अक्षर आकार:

दृग्दृश्यविवेकः अथवा वाक्यसुधा

Drig-Drishya-Viveka

दृग्दृश्यविवेकः अथवा वाक्यसुधा

भारती तीर्थ स्वामिना विरचितः रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥ नीलपीतस्थूलसूक्ष्मह्रस्वदीर्घादि भेदतः । नानाविधानि रूपाणि पश्येल्लोचनमेकधा ॥ २॥ आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा । सङ्कल्पयेन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३॥ कामः सङ्कल्पसन्देहौ श्रद्धाऽश्रद्धे धृतीतरे । ह्रीर्धीर्भीरित्येवमादीन् भासयत्येकधा चितिः ॥ ४॥ नोदेति नास्तमेत्येषा न वृद्धिं याति न क्षयम् । स्वयं विभात्यथान्यानि भासयेत्साधनं विना ॥ ५॥ चिच्छायाऽऽवेशतो बुद्धौ भानं धीस्तु द्विधा स्थिता । एकाहङ्कृतिरन्या स्यादन्तःकरणरूपिणी ॥ ६॥ छायाऽहङ्कारयोरैक्यं तप्तायःपिण्डवन्मतम् । तदहङ्कारतादात्म्याद्देहश्चेतनतामगात् ॥ ७॥ अहङ्कारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रान्तिजन्यं च त्रिविधं क्रमात् ॥ ८॥ सम्बन्धिनोः सतोर्नास्ति निवृत्तिः सहजस्य तु । कर्मक्षयात् प्रबोधाच्च निवर्तेते क्रमादुभे ॥ ९॥ अहङ्कारलये सुप्तौ भवेद्देहोऽप्यचेतनः । अहङ्कारविकासार्धः स्वप्नः सर्वस्तु जागरः ॥ १०॥ अन्तःकरणवृत्तिश्च चितिच्छायैक्यमागता । वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैर्विषयान् बहिः ॥ ११॥ मनोऽहङ्कृत्युपादानं लिङ्गमेकं जडात्मकम् । अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२॥ शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् । विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ॥ १३॥ सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि । अब्धौ फेनादिवत् सर्वनामरूपप्रसारणा ॥ १४॥ अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ १५॥ साक्षिणः पुरतो भाति लिङ्गं देहेन संयुतम् । चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ॥ १६॥ अस्य जीवत्वमारोपात् साक्षिण्यप्यवभासते । आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ॥ १७॥ तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति । या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते ॥ १८॥ अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् ॥ १९॥ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ २०॥ खवाय्वग्निजलोर्वीषु देवतिर्यङ्नरादिषु । अभिन्नाः सच्चिदानन्दाः भिद्येते रूपनामनी ॥ २१॥ उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधिं सर्वदा कुर्याद्-हृदये वाऽथवा बहिः ॥ २२॥ सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि । दृश्यशब्दानुवेधेन सविकल्पः पुनर्द्विधा ॥ २३॥ कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ॥ २४॥ असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः । अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः ॥ २५॥ स्वानुभूतिरसावेशाद्दृश्यशब्दावुपेक्ष्य तु । निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥ २६॥ हृदीव बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि । समाधिराद्यः सन्मात्रान्नामरूपपृथक्कृतिः ॥ २७॥ अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् । इत्यविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥ २८॥ स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः । एतैः समाधिभिः षड्भिर्नयेत् कालं निरन्तरम् ॥ २९॥ देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ३०॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ३१॥ अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः । विज्ञेयस्त्रिविधो जीवस्तत्राद्यः पारमार्थिकः ॥ ३२॥ अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् । तस्मिन् जीवत्वमारोपाद्ब्रह्मत्वं तु स्वभावतः ॥ ३३॥ अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम् । तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४॥ ब्रह्मण्यवस्थिता माया विक्षेपावृतिरूपिणी । आवृत्याखण्डतां तस्मिन् जगज्जीवौ प्रकल्पयेत् ॥ ३५॥ जीवो धीस्थचिदाभासो भवेद्भोक्ता हि कर्मकृत् । भोग्यरूपमिदं सर्वं जगत् स्याद्भूतभौतिकम् ॥ ३६॥ अनादिकालमारभ्य मोक्षात् पूर्वमिदं द्वयम् । व्यवहारे स्थितं तस्मादुभयं व्यावहारिकम् ॥ ३७॥ चिदाभासस्थिता निद्रा विक्षेपावृतिरूपिणी । आवृत्य जीवजगती पूर्वे नूत्ने तु कल्पयेत् ॥ ३८॥ प्रतीतिकाल एवैते स्थितत्वात् प्रातिभासिके । न हि स्वप्नप्रबुद्धस्य पुनः स्वप्ने स्थितिस्तयोः ॥ ३९॥ प्रातिभासिकजीवो यस्तज्जगत् प्रातिभासिकम् । वास्तवं मन्यतेऽन्यस्तु मिथ्येति व्यावहारिकः ॥ ४०॥ व्यावहारिकजीवो यस्तज्जगद्व्यावहारिकम् । सत्यं प्रत्येति मिथ्येति मन्यते पारमार्थिकः ॥ ४१॥ पारमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम् । प्रत्येति वीक्षते नान्यद्वीक्षते त्वनृतात्मना ॥ ४२॥ माधुर्यद्रवशैत्यानि नीरधर्मास्तरङ्गके । अनुगम्याथ तन्निष्ठे फेनेऽप्यनुगता यथा ॥ ४३॥ साक्षिस्थाः सच्चिदानन्दाः सम्बन्धाद्व्यावहारिके । तद्द्वारेणानुगच्छन्ति तथैव प्रातिभासिके ॥ ४४॥ लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरङ्गके । तस्यापि विलये नीरे तिष्ठन्त्येते यथा पुरा ॥ ४५॥ प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके । तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥ ४६॥ इति भारती तीर्थ स्वामिना विरचितः दृग्दृश्यविवेकः समाप्तः ॥