अक्षर आकार:

करुणालहरी अथवा विष्णुलहरी

karuNAlaharI

करुणालहरी अथवा विष्णुलहरी

विषीदता नाथ विषानलोपमे विषादभूमौ भवसागरे विभो । परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १॥ भवानलज्वालविलुप्तचेतनः शरण्य तेऽङ्घ्रिं शरणं भयादयाम् । विभाव्य भूयोऽपि दयासुधाम्बुजे विधेहि मे माथ यथा यथेच्छसि ॥ २॥ विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । मनोमृगो मे करुणामृताम्बुधे विगाढुमीश त्वयि गाढमीहते ॥ ३॥ त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः । मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४॥ जगत्त्रयत्राणविधौ धृतद्धतं तवाङ्घ्रिराजीवमपास्य ये जनाः । शरण्यमन्यभ्युगयन्ति यान्ति ते नितान्तमीशान कृतान्तदेहलीम् ॥ ५॥ रमामुखाम्भोजविकासनक्षमो जगत्त्रयोद्बोधविधानदीक्षितः । कदा मदज्ञानविभावरीं हरे हारिष्यति त्वन्नयनारुणोदयः ॥ ६॥ सुरासुरस्वान्तचकोरचुम्बिता समस्तसन्तापचयापनोदिनी । महानिशीथे मम मानसे कदा स्फुरिष्यति त्त्वन्मुखचन्द्रचन्द्रिका ॥ ७॥ सुयौवनापाण्डुरगण्डमण्डलप्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् । गदाग्रज त्वन्मुखफुल्लपङ्कजं कदा मदक्ष्णोरतिथीभविमयति ॥ ८॥ सुरापगातुङ्गतरङ्गचालितां सुरासुरानीकललाटलालिताम् । कदा दधे देव दयाभृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥ ९॥ महाजवाश्छिन्नावेवेकरश्मयो मदोद्धता देव मदक्षवाजिनः । हरे समासाद्य तवाङ्घ्रिमन्दुरामपास्तवेगां दधतां सुशीलताम् ॥ १०॥ पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् । अपास्य तं त्वां निरपत्रपा सती सती मतिर्मे कथमन्यमेष्यति ॥ ११॥ न जाग्रता स्वप्रगतेन वा मया समीहितं ते करुणालवादृते । गिरम्मदीयां यदि वेत्सि तात्त्विकीं तदा जगन्नायक मामुरीकुरु ॥ १२॥ अयि दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् । अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥ १३॥ सुमहन्ति जगन्ति बिभ्रतस्तव यो नाविरभून्मनागपि । स कथं परमाप्तदेहिनां परमाणोमर्म वारणे श्रमः ॥ १४॥ नितरां विनयेन पृच्छते सुविचार्योत्तरमत्र यच्छ मे । करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्य माम् ॥ १५॥ न धनं न च राज्यसम्पदो न हि विद्यामिदमेकमर्थये । मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥ १६॥ अयमत्यधमोऽपि निर्गुणो दयनीयो भवता दयानिधे । वमतां फणिनां विषानलं किमु नानन्दयिता हि चन्दनः ॥ १७॥ क्षुधितस्य न हि त्रपास्ति मे प्रतिरथ्यं प्रतिगृह्णतः कणान् । अकलङ्कयशस्करं न ते भवदीयोऽपि यदन्यमृच्छति ॥ १८॥ नितरां नरकेऽपि सीदतः किमु हीनं गलितत्रपस्य मे । भगवन्कुरु सूक्ष्ममीक्षणं परतस्त्वां जनता किमालपेत् ॥ १९॥ नरके निजकर्मकल्पिता भजतो मे महतीरपि व्यथाः । इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥ २०॥ मृगदन्तिमुखान्मया सह प्रतिरुद्धान् भवजालबन्धने । तव मामपहाय मुञ्चतः करुणा किं न भिनत्ति मानसम् ॥ २१॥ निरुपाधिजनार्तिहारिणं भगवंस्त्वामवगत्य तत्त्वतः । कृतपुण्यचयावहेलनं कथमब्जेक्षण मामुपेक्षसे ॥ २२॥ सततं निगमेषु श‍ृण्वता वरद त्वां पतितानुपावनम् । पुरु पापमुपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥ २३॥ सुकृतं न कृतं पुरा कदाप्यथ सर्वं कृतमेव दुष्कृतम् । अधुना गलितह्रिया मया भगवंस्त्वां प्रति कि निगद्यताम् ॥ २४॥ मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् । धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न लज्जसे ॥ २५॥ अयि गर्तमुखे गतः शिशुः पथिकेनापि निवार्यते जवात् । जनकेन पतन्भवार्णवे न । निवार्यो भवता कथं विभो ॥ २६॥ सुकृतप्रिय माऽन्यथास्तु ते सुकृतिभ्यः सुखदस्य सुप्रथा । अपि पापमबिभ्रतस्तु मां तव विश्वम्भरनाम दुर्लभम् ॥ २७॥ वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोऽसि मे । मुखरं कृतकोटिकल्मषं करुणाब्धे जगतोऽपसारय ॥ २८॥ यदि वीक्ष्य ददासि मत्कृतिं न मयैव प्रतिगृह्यते तदा । अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत् ॥ २९॥ पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् । भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥ ३०॥ सुकृतप्रकृता जने त्वया कृतया किं कृपया कृपानिधे । यदि मादृशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१॥ अयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताड्यते । न कदापि च लालितस्त्वया किमु ताड्यो भगवन्कुकर्मभिः ॥ ३२॥ अहमेव हि दोषदूषितो भगवंस्त्वां समुपालभे मुधा । रमणीविरहज्वरज्वलन्नमृतांशुं कुमतिर्विनिन्दति ॥ ३३॥ करुणाकर दुर्दशाकुलं पतितालम्बन पापपञ्जरम् । अमृताम्बुनिधे महाज्वरं न हि जह्या जगदीश जातु माम् ॥ ३४॥ कटुजल्पनमल्पकस्य मे न हि ते कल्पयतु क्रुधं विभो । कुपितातुरबालभाषितं किमु गृह्णन्ति मनाङ्महाशयाः ॥ ३५॥ भुजगाहितकल्पितध्वजं स्पुरदाशाभुजगालिवेल्लितम् । जटिलज्वरकुञ्जराङ्कुशज्वरजुष्टं न जहीहि जातु माम् ॥ ३६॥ न वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे श‍ृणु । मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम् ॥ ३७॥ अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः । तमुपालभमानमुद्धतं धिगिमं मां धिगिमां धियं मम ॥ ३८॥ अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्न हि किञ्चिदर्थये । मम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९॥ हरिनीलमयावनीतले वरवृन्दाविपिने विलासिनि । मणिमण्डपमध्यविस्फुरद्विबुधक्ष्मारुहमूलमाश्रितम् ॥ ४०॥ शिखिपिच्छमहामणिस्फुरन्मुकुटाकुञ्चितकान्तकुन्तलम् । कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥ ४१॥ शरदिन्दुसहोदराननं दलदम्भोजपलाशलोचनम् । अरुणाधरकान्तिदन्तुरस्फुटदन्तांशुविकासिताम्बरम् ॥ ४२॥ दरपाण्डुरगण्डमण्डलप्रतिसर्पत्कमनीयकुण्डलम् । मणिमौक्तिकमञ्जुमञ्जरीमहनीयद्युतिरञ्जितश्रुति ॥ ४३॥ पृथुवर्तुलमौक्तिस्कावलीसुषमावेल्लितकान्तकन्धरम् । हरिनीलगिरिद्युतिद्रुहा कमलामन्दिरवक्षसाञ्चितम् ॥ ४४॥ चरणाब्जनखावलम्बिनीं भुजगाकारभुजान्तरागताम् । निबिडाभ्रमिव क्षणप्रभां वृहदुत्फुल्लवनामलस्रजम् ॥ ४५॥ मणिकङ्कणकान्तिमांसलं दरफुल्लाम्बुजसुन्दरद्युति । पतितोद्धरणे दृढवतं कमनीयं करयोर्युगं दधत् ॥ ४६॥ वररत्नमयाङ्गुलीयकावलिशोभामिलिताङ्गुलीगणैः । मुहुराकुलितेन वेणुना वशयत्प्राणभृतां मनःश्रुतीः ॥ ४७॥ उदरद्युतिनिम्नगोच्छलल्लहरीरूपकरोमराजिकम् । पशुपालविलासिनीलसन्नयनाकर्षणनाभिनिम्नितम् ॥ ४८॥ कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् । उदयन्मणिनूपुरप्रभासरणिश्रेणिजटालजानुकम् ॥ ४९॥ अरिगीर्णगजेन्द्रगोपने दधता जाङ्घिकतामलौकिकीम् । त्रिजगन्महनीयमूर्तिना वरजङ्घायुगलेन शोभितम् ॥ ५०॥ कुलिशाङ्कुशकम्बुसाम्बुजध्वचक्राद्यभिरामलक्ष्मणा । अरुणारुणकोमलत्विषा कमनीयेन तलेन राजितम् ॥ ५१॥ विधिशर्वमुखामरस्फुरन्मुकुटोन्निद्रमणिप्रभाकुलम् । नखचन्द्रमयूखमूर्च्छिताखिलतापं पदयोर्युगं दधत् ॥ ५२॥ सरतः सरणौ सतो बहिः स्वपतो वाऽऽलपतो गृहान्तरे । वपुरीदृशमीश तावकं हृदयालम्बनमस्तु मे सदा ॥ ५३॥ नवनीरदनीलिमद्युतिर्नमनीयो निगमैर्निरन्तरम् । निरये निपतन्तमाशु मां नयनेनापि सनाथयेद्विभुः ॥ ५४॥ प्रणिपत्य हरे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे । जनिरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभावः । वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदाः तां स्वप्नेऽपि न संस्मराम्यहमहम्भावावृतो निस्त्रपः । इत्यागःशतशालिनं पुनरपि स्वीयेषु मा बिभ्रतः त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः । पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्परां तर तथाप्याशा न शान्ता तव । आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः । वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्ध्यौषधं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः । क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्धयम् ॥ ५८॥ विशालविषयाटवीवलयलग्नदावानल प्रसृत्वरशिखावलीविकलितं मदीयं मनः । अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुरवचन्दिरे चिरमिदं चकोरायताम् ॥ ५९॥ सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयोः विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा निमग्नः स्यां कस्याञ्चन नवनभस्याम्बुदरुचि ॥ ६०॥ इति श्रीजगन्नाथपण्डितकृता करुणालहरी समाप्ता । Reference as Vishnulahari in Karunakahari published in a Marathi Journal Aryamitra from Pune. It was published in 1953 by Shri D. G. Padhye.