अक्षर आकार:

महाकविश्रीभासप्रणीतं कर्णभारम्

Karnabharam of Bhasa

महाकविश्रीभासप्रणीतं कर्णभारम्

॥ श्रीः॥ श्रीगणेशाय नमः । (नान्द्यते ततः प्रविशति सूत्रधारः) सूत्रधारः-- नरमृगपतिवर्ष्मालोकनभ्रान्तनारी- नरदनुजसुपर्वव्रातपाताललोकः । करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय । सूत्रधारः -- भवतु, विज्ञातम् । सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः । निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २॥ (निष्क्राण्तः) प्रस्तावना । (ततः प्रविशति भटः) भटः -- भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति । करितुरगरथस्थैः पार्थकेतोः पुरस्ताद् मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य । त्वरितमरिनिनादैर्दुःसहं लोकवीरः समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ ३॥ (परिक्रम्यावलोक्य) अये एषोङ्गराजः समरपरिच्छदपरिवृतः शल्यराजसहितः स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किन्नुखलु युद्धोत्सवप्रमुखस्या दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः । एष हि, अत्युग्रदीप्तिविशदः समरेङ्ग्रगण्यः शौर्ये च सम्प्रति सशोकमुपैति धीमान् । प्राप्ते निदाघसमये घनराशिरुद्धः सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ ४॥ यावदपसर्पामि । (निष्क्रान्तः) (ततः प्रविशति यथोक्तरूपः कर्णः शाल्यश्च) कर्णः -- मा तावन्मम शरमार्गलक्षभूताः किं प्राप्ताः क्षितिपतयः सजीवशेषाः । कर्तव्यं रणशिरसि प्रियं कुरूणां द्रष्टव्यो यदि स भवेद् धनञ्जयो मे ॥ ५॥ शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । शल्यः -- बाढम् । (चोदयति) कर्णः -- अहोतुखलु, अन्योन्यशस्त्रविनिपातनिकृत्तगात्र- यौधाश्ववारणरथेषु महाहवेषु । क्रुद्धान्तकप्रतिमविक्रमिणो ममापि वैधुर्यमापतति चेतसि युद्धकाले ॥ ६॥ भोः ! कष्टम् । पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः । युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७॥ अयं स कालः क्रमलब्धशोभनो गुणप्रकर्षो दिवसोऽयमागतः । निरर्थमस्त्रं च मया हि शिक्षितं पुनश्च मातुर्वचनेन वारितः ॥ ८॥ भो मद्रराज ! श्रूयतां ममास्त्रस्य वृत्तान्तः । शल्यः -- ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम् । कर्णः -- पूर्वमेव चाहं जामदग्न्यस्य सकाशं गतवानस्मि । शल्यः -- ततस्ततः । कर्णः -- ततः, विद्युल्लताकपिलतुङ्गजटाकलापम् उद्यत्प्रभावलयिनं परशुं दधानम् । क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९॥ शल्यः -- ततस्ततः । कर्णः -- ततस्तेन जामदग्न्येन ममाशीर्वचनं दत्त्वा पृष्टोऽस्मि, को भवान् किमर्थमिहागत इति । शल्यः -- ततस्ततः । कर्णः -- भगवन् ! अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि । शल्यः -- ततस्ततः । कर्णः -- तत उक्तोऽहं भगवता, ब्राह्मणेषूपदेशं करिष्यामि, न क्षत्रियाणामिति । शल्यः -- अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः । कर्णः -- ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धः । शल्यः -- ततस्ततः । कर्णः -- ततः कतिपयकालातिक्रमे कदाचित् फलमूलसीमत्कुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि । ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः । शल्यः -- ततस्ततः । कर्णः -- ततः, कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये निद्राच्छेदभयादसह्यत गुरोर्धैर्यात् तदा वेदना । उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो बुद्ध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥ १०॥ शल्यः -- अहो कष्टमभिहितं तत्रभवता । कर्णः -- परीक्षामहे तावदस्त्रस्य वृत्तान्तम् । (तथा कृत्वा) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते । अपिच, इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः । गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥ ११॥ शङ्खदुन्दुभयश्च निःशब्दाः । शल्यः -- भोः ! कष्टं खल्विदम् । कर्णः -- शल्यराज ! अलमलं विषादेन । हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः । उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२॥ अपिच, इमे हि युद्धेष्वनिवर्तिताशा हयाः सुपर्णेन समानवेगाः । श्रीमत्सु काम्बोजकुलेषु जाता रक्षन्त्यमी यद्यपि रक्षितव्यम् ॥ १३॥ अक्षयोऽस्तु गोब्राह्मणानाम् । अक्षयोऽस्तु पतिव्रतानाम् । अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्या । एष भोः, प्रसन्नोऽस्मि । समरमुखमसह्यं पाण्डवानां प्रविश्य प्रथितगुणगणाढ्यं धर्मराजं च बद्ध्वा । मम शरवरवेगैरर्जुनं पातायित्वा वनमिव हतसिंहं सुप्रवेशं करोमि ॥ १४॥ शल्यराजा ! यावद् रथमारोहावः । शल्यः -- बाढम् । (उभौ रथारोहणं नाटयतः) कर्णः -- शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । (नेपथ्ये) भो कण्ण ! महत्तरं भिक्खं याचेमि । [भोः कर्ण ! महत्तरां भिक्षां याचे] कर्णः -- (आकर्ण्य) अये वीर्यवान् शब्दः । श्रीमानेव न केवलं द्विजवरो यस्मात् प्रभावो महान् आकर्ण्य स्वरमस्य धीरमधुरं चित्रार्पिताङ्गा इव । उत्कर्णस्तिमिताञ्चिताक्षवलितग्रीवार्पिताग्राननास् तिष्ठन्त्यस्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः ॥ १५॥ आहूयतां स विप्रः । न न । अहमेवाह्वयामि । भगवन् ! इत इतः । (ततः प्रविशति ब्राह्मणरूपेण शक्रः) शक्रः -- भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । (कर्णमुपगम्य) भो कण्ण ! महत्तरं भिक्खं याचेमि । [भोः कर्ण ! महत्तरां भिक्षां याचे ।] कर्णः -- दृढं प्रीतोऽस्मि भगवन् ! यातः कृतार्थगणनामहमद्य लोके राजेन्द्रमौलिमणिरञ्जितपादपद्मः । विप्रेन्द्रपादरजसा तु पवित्रमौलिः कर्णो भवन्तमहमेष नमस्करोमि ॥ १६॥ शक्रः -- (आत्मगतम्) किन्नुखलु मया वक्तव्यम् । यदि दीर्घायुर्भवेति वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये, मूढ इति मां परिभवति । तस्मादुभयं परिहृत्य किन्नुखलु वक्ष्यामि । भवतु, दृष्टम् । (प्रकाशम्) भो कण्णं ! सुय्ये विअ चन्दे विअ, हिमवन्ते विअ, सागळे विअ, चिट्टदु दे जसो । [ भोः कर्न ! सूर्य इव, चन्द्र इव, हिमवानिव, सागर इव, तिष्ठतु ते यशः ।] कर्णः -- भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः, धर्मो हि यत्नैः पुरुषेण साध्यो भुजङ्गजिह्णाचपला नृपश्रियः । तस्मात् प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणा धरन्ते ॥ १७॥ भगवन् ! किमिच्छसि किमहं ददामि । शक्रः -- महत्तरं भिक्खं याचेमि । [महत्तरां भिक्षां याचे ।] कर्णः -- महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः, गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर रुचितं ते तृप्तवत्सानुपातम् । तरुणमधिकमर्थिप्रार्थनीयं पवित्रं विहितकनकश‍ृङ्गं गोसहस्रं ददामि ॥ १८॥ शक्रः -- गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छमि कण्ण ! णेच्छामि । [गोसहस्रमिति । मुहूर्तकं क्षीर पिबामि । नेच्छामि कर्ण ! नेच्छामि ।] कर्णः -- किं नेच्छति भगवान् । इदमपि श्रूयतां, रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम् । सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहुसहस्रं वाजिनां ते ददामि ॥ १९॥ शक्रः -- अस्स त्ति । मुहुतअं आळुहामि । णेच्छामि कण्ण ! णेच्छामि । [अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ।] कर्णः -- किं नेच्छति भगवान् । अन्यदपि श्रूयतां मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवरनिचयाभं मेघगम्भीरघोषम् । सितनखदशनानां वारणानामनेकं रिपुसमरविमर्दं वृन्दमेतद् ददामि ॥ २०॥ शक्रः -- गअ त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! णेच्छामि । [गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ।] कर्णः -- किं नेच्छति भगवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं ददामि । शक्रः -- गह्णिअ गच्छामि । (किञ्चिद् गत्वा) णेच्छामि कण्ण ! णेच्छामि । [गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि ।] कर्णः -- तेन हि जित्वा पृथिवीं ददामि । शक्रः -- पुहुवीए किं करिस्सं । [पृथिव्या किं करिष्यामि ।] कर्णः -- तेन ह्यग्निष्टोमफलं ददामि । शक्रः -- अग्गिट्टोमफळेण किं कय्यं । [अग्निष्टोमफलेन किं कार्यम् ।] कर्णः -- तेन हि मच्छिरो ददामि । शक्रः -- अविहा अविहा । [अविहा अविहा ।] कर्णः -- न भेतव्यं न भेतव्यम् । प्रसीदतु भगवान् । अन्यदपि श्रूयताम् । अङ्गैः सहैव जनितं मम देहरक्षा देवासुरैरपि न भेद्यमिदं सहास्त्रैः । देयं तथापि कवचं सह कुण्डलाभ्यां प्रीत्या मया भगवतो रुचितं यदि स्यात् ॥ २१॥ शक्रः -- (सहर्षम्) देदु देदु । [ददातु ददातु ।] कर्णः -- (आत्मगतम्) एष एवास्य कमः । किन्नुखल्वनेककपटबुद्धेः कृष्णस्योपायः । सोऽपिच भवतु । धिगयुक्तमनुशोचितुम् । नास्ति संशयः । (प्रकाशम्) गृह्यताम् । शल्यः -- अङ्गराजः ! न दातव्यं न दातव्यम् । कर्णः -- शल्यराज ! अलमलं वारयितुम् । पश्य, शिक्षा क्षयं गच्च्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः । जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति ॥ २२॥ तस्माद् गृह्यताम् । (निकृत्य ददाति) शक्रः -- (गृहीत्वा आत्मगतम्) गृहीते एते । पूर्वमेवाहम् अर्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं, तदिदानीं मयानुष्ठितम् । तस्मादहमप्यैरावतमारुह्यार्जुनकर्णयोर्युद्धविशेषंपश्यामि । (निष्क्रान्तः) शल्यः -- अङ्गराज ! वञ्चितः खलु भवान् । कर्णः -- केन । शल्यः -- शक्रेण । कर्णः -- न खलु । शक्रः खलु मया वञ्चितः । कुतः, अनेकयज्ञाहुतितर्पितो द्विजैः किरीटिमान् दानवसङ्घमर्दनः । सुरद्विपास्फालनकर्कशाङ्गुलिर् मया कृतार्थः र्खलु पाकशासनः ॥ २३॥ (प्रविश्य ब्राह्मणरूपेण) देवदूतः -- भोः कर्ण ! कवचकुण्डलग्रहणपश्चात्तापेन पुरन्दरेणानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं गृह्यताम् । कर्णः -- धिग्, दत्तस्य न प्रतिगृह्णामि । देवदूतः -- ननु ब्राह्मणवचनाद् गृह्यताम् । कर्णः -- ब्राह्मणवचनमिति । न मयातिक्रान्तपूर्वम् । कदा लभेय देवदूतः -- यदा स्मरसि तदा लभस्व । कर्णः -- बाढम् । अनुगृहीतोऽस्मि । प्रतिनिवर्ततां भवान् । देवदूतः -- बाढम् । (निष्क्रान्तः) कर्णः -- शल्यराज ! यावद् रथमारोहावः । शल्यः -- बाढम् । (रथारोहणं नाटयतः) कर्णः -- अये शब्द इव श्रूयते । किन्नुखल्विदम् । शङ्खध्वनिः प्रलयसागरघोषतुल्यः कृष्णस्य वा न तु भवेत् स तु फल्गुनस्य । नूनं युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ २४॥ शल्यराज ! यत्रासावर्जुनः तत्रैव चोद्यतां मम रथः । शल्यः -- बाढम् । (भरतवाक्यम्) सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा । राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥ २५॥ (निष्क्रान्ताः) कर्णभारमवसितम् । शुभं भूयात् ।