धर्मपदम्
१. यमकवर्गः प्रथमः मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रदुष्टेन भाषते वा करोति वा । ततो एनं दुःखमन्वेति चक्रमिव वहतः पदम् ॥ १॥ मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रसन्नेन भाषते वा करोति वा । तत एनं सुखमन्वेति छायेवानपायिनी ॥ २॥ अक्रोशित् मां अवधी मां अजैषीत् मां अहार्षीत् मे । ये च तदुपनह्यन्ति वैरं तेषां न शाम्यति ॥ ३॥ अक्रोशित् मां अवधीत् मां अजैषीत् मां अहार्षीत् मे । ये तन्नोपनह्यन्ति वैरं तेषूपशाम्यति ॥ ४॥ नहि वैरेण वैराणी शाम्यन्तीह कदाचन । अवैरेण च शाम्यन्ति एष धर्मः सनातनः ॥ ५॥ परे च न विजानन्ति वयमत्र यंस्यामः । ये च तत्र विजानन्ति ततः शाम्यन्ति मेधगाः ॥ ६॥ शुभमनुपश्यन्तं विहरन्तमिन्द्रियेषु असंवृतम् । भोजनेऽमात्राज्ञं कुसीदं हीनवीर्यम् । तं वै प्रसहति मारो वातो वृक्षमिव दुर्बलम् ॥ ७॥ अशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु सुसंवृतम् । भोजने च मात्राज्ञं श्रद्धमाराब्धवीर्यम् । तं वै न प्रसहते मारो वातः शैलमिव पर्वतम् ॥ ८॥ अनिष्कषायः काषायं यो वस्त्रं परिधास्यति । अपेतो दमसत्याभ्यां न स काषायमर्हति ॥ ९॥ यश्च वान्तकषायः स्यात् शीलेषु सुसमाहितः । उपेतो दम-सत्याभ्यां स वै काषायमर्हति ॥ १०॥ असारे सारमतयः सारे चासारदर्शिनः । ते सारं नाधिगच्छन्ति मिथ्यासङ्कल्पगोचराः ॥ ११॥ सारं च सारतो ज्ञात्वा असारं च असारतः । ते सारं अधिगच्छन्ति सम्यक्-सङ्कल्प-गोचराः ॥ १२॥ यथागारं दुश्छन्नं वृष्टिः समतिविध्यति । एवं अभावितं चित्तं रागः समतिविध्यति ॥ १३॥ यथागारं सुच्छन्नं वृष्टिर्न समति विध्यति । एवं सुभावितं चित्तं रागो न समति विध्यति ॥ १४॥ इह शोचति प्रेत्त्य शोचति पापकारी उभयत्र शोचति । स शोचति स विहन्यते दृष्ट्वा कर्म क्लिष्टमात्मनः ॥ १५॥ इह मोदते प्रेत्त्य मोदते कृतपुण्य उभयत्र मोदते । स मोदते स प्रमोदते दृष्ट्वा कर्मविशुद्धिमात्मनः ॥ १६॥ इह तप्यति प्रेत्त्य तप्यति पापकारी उभयत्र तप्यति । पापं मे कृतमिति तप्यति भूयस्तप्यति दुर्गतिंगतः ॥ १७॥ इह नन्दति प्रेत्य नन्दति कृतपुण्य उभयत्र नन्दति । पुण्यं मे कृतमिति नन्दति भूयो नन्दति सुगतिंगतः ॥ १८॥ बह्यीमपि संहितां भाषमाणः न तत्करो भवति नरः प्रमत्तः । गोप इव गा गणयन् परेषां न भागवान् श्रामण्यस्य भवति ॥ १९॥ अल्पमपि संहितां भाषमाणो धर्मस्य भवत्यनुधर्मचारी । रागं च द्वेषं च प्रहाय मोहं सम्यक् प्रजानन् सुविमुक्तचित्तः । अनुपाददानः इह वाऽमुत्र वा स भागवान् श्रामण्यस्य भवति ॥ २०॥ ॥ इति यमकवर्गः समाप्तः ॥२. अप्रमादवर्गः द्वितीयः अप्रमादोऽमृतपदं प्रमादो मृत्योः पदम् । अप्रमत्ता न म्रियन्ते ये प्रमत्ता यथा मृताः॥ १॥ एतं विशेषतो ज्ञात्वाऽप्रमादे पण्डिता । अप्रमादे प्रमोदन्त आर्याणां गोचरे रताः ॥ २॥ ते ध्यायिनः साततिका नित्त्यं दृढपराक्रमाः । स्पृशन्ति धीरा निर्वाणं योगक्षेमं अनुत्तरम् ॥ ३॥ उत्थानवतः स्मृतिमतः शुचिकर्मणो निशम्यकारिणः । संयतस्य च धर्मजीवनोऽप्रमत्तस्य यशोभिवर्द्धते ॥ ४॥ उत्थानेनाऽप्रमादेन संयमेन दमेन च । द्वीपं कुर्वन्ति मेधावी यं ओघो नाभिकिरति ॥ ५॥ प्रमादमनुयुञ्जन्ति बाला दुर्मेधसो जना । अपमादं च मेधावी धनं श्रेष्ठमिव रक्षति ॥ ६॥ मा प्रमादमनुयुञ्जीत मा कामरतिसंस्तवम् । अप्रमत्तो हि ध्यायन् प्राप्नोति विपुलं सुखम् ॥ ७॥ प्रमादमप्रमादेन यदा नुदति पण्डितः । प्रज्ञाप्रासादमारुह्य अशोकः शोकिनीं प्रजाग् । पर्वतस्थ इव भूमिस्थान् धीरो बलान् अवेक्षते ॥ ८॥ अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः । अबलाश्वमिव शीघ्राश्वो हित्त्वा याति सुमेधाः ॥ ९॥ अप्रमादेन मघवा देवानां श्रेष्ठतां गतः । अप्रमादं प्रशंसन्ति प्रमादो गर्हितः सदा ॥ १०॥ अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा । सायोजनं अणुं स्थूलं दहन्नग्निरिव गच्छति ॥ ११॥ अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा । अभव्यः परिहाणाय निर्वाणस्यैव अन्तिके ॥ १२॥ ॥ इति अप्रमादवर्गः समाप्तः ॥
३. चित्तवर्गस्तृतीयः स्पन्दनं चपलं चित्तं दुरक्ष्यं दुर्निवार्यम् । ऋजुं करोति मेधावी इषुकार इव तेजनम् ॥ १॥ वारिजं इव स्थले क्षिप्तं उदकस्यौकत उद्भूतः । परिस्पन्दत इदं चित्तं मारधेयं प्रहातुम् ॥ २॥ दुर्निग्रहस्य लघुनो यत्र-काम-निपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ ३॥ सुदुर्दृशं सुनिपुणं यत्र-कामनिपाति । चित्तं रक्षेन्मेधावी चित्तं गुप्तं सुखावहम् ॥ ४ दूरङ्गमं एकचरं अशरीरं गुहाशयम् । ये चित्तं संयंस्यन्ति मोक्ष्यन्ते मारबन्धनात् ॥ ५॥ अनवस्थितचित्तस्य सद्धर्मं अविजानतः । परिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥ ६॥ अनवस्रुत चित्तस्य अनन्वाहतचेतसः । पुण्यपापप्रहीणस्य नाऽस्ति जाग्रतो भयम् ॥ ७॥ कुंभोपमं कायमिमं विदित्वा नगरोपमं चित्तमिदं स्थापयित्त्वा । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेदनिवेशनः स्यात् ॥ ८॥ अचिरं वतायं कायः पृथिवीं अधिशेष्यते । क्षुद्रोऽपेतविज्ञानो निरर्थं इव कलिङ्गरम् ॥ ९॥ द्विट् द्विषं यत् कुर्यात् वैरी वा पुनर्वैरिणम् । मिथ्याप्रणिहितं चित्तं पापीयांसं एनं ततः कुर्यात् ॥ १०॥ न तत् मातापितरौ कुर्यातां अन्ये चापि च ज्ञातिकाः । सम्यक्प्रणिहितं चित्तं श्रेयांसं एनं ततः कुर्यात् ॥ ११॥ ॥ इति चित्तवर्गः समाप्तः ॥
४. पुष्पवर्गश्चतुर्त्थः क इमां पृथिवीं विजेष्यते यमलोकं चेमं सदेवकम् । को धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥ १॥ शैक्षः पृथवीं विजेष्यते यमलोकं च इमं सदेवकम् । शैक्षो धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥ २॥ फेनोपमं कायमिमं विदित्वा मरीचिधर्मं अभिसंबुधानः । छित्वा मारस्य प्रपुष्पकाणि अदर्शनं मृत्युराजस्य गच्छेत् ॥ ३॥ पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महोघ इव मृत्युरादाय गच्छति ॥ ४॥ पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । अतृप्तमेव कामेषु अन्तकः कुरुते वशम् ॥ ५॥ यथापि भ्रमरः पुष्पं वर्णगन्धं अघ्नन् । पलायते रसमादाय एवं ग्रामे मुनिश्चरेत् ॥ ६॥ न परेषां विलोमानि न परेषां कृताकृतम् । आत्मनं एव अवेक्षेत कृतान्यकृतानि च ॥ ७॥ यथापि रुचिरं पुष्पं वर्णवदगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥ ८॥ यथापि रुचिरं पुष्पं वर्णवत् सगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥ ९॥ यथापि पुष्पराशेः कुर्यात् मालागुणान् बहून् । एवं जातेन मर्त्त्येन कर्त्तव्यं कुशलं बहु ॥ १०॥ न पुष्पगन्धः प्रतिवातमेति न चन्दनं तगरमल्लिके वा । सताञ्च गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति ॥ ११॥ चन्दनं तगरं वापि उत्पलं अथ वार्षिकी । एतेषां गन्धजातानां शीलगन्धोऽनुत्तरः ॥ १२॥ अल्पमात्रोऽयं गन्धो योऽयं तगरचन्दनी । यश्च शीलवतां गन्धो वाति देवेषु उत्तमः ॥ १३॥ तेषां सम्पन्नशीलानां अप्रमाद-विहारिणाम् । सम्यग्ज्ञानविमुक्त्तानां मारो मार्गं न विन्दति ॥ १४॥ यता सङ्कारधाने उज्झिते महापथे । पद्म तत्र जायेत शुचिगन्धं मनोरमम् ॥ १५॥ एवं सङ्कारभूते अन्धभूते पृथग्जने । अतिरोचते प्रज्ञया सम्यक्-संबुद्ध-श्रावकः ॥ १६॥ ॥ इति पुष्पवर्गः समाप्तः ॥
५. बालवर्गः पञ्चमः दीर्घा जाग्रतो रात्रिः दीर्घं श्रान्तस्य योजनम् । दीर्घो बालानां संसारः सद्धर्मं अविजानताम् ॥ १॥ चरन् चेत् नाधिगच्छेत् श्रेयांसं सदृशं आत्मनः । एकचर्यां दृढं कुर्यात् नाऽस्ति बाले सहायता ॥ २॥ पुत्रा मे सन्ति धनं मेऽस्ति इति बालो विहन्यते । आत्मा ह्यात्मनो नाऽस्ति कुतः पुत्राः कुतो धनम् ॥ ३॥ यो बालो मन्यते बाल्यं पण्डितश्चापि तेन स । बालश्च पण्डितमानी स वै बाल इत्युच्यते ॥ ४॥ यावज्जीवमपि चेद् बालः पण्डितं पर्युपासते । न स धर्मं विजानाति दर्वी सूपरसं यथा ॥ ५॥ मुहूर्त्तमपि चेद् विज्ञाः पण्डितं पर्युपासते । क्षिप्रं धर्मं विजानाति जिह्वा सूपरसं यथा ॥ ६॥ चरन्ति बाला दुर्मेधसोऽमित्रेणैवात्मना । कुर्वन्तः पापकं कर्मं यद्भवति कटुकफलम् ॥ ७॥ न तत् कर्म कृतं साधु यत् कृत्त्वाऽनुतप्यते । यस्याश्रुमुखो रुदन् विपाकं प्रतिसेवते ॥ ८॥ तच्च कर्मं कृतं साधु यत् कृत्वा नानुतप्यते । यस्य प्रतीतः सुमन विपाकं प्रतिसेवते ॥ ९॥ मध्विव मन्यते बालो यावत् पापं न पच्यते । यदा च पच्यते पापं अथ बालो दुःखं निगच्छति ॥ १०॥ मासे मासे कुशाग्रेण बालो भुञ्जीत भोजनम् । न स संख्यातधर्माणां कलामर्हति षोडशीम् ॥ ११॥ नहि पापं कृतं कर्म सद्यः क्षीरमिव मुञ्चति । दहन् बालमन्वेति भस्मच्छन्न इव पावकः ॥ १२॥ यावदेव अनर्थाय ज्ञप्तं बालस्य जायते । हन्ति बालस्य शुक्लांशं मूर्द्धानमस्य विपातयन् ॥ १३॥ असद् भवनमिच्छेत् पुरस्कारं च भिक्षुषु । आवासेषु चैश्वर्यं पूजां परकुलेषु च ॥ १४॥ ममैव कृतं मन्येतां गृहि-प्रव्रजितावुभौ । ममैवातिवशाः स्यातां कृत्याकृत्येषु कषु चित् । इति बालस्य सङ्कल्प इच्छा मानश्च वर्द्धते ॥ १५॥ अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनि । एवमेतद् अभिज्ञाय भिक्षुर्बुद्धस्य श्रावकः । सत्कारं नाभिनन्देत् विवेकमनुबृंहयेत् ॥ १६॥ ॥ इति बालवर्गः समाप्तः ॥
६. पण्डितवर्गः षष्ठः निधीनामिव प्रवक्तारं यं पश्येत् वर्ज्यदर्शिनाम् । निगृह्यवादिनं मेधाविनं तादृशं पण्डितं भजेत् । तादृशं भजमानस्य श्रेयो भवति न पापीयः ॥ १॥ अववदेदनुशिष्यात् असभ्याच्च निवारयेत् । सतां हि स प्रियो भवति असतां भवत्यप्रियः ॥ २॥ न भजेत् पापकानि मित्राणि न भजेत् पुरुषाधमान् । भजेत् मित्राणि कल्याणानि भजेत पुरुषनुत्तमान् ॥ ३॥ धर्मपीतीः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे सदा रमते पण्डितः ॥ ४॥ उदकं हि नयन्ति नेतृका इषुकारा नमयन्ति तेजनम् । दारुं नमयन्ति तक्षका आत्मानं दमयन्ति पण्डिताः ॥ ५॥ शैलो यथैकघनो वातेन न समीर्यते । एवं निन्दाप्रशंसासु न समीर्यन्ते पण्डिताः ॥ ६॥ यथापि हृदो गंभीरो विप्रसन्नोऽनाविलः । एवं धर्मान् श्रुत्वा विप्रसीदन्ति पण्डिताः ॥ ७॥ सर्वत्र वै सत्पुरुषा व्रजन्ति न कामकामा लपन्ति सन्तः । सुखेन स्पृष्टा अथवा दुःखेन नोच्चावचं पण्डिता दर्शयन्ति ॥ ८॥ नात्महेतोः न परस्य हेतोः न पुत्रमिच्छेन्न धनं न राष्ट्रम् । नेच्छेद् अधर्मेण समृद्धिमात्मनः स शीलवान् प्रज्ञावान् धार्मिकः स्यात् ॥ ९॥ अल्पकास्ते मनुष्येषु ये जनाः पारगामिनः । अथेमा इतराः प्रजाः तीरमेवानुधावति ॥ १०॥ ये च खलु सम्यगाख्याते धर्मे धर्मानुवर्त्तिनः । ते जना पारमेष्यन्ति मृत्युधेयं सुदुस्तरम् ॥ ११॥ कृष्णं धर्मं विप्रहाय शुक्लं भावयेत् पण्डितः । ओकात् अनोकं आगम्य विवेके यत्र दुरमम् ॥ १२॥ तत्राभिरतिमिच्छेत् हित्त्वा कामान् अकिञ्चनः । पर्यवदापयेत् आत्मानं चित्तक्लेशैः पण्डितः ॥ १३॥ येषां संबोध्यंगेषु सम्यग्चित्तं सुभावितम् । आदानप्रतिनिःसर्गे अनुपादाय ये रताः । क्षीणास्रवा ज्योतिष्मन्तस्ते लोके परिनिर्वृताः ॥ १४॥ ॥ इति पण्डितवर्ग समाप्तः ॥
७. अर्हद्वर्गः सप्तमः गताध्वनो विशोकस्य विप्रमुक्तस्य सर्वथा । सर्वग्रन्थप्रहीणस्य परिदाहो न विद्यते ॥ १॥ उद्युञ्जते स्मृतिमन्तो न निकेते रमन्ते ते । हंसा इव पल्वलं हित्त्वा ओकमोकं जहति ते ॥ २॥ येषां सन्निचयो नाऽस्ति ये परिज्ञातभोजनाः । शून्यतोऽनिमित्तश्च विमोक्षो येषां गोचरः । आकाश इव शकुन्तानां गतिस्तेषां दुरन्वया ॥ ३॥ यस्यास्रवाः परिक्षीणा आहारे च अनिःसृतः । शून्यतोऽनिमित्तश्च विमोक्षो यस्य गोचरः । आकाश इव शकुन्तानां पदं तस्य दुरन्वयम् ॥ ४॥ यस्येन्द्रियाणि शमथं गतानि अश्वा यथा सारथिना सुदान्ताः । प्रहीणमानस्य अनास्रवस्य देवा अपि तस्य स्पृहयन्ति तादृशः ॥ ५॥ पृथिवीसमो न विरुध्यते इन्द्रकीलोपमः तादृक् सुव्रतः । हृद इवापेतकर्दमः संसारा न भवन्ति तादृशः ॥ ६॥ शान्तं तस्य मनो भवति वाक् च कर्म च । सम्यगाज्ञाविमुक्तस्य उपशान्तस्य तादृशः ॥ ७॥ अश्रद्धोऽकृतज्ञश्च सन्धिछेदश्च यो नरः । हतावकाशो वान्ताशः स वै उत्तम पुरुषः ॥ ८॥ ग्रामे वा यदि वाऽऽरण्ये निम्ने वा यदि वा स्थले । यत्रार्हन्तो विहरन्ति सा भूमी रामणीयका ॥ ९॥ रमणीयान्यरण्यानि यत्र न रमते जनः । वीतरागा रंस्यन्ते न ते कामगवेषिणः ॥ १०॥ ॥ इति अर्हद्वर्गः समाप्तः ॥
८. सहस्रवर्गो अष्टमः सहस्रमपि चेद् वाचोऽनर्थपदसंहिता । एकमर्थपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ १॥ सहस्रमपि चेद्गाथा अनर्त्थपदसंहिता । एकं गाथापदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ २॥ यश्च गाथाशतं भाषेतानर्थपदसंहिताः । एकं धर्मपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ ३॥ यः सहस्रं सहस्रेण संग्रामे मानुषान् जयेत् । एकं च जयेद् आत्मानं स वै संग्रामजिदुत्तमः ४ आत्मा ह वै जितः श्रेयान् या चेयमितरा प्रजा । दान्तात्मनः पुरुषस्य नित्यं संयतचारिणः ॥ ५॥ नैव देवो न गन्धर्वो न मारः सह ब्रह्मणा । जितं अपजितं कुर्यात् तथारूपस्य जन्तोः ॥ ६॥ मासे मासे सहस्रेण यो यजेत शतं समान् । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पुजना श्रेयसी यच्चेद् वर्षशतं हुतम् ॥ ७॥ यश्च वर्षशतं जन्तुरग्निं परिचरेत् वने । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पूजना श्रेयसी यच्चेत् वर्षशतं हुतम् ॥ ८॥ यत् किञ्चिद् इष्टं च हुतं च लोके संवत्सरं यजेत पुण्यापेक्षः । सर्वमपि तन्न चतुर्भागमेति अभिवादना ऋजुगतेषु श्रेयसी ॥ ९॥ अभिवादनशीलस्य नित्त्यं वृद्धापचायिनः । चत्वारो धर्मा वर्धन्ते आयुर्वर्णः सुखं बलम् ॥ १०॥ यश्च वर्षशतं जीवेत् दुःशीलोऽसमाहितः । एकाहं जीवितं श्रेयः शीलवतो ध्यायिनः ॥ ११॥ यश्च वर्षशतं जीवेत् दुष्प्रज्ञोऽसमाहितः । एकाहं जीवितं श्रेयः प्रज्ञावतो ध्यायिनः ॥ १२॥ यञ्च वर्षशतं जीवेत् कुसीदो हीनवीर्यः । एकाहं जीवितं श्रेयः वीर्यमारभतो दृढम् ॥ १३॥ यश्च वर्षशतं जीवेत् अपश्यन् उदयव्ययं एकाहं जीवितं श्रेयः पश्यतः उदयव्ययम् ॥ १४॥ यश्च वर्षशतं जीवेत् अपश्यन्नमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतोऽमृतं पदम् ॥ १५॥ यञ्च वर्षशतं जीवेदपश्यन् धर्ममुत्तमम् । एकाहं जीवितं श्रेयः पश्यतो धर्ममुत्तमम् ॥ १६॥ ॥ इति सहस्रवर्गः समाप्तः ॥
९. पापवर्गः नवमः अभित्वरेत कल्याणे पापात् चित्तं निवारयेत् । तन्द्रितं हि कुर्वतः पुण्यं पापे रमते मनः ॥ १॥ पापं चेत् पुरुषः कुर्यात् न तत् कुर्यात् पुनः पुनः । न तस्मिन् छन्दं कुर्यात् दुःखः पापस्य उच्चयः ॥ २॥ पुण्यं चेत् पुरुषः कुर्यात् कुर्यादेतत् पुनः पुनः । तस्मिन् छन्दं कुर्यात् सुखः पुण्यस्य उच्चयः ॥ ३॥ पापोऽपि पश्यति भद्रं यावत् पापं न पच्यते । यदा च पच्यते पापं अथ पापो पापानि पश्यति ॥ ४॥ भद्रोऽपि पश्यति पापं यावत् भद्रं न पच्यते । यदा च पच्यते भद्रं अथ भद्राणि पश्यति ॥ ५॥ माऽवमन्येत पापस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । बालः पूरयति पापं स्तोकं स्तोकमप्याचिन्वन् ॥ ६॥ माऽवमन्येत पुण्यस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । धीरः पूरयति पुण्यस्य स्तोकं स्तोकमप्याचिन्वन् ॥ ७॥ वाणिगिव भयं मार्गं अल्पसार्थो महाधनः । विषं जीवितुकाम इव पापानि परिवर्जयेत् ॥ ८॥ पाणौ चेद् व्रणो न स्याद् हरेत् पाणिना विषम् । नाऽव्रणं विषमन्वेति नाऽस्ति पापं अकुर्वतः ॥ ९॥ योऽल्पदुष्टाय नराय दुष्यति शुद्धाय पुरुषायाऽनङ्गनाय । तमेव बालं प्रत्येति पापं सूक्ष्मो रजः प्रतिवातमिव क्षिप्तम् ॥ १०॥ गर्भमेक उत्पद्यन्ते निरयं पापकर्मिणः । स्वर्गं सुगतयो यान्ति परिनिर्वान्त्यनास्रवाः ॥ ११॥ नान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितो मुच्येत पापकर्मणः ॥ १२॥ नान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितं न प्रसहेत मृत्युः ॥ १३॥ ॥ इति पापवर्गः समाप्तः ॥
१०. दण्डवर्गः दशमः सर्वे त्रस्यन्ति दण्डात् सर्वे बिभ्यति मृत्योः । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥ १॥ सर्वे त्रसयन्ति दण्डात् सर्वेषां जिवितं प्रियम् । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥ २॥ सुखकामानि भूतानि यो दण्डेन विहिनस्ति । आत्मनः सुखमन्विष्य प्रेत्त्य स न लभते सुखम् ॥ ३॥ सुखकामानि भूतानि यो दण्डेन न हिनसति । आत्मनः सुखमन्विष्य प्रेत्त्य स लभते सुखम् ॥ ४॥ मा वोचः परुषं किञ्चिद् उक्ताः प्रतिवदेयुस्त्वाम् । दुःखा हि संरंभकथा प्रतिदण्डाः स्पृशेयुस्त्वाम् ॥ ५॥ स चेत् नेरयसि आत्मानं कांस्यमुपहतं यथा । एष प्राप्तोऽसि निर्वाणं संरंभस्ते न विद्यते ॥ ६॥ यथा दण्डेन गोपालो गाः प्राजयति गोचरम् । एवं जरा च मृत्युश्चायुः प्राजयतः प्राणिनाम् ॥ ७॥ अथ पापानि कर्माणि कुर्वन् बालो न बुध्यते । स्वैः कर्मभिः दुर्मेधा अग्निदग्ध इव तप्यते ॥ ८॥ यो दण्डेनाऽदण्डेषु अप्रदुष्टेषु दुष्यति । दशानामन्यतमं स्थानं क्षिप्रमेव निगच्छति ॥ ९॥ वेदनां परुषां ज्यानिं शरीरस्य च भेदनम् । गुरुकं वाऽप्याबाधं चित्तक्षेपं वा प्राप्नुयात् ॥ १०॥ राजतो वोपसर्गं अभ्याख्यानं वा दारुणम् । परिक्षयं वा ज्ञातीनां भोगानां वा प्रभञ्जनम् ॥ ११॥ अथवाऽस्यागाराणि अग्निर्दहति पावकः । कायस्य भेदात् दुष्प्रज्ञो निरयं स उपपद्यते ॥ १२॥ न नग्नचर्या न जटा न पङ्कां नाऽनशनं स्थण्डिलशायिका वा । रजोजलीयं उत्कुटिकाप्रधानं शोधयन्ति मर्त्त्यं अवितीर्णकांक्षम् ॥ १३॥ अलङ्कृतश्चेदपि शमं चरेत् शान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥ १४॥ ह्रीनिषेधः पुरुषः कश्चित् लोके विद्यते । यो निन्दां न प्रबुध्यति अश्वो भद्रः कशामिव ॥ १५॥ अश्वो यथा भद्रः कशानिविष्ट आतापिनः संवेगिनो भवत । श्रद्धया शीलेन च वीर्येण च समाधिना धर्मविनिश्चयेन च । सम्पन्नविद्याचरणाः प्रतिस्मृताः प्रहास्यथ दुःखमिदं अनल्पकम् ॥ १६॥ उदकं हि नयन्ति नेतृकाः इषुकारा नमयन्ति तेजनम् । दारुं नमयन्ति तक्षका आत्मानं दमयन्ति सुव्रताः ॥ १७॥ ॥ इति दण्डवर्गः समाप्तः ॥
११. जरावर्ग एकादशः को नु हासः क आनन्दो नित्यं प्रज्वलिते सति । अन्धकारेणाऽवनद्धाः प्रदीपं न गवेषयथ ॥ १॥ पश्य चित्रीकृतं बिम्बं अरुष्कायं समुच्छ्रितम् । आतुरं बहुसङ्कल्पं यस्य नाऽस्ति ध्रुवं स्थितिः ॥ २॥ परिजीर्णमिदं रूपं रोगनीडं प्रभंगुरम् । भिद्यते पूतिसन्देहो मरणान्तं हि जिवितम् ॥ ३॥ यानिमान्यपथ्यान्यलाबूनीव शरदि । कापोतकान्यस्थीनी तानि दृष्ट्वा का रतिः ॥ ४ अस्थ्नां नगरं कृतं मांसलोहितलेपनम् । यत्र जरा च मृत्युश्च मानो म्रक्षश्चावहितः ॥ ५॥ जीर्यन्ति वै राजरथा सुचित्रा अथ शरीरमपि जरामुपेति । सतां च धर्मो न जरामुपेति सन्तो ह वै सद्भयः प्रवेदयन्ति ॥ ६॥ अल्पश्रुतोऽयं पुरुषो बलीवर्द इव जीर्यति । मांसानि तस्य वर्द्धन्ते प्रज्ञा तस्य न वर्द्धते ॥ ७॥ अनेकजातिसंसारं समधाविषं अनिविशमानः । गृहकारकं गवेषयन् दुःखा जातिः पुनः पुनः ॥ ८॥ गृहकारक दृष्टोसि पुनर्गेहं न करिष्यसि । सर्वास्ते पार्श्विका भग्ना गृहकूटं विसंस्कृतम् । विसंस्कारगतं चित्तं तृष्णानां क्षयमध्यगात् ॥ ९॥ अचरित्त्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । जीर्णक्रौञ्च इव क्षीयन्ते क्षीणमत्स्य इव पल्वले ॥ १०॥ अचरित्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । शेरते चापोऽतिक्षीणा इव पुराणान्यनुतन्वन्त्ः ॥ ११॥ ॥ इति जरावर्गः समाप्तः ॥
१२. आत्मवर्गः द्वादशः आत्मान चेत् प्रियं जानीयाद् रक्षेत्तं सुरक्षितम् । त्रयाणामन्यतमं यामं प्रतिजागृयात् पण्डितः ॥ १॥ आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् । अथान्यमनुशिष्यात् न क्लिश्येत् पण्डितः ॥ २॥ आत्मानं चेत् तथा कुर्यात् यथाऽन्यमनुशासति । सुदान्तो वत दमयेद् आत्मा हि किल दुर्दमः ॥ ३॥ आत्मा हि आत्मनो नाथः कोहि नाथः परः स्यात् । आत्मना हि सुदान्तेन नाथं लभते दुर्लभम् ॥ ४॥ आत्मनैव कृतं पापं आत्मजं आत्मसंभवम् । अभिमथ्नाति दुर्मेधसं वज्रमिवाश्ममयं मणिम् ॥ ५॥ यस्याऽत्यन्तदौःशील्यं मालुवा शालमिवाततम् । करोति स तथात्मानं यथैनमिच्छन्ति द्विषः ॥ ६॥ सुकराण्यसाधून्यात्मनोऽहितानि च । यद्वै हितं च साधु च तद्वै परमदुष्करम् ॥ ७॥ यः शासनमर्हतां आर्याणां धर्मजीविनाम् । प्रतिक्रुश्यति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् । फलानि काष्ठकस्येव आत्महत्त्यायै फुल्लति ॥ ८॥ आत्मनैव कृतं पापं आत्मना संक्लिश्यति । आत्मनाऽकृतं पापं आत्मनैव विशुध्यति । शुद्धयशुद्धी प्रत्त्यात्मं नाऽन्योऽन्यं विशोधयेत् ॥ ९॥ आत्मनोऽर्थं परार्थेन बहुनाऽपि न हापयेत् । आत्मनोऽर्थमभिज्ञाय सदर्थप्रसितः स्यात् ॥ १०॥ ॥ इति आत्मवर्गः समाप्तः ॥
१३. लोकवर्गः त्रयोदशः हीनं धर्मं न सेवेत प्रमादेन न संवसेत् । मिथ्यादृष्टिं न सेवेत न स्यात् लोकवर्द्धनः ॥ १॥ उत्तिष्ठेन्न प्रमाद्येद् धर्मं सुचरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥ २॥ धर्मं चरेत् सुचरितं न तं दुश्चरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥ ३॥ यथा बुद्बुदकं पश्येत् यथा पश्येत् मरीचिकाम् । एवं लोकमवेक्षमाणं मृत्युराजो न पश्यति ॥ ४॥ एन पश्यतेमं लोकं चित्रं राजरथोपमम् । यत्र बाला विषीदन्ति नाऽस्ति सङ्गो विजानताम् ॥ ५॥ यश्च पूर्वं प्रमाद्य पश्चात् स न प्रमाद्यति । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥ ६॥ यस्य पापं कृतं कर्म कुशलेन पिधीयते । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥ ७॥ अन्धभूतोऽयं लोकः तनुकोऽत्र विपश्यति । शकुनो जालमुक्त इवाल्पः स्वर्गाय गच्छति ॥ ८॥ हंसा आदित्यपथे यान्ति आकाशे यान्ति ऋद्धिया । नीयन्ते धीरा लोकात् जित्वा मारं सवाहिनीकम् ॥ ९॥ एकं धर्ममतीतस्य मृषावादिनो जन्तोः । वितीर्णपरलोकस्य नाऽस्ति पापमकार्यम् ॥ १०॥ न वै कदर्या देवलोकं व्रजन्ति बाला ह वै न प्रशंसन्ति दानम् । धीरश्च दानं अनुमोदमानस्तेनैव स भवति सुखी परत्र ॥ ११॥ पृथिव्या एकराज्यात् स्वर्गस्य गमनाद् वा । सर्वलोकाऽऽधिपत्त्याद् स्रोत आपत्तिफलं वरम् ॥ १२॥ ॥ इति लोकवर्गः समाप्तः ॥
१४. बुद्धवर्गः चतुर्दशः यस्य जितं नावजीयते जितमस्य न याति कश्चिल्लोके । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ १॥ यस्य जालिनी विषात्मिका तृष्णा नाऽस्ति कुत्रचिन्नेतुम् । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ २॥ ये ध्यानप्रसृता धीराः नैष्काम्योपशमे रताः । देवा अपि तेषां स्पृहयन्ति संबुद्धानां स्मृतिमताम् ॥ ३॥ कृच्छ्रो मनुष्यप्रतिलाभः कृच्छ्रं मर्त्त्यानां जीवितम् । कृच्छ्रं सद्धर्मश्रवणं कृच्छ्रो बुद्धानाम् उत्पादः ॥ ४॥ सर्वपापस्याकरणं कुशलस्योपसम्पदा । स्वचित्तपर्यवदापनं एतद् बुद्धानां शासनम् ॥ ५॥ क्षान्तिः परमं तपः तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः । नहि प्रव्रजितः परोपघाती श्रमणो भवति परं विहेठयन् ॥ ६॥ अनुपवादोऽनुपघातः प्रातिमोक्षे च संवरः । मात्राज्ञता च भक्ते प्रान्तं च शयनासनम् । अधिचित्ते चायोगः एतद् बुद्धानां शासनम् ॥ ७॥ न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते । अल्पास्वादा दुःखाः कामा इति विज्ञाय पण्डितः ॥ ८॥ अपि दिव्येषु कामेषु रतिं स नाऽधिगच्छति । तृष्णाक्षयरतो भवति सम्यक्संबुद्धश्रावकः ॥ ९॥ बहु वै शरणं यन्ति पर्वातांश्च वनानि च । आरामवृक्षचैत्यानि मनुष्या भयतर्जिताः ॥ १०॥ नैतत् खलु शरणं क्षेमं नैतत् शरणमुत्तमम् । नैतत् शरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ ११॥ यश्च बुद्धं च धर्मं च संघं न्च शरणं गतः । चत्वारि आर्यसत्यानि सम्यक् प्रज्ञया पश्यति ॥ १२॥ दुःखं दुःखसमुत्पादं दुःखस्य चातिक्रमम् । आर्याष्टाङ्गिकं मार्गं दुःखोपशमगामिनम् ॥ १३॥ एतत् खलु शरणं क्षेमं एतत् शरणमुत्तमम् । एतत् शरणमागम्य सर्वदुःखात् प्रमुच्यते ॥ १४॥ दुर्लभः पुरुषाजानेयो न स सर्वत्र जायते । यत्र स जायते धीरस्तत्कुलं सुखमेधते ॥ १५॥ सुखो बुद्धानां उत्पादः सुखा सद्धर्म-देशना । सुखा संघस्य सामग्री समग्राणां तपः सुखम् ॥ १६॥ पूजार्हान् पूजयतो बुद्धान् यदि वा श्रावकान् । प्रपञ्चसमितिक्रान्तान् तीर्णशोकपरिद्रवान् ॥ १७॥ तान् तादृशान् पूजयतो निर्वृतान् अकुतोभयान् । न शक्यं पुण्यं संख्यातुं एवम्मात्रमपि केनचित् ॥ १८॥ इति बुद्धवर्गः समाप्तः
१५. सुखवर्गः पञ्चदशः सुसुखं वत जीवामो वैरिष्ववैरिणः । वैरिषु मनुष्येषु विहरामोऽवैरिणः ॥ १॥ सुसुखं वत जीवाम आतुरेषु अनातुराः । आतुरेषु मनुष्येषु विहरामोऽनातुराः ॥ २॥ सुसुखं वत जीवाम उत्सुकेषु अनुत्सुकाः । उत्सुकेषु मनुष्येषु विहराम अनुत्सुकाः ॥ ३॥ सुसुखं वत जीवामो येषां नो नाऽस्ति किञ्चन । प्रीतिभक्ष्या भविष्यामः देवा आभास्वरा यथा ॥ ४॥ जयो वैरं प्रसूते दुःखं शेते पराजितः । उपशान्तः सुखं शेने हित्त्वा जयपराजयौ ॥ ५॥ नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमः कलिः । नासति स्कन्धसदृशानि दुःखाः नाऽस्ति शान्तिपरं सुखम् ॥ ६॥ जिघत्सा परमो रोगः संस्कारः परमं दुःखम् । एतद् ज्ञात्वा यथाभूतं निर्वाणं परमं सुखम् ॥ ७॥ आरोग्यं परमो लाभः सन्तुष्टिः परमं धनम् । विश्वासः परमा ज्ञातिः निर्वाणं परमं सुखम् । ८॥ प्रविवेकरसं पीत्वा रसं उपशमस्य च । निर्दरो भवति निष्पापो धर्म प्रीतिरसं पिबन् ॥ ९॥ साधु दर्शनमार्याणां सन्निवासः सदा सुखः । अदर्शनेन बालानां नित्यमेव सुखी स्यात् ॥ १०॥ बालसंगतचारी हि दीर्घमधानं शोचति । दुःखो बालैः संवासोऽमित्रेणैव सर्वदा । धीरश्च सुखसंवासो ज्ञातीनामिव समागमः ॥ ११॥ तस्माद्धि धीरं च प्राज्ञं च बहुश्रुतं च धुर्यशीलं व्रतवन्तमार्यम् । तं तादृशं सत्पुरुषं सुमेधसं भजेत नक्षत्रपथमिव चन्दमाः ॥ १२॥ ॥ इति सुखवर्गः समाप्तः ॥
१६. प्रियवर्गः षोडशः अयोगे युञ्जन्नात्मानं योगे चायोजयन् । अर्थं हित्त्वा प्रियग्राही स्पृहयेदात्मानुयोगिनम् ॥ १॥ मा प्रियैः समागच्छ अप्रियैः कदाचन प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥ २॥ तस्मात् प्रियं न कुर्यात् प्रियापायो हि पापकः । ग्रन्थाः तेषां न विद्यन्ते येषां नाऽस्ति प्रियाप्रियम् ॥ ३॥ प्रियतो जायते शोकः प्रियतो जायते भयम् । प्रियतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ४॥ प्रेमतो जायते शोकः प्रेमतो जायते भयम् । प्रेमतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ५॥ रत्या जायते शोको रत्या जायते भयम् । रत्या विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ६॥ कामतो जायते शोकः कामतो जायते भयम् । कामतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ७॥ तृष्णाया जायते शोकः तृष्णाया जायते भयम् । तृष्णाया विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ८॥ शीलदर्शनसम्पन्नं धर्मिष्ठं सत्यवादिनम् । आत्मनः कर्म कुर्वाणं तं जनः कुरुते प्रियम् ॥ ९॥ छन्दजातोऽनाख्याते मनसा च स्फुरितः स्यात् । कामेषु चाऽप्रतिबद्धचित्त ऊर्ध्वस्रोता इत्युच्यते ॥ १०॥ चिरप्रवासिनं पुरुषं दूरतः स्वस्त्यागतम् । ज्ञातिमित्राणि सुहृदश्चाऽभिनन्दन्त्यागतम् ॥ ११॥ तथैव कृतपुण्यमपि अस्माल्लोकात्परं गतम् । पुण्यानि प्रतिगृह्यन्ति प्रियं ज्ञातिभिवागतम् ॥ १२॥ ॥ इति प्रियवर्गः समाप्तः ॥
१७. क्रोधवर्गः सप्तदशः क्रोधं जह्याद् विप्रजह्यात् मानं संयोजनं सर्वमतिक्रमेत । तं नाम-रूपयोरसज्यमानं अकिञ्चनं नाऽनुपतन्ति दुःखानि ॥ १॥ यो वै उत्पतितं क्रोधं रथं भ्रान्तमिव धारयेत् । तमहं सारथिं ब्रवीमि रश्मिग्राह इतरो जनः ॥ २॥ अक्रोधेन जयेत् क्रोधं असाधुं साधुना जयेत्। जयेत् कदर्थं दानेन जयेत् सत्येनाऽलीकवादिनम् ॥ ३॥ सत्यं भणेन्न क्रुध्येत् दद्यादल्पेऽपि याचितः । एतैस्त्रिभिः स्थानैः गच्छेद् देवानामन्तिके ॥ ४॥ अहिंसका ये मुनयो नित्यं कायेन संवृताः । ते यन्ति अच्युतं स्थानं यत्र गत्वा न शोचन्ति ॥ ५॥ सदा जाग्रतां अहोरात्रं अनुशिक्षमाणानाम् । निर्वाणं अधिमुक्तानां अस्तं गच्छन्ति आस्रवाः ॥ ६॥ पुरणमेतद् अतुल ! नैतद् अद्यतनमेव । निन्दन्ति तुष्णीमासीनं निन्दन्ति बहुभाणिनम् । मितभाणिनमपि निन्दन्ति नाऽस्ति लोकेऽनिन्दितः ॥७॥ न चाऽभूत् न भविष्यति न चैतहिं विद्यते । एकान्तं निन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥ ८॥ यश्चेद् विज्ञाः प्रशंसन्ति अनुविच्य श्वः श्वः । अच्छिद्रवृत्तिं मेधाविनं प्रज्ञाशीलसमाहितम् ॥ ९॥ निष्कं जंबूनदस्येव कस्तं निन्दितुमर्हति । देवा अपि तं प्रशंसन्ति ब्रह्मणाऽपि प्रशंसितः ॥ १०॥ कायप्रकोपं रक्षेत् कायेन संवृतः स्यात् । कायदुश्चरितं हित्त्वा कायेन सुचरितं चरेत् ॥ ११॥ वचः प्रकोपं रक्षेद् वाचा संवृतः स्यात् । वचो दुश्चरितं हित्त्वा वाचा सुचरितं चरेत् ॥ १२॥ मनः प्रकोपं रक्षेद् मनसा संवृतः स्यात् । मनोदुश्चरितं हित्त्वा मनसा सुचरितं चरेत् ॥ १३॥ कायेन संवृता धीरा अथ वाचा संवृताः । मनसा संवृता धीरा ते वै सुपरिसंवृताः ॥ १४॥ ॥ इति क्रोधवर्गः समाप्तः ॥
१८. मलवर्गोष्टादशः पाण्डुपलासमिवेदानीमसि यमपुरुषोऽपि चत्वां उपस्थिताः । उद्योगमुखे च तिष्ठसि पाथेयमपि च ते न विद्यते ॥ १॥ स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो दिव्यां आर्यभूमिं एष्यसि॥ २॥ उपनीतवया इदनीमसि सम्प्रयातोऽसि यमस्यान्तिके । वासोऽपि च ते नाऽस्ति अन्तरा पाथेयमपि च ते न विद्यते ॥ ३॥ स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो न पुनर्जातिजरे उपेष्यसि ॥ ४॥ अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्येव निर्धमेत् मलमात्मनः ॥ ५॥ अयस इव मलं समुत्थितं तस्माद् उत्थाय तदेव खादति । एवं अतिधावनचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥ ६॥ अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहा । मलं वर्णस्य कौसीद्यं प्रमादो रक्षतो मलम् ॥ ७॥ मलं स्त्रिया दुश्चरितं मात्सर्यं ददतो मलम् । मलं वै पापका धर्मा अस्मिन् लोके परत्र च ॥ ८॥ ततो मलं मलतरं अविद्या परमं मलम् । एतत् मलं प्रहाय निर्मला भवत भिक्षवः ॥ ९॥ सुजीवितं अह्रीकेण काकशूरेण ध्वंसिना । प्रस्कन्दिना प्रगल्भेन संक्लिष्टेन जीवितम् ॥ १०॥ ह्रीमता च दुर्जीवितं नित्यं शूचिगवेषिणा । अलीनेनाऽप्रगल्भेन शुद्धाजीवेन पश्यता ॥ ११॥ यः प्राणमतिपातयति मृषावादं च भाषते । लोकेऽदत्तमादत्ते परदारांश्च गच्छति ॥ १२॥ सुरामैरेयपानं च यो नरोऽनुयुनक्ति । इहैवमेष लोके मूलं खनत्यात्मनः ॥१३॥ एवं भो पुरुष ! जानीहि पापधर्माणोऽसंयतान् । मा त्वां लोभोऽधर्मश्च चिरं दुःखाय रन्धेरन् ॥ १४॥ ददाति वै यथाश्रद्धं यथा प्रसादनं जनः । तत्र यो मूको भवति परेषां पानभोजने । न स दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १५॥ यस्य च तत् समुच्छिन्नं मूलघातं समुद्धतम् । स वै दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १६॥ नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमो ग्राहः । नाऽस्ति मोहसमं जालं नाऽस्ति तृष्णा समा नदी ॥ १७॥ सुदर्शं वद्यमन्येषां आत्मनः पुनर्दुर्दशम् । परेषां हि स वद्यानि अवपुणाति यथातुषम् । आत्मनः पुनः छादयति कलिमिव कितवात् शठः ॥ १८॥ परवद्याऽनुदर्शिनो नित्यं उद्ध्यानसंज्ञिनः । आस्रवास्तस्य वर्द्धन्ते आराद् स आस्रवक्षयात् ॥ १९॥ आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । प्रपञ्चाऽभिरताः प्रजा निष्प्रपञ्चास्तथागताः ॥ २०॥ आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । संस्काराः शाश्वता न सन्ति नाऽस्ति बुद्धानामिङ्गितम् ॥ २१॥ ॥ इति मलवर्गः समाप्तः ॥
१९. धर्मष्ठवर्गः एकोनविंशः न तेन भवति धर्मस्थो येनार्थं सहसा नयेत् । यश्चाऽर्थं अनर्थं च उभौ निश्चिनुयात् पण्डितः ॥ १॥ असाहसेन धर्मेण समेन नयते परान् । धर्मेण गुप्तो मेधावी धर्मस्थ इत्युच्यते ॥ २॥ न तावता पण्डितो भवति यावता बहु भाषते । क्षेमी अवैरी अभयः पण्डित इत्युच्यते ॥ ३॥ न तावता धर्मधरो यावता बहु भाषते । यश्चाल्पमऽपि श्रुत्वा धर्मं कायेन पश्यति । स वै धर्मधरो भवति यो धर्मं न प्रमाद्यति ॥ ४॥ न तेन स्थविरो भवति येनाऽस्य पलितं शिरः । परिपक्वं वयस्तस्य मोघजीर्ण इत्युच्यते ॥ ५॥ यस्मिन् सत्यं च धर्मश्चाहिंसा संयमो दमः । स वै वान्तमलो धीरः स्थविर इतुच्यते ॥ ६॥ न वाक् करणमात्रेण वर्णपुष्कलतया वा । साधुरूपो नरो भवति ईर्षुको मत्सरी शठः ॥ ७॥ यस्य चैतत् समुच्छिन्नं मूलघातं समुद्धतम् । स वान्तदोषो मेधावी साधुरूप इत्युच्यते ॥ ८॥ न मुण्डकेन श्रमणोऽव्रतोऽलीकं भणन् । इच्छालाभसमापन्नः श्रमणः किं भविष्यति ॥ ९॥ यश्च शमयति पापानि अणूनि स्थूलानि सर्वशः । शमितत्वाद्धि पापानां श्रमण इतुच्यते ॥ १०॥ न तावता भिक्षुर्भवति यावता भिक्षते परान् । विश्वं धर्मं समादाय भिक्षुर्भवति न तावता ॥ ११॥ य इह पुण्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् । संख्याय लोके चरति स वै भिक्षुरित्युच्यते ॥ १२॥ न मौनेन मुनिर्भवति मूढरूपोऽविद्वान् । यश्च तुलामिव प्रगृह्य वरमादाय पण्डितः ॥ १३॥ पापानि परिवर्जयति स मुनिस्तेन स मुनिः । यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥ १४॥ न तेनाऽऽर्यो भवति येन प्राणान् हिनस्ति । अहिंसया सर्वप्राणानां आर्य इति प्रोच्यते ॥ १५॥ न शीलव्रतमात्रेण बाहुश्रुत्त्येन वा पुनः । अथवा समाधिलाभेन विविच्य शयनेन वा ॥ १६॥ स्पृशामि नैष्कर्म्यसुखं अपृथग्जनसेवितम् । भिक्षो विश्वासं मा पादीः अप्राप्त आस्रवक्षयम् ॥ २१॥ ॥ इति धर्मस्थवर्गः समाप्तः ॥
२०. मार्गवर्गः विंशः मार्गाणामष्टाङ्गिकः श्रेष्ठः सत्यानां चत्वारि पदानि । विरागः श्रेष्ठो धर्माणां द्विपदानां च चक्षुष्मान् ॥ १॥ एष वो मार्गो नाऽस्त्यन्यो दर्शनस्य विशुद्धये । एतं हि यूयं प्रतिपद्यध्वं मारस्यैष प्रमोहनः ॥ २॥ एतं हि यूयं प्रतिपन्ना दुःखस्यान्तं करिष्यथ । आख्यातो वै मया मार्गः आज्ञाय शल्य-संस्थानम् ॥ ३॥ युष्माभिः कार्यं आतप्यं आख्यातारस्तथागताः । प्रतिपन्नाः प्रमोक्ष्यन्ते ध्यायिनो मारबन्धनात् ॥ ४॥ सर्वे संस्कारा अनित्या इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ५॥ सर्वे संस्कारा दुःखा इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ६॥ सर्वे धर्मा अनात्मान इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ७॥ उत्थानकालेऽनुत्तिष्ठन् युवा बलि आलस्यमुपेतः । संसन्न-सङ्कल्प-मनाः कुसीदः प्रज्ञया मार्गं अलसो न विन्दति ॥ ८॥ वाचाऽनुरक्षी मनसा सुसंकृतः कायेन चाऽकुशलं न कुर्यात् । एतान् त्रीन् कर्मपथान् विशोधयेत् आराधयेत् मार्गं ऋषिप्रवेदितम् ॥ ९॥ योगाद् वै जायते भूरि अयोगाद् भूरिसंक्षयः । एतं द्वेधापथं ज्ञात्त्वा भवाय विभवाय च । तथाऽऽत्मानं निवेशयेद् यथाभूरि प्रवर्धते ॥ १०॥ वनं छिन्धि मा वृक्षं वनतो जायते भयम् । छित्त्वा वनं च वनथं च निर्वना भवथ भिक्षवः ॥ ११॥ यावद्धि वनथो न छिद्यतेऽणुमात्रोऽपि नरस्य नारीषु । प्रतिबद्धमनाः नु तावत् स वत्सः क्षीरप इव मातरि ॥ १२॥ उच्छिन्धि स्नेहमात्मनः कुमुदं शारदीकमिव पाणिना । शान्तिमार्गमेव बृंहय निर्वाणं सुगतेन देशितम् ॥ १३॥ इह वर्षासु वसिष्यामि इह हेमन्तग्रीष्मयोः । इति बालो विचिन्तयति अन्तरायं न बुध्यते ॥ १४॥ तं पुत्र-पशु-सम्मतं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघ इव मृत्युरादाय गच्छति ॥ १५॥ न सन्ति पुत्रास्त्राणाय न पिता नाऽपि बान्धवाः । अन्तकेनाधिपन्नस्य नाऽस्ति ज्ञातिषु त्राणता ॥ १६॥ एतमर्त्थवशं ज्ञात्वा पण्डितो शीलसंवृतः । निर्वाणगमनं मार्गं क्षिप्रमेव विशोधयेत् ॥ १७॥ ॥ इति मार्गवर्गः समाप्तः ॥
२१. प्रकीर्णकवर्गः एकविंशः मात्रासुखपरित्यागात् पश्येच्चेत् विपुलं सुखम् । त्यजेन्मात्रासुखं धीरः सम्पश्यन् विपुलं सुखम् ॥ १॥ परदुःखोपादानेन य आत्मनः सुखमिच्छति । वैरसंसर्गसंसृष्टो वैरात् स न प्रमुच्यते ॥ २॥ यद्धि कृत्यं अपविद्धं अकृत्यं पुनः कुर्युः। उन्मलानां प्रमत्तानां तेषां वर्द्धन्त आस्रवाः ॥ ३॥ येषांञ्च सुसमारब्धा नित्यं कायगता स्मृतिः । अकृत्यं ते न सेवन्ते कृत्ये सातत्यकारिणः । सतां सम्प्रजानानां अस्तं गच्छन्त्यास्रवाः ॥ ४॥ मातरं पितरं हत्त्वा राजानौ द्वौ च क्षत्रियौ । राष्ट्रं साऽनुचरं हत्त्वाऽनघो याति ब्राह्मणः ॥ ५॥ मातरं पितरं हत्वा राजानौ द्वौ च श्रोत्रियौ । व्याघ्रपंचमं हत्त्वाऽनघो याति ब्राह्मणः ॥ ६॥ सुप्रबुद्धं प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं बुद्धगता स्मृतिः ॥ ७॥ सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं धर्मगता स्मृतिः ॥ ८॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं संघगता स्मृतिः ॥ ९॥ सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥१०॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च अहिंसायां रतं मनः ॥ ११॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च भावनायां रतं मनः ॥ १२॥ दुष्प्रव्रज्यां दुरभिरामं दुरावासं गृहं दुःखम् । दुखोऽसमानसंवासो दुःखाऽनुपतितोऽध्वगः । तस्मान्न चाऽध्वगः स्यान्न च दुःखानुपतितः स्यात् ॥ १३॥ श्रद्धः शीलेन सम्पन्नो यशोभोगसमर्पितः । यं यं प्रदेशं भजते तत्र तत्रैव पूजितः ॥ १४॥ दूरे सन्तः प्रकाशन्ते हिमवन्त इव पर्वताः । असन्तोऽत्र न दृश्यन्ते रात्रिक्षिप्ता यथा शराः ॥ १५॥ एकासन एकशय्य एकश्चरन्नतन्द्रितः । एको दमयन्नात्मानं वनान्ते रतः स्यात् ॥ १६॥ ॥ इति प्रकीर्णकवर्गः समाप्तः ॥
२२. निरयवर्गो द्वाविंशः अभूतवादी निरयमुपेति यो वाऽपि कृत्वा न करोमि ति चाह । उभावपि तौ प्रेत्त्य समा भवतो निहीनकर्माणौः मनुजौः परत्र ॥ १॥ काषायकण्ठा बहवः पापधर्मा असंयताः । पापाः पापैः कर्मभिर्निरयं ते उत्पद्यन्ते ॥ २॥ श्रेयान् अयोगोलो भुक्तस्तप्तोऽग्निशिखोपम । यच्चेद् भुञ्जीत दुःशीलो राष्ट्रपिंडं असंयतः ॥ ३॥ चत्वारि स्थानानि नरः प्रमत्तः आपद्यते परदारोपसेवी । अपुण्यलाभं न निकामशय्यां निन्दां तृतीयां निरयं चतुर्थम् ॥ ४॥ अपुण्यलाभश्च गतिश्च पापिका भीतस्य भीतया रतिश्च स्तोकिका । राजा च दण्डं गुरुकं प्रणयति तस्मात् नरो परदारान् न सेवेत् ॥ ५॥ कुशो यथा दुर्गृहीतो हस्तमेवाऽनुकृन्तति । श्रामण्यं दुष्परामृष्टं निरयायोपकर्षति ॥ ६॥ यत् किञ्चित् शिथिलं कर्म संक्लिष्टं च यद् व्रतम् । संकृच्छ्रं ब्रह्मचर्यं न तद् भवति महत्फलम् ॥ ७॥ कुर्याच्चेत् कुर्वीतैतद् दृढमेतत् पराक्रमेत । शिथिलो हि परिव्राजको भूय आकिरते रजः ॥ ८॥ अकृतं दुष्कृतं श्रेयः पश्चात् तपति दुष्कृतम् । कृतं च सुकृतं श्रेयो यत् कृत्वा नाऽनुतप्यते ॥ ९॥ नगरं यथा प्रत्यन्तं गुप्तं सान्तर्बाह्यं एवं गोपयेदात्मानं क्षणं वै मा उपातिगाः । क्षणाऽतीता हि शोचन्ति निरये समर्पिताः ॥ १०॥ अलज्जिता ये लज्जन्ते लज्जित ये न लज्जन्ते । मिथ्यादृष्टि समादाना सत्त्वा गच्छन्ति दुर्गतिम् ॥ ११॥ अभये च भयदर्शिनो भये चाऽभयदर्शिनः । मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥ १२॥ अवद्ये वद्यमतयो वद्ये चाऽवद्यदर्शिनः । मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥ १३॥ वद्यं च वद्यतो ज्ञात्वाऽवद्यं चावद्यतः । सम्यग्दृष्टिसमादानाः सत्त्वा गच्छन्ति सुगतिम् ॥ १४॥ ॥ इत् निरयवर्गः समाप्तः ॥
२३. नागवर्गः त्रयोविंशः अहं नाग इव संग्रामे चापतः पतितं शरम् । अतिवाक्यं तितिक्षिष्ये दुःह्शीला हि बहुजनाः ॥ १॥ दान्तं नयन्ति समितिं दान्तं राजाऽभिरोहति । दान्तः श्रेष्ठा मनुष्येषु योतिवाक्यं तितिक्षसे ॥ २॥ वरमश्वतरा दान्ता आजानीयाश्च सिन्धवः । कुञ्जराश्च महानागा आत्मदान्तस्ततो वरम् ॥ ३॥ न हि एतैर्यानैः गच्छेदगतां दिशम् । यथाऽऽत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥ ४॥ धनपालको नाम कुञ्जरः कटकप्रभेदनो दुर्निवार्यः । बद्धः कवलं न भुंक्ते स्मरति नागवनस्य कुञ्जरः ॥ ५॥ मृद्धो यदा भवति महाघसश्च निद्रायितः सपरिवर्त्तशायी । महावराह इव निवापपुष्टः पुनः पुनः गर्भमुपैति मन्दः ॥ ६॥ इदं पुरा चित्तमचरत् चारिकां यथेच्छं यथाकामं यथासुखम् । तदद्याऽहं निग्रहिष्यामि योनिशो हस्तिनं प्रभिन्नमिवाङ्कुशग्राहः ॥ ७॥ अप्रमादरता भवत स्वचित्तमनुरक्षत । दुर्गादुद्धरताऽऽत्मानं पङ्के सक्त इव कुञ्जरः ॥ ८॥ स चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । अभिभूय सर्वान् परिश्रयान् चरेत् तेनाऽऽत्तमनाः स्मृतिमान् ॥ ९॥ न चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । राजेव राष्ट्रं विजितं प्रहाय एकश्चरेत् मातङ्गोऽरण्य इव नागः ॥ १०॥ एकस्य चरितं श्रेयो नाऽस्ति बाले सहायता । एकश्चरेन्न च पापानि कुर्याद् अल्पोत्सुको मातंगोऽरण्य इव नागः ॥ ११॥ अर्थे जाते सुखाः सहायाः तुष्टिः सुखा या येतरेतरेण । पुण्यं सुखं जीवितसंक्षये सर्वस्य दुःखस्य सुखं प्रहाणम् ॥ १२॥ सुखा मात्रीयता लोकेऽथ पित्रीयता सुखा सुखा श्रमणता लोकेऽथ ब्राह्मणता सुखा ॥ १३॥ सुखं यावद् जरां शीलं सुखा श्रद्धा प्रतिष्ठिता । सुखः प्रज्ञायाः प्रतिलाभः पापानां अकरणं सुखम् ॥ १४॥ ॥ इति नागवर्गः समाप्तः ॥
२४. तृष्णावर्गः चतुर्विंशः मनुजस्य प्रमत्तचारिणः तृष्णा वर्द्धते मालुवेव । स प्लवतेऽहरहः फलमिच्छन् इव वने वानरः ॥ १॥ यं एषा साहयति जन्मिनी तृष्णा लोके विषात्मिका । शोकास्तस्य प्रवर्द्धन्तेऽभिवर्द्धमानं वीरणम् ॥ २॥ यश्चैतां साहयति जन्मिनीं तृष्णां लोके दुरत्ययाम् । शोकाः तस्मात् प्रपतन्त्युदबिन्दुरिव पुष्करात् ॥ ३॥ तद् वो वदामि भद्रं वो यावन्त इह समागताः । तृष्णाया मूलं खनतोशीरार्थीव वीरणम् ॥ ४॥ यथाऽपि मूलेऽनुपद्रवे दृढे छिन्नोऽपि वृक्षः पुनरेव रोहति । एवमपि तृष्णाऽनुशयेऽनिहते निर्वर्त्तते दुःखमिदं पुनः पुनः ॥ ५॥ यस्य षट्त्रिंशत् स्रोतांसि मनापश्रवणानि भूयासुः । वाहा वहन्ति दुर्दृष्टि सङ्कल्पा रागनिःसृताः ॥ ६॥ स्रवन्ति सर्वतः स्रोतांसि लतोद्भिद्य तिष्ठति । तां च दृष्ट्वा लतां जातां मूलं प्रज्ञया छिन्दत ॥ ७॥ सरितः स्निग्द्धाश्च सौमनस्या भवन्ति जन्तोः ते स्रोतःसृताः सुखैषिणस्ते वै जातिजरोपगा नराः ॥ ८॥ तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । संयोजनसंगसक्तका दुःखमुपयन्ति पुनः पुनः चिराय ॥ ९॥ तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । तस्मात् तृष्णां विनोदयेद् भिक्षुराकाङ्क्षी विरागमात्मानः ॥ १०॥ यो निर्वणार्थी वनाऽधिमुक्तो वनमुक्तो वनमेव धावति । तुं पुद्गलमेव पश्यत मुक्तो बन्धनमेव धावति ॥ ११॥ न तद् दृढं बन्धनमाहुर्धीरा यद् आयसं दारुजं पर्वजं च । सारवद्-रक्ता मणिकुण्डलेषु पुत्रेषु दारेषु च याऽपेक्षा ॥ १२॥ एतद् दृढं बन्धनमाहुर्धीरा अपहारि शिथिलं दुष्प्रमोचम् । एतदपि छित्त्वा परिव्रजन्ति अनपेक्षिणः कामसुखं प्रहाय ॥ १३॥ ये रागरक्ता अनुपतन्ति स्रोतः स्वयंकृतं मर्कटक इव जालम् । एतदपि छित्त्वा व्रजन्ति धीरा अनपेक्षिणः सर्वदुःखं प्रहाय ॥ १४॥ मुञ्च पुरो मुञ्च पश्चात् मध्ये मुञ्च भवस्य पारगः । सर्वत्र विमुक्तमानसो न पुनः जातिजरे उपैपि ॥ १५॥ वितर्कप्रमथितस्य जन्तोः तीव्ररागस्य शुभाऽनुदर्शिनः । भूयः तृष्णा प्रवर्द्धते एष खलु दृढं करोति बन्धनम् ॥ १६॥ वितर्कोपशमे च यो रतोऽशुभं भावयते सदा स्मॄतः । एष खलु व्यन्तीकरिष्यति एष छेत्स्यति मारबन्धनम् ॥ १७॥ निष्ठांगतोऽसंत्रासी वीततृष्णोऽनंगणः । उत्सृज्य भवशल्यानि अन्तिमोऽयं समुछ्रयः ॥ १८॥ वीततृष्णोऽनादानो निरुक्तिपदकोविदो । अक्षराणां सन्निपातं जानाति पूर्वापराणि च । स वै अन्तिमशारीरो महाप्राज्ञ इत्युच्यते॥ १९॥ सर्वाभिभूः सर्वविदहमस्मि सर्वेषु धर्मेषु अनुपलिप्तः । सर्वंजहः तृष्णाक्षये विमुक्तः स्वयमभिप्राय कमुद्दिशेयम् ॥ २०॥ सर्वदानं धर्मदानं जयति सर्वरसं धर्मरसो जयति । सर्वां रतिं धर्मरतिर्जयति तृष्णाक्षयः सर्वदुःखं जयति ॥ २१॥ घ्नन्ति भोग दुर्मेधसं न चेत् पारगवेषिणः । भोगतृष्णया दुर्मेधा हन्त्यन्य इवात्मानः ॥ २२॥ तृणदोषाणि क्षेत्राणि रागदोषेयं प्रजा । तस्माद्धि वीतरागेषु दत्तं भवति महाफलम् ॥ २३॥ तृणदोषाणि क्षेत्राणि द्वेषदोषेयं प्रजा । तस्माद्धि वीतदोषेषु दत्तं भवति महाफलम् ॥ २४॥ तृणदोषाणि क्षेत्राणि मोहदोषेयं प्रजा । तस्माद्धि वीतमोहेषु दत्तं भवति महाफलम् ॥ २५॥ तृणदोषाणि क्षेत्राणि इच्छादोषेयं प्रजा । तस्माद्धि विगतेच्छेषु दत्तं भवति महाफलम् ॥ २६॥ ॥ इति तृष्णावर्गः समाप्तः ॥
२५. भिक्षुवर्गः पञ्चविंशः चक्षुषा संवरः साधुः साधुः श्रेत्रेण संवरः । घ्राणेन संवरः साधुः साधुः जिह्वया संवरः ॥ १॥ कायेन संवरः साधुः साधुः वाचा संवरः । मनसा संवरः साधुः साधुः सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ २॥ हस्तसंयतः पादसंयतो वाचा संयतः संयतोत्तमः । अध्यात्मरतः समाहित एकः सन्तुष्टस्तमाहुर्भिक्षुम् ॥ ३॥ यो मुखसंयतो भिक्षुः मन्त्रभाणी अनुद्धतः । अर्थं धर्मं च दीपयति मधुरं तस्य भाषितम् ॥ ४॥ धर्मारामो धर्मरतो धर्मं अनुविचिन्तयन् । धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न परिहीयते ॥ ५॥ स्वलाभं नाऽतिमन्येत नाऽन्येष्यः स्पृहयन् चरेत् । अन्येषां स्पृहयन् भिक्षुः समाधिं नाऽधिगच्छति ॥ ६॥ अल्पलाभोऽपि चेद् भिक्षुः स्वलाभं नाऽतिमन्यते । तं वै देवाः प्रशंसन्ति शुद्धाऽऽजीवं अतन्द्रितम् ॥ ७॥ सर्वशो नामरूपे यस्य नाऽस्ति ममायितम् । असति च न शोचति स वै भिक्षुरित्युच्यते ॥८ ॥ मैत्रीविहारी यो भिक्षूः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ ९॥ सिञ्च भिक्षो ! इमां नावं सिक्ता ते लघुत्वं एष्यति । छित्त्वा रागं च द्वेषं च ततो निर्वाणमेष्यसि ॥ १०॥ पञ्च छिन्धि पञ्च जह्ये पञ्चोतरं भावय । पञ्चसंगाऽतिगो भिक्षुः ओघतीर्ण इत्युच्यते ॥ ११॥ ध्याय भिक्षो मा च प्रमादः मा ते कामगुणे भ्रमतु चित्तम् । मा लोहगोलं गिल प्रमत्तः मा क्रन्दीः दुःखमिदमिति दह्यमानः ॥ १२॥ नाऽस्ति ध्यानमप्रज्ञस्य प्रज्ञा नाऽस्त्यध्यायतः । यस्मिन् ध्यानं च प्रज्ञा च स वै निर्वाणाऽन्तिके ॥ १३॥ शून्यागारं प्रविष्टस्य शान्तचित्तस्य भिक्षोः । अमानुषी रतिर्भवति सम्यग् धर्मं विपश्यतः ॥ १४॥ यतो यतः संमृशति स्कन्धानां उदयव्ययम् । लभते प्रीतिप्रामोद्यं अमृतं तद्विजानताम् ॥ १५॥ तत्राऽयमादिर्भवतीह प्राज्ञस्य भिक्षोः । इन्द्रियगुप्तिः सन्तुष्टिः प्रातिमोक्षे च संवरः । मित्राणि भजस्व कल्याणानि शुद्धाजीवान्यतन्द्रितानि ॥ १६॥ प्रतिसंस्तारवृत्तस्याऽऽचारकुशलः स्यात् । ततः प्रामोद्यबहुलो दुःखस्याऽन्तं करिष्यति ॥ १७॥ वर्षिका इव पुष्पाणि मर्दितानि प्रमुञ्चति । एवं रागं च द्वेषं च विप्रमुञ्चत भिक्षवः ॥ १८॥ शान्तकायो शान्तवाक् शान्तिमान् सुसमाहितः । वान्तलोकाऽऽमिषो भिक्षुः उपशान्त इत्युच्यते ॥ १९॥ आत्मना चोदयेदात्मानं प्रतिवसेदात्मनां आत्मना । स आत्मगुप्तः स्मृतिमान् सुखं भिक्षो विहरिष्यसि ॥ २०॥ आत्मा ह्यात्मनो नाथः आत्मा ह्यात्मनो गतिः । तस्मात् संयमयात्मानं अश्वं भद्रमिव वाणिक् ॥ २१॥ प्रामोद्यबहुलो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ २२॥ यो ह वै दहरो भिक्षुर्युक्त्ते बुद्धशासने । स इमं लोकं प्रभासयत्यभ्रान् मुक्त इव चन्द्रमा ॥ २३॥ ॥ इति भिक्षुवर्गः समाप्तः ॥
२६. ब्राह्मणवर्गः षड्विंशः छिन्धि स्रोतः पराक्रम्य कामान् प्रणुद ब्राह्मण । संस्कारणां क्षयं ज्ञात्वाऽकृतज्ञोऽसि ब्राह्मण ॥ १॥ यदा द्वयोर्धर्मयोः पारगो भवति ब्राह्मणः । अथाऽस्य सर्वे संयोगा अस्तं गच्छन्ति जानतः ॥ २॥ यस्य पारं अपारं वा पारापारं न विद्यते । वीतदरं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३॥ ध्यायिनं विरजमासीनं कृतकृत्यं अनास्रवम् । उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ४॥ दिवा तपत्यादित्यो रात्रावाभाति चन्द्रमाः । सन्नद्धः क्षत्रियस्तपति ध्यायी तपति ब्राह्मणः । अथ सर्वमहोरात्रं बुद्धस्तपति तेजसा ॥ ५॥ वाहितपाप इति ब्राह्मणः समचर्यः श्रमण इत्युच्यते । प्रव्राजयन्नाऽऽत्मनो मलं तस्मात् प्रव्रजित इत्युच्यते ॥ ६॥ न ब्राह्मणं प्रहरेत् नाऽस्मै मुञ्चेद् ब्राह्मणः । धिग् ब्राह्मणस्य हन्तारं ततो धिग् यस्मै मुञ्चति ॥ ७॥ न ब्राह्मणस्यैतद् अकिञ्चित् श्रेयो यदा निषेधो मनसा प्रियेभ्यः । यतो यतो हिंस्रमनो निवर्तते ततस्ततः शाम्यत्येव दुःखम् ॥ ८॥ यस्य कायेन वाचा मनसा नाऽस्ति दुष्कृतम् । संवृतं त्रिभिः स्थानैः तमहं ब्रवीमि ब्राह्मणम् ॥ ९॥ यस्माद् धर्मं विजानीयात् सम्यक्-संबुद्ध-देशितम् । सत्कृत्य तं नमस्येद् अग्निहोत्रमिव ब्राह्मणः ॥ १०॥ न जटाभिर्न गोत्रेण न जात्या भवति ब्राह्मणः । यस्मिन् सत्यं च धर्मस्च स शुचिः स च ब्राह्मणः ॥ ११॥ किं ते जटाभिः दुर्मेधः ! किं तेऽजिनशाट्या । आभ्यन्तरं ते गहनं बाह्यं परिमार्जयसि ? ॥ १२॥ पांशुकूलधरं जन्तुं कृशं धमनिसन्ततम् । एकं वने ध्यायन्तं तमहं ब्रवीमि ब्राह्मणम् ॥ १३॥ न चाहं ब्राह्मणं ब्रवीमि योनिजं मातृसंभवम् । भो वादी नाम स भवति स वै भवति सकिञ्चनः । अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ १४॥ सर्वसंयोजनं छित्त्वा यो वै न परित्रस्यति । संगातिगं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ १५॥ छित्वा नन्दिं वरत्रां च सन्दानं सहनुक्रमम् । उत्क्षिप्तपरिघं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ १६॥ आक्रोशन् वधबन्धं चादुष्टो यस्तितिक्षति । क्षान्तिबलं बलानीकं तमहं ब्रवीमि ब्राह्मणम् ॥ १७॥ अक्रोधनं व्रतवन्तं शीलवन्तं अनुश्रुतम् । दान्तमन्तिमशारीरं तमहं ब्रवीमि ब्राह्मणम् ॥ १८॥ वारि पुष्करपत्र इवाराग्रे इव सर्षपः । यो न लिप्यते कामेषु तमहं ब्रवीमि ब्राह्मणम् ॥ १९॥ यो दुःखस्य प्रजानातीहैव क्षयमात्मनः । पन्नभारं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २०॥ गंभीरप्रज्ञं मेधाविनं मार्गामार्गस्य कोविदम् । उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २१॥ असंसृष्टं गृहस्थैः अनागारैश्चोभाभ्याम् । अनोकःसारिणं अल्पेच्छं तमहं ब्रवीमि ब्राह्मणम् ॥ २२॥ निधाय दण्डं भूतेषु त्रसेषु स्थावरेषु च । यो न हन्ति न घातयति तमहं ब्रवीमि ब्राह्मणम् ॥ २३॥ अविरुद्धं विरुद्धेषु आत्तदण्डेषु निर्वृतम् । सादानेष्वनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ २४॥ यस्य रागश्च द्वेषश्च मानो म्रक्षश्च पातितः । सर्षप इवाऽऽराग्रात् तमहं ब्रवीमि ब्राह्मणम् ॥ २५॥ अकर्कशां विज्ञापनीं गिरं सत्त्यामुदीरायेत् । यथा नाऽभिषजेत् किञ्चित् तमहं ब्रवीमि ब्राह्मणम् ॥ २६॥ य इह दीर्घं वा हृस्वं वाऽणुं स्थूलं शुभाऽशुभम् । लोकेऽदत्तं नादत्ते तमहं ब्रवीमि ब्राह्मणम् ॥ २७॥ आशा यस्य न विद्यन्तेऽस्मिन् लोके परस्मिन् च । निराशयं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २८॥ यस्याऽऽलया न विद्यन्त आज्ञायाऽकथंकथी । अमृतावगाधमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २९॥ य इह पुण्यं च पापं चोभयोः संगं उपात्यगात् । अशोकं विरजं शुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ३०॥ चन्द्रमिव विमलं शुद्धं विप्रसन्नमनाविलम् । नन्दीभवपरीक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३१॥ य इमं प्रतिपथं दुर्गं संसारं मोहमत्यगात् । तीर्णः पारगतो ध्याय्यनेजोऽकथंकथी । अनुपादाय निर्वृतः तमहं ब्रवीमि ब्राह्मणम् ॥ ३२॥ य इह कामान् प्रहायाऽनागारः परिव्रजेत् । कामभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३३॥ य इह तृष्णां प्रहायाऽनागारे परिव्रजेत् । तृष्णाभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३४॥ हित्त्वा मानुषकं योगं दिव्यं योगमुपात्यगात् । सर्वयोगविसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३५॥ हित्त्वा रतिञ्चारतिञ्च शीतीभूतं निरूपधिम् । सर्वलोकाऽभिभुवं वीरं तमहं ब्रवीमि ब्राह्मणम् ॥ ३६॥ च्युतिं यो वेद सत्त्वानां उपत्तिं च सर्वशः । असक्तं सुगतं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ३७॥ यस्य गतिं न जानन्ति देव-गन्धर्व-मानुषाः । क्षीणास्रवं अर्हन्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३८॥ यस्य पुरश्च पश्चाच्च मध्ये च नाऽस्ति किञ्चन । अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ ३९॥ ऋषभं प्रवरं वीरं महर्षिं विजितवन्तम् । अनेजं स्नातकं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ४०॥ पूर्वनिवासं यो वेद स्वर्गापाऽयं च पश्यति । अथ जातिक्षयं प्राप्तोऽभिज्ञाव्यवसितो मुनिः । सर्वव्यवसितव्यवसानं तमहं ब्रवीमि ब्राह्मणम् ॥ ४१॥ ॥ इति ब्राह्मणवर्गः समाप्तः ॥ ॥ इति धर्मपदं सम्पूर्णम् ॥ The book is available at http://www.archive.org/details/Dhammapada\_Pali\_Sanskrit\_Hindi\_by\_Rahul\_Sankrityayan 1. Link for Dharmapada stories for each verse http://www.thisismyanmar.com/nibbana/dhammapada/dmpadatm 2. Link for English Translation from Myanmar http://www.thisismyanmar.com/nibbana/dhammapada/versestm 3. OR below is a consolidated link for both verse and story adopted from the above links. . http://www.tipitaka.net/tipitaka/dhp/index.php