोषः । यतः । कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाऽथवा । सम्बन्धस्येह संसिद्धेर्ज्ञाने सत्यप्यदोषतः ॥ २०॥ यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः । अतः सर्वाश्रमाणां हि वाङ्मनःकायकर्मभिः । स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् ॥ २१॥ असदर्थप्रलापोऽयमिति दूषणसम्भावनायाह । इति हृष्टधियां वाचः स्वप्रज्ञाऽऽध्मातचेतसाम् । घुष्यन्ते यज्ञशालासु धूमानद्धधियां किल ॥ २२॥ दूषणोपक्रमावधिज्ञापनायाह । अत्राभिदध्महे दोषान् क्रमशो न्यायबृंहितैः । वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसम्भ्रमात् ॥ २३॥ चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसम्भवान्न मुक्तेः कर्मकार्यत्वम् । अज्ञानहानमात्रत्वान्मुक्तेः कर्म न साधनम् । कर्मापमार्ष्टि नाज्ञानं तमसीवोत्थितं तमः ॥ २४॥ कर्मकार्यत्वाभ्युपगमेऽपि दोष एव । एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः । प्रत्येकं चेद्वृथान्यानि सर्वेभ्योऽप्येककर्मता ॥ २५॥ सर्वप्रकारस्यापि कर्मण उत्पत्तित एव विशिष्टसाध्याभि- सम्बन्धान्न परिशेष्यन्यायसिद्धिः । दुरितक्षपणार्थत्वान्न नित्यं स्याद्विमुक्तये । स्वर्गादिफलसम्बन्धात्काम्यं कर्म तथैव न ॥ २६॥ प्रमाणासम्भवाच्च । साध्यसाधनभावोऽयं वचनात्पारलौकिकः । नाश्रौषं मोक्षदं कर्म श्रुतेर्वक्त्रात्कथंचन ॥ २७॥ अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्छोक्तिवद्भवतो निष्प्रयोजनः प्रलापः । निषिद्धकाम्ययोस्त्यागस्त्वयापीष्टो यथा मया । नित्यस्याफलवत्त्वाच्च न मोक्षः कर्मसाधनः ॥ २८॥ एवं तावत् ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इति निरस्तोऽयं पक्षः । अथाधुना सर्वकर्मप्रवृत्तिहेतुनिरूपणेन यथावस्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव सकलसंसारानर्थनिवृत्तिरितीमं पक्षं द्रढयितुकाम आह । इह चेदं परीक्ष्यते । किं यथा प्रतिषिद्धेषु यादृच्छिकेषु च कर्मसु स्वाभाविकस्वाशयोत्थनिमित्तवशादेवेदं हितमिदमहितमिति विशेषान् परिकल्प्य मृगतृष्णिकोदकपिपासुरिव लौकिकप्रमाणप्रसिद्धान्येव साधनान्युपादाय हितप्राप्तयेऽहितनिरासाय च स्वयमेव प्रवर्तते निवर्तते च तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किं वान्यदेव तत्र प्रवृत्तिनिवृत्तिनिमित्तमिति । किंचातः । यद्येवं श्रुणु । यदि तावद्यथावस्थितवस्तुसम्यग्ज्ञानं प्रमाणभूतं लौकिकमागमिकं वा प्रवृत्तिनिमित्तमिति निश्चीयते निवृत्तिशास्त्रं च नाभ्युपगम्यते तदा हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिक- प्रमाणोपात्तकर्मानुष्ठानत्यागित्वाच्च । अथ मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तवदयथावस्तुभ्रान्ति- विज्ञानमेव सर्वप्रवृत्तिनिमित्तं तदा वर्द्धामहे वयं हताः स्थ यूयमिति । हितं सम्प्रेप्सतां मोहादहितं च जिहासताम् । उपायान्प्राप्तिहनार्थान् शास्त्रं भासयतेऽर्कवत् ॥ २९॥ एवं तावत्प्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च षष्ठगोचरवत्स्वत एवानभिसम्बन्धादेवंस्वाभाव्या- त्मानवबोधमात्रादेव हितं मे स्यादहितं मे मा भूदिति मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवत्- प्रवृत्तिनिमित्तमिति निर्धारितम् । शास्त्रं च न पदार्थशक्त्याधानकृदिति । अथैतस्यैवोत्तरत्र प्रपञ्च आरभ्यते । न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि । निजे एव तु ते यस्मात्पश्वादावपि दर्शनात् ॥ ३०॥ उक्तं तावदनवबुद्धवस्तुयाथात्म्य एव विधिप्रतिषेशशास्त्रेष्वधिक्रियत इति । लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा । वर्जितं च स्वतो भ्रान्त्या छायायामात्मनो यथा ॥ ३१॥ भयान्मोहावनद्धात्मा रक्षः परिजिहीर्षति । पच्चापरिहृतं वस्तु तथालब्धं च लिप्सते ॥ ३२॥ तत्रैतेषु चतुर्षु विषयेषु प्राप्तये परीहाराय च विभज्य न्यायः प्रदर्श्यते । प्राप्तव्यपरिहार्येषु ज्ञात्वोपायाञ्छृतेः पृथक् । कृत्वाथ प्राप्नुयात्प्राप्यं तथानिष्टं जहात्यपि ॥ ३३॥ अथावशिष्टयोः स्वभावत एव । परिहृतावाप्तयोर्बोधाद्धानप्राप्ती न कर्मणा । मोहमात्रान्तरायत्वात्क्रियया ते न सिध्यतः ॥ ३४॥ कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित- निरतिशयसुखावाप्तिनिश्शेषदुःखनिवृत्ती भवतो न तु कर्मणेति । उच्यते । कर्माज्ञानसमुत्थत्वान्नालं मोहापनुत्तये । सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥ ३५॥ नन्वात्मज्ञानमप्यविद्योपादानम् । न हि शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानमात्मानं लभतः इति । नैष दोषः । यत आत्मज्ञानं हि स्वतस्सिद्धपरमार्थात्मवस्तुस्वरूपमात्राशयादेवाविद्यातदुत् पन्न कारकग्रामप्रध्वंसि स्वात्मोपतावेव शास्त्रादपेक्ष्यते नोत्पन्नमविद्यानिवृत्तौ । कर्म पुनः स्वात्मोत्पत्तावुत्पन्नं च । न हिक्रिया कारकनिस्स्पृहा कल्पकोटिव्यवहितफलदानाय स्वात्मानं बिभर्ति साध्यमानमात्ररूपत्वात्तस्याः । न च क्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन कर्तारं सम्बध्नाति । आत्मज्ञानं पुनः पुरुषार्थसिद्धौ नोत्पद्यमानस्वरूपव्यतिरेकेणान्यद्रूपान्तरं साधनान्तरं वापेक्षते । कुत एतत् । यतः । बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते । आकाङ्क्षते न चाप्यान्यद्बाधनं प्रति साधनम् ॥ ३६॥ स्वपक्षस्य हेत्ववष्टम्भेन समर्थितत्वानिराशङ्क- मुपसंह्रियते । तस्माद्दुःखोदधेर्हेतोरज्ञानस्यापनुत्तये । सम्यग्ज्ञानं सुपर्याप्तं क्रिया चेन्नोक्तहेतुतः ॥ ३७॥ ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेन बाध्यमानमुपलभामहे यत उत्पन्नपरमार्थबोधस्यापि कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां प्रत्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः । बाधितत्वादविद्याया विद्यां सा नैव बाधते । तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्ध्रुवन् ॥ ३८॥ ᳚कर्माज्ञानसमुत्थत्वात् ᳚ इत्युक्तो हेतुस्तस्य च समर्थनं पूर्वमेवाभिहितं ᳚हितं सम्प्रेप्सताम् ᳚ इत्यादिना । तदभ्युच्चयार्थमविद्यान्वयेन च संसारान्वयित्वं प्रदर्शयिष्यामीत्यत आह । ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् । श्रुतेः किङ्करतामेति वाङ्मनःकायकर्मसु ॥ ३९॥ यस्मात्कर्माज्ञानसमुत्थमेव तस्मात्तद्व्यावृत्तौ निवर्तत इत्युच्यते । दग्धाखिलाधिकारश्चेद्ब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः ॥ ४०॥ अथेतरो घनतराविद्या पटलसंवीतान्तःकरणोऽङ्गीकृत- कर्तृत्वाद्यशेषकर्माधिकारकारणो विधिप्रतिषेधचोदनासंदंशोपदष्टः कर्मसु प्रवर्तमानः । शुभैः प्राप्नोति देवत्वं निषिद्धैर्नारकीं गतिम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ ४१॥ आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःख- मोहविद्युच्चपलसम्पातदायिनीर्विचित्रयोनीश्चण्डोत्पिञ्जल- कश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्छुभा- शुभव्यामिश्रकर्मवायुसमीरितः । एवं चङ्क्रम्यमाणोऽयमविद्याकामकर्मभिः । पाशितो जायते कामी म्रियते चासुखावृतः ॥ ४२॥ यथोक्तेऽर्थ आदरविधानाय प्रमाणोपन्यासः । श्रुतिश्चेमं जगादार्थं कामस्य विनिवृत्तये । तन्मूला संसृतिर्यस्मात्तन्नाशोऽज्ञानहानतः ॥ ४३॥ का त्वसौ श्रुतिरिति चेत् । ᳚यदा सर्वे प्रमुच्यन्त ᳚ ᳚इति नु ᳚ इति च वाजिनः । कामबन्धनमेवेदं व्यासोऽप्याह पदेपदे ॥ ४४॥ एष संसारपन्था व्याख्यातः । अथेदानीं तद्व्यावृत्तये कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते तथाभिधीयते । तस्यैवं दुःखतप्तस्य कथंचित्पुण्यशीलनात् । नित्येहाक्षालितधियो वैराग्यं जायते हृदि ॥ ४५॥ कीदृग्वैराग्यमुत्पद्यत इति । उच्यते । नरकाद्भीर्यथास्याभूत्तथा काम्यफलादपि । यथार्थदर्शनात्तस्मान्नित्यं कर्म चिकीर्षति ॥ ४६॥ एवं नित्यनैमित्तिककर्मानुष्ठानेन । शुध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः । वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ॥ ४७॥ यस्माद्रजस्तमोमलोपसंसृष्टमेव चित्तं कामबडिशेनाकृष्य विषयदुरन्तसूनास्थानेष निक्षिप्यते तस्मान्नित्यनैमित्तिककर्मानुष्ठानपरिमार्जनेनापविद्ध- रजस्तमोमलं प्रसन्नमनाकृलं संमार्जितस्फटिकशिलाकल्पं बाह्यविषयहेतुकेन च रागद्वेषात्मकेनातिग्रहबडिशेना- नाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङ्मात्रप्रवणं चित्तदर्पणमवतिष्टते । अत इदमभिधीयते । व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते । तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति ॥ ४८॥ अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणवत्वसूनौ कृतसम्प्रत्तिकानि चरितार्थानि सन्ति । प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ ४९॥ यतो नित्यकर्मानुष्ठानस्यैष महिमा । तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः । नित्यं नैमित्तिकं कर्म सदैवात्मविशुद्धये ॥ ५०॥ यथोक्तेऽर्थे सर्वज्ञवचनं प्रमाणम् । ᳚आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शम᳚ एवेति च स्मृतिः ॥ ५१॥ नित्यकर्मानुष्ठानाद्धर्मोत्पत्तिर्धर्मोत्पत्तेः पापहानिस्ततश्चित्तशुद्धिस्ततः संसारयाथात्म्यावबोधस्ततो वैराग्यं ततो मुमुक्षुत्वं ततस्तदुपायपर्येषणं ततः सर्वकर्मतत्साधनसंन्यासस्ततो योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता ततस्तत्त्वमस्यादिवाक्यार्थपरिज्ञानं ततोऽविद्योच्छेदस्ततश्च स्वात्मन्ये- वावस्थानं ᳚ब्रह्मैव सन् ब्रह्माप्येति ᳚ ᳚विमुक्तश्च विमुच्यते ᳚ इति । पारम्पर्येण कर्मैवं स्यादविद्यानिवृत्तये । ज्ञानवन्नाविरोधित्वात्कर्माविद्यां निरस्यति ॥ ५२॥ न च कर्मणः कार्यमण्वपि मुक्तौ सम्भाव्यते नापि मुक्तौ यत्सम्भवति तत्कर्मापेक्षते । तदुच्यते । उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियाफलम् । नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥ ५३॥ एवं तावत्केवलं कर्म साक्षादविद्यापनुत्तये न पर्याप्तमिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानत- द्विषयस्वाभाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसम्भव उक्तो ᳚हितं सम्प्रेप्सताम् ᳚ इत्यादिना । यादृशश्चारादुपकारकत्वेन ज्ञानोत्पत्तौ कर्मणां समुच्चयः सम्भवति तथा प्रतिपादितम् । अविद्योच्छित्तौ तु लब्धात्मस्वभावस्यात्मज्ञानस्यैवासाधारणं साधकतमत्वं नान्यस्य प्रधानभूतस्य गुणभूतस्य चेत्येतदधुनोच्यते । तत्र ज्ञानं गुणभूतं तावदहेतुरित्येतदाह । संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति । साध्यसाधनभावत्वादेककालानवस्थितेः ॥ ५४॥ समप्रधानयोरप्यसम्भव एव । बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव । एकदेशानवस्थानान्न समुच्चयता तयोः ॥ ५५॥ कुतो बाध्यबाधकभावः । यस्मात् । अयथावस्त्वविद्या स्याद्विद्या तस्या विरोधिनी । समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ ५६॥ तस्मादकारकब्रह्मात्मनि परिसमाप्तावबोधस्याशेषकर्म- चोदनानामचोद्यस्वाभाव्यात्कुण्ठता । कथं तत् । अभिधीयते । बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते । ब्राह्मणत्वाद्यहंमानी विप्री वा क्षत्रकर्मणि ॥ ५७॥ यथायं दृष्टान्त एवं दार्ष्टान्तिकोऽपीत्येतदाह । विदेहो वीतसन्देहो नेतिनेत्यवशेषितः । देहाद्यनात्मदृक्तद्वत्क्रियां वीक्षतेऽपि न ॥ ५८॥ तस्यार्थस्याविष्करणार्थमुदाहरणम् । मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति । अध्यस्यात्मानि देहादीन्मूढस्तद्वत्विचेष्टते ॥ ५९॥ न च वयं ज्ञानकर्मणोः सर्वत्रैव प्रत्याचक्ष्महे । यत्र प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पित्रापि शक्यते निवारयितुम् । तत्र विभागप्रदर्शनायोदाहरणं प्रदर्श्यते । स्थाणुं चोरधियालाय भीतो यद्वत्पलायते । बुद्ध्यादिभिस्तथात्मानं भ्रान्तोऽध्यारीप्य चेष्टते ॥ ६०॥ एवं यत्रयत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र सर्वत्रायं न्यायः । यत्र तु न समकालं नापि क्रमेणोपपद्यते समुच्चयः सविषय उच्यते । स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायते । आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ ॥ ६१॥ यस्माद्गुणस्यैतत्स्वाभाव्यम् । यद्धि यस्यानुरोधेन स्वभावमनुवर्तते । तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः ॥ ६२॥ यस्मात् । कर्मप्रकरणाकाङ्क्षिज्ञानं कर्मगुणो भवेत् । यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते ॥ ६३॥ स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः । न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् ॥ ६४॥ समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् । यस्मात् । अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति । विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ॥ ६५॥ इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि । हेतुस्वरूपकार्याणि प्रकाशतमसोरिव । विरोधीनि ततो नास्ति साङ्गत्यं ज्ञानकर्मणोः ॥ ६६॥ एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदे- तद्वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तन्नैव स्वोत्पत्तिमात्रेणाज्ञानं निरस्यति । किं तर्हि । अहन्यहनि द्राघीयसा कालेनोपासीनस्य सतो भावनोपचयान्निश्शेषम् अज्ञानमपगच्छति ᳚देवो भूत्वा देवानप्येति ᳚ इति श्रुतेः । अपरे तु ब्रुवते वेदान्तवाक्यजनितमहं ब्रह्मेति विज्ञानं संसर्गात्मकत्वादात्मवस्तुयाथात्म्यावगाह्येव न भवति । किं तर्हि । एतदेव गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं विज्ञानान्तरमुत्पद्यते । अस्य पक्षद्वयस्य निवृत्तय इदमभिधीयते । सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् । अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥ ६७॥ एवं तावदनानात्वे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो निराकृतः । अथाधुना पक्षान्तराभ्युपगमेनापि प्रत्यवस्थाने पूर्ववदनाश्वासो यथा तथाभिधीयते । अनुत्सारितनानात्वं ब्रह्म यस्यापि वादिनः । तन्मतेनापि दुस्साध्यो ज्ञानकर्मसमुच्चयः ॥ ६८॥ तस्य विभागोक्तिर्दूषणविभागप्रज्ञप्तये । ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् । आत्मानाप्तिर्भवेन्मोहादितरस्याप्यनात्मनः ॥ ६९॥ तत्र यदि तावद्वास्तवेनैव वृत्तेन ब्रह्म प्राप्तमात्मस्वाभाव्यात्केवलमासुरमोहापिधानमात्र- मेवानाप्तिनिमित्तं तस्मिन्पक्षे । मोहापिधानभङ्गाय नैव कर्माणि कारणम् । ज्ञानेनैव फलावाप्तेस्तत्र कर्म निरर्थकम् ॥ ७०॥ अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते नापि ज्ञानं कर्मसमुच्चितमसमुच्चितं वा यस्मादन्यस्य स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिद्धम् । तत्रैवम् । अन्यस्यान्यात्मताप्राप्तौ न क्वचिद्धेतुसम्भवः । तस्मिन् सत्यपि नो नष्टः परात्मानं प्रपद्यते ॥ ७१॥ अपरस्मिंस्तु पक्षे विधिः । परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः । द्वैतिनोऽपि प्रमुच्येरन्न परात्मविरोधिना ॥ ७२॥ इतरस्मिंस्तु पक्षे विधेरेवानवकाशत्वम् । कथम् । समस्तव्यस्तभूतस्य ब्रह्मण्येवावतिष्ठतः । ब्रूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः ॥ ७३॥ सर्वकर्मनिमित्तसम्भवासम्भवाभ्यां सर्वकर्मसङ्करश्च प्राप्नोति । यस्मात् । सर्वजात्यादिमत्त्वेऽस्य नितरां हेतसम्भवः । विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते ॥ ७४॥ स्याद्विधिरध्यात्मभिमानादिति चेन्नैवम् । यस्मात् । न चाध्यात्माभिमानोऽपि विदुषोऽस्त्यासुरत्वतः । विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् ॥ ७५॥ अज्ञानकार्यत्वान्न समकालं नापि क्रमेण ज्ञानकर्मणोर्वस्त्ववस्तु- तन्त्रत्वात्सङ्गतिरस्तीत्येवं निराकृतोऽपि काशं कुशं वावलम्ब्याह ॥ अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् । स करोत्येव कर्माणि को ह्यज्ञं विनिवारयेत् ॥ ७६॥ सिद्धत्वाच्च न साध्यम् । यतः । सामान्येतररूपाभ्यां कर्मात्मैवास्य योगिनः । निश्श्वासोच्छ्वासवत्तस्मान्न नियोगमपेक्षते । ॥ ७७॥ अस्तु तर्हि भिन्नाभिन्नात्मकं ब्रह्म । तथा च सति ज्ञानकर्मणो सम्भवतो भेदाभेदविषयत्वात्तयोः । तत्र तावदयं पक्ष एव न सम्भवति । किं कारणम् । न हि भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः पदार्थमालिङ्गते । एवं ह्यनभ्युपगमे भिन्नाभिन्न- पदार्थयोरलौकिकत्वं प्रसज्येत । अथ निष्प्रमाणकम- प्याश्रीयते तदप्युभयपक्षाभ्युपगमादभेदपक्षे दुःखि ब्रह्म स्यादत आह । भिन्नाभिन्नं विशेषैश्चेद्दुःखि स्याद्ब्रह्म ते ध्रुवम् । अशेषदुःखिता च स्यादहो प्रज्ञात्मवादिनाम् ॥ ७८॥ तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय इत्युपसंह्रियते । तमोऽङ्गत्वं यथा भानोरग्नेश्शीताङ्गता यथा । वारिणश्चोष्णता यद्वज्ज्ञानस्यैवं क्रियाङ्गता ॥ ७९॥ यथोक्तोपपत्तिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं नावशेषितमित्यतः प्रतिपत्तिकर्मवत्पूर्वपक्षपरिहाराय यत्किञ्चिद्वक्तव्यमित्यत इदमभिधीयते । ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इत्याद्यनुचितं बहु । यदभाणि तदन्याय्यं यथा तदधुनोच्यते ॥ ८०॥ योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते सा प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् । किं कारणम् । कर्मणो हि निर्वृत्तात्मनो द्वाभ्यां प्रकाराभ्यां निवृत्तिः सम्भवत्यारब्धफलस्योपभोगेनानारब्धफलस्याशुभस्य प्रायश्चित्तैरिति । तृतीयोऽपि त्यागप्रकारोऽकर्त्रा- त्मावबोधात् स त्वात्मज्ञानानभ्युपगमाद्भवता नाभ्युपगम्यते । तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि तानीश्वरेणापि केनचिदपि न शक्यन्ते परित्यक्तुम् । अथारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तुम् । किं कारणम् । अनिवृत्तेः । अनिर्वृत्तं हि चिकीर्षितं कर्म शक्यते त्यक्तुं प्रवृत्तिनिवृत्ती प्रति कर्तुः स्वातन्त्र्यात् । निर्वृत्ते तु कर्मणि तदसम्भवाद्दुरनुष्ठेयः प्रतिज्ञानार्थः । अशक्यप्रतिज्ञानाच्च । न च शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि प्रतिषिद्धानि च कर्माणि न करिष्यामीति सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । प्रमाणाभावाच्च । न च प्रमाणमस्ति मोक्षकामो नित्यनैमित्तिके कर्मणी कुर्यात्काम्यप्रतिषिद्धे च वर्जयेदारब्धफले चोपभोगेन क्षपयेदिति । आनन्त्याच्च । न चोपचितानां कर्मणामियत्तास्ति संसारस्यानादित्वात् । न च काम्यैः प्रतिषिधैर्वा तेषां निवृत्तिरस्ति शुद्ध्यशुद्धिसाम्ये सत्यविरोधादित्याह । न कृत्स्नकाम्यसंत्यागोऽनन्तत्वात्कर्तुमिष्यते । निषिद्धकर्मणश्चेत्तु व्यतीतानन्तजन्मसु ॥ ८१॥ स्यान्मतं व्यतीताननन्तजन्मोपात्तानां कर्मणाम् । क्षयो नित्येन तेषां चेत्प्रायश्चित्तैर्यथैनसः । निष्फलत्वान्न नित्येन काम्यादेर्विनिवारणाम् ॥ ८२॥ प्रमाणाभावाच्च । कथम् । पापापनुत्तये वाक्यात्प्रायश्चित्तं यथा तथा । गभ्यते काम्यहानार्थं नित्यं कर्म न वाक्यतः ॥ ८३॥ अथापि स्यात्काम्यैरेव काम्यानां पूर्वजन्मोपचितानां क्षयो भविष्यतीति । तन्न । यतः । पाप्मनां पाप्मभिर्नास्ति यथैवेह निराक्रिया । काम्यैरपि तथैवास्तु काम्यानामविरोधतः ॥ ८४॥ एवं तावत् ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इति निराकृतम् ॥ अथात्मज्ञानस्य सद्भावे प्रमाणासम्भव उक्तस्तत्परिहारायाह । श्रुतयस्स्मृतिभिस्सामानन्त्यात्कामिनामिह । विदधत्युरुयत्नेन कर्मातो बहुकामदम् ॥ ८५॥ न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते । अत आह । प्रामाण्याय न बाहुल्यं न ह्येकत्र प्रमाणताम् । वस्तुन्यटन्ति मानानि त्वेकत्रैकस्य मानता ॥ ८६॥ यत्तूक्तं ᳚यत्नतो वीक्षमाणोऽपि ᳚ इति -- तत्रापि भवत एवापराधः । कस्मात् । यतः । ᳚परीक्ष्य लोकान् ᳚ इत्याद्या आत्मज्ञानविधायिनीः । नैष्कर्म्यप्रवणास्साध्वीः श्रुतीः किं न श‍ृणोषि ताः ॥ ८७॥ ननु ᳚ आत्मेत्येवोपासीत ᳚ ᳚आत्मा वा अरे द्रष्टव्यः᳚ इत्यपूर्वविधिश्रुतेः पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति । नैवम् । अपुरुषतन्त्रत्वाद्वस्तुयाथात्म्यज्ञानस्य सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति । विध्यभ्युपगमेऽपि नापूर्वविधिरयम् । अत आह । नियमः परिसंख्या वा विध्यर्थोऽपि भवेद्यतः । अनात्मादर्शनेनैव परात्मानमुपास्महे ॥ ८८॥ यच्चोक्तं ᳚विश्वासो नान्यतोऽस्ति नः᳚ इति -- तदपि निद्रातुरचेतसा त्वया स्वप्नायमानेन प्रलपितम् । किं कारणम् । न हि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह ऐकात्म्यस्य स्वत एवानुभवमात्रात्मकत्वात् । अत एव सर्वप्रमाणावतारासम्भवं वक्ष्यति । प्रमाणव्यवस्थायाश्चनुभवमात्राश्रयत्वात् । अत आह । वाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् । नाऽप्रमेये स्वतस्सिद्धेऽविश्वासः कथमात्मनि ॥ ८९॥ यदप्युक्तं ᳚अन्तरेण विधिम् ᳚ इति-- तदप्यबुद्धिपूर्वकमिव नः प्रतिभाति । यस्मात्कालान्तरफलदायिषु कर्मस्वेतद्घटते । आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने नैतत्समञ्जसमित्याह । ज्ञानात्फले ह्यवाप्तेऽस्मिन्प्रत्यक्षे भवघातिनि । उपकाराय तन्नेति न न्याय्यं भाति नो वचः ॥ ९०॥ यदपि जैमिनीयं वचनमुद्घाटयसि -- तदपि तद्विवक्षापरिज्ञानादेवोद्भाव्यते । किं कारणम् । यतो न जैमिनेरयमभिप्राय आम्नायः । सर्व एव क्रियार्थ इति । यदि ह्ययमभिप्रायोऽभविष्यत् ᳚ अथातो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः ᳚ इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं गम्भीरन्यायसंदृब्धं सर्ववेदान्तार्थमीमांसनं श्रीमच्छारीरकं नासूत्रयिष्यत् । असूत्रयच्च । तस्माज्जैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगत- वस्तुपरिच्छेदसाम्यादिति । अत इदमभिधीयते । अधिचोदनं य आम्नायस्तस्यैव स्यात्क्रियार्थता । तत्त्वमस्यादिवाक्यानां ब्रूत कर्मार्थता कथम् ॥ ९१॥ अपि च । ऐकात्म्यपक्ष इवादृष्टार्थकर्मसु भवत्पक्षेऽपि प्रवृत्तिर्दुर्लक्ष्या । यतः । स्वर्गं यियासुर्जुहुयादग्निहोत्रं यथाविधि । देहाद्व्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथम् ॥ ९२॥ न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभाव- स्यात्ममात्रस्य कर्मस्वधिकारः । यस्मात् । सर्वप्रमाणासम्भाव्यो ह्यहंवृत्त्यैकसाधनः । युष्मदर्थमनादित्सुर्जैमिनिः प्रेर्यते कथम् ॥ ९३॥ प्रवृत्तिकारणाभावाच्च । यस्मात् । सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते । पराक्त्वात्प्रत्यगात्मत्वाज्जैमिनिः प्रेर्यते कथम् ॥ ९४॥ किंच । न तावद्योग एवास्ति शरीरेणात्मनः सदा । विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् ॥ ९५॥ यस्मादन्यथा नोपपद्यते । नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् । मन्त्र आहोररीकृत्य ᳚कुर्वन्᳚ इति न निर्द्वयम् ॥ ९६॥ यच्चोक्तं ᳚विरहय्य ᳚ इति तदपि न सम्यगेव । तथापि तु न या काचित्क्रिया यत्र क्व चाध्याहरणीया किं तु या यत्राभिप्रेतसम्बन्धं घटयितुं शक्नोत्याकाङ्क्षां च वाक्यस्य पूरयति सैवाध्याहरणीया । एवंविशिष्टा च क्रियास्माभिरभ्युपगतैव । सा तूपादित्सितवाक्यार्था- विरोधिन्येव नाभूतार्थप्रादुर्भावफलेति । षड्भावविकाररहितात्मवस्तुनो निर्धूताशेष- द्वैतानर्थस्यापराधीनप्रकाशस्य विजिज्ञापयिषितत्वादस्यस्मीत्यादिक्रियापदं स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न विपरीतार्थप्रतिपादनपरमिति । धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते । एधीत्यादि तथा नेच्छेत्स्वतः सिद्धार्थवाचिनि ॥ ९७॥ न च यथोक्तवस्तुवृत्तप्रतिपादनव्यतिरेकेण तत्त्वमस्यादिवाक्यं वाक्यार्थान्तरं वक्तीति शक्यमध्यवसातुमित्याह । तत्त्वमस्यादिवाक्यानां स्वतस्सिद्धार्थबोधनात् । अर्थान्तरं न संद्रष्टुं शक्यते त्रिदशैरपि ॥ ९८॥ यस्मादेवम् । अतः सर्वाश्रमाणां तु वाङ्मनःकायकर्मभिः । स्वनुष्ठितैर्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः ॥ ९९॥ तस्माच्च कारणादेतदप्युपपन्नम् । स्वमनोरथसंक्लृप्तप्रज्ञाध्मातधियामतः । श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु ॥ १००। इति प्रथमोऽध्यायः ॥ १॥ अथ द्वितीयोऽध्यायः । प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक- विषयोपनिपातित्वादात्मनश्चाशेषप्रमेयवैलक्षण्या- त्सर्वानर्थैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्त्वमस्यादेर्वचस एवेति बह्वीभिरुपपत्तिभिः प्रदर्शितम् । अतस्तदर्थारतिपत्तौ यत्कारणं तदपनयनाय द्वितीयोऽध्याय आरभ्यते । श्रावितो वेत्ति वाक्यार्थं नचेत्तत्त्वमसीत्यतः । त्वम्पदार्थानभिज्ञत्वादतस्तत्प्रक्रियोच्यते ॥ १॥ योऽयमहम्ब्रह्मेति वाक्यार्थस्तत्प्रतिपत्तिर्वाक्यादेवेति प्रत्यक्षादीनामनेवंविषयत्वादित्यवादिषं तस्य विशुद्ध्यर्थमनैकात्त्रिकत्वं पूर्वपक्षत्वेनोपस्थाप्यते । कृत्स्नानात्मनिवृत्तौ च कश्चिदाप्नोति निर्वृतिम् । श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥ २॥ एतत्प्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि सम्भावनायाह । वाक्यश्रवणमात्राच्च पिशाचकवदाप्नुयात् । त्रिषु यादृच्छिकी सिद्धिः स्मार्यमाणे तु निश्चिता ॥ ३॥ नायमनैकान्तिको हेतुः । यतः । सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः । वाक्यार्थं न ह्यृते वाक्यात्कश्चिज्जानाति तत्त्वतः ॥ ४॥ वाक्यं च प्रतिपादनाय प्रवृत्तं सत्प्रतिपादयत्येव सर्वप्रमाणानामप्येवंवृत्तत्वात् । नाहंग्राह्ये न तद्धीने न प्रत्यङ्नापि दुःखिनि । विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते ॥ ५॥ नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् । न चानिवृत्ततृष्णस्य पुरुषस्य मुमुक्षुता ॥ ६॥ न चामुमुक्षोरस्तीह गुरुपादोपसर्पणम् । न विना गुरुसम्बन्धं वाक्यस्य श्रवणं भवेत् ॥ ७॥ तथा पदपदाथौ च न स्तो वाक्यमृते क्वचित् । अन्वयव्यतिरेकौ च तावृते स्तां कैमाश्रयौ ॥ ८॥ अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् । न स्यात्तेन विनाज्ञानप्रहाणं नोपपद्यते ॥ ९॥ विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः । तस्माद्यथोक्तसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते ॥ १०॥ वर्चस्कं त्वन्नकार्यत्वाद्यथा नात्मेति गम्यते । तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते ॥ ११॥ आद्यन्तयोरनात्मत्वे प्रसिद्धे मध्येऽपि कः प्रतिबन्धः । प्रागनात्मैव जग्धं सदात्मतामेत्यविद्यया । स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः ॥ १२॥ अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्छरीराद्- अशुचिराशेर्निराशो भविष्यसि । मन्यसे तावदस्मीति यावदस्मान्न नीयसे । श्वभिः क्रोडीकृते देहे नैवं त्वमभिमंस्यसे ॥ १३॥ शिर आक्रम्य पादेन भर्त्सयत्यपरान् शुनः । दृष्ट्वा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः ॥ १४॥ श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्ध्यादिदेहान्त इतीदमाह । बुसव्रीहिपलालांशैर्बीजमेकं त्रिधा यथा । बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् ॥ १५॥ यथोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः । वर्चस्के सम्परित्यक्ते दोषतश्चावधारिते । यदि दोषं वदेत्तस्मै किं तत्रोच्चरितुर्भवेत् ॥ १६॥ तद्वत्सूक्ष्मे तथा स्थूले देहे त्यक्ते विवेकतः । यदि दोषं वदेत्ताभ्यां किं तत्र विदुषो भवेत् ॥ १७॥ एतावदेव ह्यहं ब्रह्मास्मीति वाक्यार्थाप्रतिपत्तौ कारणं यदुत बुद्ध्यादौ देहान्ते ह्यहंममेति निस्सन्धिबन्धनो ग्रहः । तद्व्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्म- न्यवतिष्ठत इत्याह । रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेश्विव ॥ १८॥ इतश्चानात्मा देहादिः । घटादिवच्च दृश्यत्वात्तैरेव करणैर्दृशेः । स्वप्ने चानन्वयाज्ज्ञयो देहोऽनात्मेति सूरिभिः ॥ १९॥ देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते । चतुर्भिरुह्यते यत्तत्सर्वशक्त्या शरीरकम् । तूलायते तदेवाहंधियाघ्रातमचेतसाम् ॥ २०॥ प्रसिद्धत्वाप्रकरणार्थोपसंहारायाह । स्थूलं युक्त्या निरस्यैवं नभसो नीलतामिव । देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः ॥ २१॥ कथं देहं सूक्ष्मं निराकृर्यादिति । उच्यते । अहंममत्वयत्नेच्छा नात्मधर्माः कृशत्ववत् । कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् ॥ २२॥ वैधर्म्ये दृष्टान्तः । नोष्णिमानं दहत्यग्निः स्वरूपत्वाद्यथा ज्वलन् । तथैवात्मात्मनो विद्यादहं नैवाविशेषतः ॥ २३॥ एकस्यात्मनः कर्मकर्तृभावः सर्वथा नोपपद्यत इति श्रुत्वा मीमांसकः प्रत्यवतिष्ठते । अहम्प्रत्ययग्राह्यत्वाद्ग्राहक आत्मेति तन्निवृत्त्यर्थमाह । यत्कर्मको हि यो भावो नासौ तत्कर्तृको यतः । घटप्रत्ययवत्तस्मान्नाहं स्याद्द्रष्टृकर्मकः ॥ २४॥ अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति चोद्यं तन्निराकरणाय प्रत्यक्षोपन्यासः । यत्र यो दृश्यते द्रष्ट्रा तस्यैवासौ गुणो न तु । द्रष्टृस्थं दृश्यतां यस्मान्नैवेयाद्द्रष्टृबोधवत् ॥ २५॥ प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतत्वात्- सुस्थमेवानुमानम् । अतस्तदेव प्रक्रियते तत्र च विकल्पदूषणाभिधानम् । नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते । अभिन्नत्वात्समत्वाच्च निरंशत्वादकर्मतः ॥ २६॥ न युगपन्नपि क्रमेणोभयथा चैकस्य धर्मिणो ग्राह्यग्राहकत्वमुपपद्यत इति प्रतिपादनायाह । द्रष्टृत्वेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता । कालान्तरे चेद्दृश्यत्वं न ह्यद्रष्टृकमिष्यते ॥ २७॥ सन्तु काममनात्मधर्मा ममत्वादयो यथोक्तन्यायबलादनात्मतयैव च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसम्बन्धितयैव प्रसिद्धेरहम्ब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति चेत्तन्न । अहन्धर्मस्त्वभिन्नश्चेदहम्ब्रह्मेति वाक्यतः । गौरोऽहमित्यनैकान्तो वाक्यं तद्व्यपनेतृ तत् ॥ २८॥ कथं वाक्यं तद्व्यपनेतृ तदिति । उच्यते । योऽयं स्थाणुः पुमानेष पुन्धिया स्थाणुधीरिव । ब्रह्मास्मीतिधियाशेषा ह्यहम्बुद्धिर्निवर्त्यते ॥ २९॥ अहम्परिच्छेदव्यावृत्तौ न किंचिदव्यावृत्तं द्वैतजातमवशिष्यते द्वितीयसम्बन्धस्य तन्मूलत्वात् । अत आह । निवृत्तायामहम्बुद्धौ ममधीः प्रविलीयते । अहम्बीजा हि सा सिद्ध्येत्तमोऽभावे कुतः फणी ॥ ३०॥ विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या । तमोऽभिभूतचित्तो हि रज्ज्वां पश्यति रोषणम् । भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगं स्रजि वीक्षते ॥ ३१॥ अनन्वयाच्च नात्मधर्मोऽहङ्कारः । आत्मनश्चेदहन्धर्मो यायान्मुक्तिसुषुप्तयोः । यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥ ३२॥ आत्मधर्मत्वाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च । यद्यात्मधर्मोऽहङ्कारो नित्यत्वं तस्य बोधवत् । नित्यत्वे मोक्षशास्त्राणां वैयर्थं प्राप्नुयाद्ध्रुवम् ॥ ३३॥ स्यात्परिहारः स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति चेत्तन्न । आम्रादेः परिणामित्वाद्गुणहानिर्गुणान्तरैः । अविकारि तु तद्ब्रह्म ᳚न हि द्रष्टुरि᳚तिश्रुतेः ॥ ३४॥ अहङ्कारस्य चागमापायित्वात्तद्धर्मिणश्चानित्यत्वं प्राप्नोति । आगमापायिनिष्ठत्वादनित्यत्वमियाद्दृशिः । उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् ॥ ३५॥ अस्त्वनित्यत्वं कमुपालभेमहि प्रमाणोपपन्नत्वादिति चेत्तन्न । सदाविलुप्तसाक्षित्वं स्वतस्सिद्धं न पार्यते । अपह्नोतुं घटस्येव कुशाग्रीयधियात्मनः ॥ ३६॥ एतस्माच्च हेतोरहंकारस्यानात्मधर्मत्वमवसीयताम् । प्रमाणैश्चावगम्यत्वाद्घटादिवदहंदृशेः । यतो राधिः प्रमाणानां स कथं तैः प्रसिध्यति ॥ ३७॥ धर्मधर्मिणोश्चेतरेतरविरुद्धात्मकत्वादसङ्गतिः । धर्मिणश्च विरुद्धत्वान्न दृश्यगुणसङ्गतिः । मारुतान्दोलितज्वालं शैत्यं नाग्निं सिसृप्सति ॥ ३८॥ तस्माद्विस्रब्धमुपगम्यताम् । द्रष्टृत्वं दृश्यता चैव नैकस्मिन्नेकदा क्वचित् । दृश्यदृश्यो न च द्रष्टा द्रष्टुर्दर्शी दृशिर्न च ॥ ३९॥ सर्वसंव्यवहारलोपश्च प्राप्नोति । यस्मात् । द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः । यौगपद्यमदृश्यत्वं वैयर्थ्यं चाप्नुयाच्छृतिः ॥ ४०॥ कुतः । यस्मात् । नालुप्तदृष्टेर्दृश्यत्वं दृश्यत्वे द्रष्टृता कुतः । स्याच्चेद्दृगेकं निर्दृश्यं जगद्वा स्यादसाक्षिकम् ॥ ४१॥ उक्तयुक्तिं दृढीकर्तुमागमोदाहरणोपन्यासः । आर्तमन्यद्दृशेः सर्वं ᳚नेति नेती᳚ति चासकृत् । वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते ॥ ४२॥ ᳚महाभूतान्यहंकार᳚ इत्येतत्क्षेत्रमुच्यते । न दृशेर्द्वैतयोगोऽस्ति विश्वेश्वरमतादपि ॥ ४३॥ अधुना प्रकृतार्थोऽपसंहारः । एवमेतद्धिरुग्ज्ञेयं मिथ्यासिद्धमनात्मकम् । मोहमूलं सुदुर्बोधं द्वैतं युक्तिभिरात्मनः ॥ ४४॥ कुतो मिथ्यासिद्धत्वं द्वैतस्येति चेत् । न पृथङ्नात्मना सिद्धिरात्मनोऽन्यस्य वस्तुनः । आत्मवत्कल्पितस्तस्मादहंकारादिरात्मनि ॥ ४५॥ तस्मादज्ञानविजृम्भितमेतत् । दृश्याः शब्दादयः क्लृप्ता द्रष्टृ च ब्रह्म निर्गुणम् । अहं तदुभयं बिभ्रद्भ्रान्तिमात्मनि यच्छति ॥४६॥ तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः । दृगेका सर्वभूतेषु भाति दृश्यैरनेकवत् । जलभाजनभेदेन मयूखस्रग्विभेदवत् ॥ ४७॥ यथोक्तार्थस्य प्रतिपत्तये दृष्टान्तः । मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् । अभिन्नस्य चित्तेस्तद्वद्भेदोऽन्तःकरणाश्रयः ॥ ४८॥ अपहारो यथा भानोः सर्वतो जलपात्रकैः । तत्क्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः ॥ ४९॥ न च विरुद्धधर्मणामेकत्रानुपपत्तिः । कल्पितानामवस्तुत्वात्स्यादेकत्रापि सम्भवः । कमनीयाशुचिः स्वाद्वीत्येकस्यामिव योषिति ॥ ५०॥ न चायं क्रियाकारकफलात्मक आभास ईषदपि परमार्थवस्तु स्पृशति तस्य मोहमात्रोपादानत्वात् । अभूताभिनिवेशेन स्वात्मानं वञ्चयत्ययम् । असत्यपि द्वितीयेऽर्थे सोमशर्मपिता यथा ॥ ५१॥ वस्तुयाथात्म्यानवबोधपटलावनद्धाक्षः सन् । सुभ्रूः सुनासा सुमुखी सुनेत्रा चारुहासिनी । कल्पनामात्रसंमोहाद्रामेत्यालिङ्गतेऽशुचिम् ॥ ५२॥ सर्वस्यानर्थजातस्य जिहासितस्य मूलमहंकार एव तस्यात्मनात्मोपरागात् । न तु परमार्थत आत्मनोऽविद्यया तत्कार्येण वा सम्बधोऽभूदस्ति भविष्यति वा तस्यापरिलिप्तदृष्टिस्वाभाव्यात् । दृश्यानुरक्तं तद्द्रष्टृ दृश्यं द्रष्ट्रनुरञ्जितम् । अहंवृत्त्योहयं रक्तं तन्नाशेऽद्वैततात्मनः ॥ ५३॥ इह केचिच्चोदयन्ति योऽयमन्वयव्यतिरेकाभ्यामनात्मत- योत्सारितोऽहंकारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्थः संवृत्तो यस्मादहं ब्रह्मास्मीति ब्रह्माहम्पदार्थयोः सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं प्राप्नोति । वक्तव्या च प्रत्यगात्मनि तस्य वृत्तिरिति सोच्यते प्रसिद्धलक्षणागुणवृत्तिभिः । नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि । अयोदाहादिवत्तेन लक्षणं परमात्मनः ॥ ५४॥ प्रत्यक्त्वादतिसूक्ष्मत्वादात्मदृष्ट्यनुशीलनात् । अतो वृत्तीर्विहायान्या ह्यहंवृत्त्योपलक्षते ॥ ५५॥ आत्मना चाविनाभावमथवा विलयं व्रजेत् । न तु पक्षान्तरं यायादतश्चाहंधियोच्यते ॥ ५६॥ कीदृक्पुनर्वस्तु लक्ष्यम् । नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः । स एवात्मवतामात्मा स्वतस्सिद्धः स एव नः ॥ ५७॥ अज्ञानोत्थबुद्ध्यादिकर्तृत्वोपाधिमात्मानं परिगृह्यैवान्वयव्यतिरेकाभ्यामहं सुखी दुःखी चेत्यहंकारादेरनात्मधर्मत्वमुक्तं केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च । अथेदानीमविद्यापरिकल्पितं साक्षित्वमाश्रित्य कर्तृत्वाद्यशेषपरिणामप्रतिषेधायाह । एष सर्वधियां नृत्तमविलुप्तैकदर्शनः । वीक्षतेऽवीक्षमाणोऽपि निमिषत्तद्ध्रुवोऽध्रुवम् ॥ ५८॥ ननु सर्वसिद्धान्तानामपि स्वस्वदृष्ट्यपेक्षयोपपन्नत्वा- दितरेतरदृष्ट्यपेक्षया दुस्स्थितसिद्धिकत्वान्नैकत्रापि विश्वासं पश्यामो न च सर्वतार्किकैरदूषितं समर्थितं सर्वतार्किकोपद्रवापसर्पणाय वर्त्म सम्भावयामः । उच्यते । विस्रब्धैः सम्भाव्यतामनुभवमात्रशरणत्वात्- सर्वतार्किकप्रस्थानानाम् । तदभिधीयते । इमं प्राशिकमुद्दिश्य तर्कज्वरभृशातुराः । त्वाच्छिरस्कवचोजालैर्मोहयन्तीतरेतरम् ॥ ५९॥ अत्रापि चोदयन्ति । अनुभवात्मनोऽपि विक्रियाभ्युपगमेऽन- भ्युपगमेऽपि दोष एव । यस्मादाह । ᳚वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ᳚ ॥ ६०॥ बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरेवायं प्रमातेति न युज्यते ॥ ६१॥ अस्य परिहारः । ऊर्ध्वं गच्छति धूमे खं भिद्यते स्विन्न भिद्यते । न भिद्यते चेत्स्थास्नुत्वं भिद्यते चेद्भिदास्य का ॥ ६२॥ इत्येतत्प्रतिपत्त्यर्थमाह । अविक्रियस्य भोक्तृत्वं स्यादहम्बुद्धिविभ्रमात् । नौयानविभ्रमाद्यद्वन्नगेषु गतिकल्पनम् ॥ ६३॥ यथोक्तार्थाविष्करणाय दृष्टान्तान्तरोपादानम् । यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा । संनिध्यसंनिधानेषु घटादीनामविक्रिया ॥ ६४॥ अयमत्रांशो विवक्षित इति ज्ञापनायाह । यदवस्था व्यनक्तीति तदवस्थैव सा पुनः । भण्यते न व्यनक्तीति घटादीनामसंनिधौ ॥ ६५॥ तत्र च । सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः । संनिध्यसंनिधानेषु धीवृत्तिनामविक्रियः ॥ ६६॥ न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते । उपचारात्क्रिया सास्य यः प्रकाशस्य संनिधिः ॥ ६७॥ मैवं शङ्किष्ठाः सांख्यराध्यान्तोऽयमिति । यतः । यथा विशुद्ध आकाशे सहसैवाभ्रमण्डलम् । भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥ ६८॥ तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति । यतः । शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीर्दृशा । नित्योऽक्रमदृगात्मैको व्याप्नोतीव धियोऽनिशम् ॥ ६९॥ एवं च सति बुद्धेः परिणामित्वं युक्तम् । अतीतानागतेहत्यान्युगपत्सर्वगोचरान् । वेत्त्यात्मवन्न धीर्यस्मात्तेनेयं परिणामिनी ॥ ७०॥ ततश्चैतत्सिद्धम् । अपश्यन्पश्यतीं बुद्धिमश‍ृण्वन् श‍ृण्वतीं तथा । निर्यत्नोऽविक्रियोऽनिच्छन्निच्छन्तीं चाप्यलुप्तदृक् ॥ ७१॥ द्विषन्तीमद्विषन्नात्मा कुप्यन्तीं चाप्यकोपनः । निर्दुःखो दुःखिनीं चैव निस्सुखः सुखिनीमपि ॥ ७२॥ अमुह्यमानो मुह्यन्तीं कल्पयन्तीमकल्पयन् । स्मरन्तीमस्मरंश्चैव शयानामस्वपन्मुहुः ॥ ७३॥ सर्वाकारां निराकारः स्वार्थोऽस्वार्थां निरिङ्गनः । निस्त्रिकालस्त्रिकालस्थां कूटस्थः क्षणभङ्गुराम् ॥ ७४॥ निरपेक्षश्च सापेक्षां पराचीं प्रत्यगद्वयः । सावधिं निर्गतेयत्तः सर्वदेहेषु पश्यति ॥ ७५॥ एतस्माच्च कारणादयमर्थो व्यवसीयताम् । दुःखी यदि भवेदात्मा कस्साक्षी दुःखिनो भवेत् । दुःखिनः साक्षितायुक्ता साक्षिणो दुःखिता तथा ॥ ७६॥ पूर्वस्यैव व्याख्यानार्थमाह । नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः । धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥ ७७॥ एवं सर्वस्मिन् व्यभिचारिण्यात्मवस्त्वेवाव्यभिचारीत्यनुभवतो व्यवस्थापनायाह । प्रमाणतन्निभेष्वस्या नोच्छित्तिर्मम संविदः । मत्तोऽन्यद्रूपमाभाति यत्तत्स्यात्क्षणभङ्गि हि ॥ ७८॥ उत्पत्तिस्थितिभङ्गेषु कुम्भस्य वियतो यथा । नोत्पत्तिस्थितिनाशास्स्युर्बुद्धेरेवं ममापि च ॥७९॥ सुखदुःखसम्बन्धानां च प्रत्यक्षत्वान्न श्रद्धामात्रग्राह्यमेतत् । सुखदुःखादिसम्बन्धां यथा दण्डेन दण्डिनम् । राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥ ८०॥ एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् । येनैवास्या भवेद्योगः सुखकुम्भादिना धियः । तं विदन्ती तदैवान्यं वेत्ति नातो विकारिणी ॥ ८१॥ अस्याश्च क्षणभङ्गरत्वे स्वयमेवात्मा साक्षी । न हि कूटस्थावबोधमन्तरेण बुद्धेरेवाविर्भावतिरोभावादि- सिद्धिरस्ति । परिणामिधियां वृत्तं नित्याक्रमदृगात्मना । षड्भावविक्रियामेति व्याप्तं खेनाङ्करो यथा ॥ ८२॥ सत आत्मनश्चाविकारित्वे युक्तिः । स्मृतिस्वप्नप्रबोधेषु न कश्चित्प्रत्ययो धियः । दृशाव्याप्तोऽस्त्यतो नित्यमविकारी स्वयंदृशिः ॥ ८३॥ एवं तावत्पराभ्युपगतप्रक्रियाप्रस्थानेन निरस्ताशेषविकारैकात्म्यं प्रतिपादितमुपपत्तिभिः । अथाधुना श्रौतीं प्रक्रियामवलम्ब्योच्यते । अस्तु वा परिणामोऽस्य दृशेः कूटस्थरूपतः । कल्पितोऽपि मृषैवासौ दण्डस्येवाप्सु वक्रता ॥ ८४॥ षट्सु भावविकारेषु निषिद्धेश्वेवमात्मनि । दोषः कश्चिदिहासक्तुं न शक्यस्तार्किकश्वभिः ॥ ८५॥ प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्च कूटस्थत्वं युक्तिभिरुच्यते । प्रत्यर्थं तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः । न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः ॥ ८६॥ स्वसम्बद्धार्थ एव । सावशेषपरिच्छेदिन्यत एव न कृत्स्नवित् । नो चेत्परिणमेद्बुद्धिः सर्वज्ञा स्वात्मवद्भवेत् ॥ ८७॥ अतोऽवगतेरेकत्वात् । चण्डालबुद्धेर्यर्दृष्टृ तदेव ब्रह्मबुद्धिदृक् । एकं तदुभयोर्ज्योतिर्भास्यभेदादनेकवत् ॥ ८८॥ कस्मात् । अवस्थादेशकालादिभेदो नास्त्यनयोर्यतः । तस्माज्जगद्धियां वृत्तं ज्योतिरेकं सदेक्षते ॥ ८९॥ सर्वदेहेष्वात्मैकत्वे प्रतिबुद्धपरमार्थतत्त्वस्या- प्यप्रतिबुद्धदेहसम्बद्धादशेषदुःखसम्बन्ध इति चेत्तन्न । बोधात्प्रागपि दुःखित्वं नान्यदेहोत्थमस्ति नः । बोधादूर्ध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् ॥ ९०॥ न चेयं स्वमनीषिकेति ग्राह्यम् । कुतः । श्रुत्यवष्टम्भात् । शब्दाद्याकारनिर्भासा हानोपादानधर्मिणी । भास्येत्याह श्रुतिर्दृष्टिरात्मनोऽपरिणामिनः ॥ ९१॥ का त्वसौ श्रुतिः । दृष्टेर्द्रष्टारमात्मानं न पश्येर्दृश्यमानया । विज्ञातारमरे केन विजानीयाद्धियां पतिम् ॥ ९२॥ यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो जात्यन्धा इवानुकम्पनीया इत्याह । तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः । जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते ॥ ९३॥ प्रमाणोपपनस्यार्थस्यासम्भावनात्तदनुकम्पनीयत्वसिद्धिः । तदेतदाह । यद्यद्विशेषणं दृष्टं नात्मनस्तदनन्वयात् । खस्य कुम्भादिवत्तस्मादात्मा स्यान्निर्विशेषणः ॥ ९४॥ अतश्चात्मनो भेदासंस्पर्शो भेदस्य मिथ्यास्वाभाव्यादत आह । अवगत्यात्मनो यस्मादागमापायि कुम्भवत् । साहंकारमिदं विश्वं तस्मात्तत्स्यात्कचादिवत् ॥ ९५॥ सर्वस्यैवानुमानव्यापारस्य फलमियदेव यद्विवेकग्रहणम् । तदुच्यते । बुद्धेरनात्मधर्मत्वमनुमानात्प्रसिद्ध्यति । आत्मनोऽप्यद्वितीयत्वमात्मत्वादेव सिद्ध्यति ॥ ९६॥ यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीतितत्फलात्मक आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया निर्माल्यवदपविद्धः । तथापि तु नैवासौ स्वतस्सिद्धात्म- व्यतिरिक्तानात्मप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव । किं तर्हि । स्वतस्सिद्धानुदितानस्तमितकूटस्थात्मप्रज्ञानमात्र- शरीरप्रतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव तदुपादानत्वात्तस्येतीममर्थं निर्वक्तुकाम आह । ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् । एवं धियो हिरुग्ज्योतिर्विविच्यादनुमानतः ॥ ९७॥ यस्मात्प्रमाणप्रमेयव्यवहार आत्मानवबोधाश्रय एव तस्मात्सिद्धमात्मनोऽप्रमेयत्वम् । नैव हि कार्यं स्वकारणमतिलङ्घ्यान्यत्राकारक आस्पदमुपनिबध्नाति । अत आह । व्यवधीयन्त एवामी बुद्धिदेहघटादयः । आत्मत्वादात्मनः केन व्यवधानं मनागपि ॥ ९८॥ स्वयमनवगमात्मकत्वादनवगमात्कत्वं च मोहमात्रोपादानत्वात् । प्रमाणमन्तरेणैषां बुद्ध्यादीनामसिद्धता । अनुभूतिफलार्थित्वादात्मा ज्ञः किमपेक्षते ॥ ९९॥ वक्ष्यमाणेतरेतराध्याससिद्ध्यर्थमुक्तव्यतिरेकानुवादः । घटबुद्धेर्घटाच्चर्थाद्द्रष्टुर्यद्वद्विभिन्नता । अहम्बुद्धेरहङ्गम्याद्दुःखिनश्च तथा दृशेः ॥ १००॥ एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोर्लौकिकरज्जु- सर्पाध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इत्येतदाह । अभ्रयानं यथा मोहाच्छशभृत्यध्यवस्यति । सुखित्वादीन्धियो धर्मांस्तद्वदात्मनि मन्यते ॥ १०१ ॥ दग्धृत्वं च यथा वह्नेरयसो मन्यते कुधीः । चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते ॥ १०२॥ सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्त्म- न्युनपतितोऽविद्योत्सङ्गवर्त्येव न परमात्मव्यपाश्रयः । अस्याश्चाविद्यायाः सर्वानर्थहेतोः कुतो निवृत्तिरिति चेत्तदाह । दुःखराशेर्विचित्रस्य सेयं भ्रान्तिश्चिरन्तनी । मूलं संसारवृक्षस्य तद्बाधस्तत्त्वदर्शनात् ॥ १०३॥ तद्बाधस्तत्त्वदर्शनादिति कुतः सम्भाव्यत इति चेदत आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः । अप्रमोत्थं प्रमोत्थेन ज्ञानं ज्ञानेन बाध्यते । अहिरज्ज्वादिवद्बाधो देहाद्यात्ममतेस्तथा ॥ १०४॥ लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः प्रमाणफलम् । अविद्यानाशमात्रं तु फलमित्युपचर्यते । नाज्ञातज्ञापनं न्याय्यमवगत्येकरूपतः ॥ १०५॥ यस्मादात्मानवबोधमात्रोपादानाः प्रमात्रादयस्तस्मात् । न विदन्त्यात्मनः सत्तां द्रष्टृदर्शनगोचराः । न चान्योन्यमतोऽमीषां ज्ञेयत्वं भिन्नसाधनम् ॥ १०६॥ द्रष्ट्रादेरसाधारणरूपज्ञापनायाह । बाह्य आकारवान् ग्राह्यो ग्रहणं निश्चयादिमत् । अन्वय्यहमिति ज्ञेयः साक्षी त्वात्मा ध्रुवः सदा ॥ १०७॥ सर्वकारकक्रियाफलविभागात्त्मकसंसारशून्य आत्मेति कारकक्रियाफलविभागसाक्षित्वादात्मनस्तदाह । ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् । हानोपादानयोस्साक्षी हानोपादानवर्जितः ॥ १०८॥ ग्राहकादिनिष्ठैव ग्राहकादिभावाभावविभागसिद्धिः कस्मान्नेति चेत्तदाह । स्वसाधन स्वयं नष्टो न नाशं वेत्त्यभावतः । अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः ॥ १०९॥ ग्राहकादेरन्यसाक्षिपूर्वकत्वसिद्धेः स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकत्वा- दनवस्थेति चेत्तन्न साक्षिणो व्यतिरिक्तहेत्वनपेक्षत्वादत आह । धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः । निरपेक्षमपेक्ष्यैव सिद्धन्त्यन्ये न तु स्वयम् ॥ ११०॥ यतो ग्राहकादिष्वात्मभावोऽविद्यानिबन्धन एव तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम् । उत्पत्तिस्थितिनाशेषु योऽवगत्यैव वर्तते । जगतोऽविकारयावेहि तमस्मीति न नश्वरम् ॥ १११॥ स्वतस्सिद्धात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकात्मानव- बोधोत्थेतरेतरस्वभावापेक्षसिद्धत्वात्स्वतश्चासिद्धे- रनात्मनो द्वैतेन्द्रजालस्य । न स्वयं स्वस्य नानात्वं नावगत्यात्मना यतः । नोभाभ्यामप्यतस्सिद्धमद्वैतं द्वैतबाधया ॥ ११२॥ यथोक्तार्थप्रतिपत्तिद्रढिम्ने श्रुत्युदाहरणोपन्यासः । नित्यावगतिरूपत्वात्कारकादिर्न चात्मनः । अस्थूलं नेतिनेतीति न जायत इति श्रुतिः ॥ ११३॥ सर्वस्यास्य ग्राहकादेर्द्वैतप्रपञ्चस्यात्मानवबोध- मात्रोपादानस्य स्वयं सेद्धुमशक्यत्वादात्मसिद्धेश्चा- नुपादेयत्वात् । आत्मनश्चेन्निवार्यन्ते बुद्धिदेहघटादयः । षष्ठगोचरकल्पास्ते विज्ञेयाः परमार्थतः ॥ ११४॥ कुतो न्यायबलादेवं निश्चितं प्रतीयते । यस्मात् । नित्यां संविदमाश्रित्य स्वतस्सिद्धामविक्रियाम् । सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः ॥ ११५॥ यस्मान्न कयाचिदपि युक्त्यात्मनः कारकत्वं क्रियात्वं फलत्वं चोपपद्यते तस्मादात्मवस्तुयाथात्म्यानवबोध- मात्रोपादानत्वान्नभसीव रजोधूमतुषार नीहारनील- त्वाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकफलात्मक- संसारोऽहंममत्वयत्नेच्छादिमिथ्याध्यास एवेति सिद्धमिममर्थमाह । अहंमिथ्याभिशापेन दुःख्यात्मा तद्बुभुत्सया । इतः श्रुतिं तया नेतीत्युक्तः कैवल्यमास्थितः ॥ ११६॥ तस्यास्य मुमुक्षोः श्रौताद्वचसः स्वप्ननिमित्तोत्सारितनिद्रस्येवेयं निश्चितार्था प्रमा जायते । नाहं न च ममात्मत्वात्सर्वदानात्मवर्जितः । भानाविव तमोध्यासोऽपह्नवश्च तथा मयि ॥ ११७॥ सोऽयमेवम्प्रतिपान्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति । यत्र त्वस्येति साटोपं कृत्स्नद्वैतनिषेधिनीम् । प्रोत्सारयन्तीं संसारमप्यश्रौषं न किं श्रुतिम् ॥ ११८॥ इत्योमित्यवबुद्धात्मा निष्कलोऽकारकोऽक्रियः । विरक्त इव बुद्ध्यादेरेकाकित्वमुपेयिवान् ॥ ११९॥ इति द्वितीयोऽध्यायः ॥ २॥ अथ तृतीयोऽध्यायः । सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश उपपत्तिभिरतिष्ठिपम् । आत्मा च जन्मादिषड्भावविकारवर्जितः कूटस्थबोध एवेति स्फुटीकृतम् । तयोश्च मिथ्याध्यासकूटस्थात्मनोर्नान्तरेणाज्ञानं सम्बन्धोऽन्यत्र चोदनापरिप्रापितात् यथा ᳚इयमेवर्गग्निः साम᳚ इति । तच्चाज्ञानं स्वात्ममात्र निमित्तं न सम्भवतीति कस्यचित्कस्मिंश्चिद्विषये भवतीत्यभ्युपगन्तव्यम् । इह च पदार्थद्वयं निर्द्धारितमात्मानात्मा च । तत्रानात्मनस्तावन्नाज्ञानेनाभिसम्बन्धः । तस्य हि स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते । सम्भवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं स्यात् । अनात्मनश्चाज्ञानप्रसूतत्त्वात् । न हि पूर्वसिद्धं सत्ततोलब्धात्मलाभस्य सेत्स्यत आश्रयस्याश्रयि सम्भवति । तदनपेक्षस्य च तस्य निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो नानात्मविषयमज्ञानं सम्भवतीति ग्राह्यम् । एवं तावन्नानात्मनोऽज्ञानित्वं नापि तद्विषयमज्ञानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । ᳚सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित् ᳚इति श्रुतेः । न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रस्वाभाव्या- दतिशयश्च सम्भवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च सम्भवस्तस्य ज्ञानकारित्वात् । न च अज्ञानकार्यत्वं कूटस्थात्मस्वाभाव्यादज्ञानानपेक्षस्य चात्मनः स्वत एव स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् । किंविषयं पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रूमः । नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच्च ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते । घटत एव । कथम् । अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्ज्वाः । तस्मात्तदपनुत्तौ द्वैतानर्थाभावः । तदपनोदश्च वाक्यादेव तत्पदपदार्थाभिज्ञस्य । अतो वाक्यव्याख्यानायाध्याय आरभ्यते । तत्र यथोक्तेन प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः कृतान्वयव्यतिरेकः । यदा ना तत्त्वमस्यादेर्ब्रह्मास्मीत्यवगच्छति । प्रध्वस्ताहंममो नैति तदा गीर्मनसोः सृतिम् ॥ १॥ यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां प्रतिपद्यते गीर्मनसोः सृतिं न प्रतिपद्यत इति । कुत एतद्ध्यवसीयते । यस्मात् । तत्पदं प्रकृतार्थं स्यात्त्वम्पदं प्रत्यगात्मनि । नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे ॥ २॥ एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्यार्थं प्रतिपद्यत इत्युक्तमतस्तद्व्याख्यानाय सूत्रोपन्यासः । सामानाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् ॥ ३॥ अस्मिन् सूत्र उपन्यस्ते कश्चिच्चोदयति योऽयं वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो न्यायः सर्वकर्मसंन्यासपूर्वकोऽभिहितः किमयं विधिपरिप्रापितः किं वा स्वरसत एवात्र पुमान्प्रवर्तत इति । किंचातः । श‍ृणु । यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय व्यावृत्तशुभाशुभकर्मराशिरेकाग्रमना अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यामात्मदर्शनं करोति । अपरिसमाप्यात्मदर्शनं ततः प्रच्यवमान आरूढपतितो भवति । यदि पुनर्यदृच्छातः प्रवर्तते तदा न कश्चिद्दोष इति । विधिपरिप्रापित इति ब्रूमो यत आह । शमादिसाधनः पश्येदात्मन्यात्मानमञ्जसा । अन्वयव्यतिरेकाभ्यां त्यक्त्वा युष्मदशेषतः ॥ ४॥ युष्मदर्थे परित्यक्ते पूर्वोक्तैर्हेतुभिः श्रुतिः । वीक्षापन्नस्य कोऽस्मीति तत्त्वमित्याह सौहृदात् ॥ ५॥ अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि- ष्वनात्मस्वात्मेति निस्सन्धिबन्धनं मिथ्याज्ञानमज्ञानं तन्निबन्धनो ह्यात्मनोऽनेकानर्थसम्बन्धस्तस्य चान्वयव्यतिरेकाभ्यामेव निरस्तत्त्वान्निर्विषयं तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष महिमा योऽयमात्मानात्मनोर्विभाग इति । तन्निराकरणायेदमुच्यते । भेदसंविदिदं ज्ञानं भेदाभावश्च साक्षिणि । कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥ ६॥ ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चित् । मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावात्किं वाक्येन निवर्तते । अज्ञानं हि नाम ज्ञानाभावस्तस्य चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः सज्जन्मेष्यते ᳚कुतस्तु खलु सोम्यैवं स्यात् ᳚ इति ᳚कथमसतः सज्जायेत ᳚ इति श्रुतेरिति । अत्रोच्यते । अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः । एकेनैव सता संश्च सन्नज्ञातो भवेत्ततः ॥ ७॥ सन्नज्ञातो भवेत्तत इत्युक्तमधस्ततेन श्लोकेन । कोऽसौ सन्नज्ञात इत्यपेक्षायां तत्स्वरूपप्रतिपादनायाह । प्रमित्सायां य आभाति स्वयं मातृप्रमाणयोः । स्वमहिम्ना च यस्सिद्धः सोऽज्ञातार्थोऽवसीयताम् ॥ ८॥ अत्र केचिदाहुः । यत्किंचिदिह वाक्यं लौकिकं वैदिकं वा तत्सर्वं संसर्गात्मकमेव वाक्यार्थं गमयति । अतस्तत्त्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रह्मेति विज्ञाय तावन्निदिध्यासीत यावदवाक्यार्थात्मकः प्रत्यगात्मविषयोऽवबोधोऽहं ब्रह्मेति समभिजायते । तस्मादेव विज्ञानात्कैवल्यमाप्नोतीति तन्निराकरणायेदमुच्यते । सामानाधिकरण्यादेर्घटेतरखयोरिव । व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥ ९॥ कुतोऽवाक्यार्थोऽवसीयत इति चेत्तत्प्रतिपत्त्यर्थं विशेषणविशेष्ययोः सामर्थ्योक्तिः । निर्दुःखित्वं त्वमर्थस्य तदर्थेन विशेषणात् । प्रत्यक्ता च तदर्थस्य त्वम्पदेनास्य संनिधेः ॥ १०॥ उक्तं सामानाधिकरण्यं विशेषणविशेष्यभावश्च संक्षेपतोऽथ लक्ष्यलक्षणव्याख्यानायाह । कूटस्थबोधप्रत्यक्त्वमनिमित्तं सदात्मनः । बोद्धृताहन्तयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते ॥ ११॥ बुद्धेः कूटस्थबोधप्रत्यक्त्वनिमित्ते बोद्धृताप्रत्यक्त्वे ये त्वसाधारणे तयोर्विशेषवचनम् । बोद्धृता कर्तृता बुद्धेः कर्मता स्यादहन्तया । तयोरैक्यं यथा बुद्धौ पूर्वयोरेवमात्मनि ॥ १२॥ यथा बुद्धौ पूर्वयोरेवमात्मनीत्यतिदेशेन बुद्धिसाधर्म्य- विधानान्नानात्वप्रसक्तौ तदपवादार्थमाह । धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः । प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसम्भवात् ॥ १३॥ भेदहेतसम्भवं दर्शयन्नाह । न कस्यांचिदवस्थायां बोधप्रत्यक्त्वयोर्भिदा । व्यभिचारोऽथवा दृष्टो यथाहन्तद्विदोस्सदा ॥ १४॥ यस्मादज्ञानोपादानाया एव बुद्धेर्भेदो नात्मनस्तस्मादेतत्सिद्धम् । कूटस्थबोधतोऽद्वैतं साक्षात्त्वं प्रत्यगात्मनः । कूटस्थबोधाद्बोद्ध्री धीः स्वतो हीयं विनश्वरी ॥ १५॥ अथाधुना प्रकृतस्यैव परिणामिनः कूटस्थस्य च लक्षणमुच्यते । विशेषं कंचिदाश्रित्य यत्स्वरूपं प्रतीयते । प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥ १६॥ सामान्याच्च विशेषाच्च स्वमहिम्नैव यो भवेत् । व्युथ्यायाप्यविकारी स्यात्कुम्भाकाशादिवत्तु सः ॥ १७॥ आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं तयोरसाधारणलक्षणाभिधानार्थमाह । बुद्धेर्यत्प्रत्यगात्मत्वं तत्स्याद्देहाद्युपाश्रयात् । आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥ १८॥ बोद्धृत्वं तद्वदेवास्याः प्रत्ययोत्पत्तिहेतुतः । आत्मनस्तु स्वरूपं तत्तिष्ठन्तीव महीभृतः ॥ १९॥ तयोः कूटस्थपरिणामिनोरात्मानवबोध एव सम्बन्धहेतुर्न पुनर्वास्तवः कश्चिदपि सम्बन्ध उपपद्यत इत्याह । सम्यक्संशयमिथ्यात्वैर्धीरेवेयं विभज्यते । हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥ २०॥ कुतः कूटस्थात्मसिद्धिरिति चेद्यतः । न हानं हानमात्रेण नोदयोऽपीयता यतः । तत्सिद्धिः स्यात्तु तद्धीने हानादानविधर्मके ॥ २१॥ एवम् । आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः । ततस्तत्त्वमसीत्येतद्धन्त्यस्मदि निजं तमः ॥ २२॥ इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाद्बुद्धिलाघवं प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादि- त्सिताद्वितीयात्मार्थवत्पारोक्ष्यसद्वितीयार्थः प्रतीयते । तथापि तु नैवासावर्थः श्रुत्या तात्पर्येण प्रतिपिपादयिषितः प्रागपेतस्य प्रतीतत्वादितीममर्थमाह । तदित्येतत्पदं लोके बह्वर्थप्रतिपादकम् । अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् ॥ २३॥ त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु । संसारितामसंत्यज्य सापि स्यादभिधानजा ॥ २४॥ विरुद्धोद्देशनत्वाच्च पारोक्ष्यदुःखित्वयोरविवक्षितत्वमित्याह । उद्दिश्यमानं वाक्यस्थं नोद्देशनगुणात्वितम् । आकाङ्क्षितपदार्थेन संसर्गं प्रतिपद्यते ॥ २५॥ यत एतदेवमतोऽनुपादित्सितयोरपि तत्त्वमर्थयोर्विशेषणविशेष्यभावो भेदसंसर्गरहितवाक्यार्थलक्षणायैवेत्युपसंहारः । तदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा । लक्ष्यलक्षणसम्बन्धस्तयोः स्यात्प्रत्यगात्मना ॥ २६॥ कथं पुनरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् । लक्षणं सर्पवद्रज्ज्वाः प्रतीचः स्यादहं तथा । तद्बाधेनैव वाक्यार्थं वेत्ति सोऽपि तदाश्रयात् ॥ २७॥ इयं चावाक्यार्थप्रतिपत्तिरन्वयव्यतिरेकाभिज्ञस्यैव । यस्मात् । यावद्यावन्निरस्यायं देहादीन्प्रत्यगञ्चति । तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति ॥ २८॥ कस्मात्पुनः कारणाद्देहाद्यनात्मत्वप्रतिपत्तावेवात्मा तदर्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते । प्रत्यगात्मानवबोधस्यनात्मस्वाभाव्यात्तदभिनिर्वृत्तश्चायं बुद्ध्यादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवाना- त्मत्वमपि साविद्यस्यैव । यतो निरविद्यो विद्वानवाक्यार्थरूप एव केवलोऽवशिष्यते तस्मादुच्यते । देहादिव्यवधानत्वात्तदर्थं स्वयमप्यतः । पारोक्ष्येणैव जानाति साक्षात्त्वं तदनात्मनः ॥ २९॥ यथोक्तार्थप्रतिपत्तिसौकर्याय दृष्टान्तोपादानाम् । प्रत्यगुद्भुतपित्तस्य यथा बाह्यार्थपीतता । चैतन्यं प्रत्यगात्मीयं बहिर्वद्दृश्यते तथा ॥ ३०॥ यस्मादेवमतो विशुद्धमवसीयताम् । पदान्युद्धृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः । पदार्थाँल्लोकतो बुद्ध्वा वेत्ति वाक्यार्थमञ्जसा ॥ ३१॥ कुतः पुनः सामान्यमात्रवृत्तेः पदस्य वाक्यार्थप्रतिपत्तिहेतुत्वमिति । बाढम् । सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः । श्रुत्यादिप्रतिबद्धं सद्विशेषार्थं भवेत्पदम् ॥ ३२॥ अन्वयव्यतिरेकपुरस्सरं वाक्यमेव सामानाधिकरण्यादिनाविद्या- पटलप्रध्वंसद्वारेण मुमुक्षुं स्वाराज्येऽभिषेचयति न त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह । बुद्ध्यादीनामनात्मत्वं लिङ्गादपि च सिध्यति । निवृत्तिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥ ३३॥ न केवलमनुमानमात्रशरणोऽभिलषितमर्थं न प्राप्नोतीत्यनर्थं चाप्नोतीत्याह । अनादृत्य श्रुतिं मोहादतो बौद्धास्तमस्विनः । आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥ ३४॥ न चानादरे कारणमस्ति । यस्मात्सर्वत्रैवानादरनिमित्तं प्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा विपरीतप्रतिपादनं वा संशयितप्रतिपादनं वा न वा प्रतिपादनमिति-- न चैतेषामन्यतमदपि कारणमस्ति । यत आह । मानान्तरानवष्टब्धं निर्दुःख्यात्मानमञ्जसा । बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥ ३५॥ न च संशयितव्यमवगमयति । यतः । सर्वसंशयहेतौ हि निरस्ते कथमात्मनि । जायेत संशयो वाक्यादनुमानेन युष्मदि ॥ ३६॥ अपि च । यत्र स्यात्संशयो नासौ ज्ञेय आत्मेति पण्डितैः । न यतः संशयप्राप्तिरात्मनोऽवगतित्वतः ॥ ३७॥ अनवबोधकत्वं तु दूरोत्सारितमेव । यत आह । बोधेऽप्यनुभवो यस्य न कथंचन जायते । तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ ३८॥ अन्वयव्यतिरेकपुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं प्रतिपादयतीत्यस्य पक्षस्य द्रढिम्न श्रुत्युदाहरणमुपन्यस्यति । जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः । स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ॥ ३९॥ यथा ᳚तत्सत्यं स आत्मा तत्त्वमसि ᳚ इत्यस्य शेषत्वेनान्वयव्यतिरेकश्रुतिर्यथा ᳚य एषोऽक्षिणि पुरुषो दृश्यते ᳚ इत्याद्या ᳚अथ यो वेदेदं जिघ्राणि ᳚ इत्यन्ता तथा ᳚अहं ब्रह्मास्मि ᳚ इत्यस्य शेषः । अहमः प्रत्यगात्मार्थो निरस्ताशेषयुष्मदः । बम्भणीति श्रुतिर्न्याय्या योऽयमित्यादिनाऽसकृत् ॥ ४०॥ कथं पुनरयमर्थोऽवसीयते अहंव्याजेनात्रात्मार्थो बुबोधयिषित इति । यतः । एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु सः । इतेष्वस्तं दृगेवास्ते भासयंचित्तचेष्टितम् ॥ ४१॥ निर्णेनेक्ति च पृष्टो मुनिः । आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते । बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥ ४२॥ यस्माच्चात्मात्राहंव्याजेन प्रत्यङ्मात्रो जिग्राहयिषितस्तस्मादहंवृत्तिः स्वरूपस्य विलयेनैव वाक्यार्थावगमाय कारणत्वं प्रतिपद्यत इतीममर्थमाह । अहंवृत्त्यैव तद्ब्रह्म यस्मादेषोऽवगच्छति । तत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥ ४३॥ अत एव च यः प्रतिज्ञातोऽर्थो ᳚नाहंग्राह्ये न तद्धीने ᳚इत्यादिः स युक्तिभिरुपपादित इति कृत्वोपसंह्रियते । गृहीताहम्पदार्थश्चेत्कस्माज्ज्ञो न प्रपद्यते । प्रत्यक्षादिविरोधाच्चेत्प्रतीच्युक्तिर्न युष्मदि ॥ ४४॥ पूर्वस्यैव श्लोकार्थस्य विस्पष्टार्थमाह । पराञ्च्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि । प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्जसा ॥ ४५॥ तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो हीयमानोपादीयमानेभ्योऽन्वयव्यतिरेकाभ्यां मुञ्जेषीकावदशेषबुद्धिविक्रियासाक्षितयात्मानं निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं विजानीयात् । तदेतदाह । अहं दुःखी सुखी चेति येनायं प्रत्ययोऽध्रुवः । अवगत्यन्त आभाति स म आत्मेति वाक्यधीः ॥ ४६॥ प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्य- कारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्द- लक्षणमात्मानं तत्त्वमस्यहम्ब्रह्मास्मीत्यादिवाक्यं संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवे- त्यसकृदभिहितम् । तत्र केचिदाहुः--तत्त्वमस्यादिवाक्यै- र्यथावस्थितवस्तुयाथात्म्यान्वाख्याननिष्ठैर्न यथोक्तोऽर्थः प्रतिपत्तुं शक्यतेऽभिधाश्रुतित्वात्तेषाम् । न हि लोकेऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया नद्यास्तीरे फलानि सन्तीत्यादिकायाः प्रामाण्यमभ्युपगतम् । अतो नियोगमुखेनैवाभिधाश्रुतेः प्रामाण्यं युक्तं प्रमाणान्तरनिरपेक्षत्वान्नियोगस्य । अस्य परिहारार्थ- मशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थ- विषयत्वादभिधाश्रुतेः प्रामाण्यं सुप्तपुरुषप्रबोधक- वाक्यस्येव वक्तव्यमित्ययमारम्भः । नित्यावगतिरूपत्वादन्यमानानपेक्षणात् । शब्दादिगुणहीनत्वात्संशयानवतारतः ॥ ४७॥ तृष्णानिष्ठीवनैर्नात्मा प्रत्यक्षाद्यः प्रमीयते । प्रत्यगात्मत्वहेतोश्च स्वार्थत्वादप्रमेयतः ॥ ४८॥ श्रुतिरपीममर्थं निर्वदति । दिद्दक्षितपरिछिन्नपराग्रूपादिसंश्रयात् । विपरीतमतो दृष्ट्या स्वतोबुद्धं न पश्यति ॥ ४९॥ न्यायसिद्धमतो वक्ति दृष्टेर्द्रष्टारमात्मनः । न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥ ५०॥ अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते । प्रत्यक्षस्य पराक्त्वान्न सम्बन्धग्रहणं यतः । आत्मनोऽतोऽनुमित्यास्यानुभवो न कथंचन ॥ ५१॥ एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव पराचीनविषय एव न प्रतीचिनमात्मानमवगाहयितुमलम् । एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह । प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः । सुविचार्याप्यतोऽनेन युष्मद्येव दिदृक्षते ॥ ५२॥ यस्माल्लौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहम्ब्रह्मास्मीति वाक्यार्थस्तस्मात् । अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतेः । वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥ ५३॥ सोऽयमन्वयव्यतिरेकन्याय एतावानेव यदवसानो वाक्यार्थस्त- दभिज्ञस्याहम्ब्रह्मास्मीत्याविर्भवति । द्रष्टृदृश्यविभागेनागमापायि- साक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते । दृश्यत्वाद्घटवद्देहो देहवच्चेन्द्रियाण्यपि । मनश्चेन्द्रियवज्ज्ञेयं मनोवन्निश्चयादिमत् ॥ ५४॥ तथा सकलकार्यकारणागमापायि विभागसाक्षित्वेनापि । प्रागसद्याति पश्चात्सत्सच्च यायादसत्तथा । अनात्माभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥ ५५॥ तत्र घटादीनां दृश्यानामनात्मत्वं द्रष्ट्रात्मपूर्वकं प्रत्यक्षेणैव प्रमाणेनोपलभ्यानात्मनश्चासाधारणान्- धर्मानवधार्य तैर्दृश्यत्वागमापायादिभिर्धर्मैः शरीरेन्द्रियमनोनिश्चयादिवृत्तीरनात्मतया व्युदस्याहंवृत्तिमतोऽपि दृश्यत्वाविशेषाद्द्रष्टृ- पूर्वकत्वमवसीयते । तदेतदाह । घटादयो यथा लिङ्गं स्युः परम्परयाहमः । दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ॥ ५६॥ ननु द्रष्टृदर्शनदृश्यानां जाग्रत्स्वप्नसुषुप्ते- ष्वागमापायदर्शनाद्यसाक्षिकौ तेषामागमापायौ स आगमापायविभागरहित आत्मा यथा यन्निबन्धनौ जगतः प्रकाशाप्रकाशौ स प्रकाशाप्रकाशविभागरहितः सूर्य इति । यदा चैवं तदा वाक्यावगम्यस्यार्थस्यानुदितानस्तमित- विज्ञानमात्रस्वभावस्यानुमानेनैव प्रतिपन्नत्वात्पुनरपि वाक्यस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । लिङ्गव्यवधानेन तत्प्रतिपत्तेः । ननु साक्षादपरोक्षा- दात्मस्वभावेनानात्मनो हानोपादानयोः सम्बन्धग्रहणात्कमतिशयं वाक्यं कुर्यात् । मैवं वोचः । लिङ्गाधीनत्वात्तत्प्रतिपत्तेः । न हि लिङ्गव्यवधानेनात्मप्रतिपत्तिः साक्षात्प्रतिपत्तिर्भवति ᳚यमेवैष वृणुते तेन लभ्यः ᳚ इति श्रुतेः । अत आह । लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् । सदसद्व्युत्थितात्माऽयमतो वाक्यात्प्रतीयते ॥ ५७॥ ननु यदि व्यावृत्तसदसद्विकल्पजालं वस्त्वभीष्टं वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया तृष्णा--यस्मादन्तरेणापि वाक्यश्रवणं निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते वस्तु सिद्धमतो नार्थो वाक्यश्रवणेन । नैतदेवम् । किं कारणम् । सर्वानर्थबीजस्यात्मानवबोधस्य सुषुप्ते सम्भवात् । यदि हि सुषुप्तेऽज्ञानं नाभविष्यदन्तरेणापि वेदान्तवाक्यश्रवणमनन- निदिध्यासनान्यहं ब्रह्मास्मीत्यध्यवसायात्सर्वप्राण- भूतामपि स्वरसत एव सुषुप्तप्रतिपत्तेः सकलसंसारो- च्छित्तिप्रसङ्गः । न च कैवल्यात्पुनरुत्थानं न्याय्य- मनिर्मोक्षप्रसङ्गात् । न चान्य एव सुषुप्तोऽन्य एवोत्थित इति शक्यं वक्तुं नाद्राक्षमहं सुषुप्तेऽन्यत्- किंचिदपीत्युत्तितस्य प्रत्यभिज्ञादर्शनात् । तस्मादवश्यं सुषुप्तेऽज्ञानमभ्युपगन्तव्यम् । ननु यदि तत्राज्ञान- मभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्य- द्यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं प्रत्यक्षम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् । कथमभिव्यञ्जकाभाव इति चेच्छृणु । बाह्यां वृत्तिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यथा । नर्तेऽन्तःकरणं तद्वद्ध्वान्तस्य व्यक्तिराञ्जसी ॥ ५८॥ कश्चिदतिक्रान्तं प्रतिस्मृत्य ᳚दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ᳚ इति निर्युक्तिकमभिहितमित्याह । किं कारणम् । अहंतज्ज्ञात्रोर्विवेकाप्रसिद्धेः । यथेह घटदेवदत्तयोर्ग्राह्यग्राहकत्वेन स्फुटतरो विभागः प्रसिद्धो लोके न तथेहाहंकारतज्ज्ञात्रोर्विभागोऽस्तीति तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते । दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोः । ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥ ५९॥ एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त- रूपावच्छेदायाहंवृत्तिर्व्याप्रियते । तयावच्छिन्नं सत्कूटस्थप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया विषयभावं प्रतिपद्यत इति । तत्र तयोर्ज्ञात्रहंतारूपयो- रवभासकावभास्यसम्बन्धव्यतिरेकेण नान्यत्सम्बन्धान्तर- मुपपद्यते । अहंतारूपं त्वात्मसात्कृत्वाऽहंकञ्चुकं परिधायोपकार्यत्वोपकारकत्वक्षमः सन् बाह्यविषये- णोपकारिणापकारिणा वात्मात्मीयं सम्बन्धं प्रतिपद्यते । तदभिधीयते । इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः । अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥ ६०॥ एकस्यैव ज्ञातुरन्तर्बाह्यनिमित्तभेदाद्विभिन्नेऽपि विषय इदं ममेति ज्ञानं द्वैरूप्यं जायत इत्युक्तम् । अत्रोपक्रियमाणापक्रियमाणस्यैव ज्ञातुर्विषये ममप्रत्ययो भवति विपर्यये चेदम्प्रत्यय इति कथमवगम्यते । अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथमित्याह । अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम । घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥ ६१॥ मोहतत्कार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः पूर्वत्रेदंममज्ञान्वयः प्रदर्शितः । अथाधुना तद्व्यतिरेकेण व्यतिरेकप्रदर्शनार्थाह । विक्रियाज्ञानशून्यत्वान्नेदं न च ममात्मनः । उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥ ६२॥ आत्मानात्मविवेकस्येयत्ताप्रदर्शनार्थमाह । वाक्यप्रत्यक्षमानाभ्यामियानर्थः प्रतीयते । अनर्थकृत्तमोहानिर्वाक्यादेव सदात्मनः ॥ ६३॥ द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् । तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रत्यगात्म- न्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति न तं प्रति वक्तव्यं किंचिदप्यवशिष्यते । योऽपि वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रिय- शक्तिमत्त्वान्न किंचिदप्यपेक्षितव्यमस्ति । यश्च श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा तदवसान एव वाक्यार्थं प्रतिपद्यतेऽसावपि यथार्थं प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः । यः पुनरन्वयव्यतिरेकौ कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः कथं वाक्यं श्राव्यत इति । उच्यते । नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा । न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥ ६४॥ अथ दृष्टान्तगतमर्थं दार्ष्टान्तिकार्थे समर्पयिष्यन्नाह । अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना । वेत्ति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥ ६५॥ नान्वेष्यं चात्र कारणमित्युक्तं तत्कस्मादिति चोदिते प्रत्याहान्वेषणासहिष्णुत्वात् । तत्कथमित्याह । सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी । सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥ ६६॥ तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पत्तिद्वारेण निवृत्तिः । बुभुत्सोच्छेदिनी चास्य सदसीत्यादिना दृढम् । प्रतीचि प्रतिपत्तिः स्यान्नासौ मानान्तराद्भवेत् ॥ ६७॥ कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेद् दृष्टान्तोक्तिः । जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः । त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥ ६८॥ सा च तत्त्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नवादेव । न च नैवमिति प्रत्ययान्तर जायते । तदेतद्दृष्टान्तेन प्रतिपादयति । दशमोऽसीति वाक्योत्था न धीरस्य विहन्यते । आदिमध्यावसानेषु न नवस्वस्य संशयः ॥ ६९॥ एवं तत्त्वमसीत्यस्माद्द्वैतनुत्प्रत्यगात्मनि । सम्यग्ज्ञातत्वमर्थस्य जायेतैव प्रमा दृढा ॥ ७०॥ प्रत्यगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते । किं यथा घटादिप्रमेयविषया प्रमा कर्त्रादि- कारकभेदानपह्नवेन जायते तथैवोताशेषकारक- ग्रामोपमर्देन कर्तुः प्रत्यगात्मनीति । उच्यते । प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् । अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥ ७१॥ यस्मादेवम् । विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते । दवीयस्स्विन्द्रियार्थेषु क्षीयते ह्युत्तरोत्तरम् ॥ ७२॥ आह । यदि वाक्यमेव यथाभूतार्थवबोधकमथ कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युक्ते प्रतिविधीयते । भ्रान्तिप्रसिद्ध्यानूद्यार्थं तत्तत्वं भ्रान्तिबाधया । अयं नेत्युपदिश्येत तथैवं तत्त्वमित्यपि ॥ ७३॥ इममर्थं दृष्टान्तेन बुद्धावारोहयति । स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति । व्यनुवादात्तथैवोक्तिर्भ्रान्तिं पुंसो न बाधते ॥ ७४॥ यस्माच्छ्रोतृप्रसिद्धानुवाद्येव त्वमितिपदं तस्मादुद्दिश्यमानस्थत्वाद्दुःखित्वादेरविवक्षितत्वमेव । विधीयमानत्वे हि सति विरोधप्रसङ्गो न तु विधीयमाना- नूद्यमानयोरिति । स्वप्रधानयोर्हि पदयोर्विरोधाशङ्का सामान्यलिङ्गतत्वात्तयोर्न विपर्यये । अनालिङ्गितसामान्यौ न जिहासितवादिनौ । व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥ ७५॥ अपास्तसामान्यार्थत्वादनुवादस्थत्वाद्विधीयमानेन च सह विरोधाद्दुःखित्वादेरस्तु कामं जिहासितार्थयो- रसंसर्गो यथोपन्यस्तदोषविरहात्तत्त्वमर्थयोः संसर्गोऽस्तु नीलोत्पलवदिति चेन्नैवमप्युपपद्यते । तस्मात् । तदर्थयोस्तु निष्ठात्मा द्वयपारोक्ष्यवर्जितः । नाद्वितीयं विनात्मानं नात्मा नित्यदृशा विना ॥ ७६॥ अत्राह । किमिह जिहासितं किं वोपादित्सितमिति । उच्यते । प्रत्यगात्मार्थाभिधायिनस्त्वम्पदादुभयं प्रतीयतेऽहं दुःखी प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं दुःखीत्यनेनाभिसम्बन्ध आत्मयाथात्म्यानवबोधहेतुक एव । अतोऽहमर्थोऽपसृष्टत्वादज्ञानोत्थत्वाच्च हेय इति प्रत्यक्षतोवसीयते । तदर्थे किं हेयं किं वोपादेयमिति नावध्रियते । तत इदमभिधीयते । पारोक्ष्यं यत्तदर्थे स्यात्तद्धेयमहमर्थवत् । प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥ ७७॥ कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं सद्वितीयत्वं दुःखित्वं निरन्वयमपनुदतीति । उच्यते । न चैतयोर्निवर्तकनिवर्त्यभावं वयं ब्रूमः । कथं तर्हि । त्वमर्थे प्रत्यगात्मनि प्रागनवबुद्धाद्वितीयता सानेनावबोध्यते । अतोऽनवबोधनिरासेन तदुत्थस्य सद्वितीयत्वस्य त्वमर्थत्वस्य परोक्षत्वस्य च तदर्थस्थस्य निरसनान्न वैयधिकरण्यादि- चोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते । तत्त्वमर्थेन सम्पृक्तो नानात्वं विनिवर्तयेत् । नापरित्यक्तपारोक्ष्यं त्वं तदर्थं सिसृप्सति ॥ ७८॥ कस्मात्पुनः कारणात्तदर्थोऽद्वितीयलक्षणस्त्वमर्थेन प्रत्यगात्मना पृथगर्थः सन्नविद्योत्थं सद्वितीयत्वं निहन्तीति । उच्यते । विरोधात् । तदुच्यते । संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह । प्रासङ्गिकं विरुद्धत्वात्तत्त्वम्भ्यां बाधनं तयोः ॥ ७९॥ तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते । अज्ञातपुरुषार्थत्वाच्छ्रौतत्वात्तत्त्वमर्थयोः । स्वमर्थमपरित्यज्य बाधकौ स्तां विरुद्धयोः ॥ ८०॥ एवं तावद्यथोपक्रान्तेन प्रक्रियावर्त्मना न प्रत्यक्षादिप्रमाणान्तरैर्विरोधगन्धोऽपि सम्भाव्यते । यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं वाक्यार्थं सम्भावयामः प्रत्यक्षादिप्रमाणान्तरविरोधत एव तस्मिन्नपि पक्ष उच्यते । प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेत्क्वचित् । स्यात्तु तद्दृष्टिविध्यर्थं योषाग्निवदसंशयम् ॥ ८१॥ यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं न क्रियां कटाक्षेणापि वीक्षते तदा प्रसंख्यानादिव्यापारो दुस्सम्भाव्य इति । तदुच्यते । वस्त्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्क्रियार्थता । वस्तुनो ह्येकरूपत्वाद्विकल्पस्याप्यसम्भवः ॥ ८२॥ भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् । उच्यते । अपूर्वाधिगमं कुर्वत्प्रमाणं स्यान्न चेन्न तत् । न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥ ८३॥ य एवमपि भिन्नविषयाणां विरोधं वक्ति सोऽत्रापि विरोधं ब्रूयात् । नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा । इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः ॥ ८४॥ प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव भिन्नविषयत्वात् । ययोश्चाभिन्नविषयत्वं तयोराखुनकुलयोरिव प्रतिनियत एव बाध्यबाधकभावः स्यात् । अतस्तदुच्यते । प्रत्यक्षं चेन्न शाब्दं स्याच्छाब्दं चेदक्षजं कथम् । प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास आगमे ॥ ८५॥ न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह सम्भवति शब्दादीनां प्रत्येकं प्रमाणत्वादत आह । स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् । इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥ ८६॥ न च सुखदुःखादिसम्बन्धोऽवगत्यात्मनः प्रत्यक्षादिप्रमाणैर्गृह्यते येन विरोधः प्रत्यक्षादिप्रमाणैरुद्धाट्यते । दुःखितावगतिश्चेत्स्यान्न प्रमीयेत सात्मवत् । कर्मण्येव प्रमा न्याय्या न तु कर्तर्यपि क्वचित् ॥ ८७॥ अभ्युपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं सम्भावितदोषान्मुच्यते । अत आह । प्रमाणबद्धमूलत्वाद्दुःखित्वं केन वार्यते । अग्न्युष्णवन्निवृत्तिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥ ८८॥ अथ मतम् । निराकुर्यात्प्रसंख्यानं दुःखित्वं चेत्स्वनुष्ठितम् । प्रत्यक्षादिविरुद्धत्वात्कथमुत्पादयेत्प्रमाम् ॥ ८९॥ ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वय- व्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णां प्रमितिं जनयति न पुनरैकाग्र्यवर्धनयेति । यथाशेषाशुचिनीडे स्त्रीकृणपे कामिनीति निर्वस्तुकः पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः । अभ्यासोपचयाद्बुद्धेर्यत्स्यादैकाग्र्यमेव तत् । न हि प्रमाणान्यभ्यासात्कुर्वन्त्यर्थावबोधनम् ॥ ९०॥ अभ्यासोपचिता कृत्स्नं भावना चेन्निवर्तयेत् । नैकान्तिकी निवृत्तिरस्स्याद्भावनाजं हि तत्फलम् ॥ ९१॥ अपि चाह । दुःखस्मीत्यपि चेद्ध्वस्ता कल्पकोट्युपबृंहिता । स्वल्पीयोऽभ्यासजास्थास्न्वी भावनेत्यत्र का प्रमा ॥ ९२॥ ननु शास्त्रात्स्थास्नुत्वं भविष्यति । नैवम् । यथावस्थितवस्तुयाथात्म्यावबोधमात्रकारित्वाच्छास्त्रस्य । न हि पदार्थशक्त्याधानकृच्छास्त्रम् । प्रसिद्धं च लोके । भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम् । न तत्स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥ ९३॥ यद्यपि प्रत्यक्षादिप्रमाणोपातमात्मनो दुःखित्वम् । तथापि तत्त्वमस्यादिवाक्योत्थप्रत्यय एव बलीयानिति निश्चयोऽव्यभिचारिप्रामाण्यवाक्योपत्तत्वात्प्रमेयस्य च स्वत एव निर्दुःखित्वसिद्धेः । प्रत्यक्षादेस्तु व्यभिचारित्वा- त्सम्भावनायाश्च पुरुषपरिकल्पनामात्राव- ष्टम्भत्वाच्चेति । निर्दुःखित्वं स्वतस्सिद्धं प्रत्यक्षादेश्च दुःखिता । को ह्यात्मानमनादृत्य विश्वसेद्बाह्यमानतः ॥ ९४॥ सम्बन्धार्थ एव । अपि प्रत्यक्षबाधेन प्रवृत्तिः प्रत्यगात्मनि । ᳚पराञ्चि खानि᳚ त्येतस्माद्वचसो गम्यते श्रुतेः ॥ ९५॥ अभ्युपगम्यैवमुच्यते न तु प्रमाणं सत्प्रमाणान्तरेण विरुध्यत इत्यसकृदवोचाम । यत्रापि वाक्यप्रत्यक्षयोर्विरोधाशङ्का तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति । अत आह । प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् । गौणीं प्रत्यक्षतां ब्रूयान्मुख्यार्थासम्भवाद्बुधः ॥ ९६॥ तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् । अग्निस्सम्यगधीतेऽसौ जहासोच्चैश्च मञ्चकः । यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥ ९७॥ कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया कल्पनयेति तत्राह । त्वमित्यतद्विहायान्यन्न वर्तात्मावबोधते । समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥ ९८॥ कस्मात्पुनर्हेतोर्ह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्मनः अत आह । व्योम्नि धूमतुषाराभ्रमलिनानीव दुर्धियः । कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥ ९९॥ ननु सर्वकल्पनानामप्यात्मन्यत्यन्तासम्भवे समानेऽहंवृत्तौ कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि विधूयाहंवृत्त्यैवात्मोपलक्ष्यत इति । उच्यते । चिन्निभेयमहंवृत्तिः प्रतीचीवात्मनोऽन्यतः । पूर्वोक्तेभ्यश्च हेतुभ्यस्तस्मादात्मानयोच्यते ॥ १००॥ वृत्तिभिर्युष्मदर्थाभिर्लक्ष्यते चेद्दृशिः परः । अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥ १०१॥ यथोक्तेन । अनेन गुणलेशेन ह्यत्यहंकर्तृकर्मया । लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥ १०२॥ नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् । षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ १०३॥ यदि शब्दोऽभिधानाभिधेयत्वसम्बन्धाङ्गीकारेण नात्मनि वर्तते कथं शब्दादहं ब्रह्मास्मीति सम्यग्बोधोत्पत्तिः । उच्यते । असत्ये वर्त्मनि स्थित्वा निरुपायमुपेयते । आत्मत्वकारणाद्विद्मो गुणवृत्त्या विबोधिताः ॥ १०४॥ कथं पुनरभिधानमभिधेयेनानभिसम्बद्धं सदनभिधेयेऽर्थे प्रमां जनयतीति । श‍ृणु यथानभिसम्बद्धमप्यनभिधे- येऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह । शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः । सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥ १०५॥ न हि नाम्नास्ति सम्बन्धो व्युत्थितस्य शरीरतः । तथापि बुध्यते तेन यथैवं तत्त्वमित्यतः ॥ १०६॥ यथा च । बोधाबोधौ नभोऽस्पृष्ट्वा कृष्णधीनीडगौ यथा । बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥ १०७॥ ᳚असत्ये वर्त्मनि स्थित्वा᳚ इत्युपश्रुत्यातिविस्मितो महता सम्भ्रमेण कश्चिच्चोदयति । नासन्नुपायो लोकेऽस्ति परमार्थविनिश्चये । नासल्लिङ्गाद्धि बाष्पदेः कश्चिदग्निं प्रपद्यते ॥ १०८॥ इत्येवं चोदयेद्योऽपि जोषयेत्तं घटादिना । सदसद्भ्यां विभक्तोऽसौ पर्यायश्च न चानयोः ॥ १०९॥ एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते । प्रकृतं चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं जनयतीति । तत्रैव कारणान्तरमुच्यते । अतिदुस्स्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता । निमित्तमात्राव्द्येत्येषा नासाग्रे बदरं यथा ॥ ११०॥ अनुदितानस्तमितकूटस्थबोधमात्रस्वाभाव्यादात्मनो दुस्सम्भाव्योऽविद्यासद्भाव इति चेन्न । अविद्याप्रसिद्ध्यैव तत्सद्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते । अहो धार्ष्ट्यमविद्याया न कश्चिदतिवर्तते । प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥ १११॥ यस्मादविद्याप्रसिद्ध्यैवाविद्यासद्भावसिद्धिरत आत्मवस्तुवृत्तानुरोधेन न कथंचनापि तत्सम्भावनाप्यस्ति यत आह । ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् । सम्भावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥ ११२॥ सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर आत्मापि सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवेक्ष्यते यतोऽतः । अनुमानादयं भावाव्द्यावृत्तोऽभावमाश्रितः । ततोऽप्यस्य निवृत्तिः स्याद्वाक्यादेव बुभुत्सतः ॥ ११३॥ न व्यावृत्तिर्यथा भावाद्भावेनैवाविशेषतः । अभावादप्यभावत्वाद्व्यावृत्तिर्न तथेष्यते ॥ ११४॥ भाववदभावादपि निवृत्तिरनुमानादेव किमिति न भवतीति चेच्छृणु । यतो नानुमानेन व्याविद्धाशेषक्रियाकारकफलात्मनि स्वाराज्येऽभिषेक्तुं शक्यते तस्मात् । अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया । भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥ ११५॥ अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाद्दुस्सम्भाव्या अविद्येति । नैतदेवम् । कुतः । यत आह । कुतो अविद्येति चोद्यं स्यान्नैव प्राग्घेत्वसम्भवात् । कालत्रयापरिच्छित्तेर्न चोर्ध्वं चोद्यसम्भवः ॥ ११६॥ यस्मात्तत्त्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां निरन्वयामपनुदति तस्मात् । अद्धातममनादृत्य प्रमाणं सदसीति ये । बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥ ११७॥ एवमप्रतिहतामहं ब्रह्मेति प्रमां तत्त्वमस्यादिवाक्यं कुर्वदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि प्रतिपत्तिः स्यादत आह । इदं चेदनृतं ब्रूयात्सत्यामवगतावपि । न चान्यत्रापि विश्वासो ह्यवगत्यविशेषतः ॥ ११८॥ न चोपादित्सिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं युक्तम् । यस्मात् । न चेदनुभवोऽतः स्यात्पदार्थावगतावपि । कल्प्यं विध्यन्तरं तत्र न ह्यन्योऽर्थोऽवगम्यते ॥ ११९॥ न च यथाभिमतोऽर्थो यथोक्तेन न्यायेन नावसीयते । कोऽसौ न्याय इत्याह । नामादिभ्यो निराकृत्य त्वमर्थं निष्परिग्रहः । निस्स्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥ १२०॥ भङ्क्त्वा चान्नमयादींस्तान्पञ्चानात्मतयार्गलान् । अहं ब्रह्मेति वाक्यार्थं वेत्ति चेन्नार्थ ईहया ॥ १२१॥ न चेदेवमुपगम्यते वाक्यस्य प्रमाणस्य सतोऽप्रामाण्यं प्राप्नोति । तदाह । यदर्थं च प्रवृत्तं यद्वाक्यं तत्र न चेच्छ्रुतम् । प्रमामुत्पादयेत्तस्य प्रामाण्यं केन हेतुना ॥ १२२॥ अथ मन्यसे । जानीयाच्चेत्प्रसंख्यानाच्छब्दस्सत्यवचाः कथम् । पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानात्त्वसंशयम् ॥ १२३॥ न च युक्तिशब्दावृत्तिलक्षणात्प्रसंख्यानाद्यथाव- त्प्रतिपत्तिर्भविष्यतीति सम्भावयामः । यस्मात् । युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् । साक्षादावर्तनात्ताभ्यां किमपूर्वं फलिष्यति ॥ १२४॥ अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न शक्नोषीति चेच्छ्रवणादावेव सम्पादयिष्यामः । कथम् । प्रसंख्याने श्रुतावस्य न्यायोऽस्त्वाम्रेडनात्मकः । ईषच्छ्रुतं सामिश्रुतं सम्यक्श्रुत्वावगच्छति ॥ १२५॥ ननु प्रसंख्यानविधिमनभ्युपगच्छतः पारमहंसी चर्या बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्नोति ततश्चारूढपतितत्वं न स्यादशेषकर्मणां च निवृत्तिर्न प्राप्नोतीति । उच्यते । त्वमर्थस्यावबोधाय विधिरप्याश्रितो यतः । तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः ॥ १२६॥ इति तृतीयोऽध्यायः ॥ ३॥ अथ चतुर्थोऽध्यायः । पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् । संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये ॥ १॥ संक्षेपविस्तराभ्यां हि मन्दोत्तमधियां नृणाम् । वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते ॥ २॥ आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः । सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः ॥ ३॥ अनात्मत्वं स्वतस्सिद्धं देहाद्भिन्नस्य वस्तुनः । ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् ॥ ४॥ असाधारणांस्तयोर्धर्मान् ज्ञात्वा धूमाग्निवद्बुधः । अनात्मनोऽथ बुद्ध्यन्तान् जानीयादनुमानतः ॥ ५॥ इदमित्येव बाह्येऽर्थे ह्यहमित्येव बोद्धरि । द्वयं दृष्टं यतो देहे तेनायं मुह्यते जनः ॥ ६॥ केन पुनर्न्यायेनात्मानात्मनोरश्वमहिषयोरिव विभागः क्रियत इति । उच्यते । न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् । तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् ॥ ७॥ विद्यात्तत्त्वमसीत्यस्माद्भावाभावदृशं सदा । अनन्तरमबाह्यार्थं प्रत्यक्स्थं मुनिरञ्जसा ॥ ८॥ उच्यतां तर्हि कया तु परिपाय्या वाक्यार्थं वेत्तीति । उच्यते । अन्वयव्यतिरेकाभ्याम् । त्यक्तकृत्स्नेदमर्थत्वात्त्यक्तोऽहमिति मन्यते । नावगच्छाम्यहं यस्मान्निजात्मानमनात्मनः ॥ ९॥ अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति प्रमाणाद्विनिश्चित्य किमिति बुभुत्सातो नोपरमते । श‍ृणु । अनुच्छिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मनः । दोलायमानचित्तोऽयं मुह्यते भौतवन्नरः ॥ १०॥ अविलुप्तविज्ञानात्मन आत्मत्वादेव नित्यसान्निध्याद्बुभुत्सुः किमिति न प्रतिपद्यत इति। यस्मात् । यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते । दृष्टेर्द्रष्टारमात्मानं तैः प्रसिद्धैः प्रमित्सति ॥ ११॥ कस्मात्पुनर्हेतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बुद्धिभि- रात्मानमनात्मवन्न वीक्षत इति । उच्यते । चक्षुर्न वीक्षते शब्दमतदात्मत्वकारणात् । यथैवं भौतिकी दृष्टिर्नात्मानं परिपश्यति ॥ १२॥ प्रत्यक्षादिप्रमाणस्वाभाव्यानुरोधेन तावत्तददर्शनकारणमुक्तम् । अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते । धीविक्रियासहस्राणां हानोपादानधर्मिणाम् । सदा साक्षिणमात्मानं प्रत्यक्त्वान्नाहमीक्षते ॥ १३॥ क्व पुनरियं विवेकबुद्धिः किमात्मन्युतानात्मनीति । किंचातः । यद्यात्मनि कूटस्थत्वव्याघातोऽनात्मदर्शित्वात् । अथानात्मनि तस्याप्यचैतन्यान्न विवेकसम्बन्ध इति । उच्यते । ᳚दाह्यदाहकतैकत्र᳚ इत्युक्तपरिहारात् । बुद्धावेव विवेकोऽयं यदनात्मतया भिदा । बुद्धिमेवोपमृद्नाति कदलीं तत्फलं यथा ॥ १४॥ सोऽयमतत्त्वे तत्त्वदृक् । अनुमानप्रदीपेन हित्वा सर्वाननात्मनः । संसारैकावलम्बिन्या तदभावं धियेप्सति ॥ १५॥ योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभाग लक्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्- प्रतिपत्तव्योऽन्यथावस्तुस्वाभाव्यान्मृगतृष्णिकोदक- प्रबोधववदित्यत आह । संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्छति । शशो निमीलनेनेव मृत्युं परिजिहीर्षति ॥ १६॥ अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् । इममर्थं पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् । ᳚यच्चक्षुषे᳚ति विस्रब्धं ᳚न दृष्टे ᳚रिति च स्फुटम् ॥ १७॥ बुद्ध्यन्तमपविद्ध्यैवं को न्वहं स्यामितीइक्षितुः । श्रुतिस्तत्त्वमसीत्याह सर्वमानातिगामिनी ॥ १८॥ एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्तः । सोऽयं न्याय्योऽपि वेदान्तार्थः शास्त्राचार्यप्रसाद- लभ्योऽप्यनपेक्षितशास्त्राचार्यप्रसादोऽनन्यापेक्ष- सिद्धस्वभावत्वात्कैश्चिच्छ्रद्धधानैर्न प्रतीयते । तेषां संग्रहार्थमभिमतप्रामाण्योदाहरणम् । भगवत्पूज्यपादैश्च उदाहार्येवमेव तु । सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः ॥ १९॥ किं परमात्मन उपदेश उतापरमात्मन इति । किं चातः । यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तत्वान्निरर्थक उपदेशः । अथापरमात्मनस्तस्यापि स्वत एव संसार- स्वभावत्वान्निष्फल उपदेशः । एवमुभयत्रापि दोषवत्त्वादत आह । ᳚अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्ग्रहस्तथा ᳚ । इति पक्षमुपादाय पूर्वपक्षं निशात्य च ॥ २०॥ तच्चेदमविवेकात्स्वतो विविक्तात्मने तत्त्वमसीत्युपदिष्टम् । युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः । यतोऽनभिज्ञे वाक्यं स्याद्बधिरेष्विव गायनम् ॥ २१॥ तस्य च युष्मदस्मद्विभागविज्ञानस्य का युक्तिरुपायभावं प्रतिपद्यते । श‍ृणु । ᳚अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च । स्यादेतदहमित्यत्र युक्तिरेवावधारणम् ᳚ ॥ २२॥ कथं तौ युक्तिरित्यत्राह । ᳚नाद्राक्षमहमित्यस्मिन् सुषुप्तेऽन्यन्मनागपि । न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ᳚ ॥ २३॥ ᳚एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः । श्रुतिस्तत्त्वमसीत्याह श्रोतुर्मोहापनुत्तये ᳚ ॥ २४॥ तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्थ उच्यते । ᳚अहं शब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि । सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता ᳚ ॥ २५॥ अन्यच्चान्वयव्यतिरेकोदाहरणम् । तथा । ᳚छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते । तथा शिष्टेन सर्वेण येनयेन विशेष्यते ॥ २६॥ विशेषणमिदं सर्वं साध्वलंकरणं यथा । अविद्याध्यस्तमतः सर्वं ज्ञात आत्मन्यसद्भवेत् ॥ २७॥ तस्मात्त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् । अनात्मत्वेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः ॥ २८॥ ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः । अहमित्यपि यद्ग्राह्यं व्यपेताङ्गसमं हि तत् ᳚ ॥ २९॥ ᳚दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् । तथान्ये प्रत्यया ज्ञेया दोषाश्चात्मामलो ह्यतः ᳚ ॥ ३०॥ सर्वन्यायोपसंग्रहः । ᳚नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः । वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥ ३१॥ अन्वयव्यतिरेकाभ्यां पदार्थस्स्मर्यते ध्रुवम् । एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥ ३२॥ सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् । दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ᳚ ॥ ३३॥ वीक्षापन्नस्योदाहरणम् । ᳚नवबुद्ध्यपहाराद्धि स्वात्मानं दशपूरणम् । अपश्यन् ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा ॥ ३४॥ अविद्याबद्धचक्षुष्ट्वात्कामापहृतधीः सदा । विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ᳚ ॥ ३५॥ सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन् कथमुत्थाप्यत इत्याह । यथा स्वापनिमित्तेन स्वप्नदृक्प्रतिबोधितः । करणं कर्म कर्तारं स्वाप्नं नैवेक्षते स्वतः ॥ ३६॥ अनात्मज्ञस्तथैवायं सम्यक् श्रुत्यावबोधितः । गुरुं शास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति ॥ ३७॥ स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत उत नेतीति । अत्र ब्रूमः । कूटस्थावगतिशेषमात्रत्वा- त्प्रतिपत्तेरत आह । दण्डावसाननिष्ठस्स्याद्दण्डसर्पो यथा तथा । नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् ॥ ३८॥ कुत एतत् । यस्मात् । पश्यन्निति यदाहोच्चैः प्रत्यक्त्वमजमव्ययम् । अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते ॥ ३९॥ तत्त्वमस्यादिवाक्योत्थविज्ञानैव बाध्यते । यस्मात् । अस्माद्यदपरं रूपं नास्तीत्येव निरूप्यते । अन्यथाग्रहणाभावाद्बीजं तत्स्वप्नबोधयोः ॥ ४०॥ अस्यार्थस्य द्रढिम्न उदाहरणम् । ᳚कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ᳚ ॥ ४१॥ ᳚अन्यथागृहणतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ᳚ ॥ ४२॥ तथा भगवत्पादीयमुदाहरणम् । ᳚सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः । आत्मबोधप्रदग्धं स्याद्बीजं दग्धं यथाभवम् ᳚ ॥ ४३॥ एवं गौडैर्द्राविडैर्नः पूज्यैरयमर्थः प्रभाषितः । अज्ञानमात्रोपाधिस्सन्नहमादिदृगीश्वरः ॥ ४४॥ तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनात्मधर्म एवेत्याह । इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् । योऽविकारो विजानाति परागेवास्य तत्तमः ॥ ४५॥ यत एतदेवमतस्तस्यैव बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य स्वकार्यद्वितीयाभिसम्बन्धो न त्वविकारिण आत्मन इत्याह दृष्टान्तेन । रूपप्रकाशयोर्यद्वत्संगतिर्विक्रियावतः । सुखदुःखादिसम्बन्धश्चित्तस्यैवं विकारिणः ॥ ४६॥ तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह । सम्प्रसादेऽविकारित्वादस्तं याते विकारिणि । पश्यतो नात्मनः किंचिद्द्वितीयं स्पृशतेऽण्वपि ॥ ४७॥ सोऽयं कूटस्थज्ञानमूर्तिरात्मा । यथा प्राज्ञे तथैवायं स्वप्नजागरितान्तयोः । पश्यन्नप्यविकारित्वाद्द्वितीयं न पश्यति ॥ ४८॥ एवं ज्ञानवतो नास्ति ममाहंमतिसंश्रयः । भास्वत्प्रदीपहस्तस्य ह्यन्धकार इवाग्रतः ॥ ४९॥ तत्र दृष्टान्तः । आ प्रबोधाद्यथासिद्धिर्द्वैतादन्यस्य वस्तुनः । बोधादेवमसिद्धत्वं बुद्ध्यादेः प्रत्यगात्मनः ॥ ५०॥ स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् । सर्वमेवानुजानाति सर्वमेव निषेधति । भेदात्मलाभोऽनुज्ञा स्यान्निषेधोऽतत्स्वभावतः ॥ ५१॥ सर्वस्योक्तत्वादुपसंहारः । परमाथार्थनिष्ठं यत्सर्ववेदान्तनिश्चितम् । तमोपनुद्धियां ज्ञानं तदेतत्कथितं मया ॥ ५२॥ एतावदिहोक्तम् । नेहात्मविन्मदन्योऽस्ति न मत्तोऽज्ञोऽस्ति कश्चन । इत्यजानन्विजानाति यस्स ब्रह्मविदुत्तमः ॥ ५३॥ एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्यमाहोस्वि- न्मुक्तप्रग्रहतेति । उच्यते । ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्त्वनुसार्यतः । न प्रवृत्तिं निवृत्तिं वा कटाक्षेणापि वीक्षते ॥ ५४॥ कुत एतज्ज्ञेयाभिन्नमिति । यतः । प्रागात्मबोधाद्बोधोऽयं बाह्यवस्तूपसर्जनः । प्रध्वस्ताखिलसंसार आत्मैकालम्बनः श्रुतेः ॥ ५५॥ एवमवगतपरमार्थतत्त्वस्य न शेषशेषिभाव- स्तत्कारणस्योत्सारितत्वादित्याह । वास्तवेनैव वृत्तेन निरुणद्धि यतो भवम् । निवृत्तिमपि मृद्नाति सम्यग्बोधः प्रवृत्तिवत् ॥ ५६॥ सकृदात्मप्रसूत्यैव निरुणद्ध्यखिलं भवम् । ध्वान्तमात्रनिरासेन न ततोऽन्यान्यथामतिः ॥ ५७॥ देशकालाद्यसम्बद्धाद्देशादेर्मोहकार्यतः । नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः ॥ ५८॥ सम्यग्ज्ञानशिखिप्लुष्टमोहतत्कार्यरूपिणः । सकृन्निवृत्तेर्बाध्यस्य किं कार्यमवशिष्यते ॥ ५९॥ वास्तवेनैव वृत्तेनाविद्यायाः प्रध्वस्तत्वान्न किंचिदवशिष्यत इत्युक्तः परिहारः । अथापरस्साम्प्रदायिकः परिहारः । निवृत्तसर्पस्सर्पोत्थं यथा कम्पं न मुञ्चति । विध्वस्ताखिलमोहोऽपि मोहकार्यं तथात्मवित् ॥ ६०॥ यतः प्रवृत्तिबीजमुच्छिन्नं तस्मात् । तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः । तथा बुद्धात्मतत्त्वस्य निवृत्त्यैव तनुक्षयः ॥ ६१॥ अथालेपकपक्षनिरासार्थमाह । बुद्धद्वैतसत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ६२॥ कस्मान्न भवति । यस्मात् । अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः । धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते ॥ ६३॥ प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः । ᳚यस्य सर्वे समारम्भाः ᳚ ᳚प्रकाशं चे ᳚ति सर्वदृक् ॥ ६४॥ तिष्ठतु तावत्सर्वप्रवृत्तिबीजघस्मरं ज्ञानं मुमुक्ष्ववस्थायामपि न सम्भवति यथेष्टाचरणम् । तदाह । ᳚ यो हि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते । लोकत्रयविरक्तत्वान्मुमुक्षुः किमितीहते ᳚ ॥ ६५॥ तत्र दृष्टान्तः । ᳚क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति । मिष्टान्नध्वस्ततृड् जानन्नामूढस्तज्जिघत्सति ᳚ ॥ ६६॥ यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि घटते मुमुक्षुत्वेऽपि च तस्मात् । रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु । कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः ॥ ६७॥ सकलपुरुषार्थसमाप्तिकारिणोऽस्यात्मावबोधस्य कुतः प्रसूतिरिति । उच्यते । अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः । ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः ॥ ६८॥ उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृत्तिवन्निवृत्त्या- त्मकामानित्वदयो निवर्तन्त उत नेति । नेति ब्रूमः । किं कारणम् । निवृत्तिशास्त्राविरुद्धस्वाभाव्यात्परमात्मनो न तु नियोगवशात् । कथं तर्हि । श‍ृणु । उत्पन्नात्मप्रबोधस्य त्वद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥ ६९॥ यत एतदेवमतः । इमां ग्रन्थमुपादित्सुरमानित्वादिसाधनः । यत्नतः स्यान्न दुर्वृत्तः प्रत्यग्धर्मानुगो ह्ययम् ॥ ७०॥ न दातव्यश्चायं ग्रन्थः । नाविरक्ताय संसारान्नानिरस्तैषणाय च । न चायमवते देयं वेदान्तार्थप्रवेशनम् ॥ ७१॥ ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते । न चानिरस्तकर्मेदं जानीयादञ्जसा ततः ॥ ७२॥ निरस्तसर्वकर्माणः प्रत्यक्प्रवणबुद्धयः । निष्कामा यतयः शान्ता जानन्तीदं यथोदितम् ॥ ७३॥ श्रीमच्छङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान् ज्ञानं पारमहंस्यमेतदमलं स्वान्तान्धकारापनुत् । मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ॥ ७४॥ सुभाषितं चार्वपि नामहात्मनां दिवाकरो नक्तदृशामिवामलः । प्रभाति भात्येव विशुद्धचेतसां निधिर्यथापास्ततृषां महाधनः ॥ ७५॥ विष्णोः पादानुगां यां निखिलभवनुदं शंकरोऽवाप योगात् सर्वज्ञं ब्रह्मसंस्थं मुनिगणसहितं सम्यगभ्यर्च्य भक्तया । विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदान्तदीप्तां कारुण्यात्तामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः ॥ ७६॥ वेदान्तोदरवर्ति भास्वदमलं ध्वान्तच्छिदस्मद्धियो दिव्यं ज्ञानमतीद्रियेऽपिविषये व्याहन्यते न क्वचित् । यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः प्रोत्सार्याविरकार्षीद्गुरुगुरुः पूज्याय तस्मै नमः ॥ ७७॥ सम्बन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता । नैष्कर्म्यसिद्धेर्ज्ञात्वेमां व्याख्यातासौ भवेद्ध्रुवम् ॥ ७८॥ इति चतुर्थोऽध्यायः ॥ ४॥ इति ।