अक्षर आकार:

नामामृतरसायनम्

Namamrita Rasayanam

नामामृतरसायनम्

॥ श्रीः ॥ सकृत्प्रपन्नजनतासंरक्षणदीक्षिताय श्रीरामब्रह्मणे नमः । सदा सर्वेष्टदं जन्तोः सर्वारिष्टनिवारकम् । श्रीरामनाम जयतु श्रेयोहेतुशिखामणिः ॥ १॥ सदानन्दः श्रीमाननुपधिककारुण्यविवशो जगत्क्षेमाय श्रीहरिगिरिशरूपं विधृतवान् । अपर्याप्तं रूपं जगदवन एतत्पुनरिति प्रभुर्जागर्ति श्रीहरिगिरिशनामात्मकतया ॥ २॥ सकलभुवनरक्षापेक्षया यः परात्मा निरवधिदयया श्रीशेशनामात्मकः सन् । प्रविलसति सदासौ सोऽनुकम्पासुधाब्धि- र्मम भवतु तदात्मा सुस्थिरो वक्त्रपद्मे ॥ ३॥ सर्वस्य लोकस्य सदा सुगुप्त्यै नामात्मको भाति हरीशयोर्यः । दयासुधाब्धिः स तदात्मको मे रामः सदा वक्त्रसरोरुहेऽस्तु ॥ ४॥ यन्नामकीर्तनादेव दग्धदुर्जातिकिल्बिषः । किरातोऽभून्मुनिश्रेष्ठो वाल्मीकिरिति विश्रुतः ॥ ५॥ विद्याधराख्यविप्रोऽपि यन्नाम्नः कीर्तनादगात् । मुक्तिं तद्रामनाम्न्येव मम वागस्तु सर्वदा ॥ ६॥ सकलभुवनकर्ता सच्चिदानन्दरूपो गिरिशमुखसुरेन्द्रैर्गीतकीर्तिः परात्मा । सकृदुपगतरक्षादीक्षितः श्रीनिवासो मम हृदि निवसन्मां पातु सीतासमेतः ॥ ७॥ निर्माता स्थितिकारकोऽस्य जगतः सर्वेश्वरः सर्वगः सच्चिद्रूपसुखात्मको विजयते स्वात्माखिलानां च यः । साक्षी वेदगिरेड्यपादकमलस्त्राता प्रपत्तुः सकृ- द्देवोऽसौ कृपयास्तु रक्षणपरो रामो मुदा मे सदा ॥ ८॥ सकृत्प्रपन्नस्य जनस्य रक्षा कृपाम्बुधेर्यस्य महद् व्रतं सः । रामः सदाव्याद्रमणीयकीर्तिः सीतापतिर्मां शरणं प्रपन्नम् ॥ ९॥ सृष्ट्यादिहेतुरखिलस्य चराचरस्य दृष्ट्या निरस्तमदनाखिलगर्वराशिः । पाताखिलस्य जगतः परमो नियन्ता साम्बः सदा स्फुरतु मे हृदि रामरूपः ॥ १०॥ चेतनानां हि सर्वेषां यः सदा शङ्करः सदा । स शिवः शङ्करो भूयात्सदा मम दयाम्बुधिः ॥ ११॥ सकलनतजनानां रक्षणे बद्धदीक्षो वरवटतरुमूले संनिविष्टोऽखिलात्मा । सकलमुनिजनानां ज्ञानदाता दयाब्धिः प्रदिशतु सुमतिं मे दक्षिणामूर्तिदेवः ॥ १२॥ विज्ञानवैराग्यपरात्मभक्ति- शमादिभिर्योऽधिकतां प्रपन्नः । विश्वाधिकाख्यामगमच्च तेन गुरूत्तमं तं प्रणमामि मूर्ध्ना ॥ १३॥ नत्वा गणेशं निखिलांस्तु विघ्ना- ञ्जित्वामरास्तोषमियुस्तमेव । तत्त्वावबोधाय नमामि मूर्ध्ना नित्यं निहन्तुं निखिलांस्तु विघ्नान् ॥ १४॥ या वेदशास्त्रात्मकवन्द्यदेहा सर्वैः सुरेन्द्रैर्मुनिभिश्च पूज्या । श्रीभारती सा दयया मदीये जिह्वाङ्गणे नृत्यतु सर्वदैव ॥ १५॥ शास्त्रार्थं सुविनिर्णेतुमिष्टदं सर्वदेहिनाम् । यतिरूपधरं नौमि शङ्करं लोकशङ्करम् ॥ १६॥ श्रीरामस्य कृपादृष्ट्या तन्नामस्मृतिलब्धया । रच्यते श्रीभगवतो नामामृतरसायनम् ॥ १७॥ नामकीर्तनरूपो हि धर्मः श्रीपरमात्मनः । श्रुतिस्मृतिपुराणादिशास्त्रेषु विहितः क्रमात् ॥ सर्वाश्रमणामन्येषां जनानां च गरीयसाम् । निकृष्टानां च सर्वेषां सर्वाघौघनिवारकः ॥ सर्वेष्टफलदो ब्रह्मविज्ञानस्य समुद्भवः । वेदोक्तः सर्वधर्माणां सकलाश्रमवासिषु ॥ अनुत्तमः श्रुतः कञ्चिन्नियमं नैव वाञ्छति । अतः सकलधर्मेभ्यः सुलभः सर्वमङ्गलः ॥ इत्येतदर्थं सकलं स्पष्टीचक्रे स्ववाक्यतः । सहस्रनामभाष्येऽस्मिन्भाष्यकारो दयाम्बुधिः ॥ इति श्रीमद्बोधेन्द्रविरचितं नामामृतरसायनं सम्पूर्णम् ॥