अक्षर आकार:

दिव्यदेशमङ्गलाशासनश्लोकाः

divyadeshama~NgalAshAsanashlokAH

दिव्यदेशमङ्गलाशासनश्लोकाः

श्रीः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ विधिविहितसपर्यां वीतदोषानुषङ्गां उपचितधनधान्यामुत्सवः स्त्यानहर्षाम् । स्वयमुपचिनु नित्यं रङ्गधामन् स्वरक्षां शमितविमतपक्षां शाश्वतीं रङ्गलक्ष्मीम् ॥ - श्री सारसारम् - ( श्रीरङ्गम् ) प्रशमितकलिदोषां प्राज्यभोगानुबन्धां समुदितगुणजातां सम्यगाचारयुक्ताम् । श्रितजनबहुमान्यां श्रेयसीं वेङ्कटाद्रौ श्रियमुपचिनु नित्यं श्रीनिवास त्वमेव ॥ - श्री रहस्यनवनीतम् - (वेङ्कटाद्रिः) वरद विरचय त्वं वारिताशेषदोषां पुनरुपचितपुण्यां भूषितां पुण्यकोट्या । सितमुदितमनोभिस्तावकैर्नित्यसेव्यां हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम् ॥ - श्री तत्वनवनीतम् - ( काञ्चीपुरम् ) नवनवबहुभोगां नाथ नारायण त्वं विरचय दुरितौघैस्तामनाघ्नातगन्धाम् । सहजसुलभदास्यैस्सद्भिरभ्यर्थनीयां यतिपरिबृढहृद्यां यादवाद्रेस्समृद्धिम् ॥ - (तिरुनारायणपुरम् ) श्रीरङ्गद्विरदवृषाद्रिपूर्वकेषु स्थानेषु स्थिरविभवा भवत्सपर्या । आकल्पं वरद विधूतवैरिपक्षा भूयस्या भवदनुकम्पयैव भूयात् ॥ - (श्री रहस्यपदवी) इति श्रीमन्निगमान्तमहादेशिकविरचिताः दिव्यदेशमङ्गलाशासनश्लोकाः । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥