अक्षर आकार:

महर्षिपाणिनिप्रणीतं लिङ्गानुशासनम्

Linganushasanam Panini on Genders

महर्षिपाणिनिप्रणीतं लिङ्गानुशासनम्

अथ लिङ्गानुशासनम् ॥ अथ स्त्रीलिङ्गाधिकारः । १. लिङ्गम् । २. स्त्री । ३. ऋकारान्ता मातृदुहितृयातृस्वसृननान्दरः । (यातृ स्थाने पोतृ इति क्वचित्) ४. अन्यूप्रत्ययान्ता धातुः । ५. अशनिभरण्यरणय पुंसि च । ६. मिन्यन्तः । ७. वह्निवृष्ण्यग्नयः पुंसि । ८. श्रोणियोन्यूर्मय पुंसि च । १०. क्तिन्नन्तः । १०. ईकारान्तश्च । ११. ऊङ्ङ्याबन्तश्च । १२. य्वन्तमेकाक्षरम् । १३. विंशत्यादिरानवतेः । १४. दुन्धुभिरक्षेषु । १५. नाभिरक्षत्रिये । १६. उभावन्यत्र पुंसि । १७. तलन्तः । १८. भूमिविद्युत्सरिल्लतावनिताभिधानानि । १९. यादो नपुंसकम् । २०. भास्स्रुक्स्रग्दिग्दृगुष्णिगुपानहः । २१. स्थूणोर्णे नपुंसके च । २२. गृहशशाभ्यां क्लीबे । २३. प्रावड्विप्रुड्रुड्विटत्विषः । २४. दर्विविदिवेदिखनिशाण्यभ्रिवेणिकृष्योषध्यङ्गुलयः । २५. तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः । २६. शष्कुलिराजिकुट्यवन्तिवर्त्तिभ्रुकुटित्रुटिबलिपङ्क्तयः । २७. प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषःसंवित्क्षुत्पुन्मुत्समिधः । २८. आशीर्धूः पूर्गीर्द्वारः । २९. अप्सुमनस्समासिकतावर्षाणां बहुत्वञ्ज । ३०. स्रक्त्वग्ज्योग्वाग्यवागूनौस्फिचः ।(क्वचित् स्रक् स्थाने स्रुक् अथवा शुक, स्फिच स्थाने स्फिज इति पाठः) ३१. तटिसीमासम्बध्याः । ३२. चूल्लिवेणिखार्यश्च । (क्वचित्पुस्तके चुल्लि इति पाठः ।) ३३. ताराधाराज्योत्स्नादयश्च । ३४. शलाका स्त्रियां नित्यम् । इति स्त्रीलिङ्गाधिकारः ॥ अथ पुंलिङ्गाधिकारः । ३५. पुमान् । ३६. घञबन्तः । ३७. घाजन्तश्च । ३८. भयलिङ्गभगपदानि नपुंसके । ३९. नङन्तः । ४०. याच्ञा स्त्रियाम् । ४१. क्यन्तो घुः । ४२. इषुधिः स्त्री च । ४३. देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठ- खड्गशरपङ्काभिधानानि । ४४. त्रिविष्टपत्रिभुवने नपुंसके । (त्रिपिष्टप इति पाठान्तरः) ४५. द्यौः स्त्रियाम् । ४६. इषुबाहू स्त्रियाञ्च । ४७. बाणकाण्डौ नपुंसके च । ४८. नान्तः । ४९. क्रतुपुरुषकपोलगुल्फमेघाभिधानानि । ५०. अभ्रं नपुंसकम् । ५१. उकारान्तः । ५२. धेनुरज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् । ५३. समासे रज्जुः पुंसि च । ५४. श्मश्रुजानुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके । ५५. वसु चार्थवाचि । ५६. मद्गुमधुशीधुसानुकमण्डलूनि नपुंसके च । ५७. रुत्वन्तः । ५८. दारुकसेरुजत्रुवस्तुमस्तूनि नपुंसके । (क्वचित् जतु इति पाठः ।) ५९. सक्तुर्नपुंसके च । ६०. प्राग्रश्मेरकारान्तः । ६१. कोपधः । ६२. चिबुकशालूकप्रातिपादिकांशुकोल्मुकानि नपुंसके । ६३. कण्टकानीकसरकमोदकचसकमस्तकपुस्तकतटाकनिष्कशुष्क- वर्चस्कपिनाकभाण्डकपिण्डककटकदण्डकपिटकतालकफल- ककल्कपुलाकानि नपुंसके च । ६४. टोपधः । ६५. किरीटमुकुटललाटवटवीटश्रृङ्गाटकरटलोष्टानि नपुंसके । ६६. कुटकूटकपटकपाटकर्पटनटनिकटकीटकटानि नपुंसके च । ६७. णोपधः । ६८. ऋणलवणपर्णतोरणरणोष्णानि नपुंसके । ६९. कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च । ७०. थोपधः । ७१. काष्ठपृष्ठरिक्थोक्थानि नपुंसके ।(क्वचित् रिक्थ स्थाने सिक्थ इति पाठभेदः) ७२. काष्ठा दिगर्था स्त्रियाम् । ७३. तीर्थप्रोथयूथगूथानि नपुंसके च । ७४. नोपधः । ७५. जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुन- श्मशानरत्ननिम्नचिह्नानि नपुंसके । ७६. मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसमान- भवनवसनसम्भावनविभा-वनविमानानि नपुंसके च । ७७. पोपधः । ७८. पापरूपोडुपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके । (ताप इत्यपि केचित्) ७९. शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च । ८०. भोपधः । ८१. तलभं नपुंसकम् । ८२. जृम्भं नपुंसके च । ८३. मोपधः । ८४. रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके । ८५. सङ्ग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च ८६. योपधः । ८७. किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । ८८. गोमयकषायमलयान्वयाव्ययानि नपुंसके च । ८९. रोपधः । ९०. द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छिद्रनारतीरदूर- कृच्छ्ररन्ध्रास्रशुभ्रभीरगभीरक्रूरविचित्रकेयूर- केदारोदराजस्रशरीरकन्दरपञ्जराजरजठराजिरवैरचामर- पुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिर- तन्त्रयन्त्रक्षत्रक्षेत्रमित्रकलत्रच्छत्रमूत्रसूत्रवक्त्र- नेत्रगोत्राङ्गुलित्रतनुत्रास्त्रशस्त्रशास्त्रवस्त्रपत्रपात्र- नक्षत्राणि नपुंसके । (क्वचित् नार स्थाने पार, अस्र स्थाने अश्र, शुभ्र स्थाने श्वभ्र, तनुत्र स्थाने भलत्र । क्वचिन्न कुहर) ९१. शुक्रमदेवतायाम् । ९२. चक्रवज्रान्धकारसारावारपारक्षीरतोमरश्रृङ्गारभृङ्गार- मन्दारोशीरतिमिरशिशिराणि नपुंसके च । ९३. षोपधः । ९४. शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्विषकल्मषाणि नपुंसके । (ऋजीष स्थाने जोष इति केचित्) ९५. यूषकरीषमिषविषवर्षाणि नपुंसके च । ९६. सोपधः । ९७. मानसबिसबुससाहसानि नपुंसके । (मानस स्थाने पनस इति क्वचित्) ९८. चमसांसरसनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च । (चमसांसरस स्थाने चमससरस इति क्वचितपाठः) ९९. कंसं चाप्राणिनि । १००. रश्मिदिवसाभिधानानि । १०२. दीधितिः स्त्रियाम् । १०२. दिनाहनी नपुंसके । १०३. मानाभिधानानि । १०४. द्रोणाढकौ नपुंसके च । १०५. खारीमानिके स्त्रियाम् । १०६. दाराक्षतलाजासूनां बहुत्वञ्ज । १०७. नाड्यपजनोपपदानि व्रणाङ्गपदानि । १०८. मरुद्गरुदुत्तरदृत्विजः । १०९. ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबालिकौलिमौलिरविकविकपिमुनयः (दृति स्थाने धृति, ग्रन्थि स्थाने प्रहि इति च केचित्) ११०. ध्वजगजमुञ्जपुञ्जाः । १११. हस्तकुन्तान्तवातव्रातदूतधूर्तसूतचूतमुहूर्ताः । ११२. षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः । (रण्ड इत्यपि केचित्) ११३. वंशांशपुरोडाशाः । ११४. ह्रदकन्दकुन्दबुद्बुदशब्दाः । ११५. अर्घपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः । (मथि स्थाने सखि इति केचित्) ११६. पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गतुरङ्ग- गन्धस्कन्धमृदङ्गसङ्गसमुद्गपुङ्खाः । (पल्वल स्थाने पल्लल, निर्व्यूह स्थाने निर्य्यूह च इति केचित्) ११७. सारथ्यतिथिकुक्षिबस्तिपाण्यञ्जलयः । (क्वचिन्न पाणि) इति पुंलिङ्गाधिकारः ॥ अथ नपुंसकलिङ्गाधिकारः । ११८. नपुंसकम् । ११९. भावे ल्युडन्तः । १२०. निष्ठा च । १२१. त्वष्यञौ तद्धितौ । १२२. कर्मणि च ब्राह्मणादिगुणवचनेभ्यः । १२३. यद्यढग्यगञण्वुञ्छाश्च भावकर्म्मणि । १२४. अव्ययीभावः । १२५. द्वन्द्वैकत्वम् । १२६. अभाषायां हेमन्तशिशिरावहोरात्रे च । १२७. अनञ्कर्मधारयस्तत्पुरुषः । १२८. अनल्पे छाया । १२९. राजाऽमनुष्यपूर्वा सभा । १३०. सुरासेनाच्छायाशालानिशाः स्त्रियाञ्च । १३१. परवत् । १३२. रात्राह्नाहाः पुंसि । १३३. सङ्ख्यापूर्वा रात्रिः । १३४. अपथपुण्याहे नपुंसके । १३५. द्विगुः स्त्रियाञ्च । १३६. इसुसन्तः । १३७. अर्चिः स्त्रियाञ्च । १३८. छदिः स्त्रियामेव । १३९. मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि । १४०. सीरार्थौदनाः पुंसि । १४१. वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । १४२. अटवी स्त्रियाम् । १४३. लोपधः । १४४. तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि । १४५. शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणाल- बालनिगलपलालबिडालखिलशूलाः पुंसि च । १४६. शतादिः सङ्ख्या । १४७. शतायुतप्रयुताः पुंसि च । १४८. लक्षाकोटी स्त्रियाम् । १४९. शङ्कुः पुंसि । (केचित् पाठे नैत्तसूत्रम्) १५०. सहस्रः पुंसि च । (केचित् पाठे पुंसि च इति स्थाने क्वचित् इति पाठः) १५१. मन् द्व्यच्कोऽकर्त्तरि । १५२. ब्रह्मन्पुंसि च । (केचित् पाठे ब्रह्म इत्येव) १५३. नामरोमणी नपुंसके । १५४. असन्तो द्व्यच्कः । १५५. अप्सराः स्त्रियाम् । १५६. त्रान्तः । १५७. यात्रामात्राभस्त्रादंष्ट्रावस्त्राः स्त्रियामेव । १५८. भृत्रामित्रच्छात्रपुत्रमन्त्रवृत्रमेढ्रोष्ट्राः पुंसि । (केचित्पाठे मेढ्रोष्ट्र स्थाने मैत्र इति पाठः) १५९. पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च । १६०. बलकुसुमशुल्बपत्तनरणाभिधानानि । १६१. पद्मकमलोत्पलानि पुंसि च । १६२. आहवसङ्ग्रामौ पुंसि । १६३. आजिः स्त्रियामेव । १६४. फलजातिः । १६५. वृक्षजातिः स्त्रियामेव । १६६. वियज्जगत्सकृच्छकन्पृषच्छकृद्यकृदुदश्वितः । (शकत् स्थाने कृषत् इति केचित्) १६७. नवनीतावनतानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि । (अवनत स्थाने अवत इति केचित्) १६८. श्राद्धकुलिशदैवपीठकुण्डाङ्काङ्गदधिसक्थ्यक्ष्यस्थ्यास्पदाकाश कण्ववीजानि ।(क्वचित् भाण्डोऽपि) १६९. दैवं पुंसि च । १७०. धान्याज्यशस्यरूप्यपण्यवर्ण्यधिष्ण्यहव्यकव्यकाव्यसत्यापत्य- मूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि । १७१. द्वन्द्वबर्हदुःखबडिशपिच्छविम्बकुटुम्बकवचकवरवृन्दराकाणि । (विम्ब स्थाने क्वचिद्विश्व) १७२. अक्षमिन्द्रिये । इति नपुंसकलिङ्गाधिकारः ॥ अथ स्त्रीपुंसलिङ्गाधिकार । १७३. स्त्रीपुंसयोः । १७४. गोमणियष्टिमुष्टिपाटलिबस्तिशाल्मलित्रुटिमसिमरीचयः । १७५. मृत्युशीधुकर्कन्धुकिष्कुकण्डुरेणवः । (मृत्यु स्थाने मन्यु, किष्कु स्थाने सिन्धु इति केचित्) १७६. गुणवचनमुकारान्तं नपुंसकञ्च । १७७. अपत्यार्थस्तद्धिते । इति स्त्रीपुंसलिङ्गाधिकार ॥ अथ पुंनपुंसकलिङ्गाधिकारः । १७८. पुंनपुंसकयोः । १७९. धृतभूतमुस्तक्ष्वेलितैरावतपुस्तबुस्तलोहिताः । १८०. श्रृङ्गार्धनिदाघोद्यमशल्यदृढाः । १८१. व्रजकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चदर्भपुच्छाः । १८२. कबन्धौषधायुधान्ताः । १८३. दण्डमण्डखण्डशवसैन्धवपार्श्वकाशकुशकाशाङ्कुशकुलिशाः । १८४. गृहमेहदेहपट्टपटहाष्टापदार्बुदककुदाश्च । इति पुंनपुंसकलिङ्गाधिकारः ॥ अथ अविशिष्टलिङ्गाधिकारः । १८५. अविशिष्टलिङ्गम् । १८६. अव्ययं कतियुष्मदस्मदः । (कति स्थाने डति इति केचित्) १८७. ष्णान्ता सङ्ख्या । १८८. गुणवचनञ्च । १८९. कृत्याश्च । १९०. करणाधिकरणयोर्ल्युट् । १९१. सर्वादीनि सर्वनामानि । इति अविशिष्टलिङ्गाधिकारः ॥ इति महर्षिपाणिनिप्रणीतं लिङ्गानुशासनं सम्पूर्णं ॥