चाणक्यानि अथवा कौटिलीयानि नीतिसूत्राणि
अथ प्रथमोऽध्यायः ॥ सा श्रीर्वोऽव्यात् ॥ १॥ सुखस्य मूलं धर्मः ॥२॥ धर्मस्य मूलमर्थः ॥ ३॥ अर्थस्य मूलं राज्यम् ॥ ४॥ राज्यमूलमिन्द्रियजयः ॥ ५॥ इन्द्रियजयस्य मूलं विनयः ॥ ६॥ विनयस्य मूलं वृद्धोपसेवा ॥ ७॥ वृद्धसेवाया विज्ञानम् ॥ ८॥ विज्ञानेनात्मानं सम्पादयेत् ॥ ९॥ सम्पादितात्मा जितात्मा भवति ॥ १०॥ जितात्मा सर्वार्थैः संयुज्यते ॥ ११॥ स्वामिसम्पत् प्रकृतिसम्पदं करोति ॥ १२॥ प्रकृतिसम्पदा ह्यनायकमपि राज्यं नीयते ॥ १३॥ प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ॥ १४॥ अविनीतस्वामिभावादस्वामिभावः श्रेयान् ॥ १५॥ सम्पाद्यात्मानमन्विच्छेत् सहायान् ॥ १६॥ नाऽसहास्य मन्त्रनिश्चयः ॥ १८॥ नैकं चक्रं परिभ्रमति ॥ १९॥ सहायः समो दुःखसुखयोः ॥ १७॥ मानी प्रतिमानिनमात्मद्वितीयं मन्त्रिणमुत्पादयेत् ॥ २०॥ अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ॥ २१॥ श्रुतवन्तमुपधाशुद्धं मन्त्रिणं कुर्वीत ॥ २१॥ मन्त्रमूलाः सर्वारम्भाः ॥ २२॥ मन्त्रसंवरणे कार्यसिद्धिर्भवति ॥ २३॥ मन्त्रनिःस्रावः सर्वम् नाशयति ॥ २४॥ प्रमादाद् द्विषतां वशमुपयास्यति ॥ २५॥ सर्वद्वारेभ्यो मन्त्रो रक्षितव्यः ॥ २६॥ मन्त्रसम्पदा हि राज्यं विवर्धते ॥ २७॥ श्रेष्ठतमां मन्त्रगुपितमाहुः ॥ २८॥ कार्याकार्य प्रदीपो मन्त्रः ॥ २९॥ मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ॥ ३१ । मन्त्रकाले न मत्सरः कर्तव्यः ॥ ३१॥ अकामबुद्धयो मन्त्रतत्त्वार्थदर्शिनो मन्त्रिणः ॥ ३४॥ षट्कर्णो मन्त्रश्छिद्यते ॥ ३२॥ त्रयाणामैकवाक्येऽसम्प्रत्ययः ॥ ३३॥ आपत्सु स्नेहयुक्तं मित्रम् ॥ ३५॥ मित्रसंग्रहणे बलं सम्पद्यते ॥ ३६॥ बलवान् अलब्धलाभे प्रयतेत ॥ ३७॥ अलब्धलाभो नालसस्य ॥ ३८॥ अलसेन लब्धमपि रक्षितुं न शक्यते ॥ ३९॥ न चालसस्ययुक्तस्य रक्षितं विवर्धते ॥ ४०॥ न भृत्यान् पोषयति ॥ ४१॥ न तीर्थं प्रतिपादयति ॥ ४२॥ अलब्धलाभादिचतुष्टयं राजतन्त्रम् ॥ ४३॥ तच्च राज्यतन्त्रमायतं नीतिशास्त्रेषु ॥ ४४॥ राज्यतन्त्रेष्वायत्तौ मन्त्रावापौ ॥ ४५॥ मन्त्रं स्वविषये कृत्येष्वायत्तम् ॥ ४६॥ आवापो मण्डले सन्निविष्टः ॥ ४६॥ सन्धिविग्रहयोर्योनिर्मण्डलम् ॥ ४८॥ नीतिशास्त्रानुगो राजा ॥ ४९॥ अनन्तरप्रकृतिः शत्रुः ॥ ५०॥ एकान्तरितं मित्रमिष्यते ॥ ५१॥ हेतुतः शत्रुमित्रे भविष्यतः ॥ ५२॥ हीयमानेन स सन्धिं कुर्वीत ॥ ५३॥ तेजो हि सन्धानहेतुस्तदर्थिनाम् ॥ ५४॥ नातप्तलोहं लोहेन सन्धत्ते ॥ ५५॥ बलवान् हीनेन विगृह्णीयात् ॥ ५६॥ न ज्यायसा समेन वा ॥ ५७॥ हस्तिनः पादयुद्धमिव बलवद्विग्रहः ॥ ५८ । आमपात्रमापेन सह विनश्यति ॥ ५९॥ अरिप्रयत्नमभिसमीक्ष्यात्मरक्षया वसेत् ॥ ६०॥ सन्धायैकतो वा यायात् ॥ ५८॥ अमित्रविरोधादात्मरक्षामावसेत् ॥ ५९॥ शक्तिहीनो बलवन्तमाश्रयेत् ॥ ६१॥ दुर्बलाश्रयो दुःखमावहति ॥ ६२॥ अग्निवद् राजानमाश्रयेत् ॥ ६३॥ राज्ञाः प्रतिकूलं नाचरेत् ॥ ६४॥ नोद्धतवेशधरः स्यात् ॥ ६६॥ न देवचरितं चरेत् ॥ ६५॥ द्वयोरपीर्ष्यतोर्द्वैधीभावकुर्वीत ॥ ६७॥ न व्यसनपरस्य कार्यावाप्तिः ॥ ६८॥ इन्द्रियवशवर्तिनो नास्ति कार्यावाप्तिः ॥ ६९॥ नास्ति कार्यं द्युतप्रवृत्तस्य ॥ ७०॥ मृगयापरस्य धर्मार्थौ विनश्यतः ॥ ७१॥ न कामासक्तस्य कार्यानुष्ठानम् ॥ ७३॥ अर्थेषु पानव्यसनी न गण्यते ॥ ७२॥ अर्थदूषकं श्रीः परित्यजति ॥ ७६॥ अग्निदहादपि विशिष्तं वाक्पारुष्यम् ॥ ७४॥ दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ॥ ७५॥ अमित्रो दण्डनीत्यामायत्तः ॥ ७७॥ दण्डनीतिमनुष्ठन् प्रजाः संरक्षति ॥ ७८॥ दण्डः सर्वसम्पदा योजयति ॥ ७९॥ दण्डाभावे त्रिवर्गाभावः ॥ ८०॥ दण्डभयादकार्याणि न कुर्वन्ति ॥ ८१॥ दण्डनीत्यामायत्तमात्मरक्षणम् ॥ ८२॥ आत्मनि रक्षिते सर्वं रक्षितं भवति ॥ ८३॥ आत्मायत्तौ वृद्धिविनाशौ ॥ ८४॥ दण्डनीत्यादि विज्ञाने प्रणीयते ॥ ८५॥ दुर्बलोऽपि राजा नावमन्तव्यः ॥ ८६॥ नास्त्यग्नेर्दौर्बल्यम् ॥ ८७॥ दण्डेन प्रणीयते वृत्तिः ॥ ८८॥ वृत्तिमूलोऽर्थलाभः ॥ ८९॥ अर्थमूलौ धर्मकामौ ॥ ९०॥ अर्थमूलम् कार्यम् ॥ ९१॥ यत्नप्रयत्नात् कार्यसिद्धिर्भवति स उपायः ॥ ९२॥ उपायपूर्वं कार्यं न दुष्करं स्यात् ॥ ९३॥ अनुपायपूर्वं कार्यं कृतमपि विनश्यति ॥ ९४॥ कार्यार्थिनामुपाय एव सहायः ॥ ९५॥ कार्यं पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ९६॥ पुरुषकारमनुवर्तते दैवम् ॥ ९७॥ दैवं विना अतिप्रयत्नं करोति यत्तद् विफलम् ॥ ९८॥ अनीहमानस्य वृत्तिर्न सम्पद्यते ॥ ९९॥ पूर्वं निश्चित्य पश्चात्कार्यमारभेत ॥१००॥ इति चाणक्यसूत्रे प्रथमोऽध्यायः ॥अथ द्वितीयोऽध्यायः ॥ अर्थमूलं सर्वकार्यं यदल्पप्रयत्नात् कार्यसिद्धिर्भवति ॥ १॥ उपायपूर्वं कार्यं न दुष्करं स्यात् ॥ २॥ अनुपायपूर्वकार्यं कृतमपि विनश्यति ॥ ३॥ कार्यार्थिनामुपाय एव सहायः ॥ ४॥ कार्यं पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ५॥ पुरुषकारमनुवर्तते दैवम् ॥ ६॥ दैवं विनाऽतिप्रयत्नं यत्करोति तद्विफलम् ॥ ७॥ असमाहितस्य कार्यं न विद्यते ॥ ८॥ पूर्वं निश्चित्य पश्चात्कार्यमारभेत ॥ ९॥ कार्यान्तरे दीर्घसूत्रता न कर्तव्या ॥ १०॥ न चलचित्तस्य कार्यावाप्तिः ॥ ११॥ हस्तगतावमाननात् कार्यव्यतिक्रमो भवति ॥ १२॥ दोषवर्जितानि कार्याणि दुर्लभानि ॥ १३॥ दुरनिबन्धं कार्यं न आरभेत ॥ १४॥ कालवित् कार्यं साधयेत् ॥ १५॥ कालातिक्रमात् काल एव फलं पिबति ॥ १६॥ क्षणं प्रति कालविक्षेपं न कुर्यात् सर्वकृतेषु ॥ १७॥ देशकालविभागौ ज्ञात्वा कार्यमारभेत ॥ १८॥ दैवहीनं कार्यं सुसाधमपि दुस्साधं भवति ॥ १९॥ नीतिज्ञो देशकालौ परीक्षेत ॥ २०॥ परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति ॥ २१॥ सर्वाश्च सम्पदः सर्वोपायेन परिगृह्णीयात् ॥ २२॥ भाग्यवन्तमप्यपरीक्ष्यकारिणं श्रीः परित्यजति ॥ २३॥ ज्ञात्वाऽनुमानैश्च परीक्षा कर्तव्या ॥ २४॥ यो यस्मिन्कर्मणि कुशलस्तं तस्मिन्नेव योजयेत् ॥ २५॥ दुस्साधमपि सुसाधं करोत्युपायज्ञः ॥ २६॥ अज्ञानिना कृतमपि न बहुमन्तव्यं यादृच्छिकत्वात् ॥ २७॥ कृमयोऽपो हि कदाचित् रूपान्तराणि कुर्वन्ति ॥ २८॥ सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम् ॥ २९॥ ज्ञानवतामपि दैवमानुषदोषात् कार्याणि दुष्यन्ति ॥ ३०॥ दैवं दोषं शान्तिकर्मणा प्रतिषेधयेत् ॥ ३१॥ मानुषीं कार्यविपत्तिं कौशलेन विनिवारयेत् ॥ ३२॥ कार्यविपत्तौ दोषान् वर्णयन्ति बालिशाः ॥ ३३॥ कार्यार्थिना दाक्षिण्यं न कर्तव्यम् ॥ ३४॥ क्षीरार्थि वत्सो मातुरूधः प्रतिहन्ति ॥ ३५॥ अप्रयत्नात् कार्यविपत्तिर्भवेत् ॥ ३६॥ न दैवमात्रप्रमाणानां कार्यसिद्धिः ॥ ३७॥ कार्यबाह्यो न पोषयत्याश्रितान् ॥ ३८॥ यः कार्यं न पश्यति सोऽन्धः ॥ ३९॥ प्रत्यक्षपरोक्षनुमानैः कार्याणि परीक्षेत ॥ ४०॥ अपरीक्षकारिणं श्रीः परित्यजति ॥ ४१॥ परीक्ष्य तार्या विपत्तिः ॥ ४२॥ स्वशक्तिं ज्ञात्वा कार्यमारभेत ॥ ४३॥ स्वजनं तर्पययित्वा यश्शेषभोजी सोऽमृतभोजी ॥ ४४॥ सम्यगनुष्ठानादायमुखानि वर्धन्ते ॥ ४५॥ नास्ति भीरोः कार्यचिन्ता ॥ ४६॥ स्वामिनः शीलं ज्ञात्वा कार्यार्थी कार्यं साधयेत् ॥ ४७॥ धेनोश्शीलज्ञो हि क्षीरं भुङ्क्ते ॥ ४८॥ क्षुद्रे गुह्यप्रकाशनमात्मवान् न कुर्यात् ॥ ४९॥ आश्रितैरप्यवमन्यते मृदुस्वभावः ॥ ५०॥ तीक्ष्णदण्डः सर्वेषामुद्वेजनीयो भवति ॥ ५१॥ यथार्हदण्डकारी स्यात् ॥ ५२॥ अल्पसारं श्रुतवन्तमपि न बहुमन्यते लोकः ॥ ५३॥ अतिभारः पुरुषमवसादयति ॥ ५४॥ यः संसदि परदोषं शंसति स स्वदोषबहुत्वमेव प्रख्यापयति ॥ ५५॥ आत्मानमेव नाशयत्यनात्मवतां कोपः ॥ ५६॥ नास्त्यप्राप्यं सत्यवताम् ॥ ५७॥ न केवलेन साहसेन कार्यसिद्धिर्भवति ॥ ५८ व्यसनार्तो विस्मरत्यवश्यकर्तव्यान् ॥ ५९॥ नास्त्यनन्तरायः कालविक्षेपे ॥ ६०॥ असंशयविनाशात् संशयविनाशः श्रेया ॥ ६१॥ केवलं धनानि निक्षेप्तुं न स्वार्थं न दानं न धर्मः ॥ ६२॥ नार्या आगतोऽर्थः तद्विपरीतमनर्थभावं भजते ॥ ६३॥ यो धर्मार्थौ न व्यर्थयति स कामः तद्विपरीतोऽनर्थसेवी ॥ ६४॥ ऋजुस्वभावप्रो जनो दुर्लभः ॥ ६५॥ अवमानेनागतमैश्वर्यमवमन्यत एव साधुः ॥ ६६॥ बहूनपि हि गुणानेकदोषो ग्रसति ॥ ६७॥ महात्मना परं साहसं न कर्तव्यम् ॥ ६८॥ कदाचिदपि चारित्रं न लङ्घयेत् ॥ ६९॥ क्षुधाऽऽर्तो न तृणं चरति सिंहः ॥ ७०॥ प्राणादपि प्रत्ययो रक्षितव्यः ॥ ७१॥ पिशुनो नेता पुत्रदारैरपि त्यज्यते ॥ ७२॥ इति द्वितीयोऽध्यायः ॥
अथ तृतीयोऽध्यायः ॥ बालादपि युक्तमर्थ शृणुयात् ॥ १॥ सत्यमप्यश्रद्धेयं न वदेत् ॥ २॥ नाल्पदोषाद्बहुगुणास्त्यज्यन्ते ॥ ३॥ विपश्चित्स्वपि सुलभा दोषाः ॥ ४॥ नास्ति रत्नमखण्डितम् ॥ ५॥ मर्यादातीतं न कदाचिदपि विश्वसेत् ॥ ६॥ अप्रिये कृते प्रियमपि द्वेष्यं भवति ॥ ७॥ नमन्त्यपि हि तुलाकोटिः कृपोदकक्षयं करोति ॥ ८॥ सतां मतं नातिक्रामेत् ॥ ९॥ गुणवदाश्रयान् निर्गुणोऽपि गुणी भवति ॥ १०॥ क्षीराश्रितं जलं क्षीरमिव भवति ॥ ११॥ मृत्पिण्डेऽपि पाटलिपुष्पं स्वगन्धमुत्पादयति ॥ १२॥ रजतं कनकसङ्गात् कनकं भवति ॥ १३॥ उपकर्तर्यपकर्तुमिच्छत्यबुधः ॥ १४॥ न पाप कर्मणामाक्रोशभयम् ॥ १५॥ उत्साहवतां शत्रवोऽपि वशीभवन्ति ॥ १६॥ विक्रमधना हि राजानः ॥ १७॥ नास्त्यालस्यैहिकमामुष्मिकं वा ॥ १८॥ निरुत्साहाद्दैवं पतति ॥ १९॥ मत्स्यार्थीव जालमुपयुज्यार्थं गृह्णीयात् ॥ २०॥ अविश्वस्तेषु विश्वसो न कर्तव्यः ॥ २१॥ विषं विषमेव सार्वकालम् ॥ २२॥ अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः ॥ २३॥ अर्थसिद्धौ वैरिणं न विश्वसेत् ॥ २४॥ अर्थाधीन एव नियतसम्बन्धः ॥ २५॥ शत्रोरपि सुतः सखा रक्षितव्यः ॥ २६॥ यावच्छत्रोश्च्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा संवाह्यः छिद्रे तु प्रहरेत् ॥ २७॥ आत्मछिद्रं न प्रकाशयेत् ॥ २८॥ छिद्रप्रहारिणः शत्रवोऽपि ॥ २९॥ हस्तगतमपि शत्रुं न विश्वसेत्। ३०॥ स्वजनस्य दुर्वृतं निवारयेत् ॥ ३१॥ स्वजनावमानोऽपि मनस्विनां दुःखमावहति ॥ ३२॥ एकाङ्गदोषः पुरुषमवसादयति ॥ ३३॥ शत्रुं जयति सुवृत्तता ॥ ३४॥ निकृतिप्रिया नीचाः ॥ ३५॥ नीचस्य मतिर्न दातव्या ॥ ३६॥ नीचेषु विश्वासो न कर्तव्यः ॥ ३७॥ सुपूजितोऽपि दुर्जनः पीडयत्येव ॥ ३८॥ चन्दनदीनपि दावोऽग्निर्दहत्येव ॥ ३९॥ कदाऽपि कमपि पुरुषं नावमन्येत ॥ ४०॥ क्षन्तव्यमिति पुरुषं न बाधेत ॥ ४१॥ भर्त्राऽधिकं रहस्युक्तं वक्तुमच्छिन्त्यबुधः ॥ ४२॥ अनुराग्स्तु फलेन (हितेन) सूच्यते ॥ ४३॥ आज्ञाफलमैश्वर्यम् ॥ ४४॥ दातव्यमपि बालिशः परिक्लेशेन दास्यति ॥ ४५॥ महदैश्वर्यं प्राप्यापि अधृतिमान् विनश्यति ॥ ४६॥ नास्त्यधृतेरैहिकमामुष्मिकं वा ॥ ४७॥ न दुर्जनैः सह संसर्गः कर्तव्यः ॥ ४८॥ शौण्डहस्तगतं पयोऽप्यवमन्यते जनः ॥ ४९॥ कार्यसङ्कटेष्वर्थव्यवसायिनी बुद्धिः ॥ ५०॥ मितभोजनं स्वास्थ्यम् ॥ ५१॥ पथ्यमप्यपथ्याजीर्णे नाश्नीयात् ॥ ५२॥ जीर्णभोजिनं व्याधिर्नोपसर्पति ॥ ५३॥ जीर्णशरीरे वर्धमानं व्याधिं नोपेक्षेत ॥ ५४॥ अजीर्णे भोजनं दुःखम् ॥ ५५॥ शत्रोरपि विशिष्यते व्याधिः ॥ ५६॥ दानं निधानमनुगामि ॥ ५७॥ पटुतरेऽपि तृष्णापरे सुलभमतिसन्धानम् ॥ ५८॥ तृष्णया मतिश्छाद्यते ॥ ५९॥ कार्यबहुत्वे बहुफलमायतिकं कुर्यात् ॥ ६०॥ स्वयमेवावस्कन्नं कार्यं निरीक्षेत ॥ ६१॥ मूर्खेषु साहसं नियतम् ॥ ६२॥ मूर्खेषु विवादो न कर्तव्यः ॥ ६३॥ मूर्खेषु मूर्खवदेव कथयेत् ॥ ६४॥ आयसैरायसं छेद्यम् ॥ ६५॥ नास्त्यधीमतस्सखा ॥ ६६॥ इति तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः ॥ धर्मेण धार्यते लोकः ॥ १॥ प्रेतमपि धर्माधर्मावनुगच्छतः ॥ २॥ दया धर्मस्य जन्मभूमिः ॥ ३॥ धर्ममूले सत्यदाने ॥ ४॥ धर्मेण जयति लोकान् ॥ ५॥ मृत्यरपि धर्मिष्ठं रक्षति ॥ ६॥ धर्माद्विपरीतं पापं यत्र यत्र प्रसज्यते तत्र तत्र धर्मावमतिरेव महती प्रसज्यते ॥ ७॥ उपस्थितविनाशानां प्रकृतिः आकारेण कार्येण च लक्ष्यते ॥ ८॥ आत्मविनाशं सूचयत्यधर्मबुद्धिः ॥ ९॥ पिशुनवादिनो रहस्यं कुतः ॥ १०॥ पररहस्यं नैव श्रोतव्यम् ॥ ११॥ वल्लभस्य स्वार्थपरत्वमधर्मयुक्तम् ॥ १२॥ स्वजनेष्वप्यतिक्रमो न कर्तव्यः ॥ १३॥ मताऽपि दुष्टा त्याज्या ॥ १४॥ स्वहस्तोऽपि विषदिग्धश्छेद्यः ॥ १५॥ परोऽपि च हितो बन्धुः ॥ १६॥ कक्षादप्यौषधं गृह्यते ॥ १७॥ नास्ति चोरेषु विश्वासः ॥ १८॥ अप्रतीकारेष्वनादरो न कर्तव्यः ॥ १९॥ व्यसनं मनागपि बाधते ॥ २०॥ अमरवदर्थजातमार्जयेत् ॥ २१॥ अर्थवान् सर्वलोकस्य बहुमतः ॥ २२॥ महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः ॥ २३॥ दारिद्र्यं खलु पुरुषस्य सजीवितं मरणम् ॥ २४॥ विरूपोऽप्यर्थवान् सुरूपः ॥ २५॥ अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ॥ २६॥ अकुलीनोऽपि धनवान् कुलीनाद्विशिष्टः ॥ २७॥ नास्त्यवमानभयमनार्यस्य ॥ २८॥ नोद्योगवतां वृत्तिभयम् ॥ २९॥ न जितेन्द्रियाणां विषयभयम् ॥ ३०॥ न कृतार्थानां मरणभयम् ॥ ३१॥ कस्यचिदर्थं स्वमिव मन्यते साधुः ॥ ३२॥ परविभवेष्वादरो न कर्तव्यः ॥ ३३॥ परविभवेष्वादरोऽपि नाशमूलम् ॥ ३४॥ पलालमपि परद्रव्यं न हर्तव्यम् ॥ ३५॥ परद्रव्यापहरणमात्मद्रव्यनाशहेतुः ॥ ३६॥ न चौर्यात् परं मृत्युपाशः ॥ ३७॥ यवागूरपि प्राणधारणं करोति काले ॥ ३८॥ न मृतस्यौषधं प्रयोजनम् ॥ ३९॥ समकाले प्रभुत्वस्यप्रयोजनं भवति ॥ ४०॥ नीचस्य विद्याः पापकर्मण्येव तं योजयन्ति ॥ ४१॥ पयःपानमपि विषवर्धनं भुजङ्गस्य न त्वमृतं स्यात् ॥ ४२॥ न धान्यसमो ह्यर्थः ॥ ४३॥ न क्षुधासमः शत्रुः ॥ ४४॥ अकृतेर्नियता क्षुत् ॥ ४५॥ नास्त्यभक्षं क्षुधितस्य ॥ ४६॥ इन्द्रियाणि प्रतिपदं नरान जरावशान् कुर्वन्ति ॥ ४७॥ सानुक्रोशं भर्तारमाजीवेत् ॥ ४८॥ लुब्धसेवी पावकेच्छया खद्योतं धमति ॥ ४९॥ विशेषज्ञं स्वामिनमाश्रयेत् ॥ ५०॥ पुरुषस्य मैथुनं जरा ॥ ५१॥ स्त्रीणाममैथुनं जरा ॥ ५२॥ न नीचोत्तमयोत्वैवाहः ॥ ५३॥ अगमयागमनादायुर्यशः पुण्यानि क्षीयन्ते ॥ ५४॥ नास्त्यहङ्कारसमः शत्रुः ॥ ५५॥ संसदि शत्रु न परिक्रोशेत ॥ ५६॥ शत्रुव्यसनं श्रवणसुखम् ॥ ५७॥ अधनस्य बुद्धिर्न विद्यते ॥ ५८॥ हितमप्यधनस्य वाक्यं न गृह्यते ॥ ५९॥ अधनः स्वभार्ययाऽप्यवमन्यते ॥ ६०॥ पुष्पहीनं सहकारमपि नोपासते भ्रमराः ॥ ६१॥ इति चतुर्थोऽध्यायः ॥
अथ पञ्चमोऽध्यायः ॥ विद्या धनमधनानाम् ॥ १॥ विद्या चोरैरपि न ग्राह्या ॥ २॥ विद्या सुलभा ख्यातिः ॥ ३॥ यशः शरीरं न विनश्यति ॥ ४॥ यः पराथमन्यमुपसर्पति स सत्पुरुषः ॥ ५॥ इन्द्रियाणां प्रशमं शास्त्रम् ॥ ६॥ अकार्यप्रवृत्तेः शास्त्राङ्कुशं निवारयति ॥ ७॥ नीचस्य विद्या नोपेतव्या ॥ ८॥ म्लेच्छभाषणं न शिक्षेत ॥ ९॥ म्लेच्छानामपि सुवृत्तं ग्राह्यम् ॥ १०॥ गुणे न मत्सरः कर्तव्यः ॥ ११॥ शत्रोरपि सुगुणो ग्राह्यः ॥ १२॥ विषादप्यमृतं ग्राह्यम् ॥ १३॥ अवस्थया पुरुषः संमान्यते ॥ १४॥ स्थान एव नराः पूज्यन्ते ॥ १५॥ आर्यवृतमनुतिष्ठेत् ॥ १६॥ कदापि मर्यादां नातिक्रामेत् ॥ १७॥ नास्त्यर्घः ओउरुषरत्नस्य ॥ १८॥ न स्त्रीरत्नसमं रत्नम् ॥ १९॥ सुदुर्लभं हि रत्नम् ॥ २०॥ अयशो भयं भयेषु ॥ २१॥ नास्त्यलसस्य शास्त्राधिगमः ॥ २२॥ न स्त्रैणस्य स्वर्गाप्तिर्धर्मकृत्यं च ॥ २३॥ स्त्रियोऽपि स्त्रैणमवमन्यन्ते ॥ २४॥ न पुष्पार्थी सिञ्चति शुष्कतरुम् ॥ २५॥ अद्रव्यप्रयत्नो वालिकाक्वाथनादनन्यः ॥ २६॥ न महाजनहासः कर्तव्यः ॥ २७॥ कार्यसम्पदं निमित्तानि सूचयन्ति ॥ २८॥ नक्षत्रादपि निमित्तानि विशेषयन्ति ॥ २९॥ न त्वरितस्य नक्षत्रपरीक्षा ॥ ३०॥ परिचये दोषा न छद्यन्ते ॥ ३१ । स्वयमशुद्धः परानाशङ्कते ॥ ३२॥ स्वभावो दुरतिक्रमः ॥ ३३॥ अपराधानुरूपो दण्डः ॥ ३४॥ प्रश्नानुरूपं प्रतिवचनम् ॥ ३५॥ विभवानुरूपमाभरणम् ॥ ३६॥ कुलानुरूपं वृतम् ॥ ३७॥ कार्यानुरूपः प्रयत्नः ॥ ३८॥ पात्रानुरूपं दानम् ॥ ३९॥ वयोऽनुरूपओ वेषः ॥ ४०॥ स्वाम्यनुकूलो भृत्यः ॥ ४१॥ भतृवशवर्तिनी भार्या ॥ ४२॥ गुरुवशानुवर्ती शिष्यः ॥ ४३॥ पितृवशानुवर्ती पुत्रः ॥ ४४॥ अत्युपचारः शङ्कितव्यः ॥ ४५॥ स्वामिनि कुपिते स्वामिनमेवानुवर्तेत ॥ ४६॥ मातृताडितो वत्सो मातरमेवानुरोदिति ॥ ४७॥ स्नेहवतः स्वल्पो हि रोषः ॥ ४८॥ बालिशः आत्मछिद्रं न पश्यति अपि तु परच्छिद्रमेव पश्यति ॥ ४९॥ सदोपचारः कितवः ॥ ५०॥ काम्यैर्विशेषैरूपचारमुपचारः ॥ ५१॥ चिरपरिचितानामत्युपचारः शङ्कितव्यः ॥ ५२॥ श्वसहस्रादेकाकिनी गौः श्रेयसी ॥ ५३॥ श्वो मयूरादद्य कपोतो वरः ॥ ५४॥ अतिसङ्गो दोषमुत्पादयति ॥ ५५॥ सर्वं जयत्यक्रोधः ॥ ५६॥ यद्यपकारिणी कोपः कर्तव्यः तर्हि स्वकोपे एवकोपः कर्तव्यः ॥ ५७॥ मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः ॥ ५८॥ नास्त्यपिशाचमैश्वर्यम् ॥ ५९॥ नास्ति धनवतां सुकर्मसु श्रमः ॥ ६०॥ नास्ति गतिश्रमो यानवताम् ॥ ६१॥ अलोहमयं निगडं कलत्रम् ॥ ६२॥ यो यस्मिन् कर्मणि कुशलः स तस्मिन् योक्तव्यः ॥ ६३॥ दुष्कलत्रं मनस्विनां शरीरकर्शनम् ॥ ६४॥ अप्रमत्तो दारान् निरीक्षेत ॥ ६५॥ स्त्रीषु किंचिदपि न विश्वसेत् ॥ ६६॥ न समाधिः स्त्रीषु लोकज्ञता च ॥ ६७॥ गुरूणां माता गरीयसी ॥ ६८॥ सर्वावस्थासु माता भर्तव्या ॥ ६९॥ वैरूप्यमलङ्कारेणाच्छाद्यते ॥ ७०॥ स्त्रीणां भूषणं लज्जा ॥ ७१॥ विप्राणां भूषणं वेदः ॥ ७२॥ सर्वेषां भूषणं धर्मः ॥ ७३॥ भूषणानां भूषणं सविनय विद्या ॥ ७४॥ इति पञ्चमोऽध्यायः ॥
अथ षष्ठोऽध्यायः ॥ अनुपद्रवं देशमावसेत् ॥ १॥ साधुजनबहुलो देशः आश्रयणीयः ॥ २॥ राज्ञो भेतव्यं सार्वकालम् ॥ ३॥ न राज्ञः परं दैवतम् ॥ ४॥ सुदूरमपि दहति राजवह्निः ॥ ५॥ रिक्तहस्तो न हाजानमभिगच्छेत् गुरुं दैवे च ॥ ६॥ कुटिम्बिनो भेतव्यम् ॥ ७॥ गन्तव्यं च सदा राजकुलम् ॥ ८॥ राजपुरुषैः सम्बन्धं कुर्यात् ॥ ९॥ हाजदाशी न सेवितव्या ॥ १०॥ न चक्षुषाऽपि राजानं निरीक्षेत ॥ ११॥ पुत्रे गुणवति कुटुम्बिनः स्वर्गः ॥ १२॥ पुत्रा विद्यानां पारं गमचितव्याः ॥ १३॥ जनपदार्थं ग्रामं त्यजेत् ॥ १४॥ ग्रामार्थं कुटुम्बस्त्यजते ॥ १५॥ अतिलाभः पुत्रलाभः ॥ १६॥ दुर्गतेरयः पितरौ रक्षति स पुत्रः ॥ १७॥ यः कुलं प्रख्यापयति स पुत्रः ॥ १८॥ नानपत्यस्य स्वर्गः ॥ १९॥ या प्रसूते सा भार्या ॥ २०॥ तीर्थसमवाये पुत्रवतीमनुगच्छेत् ॥ २१॥ न तीर्थाभिगमनाद्ब्रह्मचर्यं नश्यति ॥ २२॥ न परक्षेत्रे बीजं विनिक्षिपेत् ॥ २३॥ पुत्रार्था हि स्त्रियः ॥ २४॥ स्वदासीपरिग्रहो हि स्वस्यैव दासभावापादनम् ॥ २५॥ उपस्थितविनाशः पथ्यवाक्यं न शृणोति ॥ २६॥ नास्ति देहिनां सुखदुःखाभावः ॥ २७॥ मातरमिव वत्साः सुखदुःखानि कर्तारमेवानुगच्छन्ति ॥ २८॥ तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः ॥ २९॥ उपकारोऽनार्थष्वकर्तव्यः ॥ ३०॥ प्रत्युपकारभयादनार्यः शत्रुर्भवति ॥ ३१॥ स्वल्पोपकारकृतेऽपि प्रत्युपकारं कर्तुमार्यो जागर्ति ॥ ३२॥ न कदाऽपि देवता मन्तव्या ॥ ३३॥ न चक्षुषः समं ज्योतिरस्ति ॥ ३४॥ चक्षुर्हि शरीरिणां नेता ॥ ३५॥ अपचक्षुषः किं शरीरेण ॥ ३६॥ नाप्सु मूत्रं कुर्यात् ॥ ३७॥ न नग्नो जलं प्रविशेत् ॥ ३८॥ यथा शरीरं तथा ज्ञानम् ॥ ३९॥ यथा बुद्धिस्तथा विभवः ॥ ४०॥ अग्वावक्निं न निङिपेत् ॥ ४१॥ तपस्विनः पूजनीयाः ॥ ४२॥ परदारान् न गच्छेत् ॥ ४३॥ अन्नदानं भ्रूणहत्यामपि मार्ष्टि ॥ ४४॥ न वेदबाह्यो धर्मः ॥ ४५॥ कथंचिदपि धर्मं निषेवेत ॥ ४६॥ स्वर्गं नयति सूनृतम् ॥ ४७॥ नास्ति सत्यात् परं तपः ॥ ४८॥ सत्यं स्वर्गस्य साधनम् ॥ ४९॥ सत्येन धार्यते लोकः ॥ ५०॥ सत्याद्देवो वर्षति ॥ ५१॥ नानृतात् पातकं परम् ॥ ५२॥ न मीमांस्या गुरवः ॥ ५३॥ खलत्वं नोपेयात् ॥ ५४॥ नास्ति खलस्य मित्रम् ॥ ५५॥ लोकयात्रा दरिद्रं बाधते ॥ ५६॥ अतिशूरो दानशूरः ॥ ५७॥ गुरुदेवब्राह्मणेषु भक्तिर्भूषणम् ॥ ५८॥ सर्वस्य भूषणं विनयः ॥ ५९॥ अकुलीनोऽपि विनीतः कुलीनात्विशिष्टः ॥ ६०॥ आचारादायुर्वर्धते कीर्तिः श्रेयश्च ॥ ६१॥ प्रियमप्यहितं न वक्तव्यम् ॥ ६२॥ बहुजनविरुद्धमेकं नानुवर्तेत ॥ ६३॥ न कृतार्थस्य नीचेषु सम्बन्धः ॥ ६४॥ ऋणशत्रुव्याधयो निःशेषाः कर्तव्याः ॥ ६५॥ भूत्यनुवर्तनं पुरुषस्य रसायनम् ॥ ६६॥ नार्थिष्ववज्ञा नरकान्निवर्तनम् ॥ ६७॥ दुष्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः ॥ ६८॥ नाकृतज्ञस्य नरकान्निवर्तनम् ॥ ६९॥ जिह्वायत्तौ वृद्धिवनाशौ ॥ ७०॥ विषयामृतयोराकरी जिह्वा ॥ ७१॥ प्रियवादिनो न शत्रुः ॥ ७२॥ स्तुता अपि देवतास्तुष्यन्ति ॥ ७३॥ अनन्तमपि दुर्वचनं चिरं तिष्ठति ॥ ७४॥ राजद्विष्टं न वक्तव्यम् ॥ ७५॥ श्रुतिसुखात् कोकिलानापादपि तुष्यन्ति जनाः ॥ ७६॥ स्वधर्महेतुः सत्पुरुषः ॥ ७७॥ नास्त्यर्थिनो गौरवम् ॥ ७८॥ स्त्रीणां भूषणं सौभाग्यम् ॥ ७९॥ शत्रोरपि न पातनीय वृत्तिः ॥ ८०॥ अप्रयत्नोदकं क्षेत्रम् ॥ ८१॥ एरण्डमवलम्ब्य कुञ्जरं न कोपयेत् ॥ ८२॥ अतिप्रवृद्धापि शाल्मली वारणस्तम्भो न भवति ॥ ८३॥ अतिदीर्घोऽपि कर्णिकारो न मुसली भवति ॥ ८४॥ अतिदीप्तोऽपि खद्योतो न पावकः ॥ ८५॥ न प्रवृद्धत्वं गुणहेतुः ॥ ८६॥ सुजीर्णोऽपि पुचुमल्दो न शङ्कुलायते ॥ ८७॥ यथा बीजं तथा निष्पत्तिः ॥ ८८॥ यथा श्रुतं तथा बुद्धिः ॥ ८९॥ यथा कुलं तथाऽऽचारम् ॥ ९०॥ संस्कृतः पिचुमन्दो न सहकारो भवति ॥ ९१॥ न चागतं सुखं त्यजेत् ॥ ९२॥ स्वयमेव दुःखमधिगच्छति ॥ ९३॥ रात्रिचारणं न कुर्यात् ॥ ९४॥ न चार्धरात्रं स्वपेत् ॥ ९५॥ तद्विद्विद्भिः परीक्षेत ॥ ९६॥ परगृहमकारणतो न प्रविशेत् ॥ ९७॥ ज्ञात्वाऽपि दोषमेव करोति लोकः ॥ ९८॥ शास्त्रप्रधाना लोकवृत्तिः ॥ ९९॥ शास्त्राभावे शिष्टाचारमनुगच्छेत् ॥ १००॥ नाचरिताच्छस्त्रं गरीयः ॥ १०१॥ दूरस्थमपि चाचक्षुः पश्यति राजा ॥ १०२॥ गतानुगतिको लोकः ॥ १०३॥ यमनुजीवेत् तं नापवदेत् ॥ १०४॥ इति षष्ठोऽध्यायः ॥
अथ सप्तमोऽध्यायः ॥ तपस्सार इन्द्रियनिग्रहः ॥ १॥ दुर्लभः स्त्रीबन्धनान्मोक्षः ॥ २॥ स्त्रीनाम सर्वाशुभानां क्षेत्रम् ॥ ३॥ न च स्त्रीणां पुरुषपरीक्षा ॥ ४॥ स्त्रीणां मनः क्षणिकम् ॥ ५॥ अशुभद्वेषिणः स्त्रीषु न प्रसक्ता भवेयुः ॥ ६॥ यज्ञफलज्ञास्त्रिवेदविदः ॥ ७॥ स्वर्गस्थानं न शाश्वतं अपि तु यानत्पुण्यफलम् ॥ ८॥ न च स्वर्गपतनात् परं दुःखम् ॥ ९॥ देही देहं त्यक्त्वा ऐन्द्रपदं न वाञ्छति ॥१०॥ दुःखानामौषधं निर्वाणम् ॥ ११॥ अनार्यसम्बन्धाद्वरमार्यशत्रुता ॥ १२॥ निहन्ति दुर्वचनं कुलम् ॥ १३॥ न पुत्रसंस्पर्शात् परं सुखम् ॥ १४॥ विवादे धर्ममनुस्मरेत् ॥ १५॥ निशान्ते कार्यं चिन्तयेत् ॥ १६॥ प्रदोषे न संयोगः कर्तव्यः ॥ १७॥ उपस्थितविनाशः दुर्नयं शुभं मन्यते ॥ १८॥ क्षीरार्थिनः किं करिण्या ॥ १९॥ न दानसमं वश्यम् ॥ २०॥ परायत्तेषूत्कण्ठां न कुर्यात् ॥ २१॥ अत्समृद्धिरसद्भरेव भुज्यते ॥ २२॥ निम्बफलं काकैर्हि भुज्यते ॥ २३॥ नाम्भोधिस्तृष्णामपोहति ॥ २४॥ वालिका अपि स्वगुणमाश्रयन्ते ॥ २५॥ सन्तोऽसत्सु न रमन्ते ॥ २६॥ हंसः प्रतवने न रमते ॥ २७॥ अर्थार्थं प्रवर्तते लोकः ॥ २८॥ आशया बध्यते लोकः ॥ २९॥ न च आशापरैः श्री सह तिष्ठति ॥ ३०॥ आशापरे न धैर्यम् ॥ ३१॥ दैन्यान्मरणमुत्तमम् ॥ ३२॥ आशालज्जां व्यपोहति ॥ ३३॥ न मात्रा सह वाशः कर्तव्यः ॥ ३४॥ आत्मा न स्तोतव्यः ॥ ३५॥ न दिवा स्वप्नं कुर्यात् ॥ ३६॥ न चासन्नपि पश्यत्यैश्वर्यान्धः नापि श्रुणोतीष्टं वाक्यम् ॥ ३७॥ स्त्रीणां न भरितुः परं दैवतम् तदनुवर्तनं तासामुभयसौख्यम् ॥ ३८॥ अतिथिअभ्यागतं च पूजयेद्यथाविधि ॥ ३९॥ नास्ति हव्यस्य व्याघातः ॥ ४०॥ शत्रुर्मित्रवत् प्रतिभाति ॥ ४१॥ मृगतृष्णा जलवद्भाति हि ॥ ४२॥ इति सप्तमोऽध्यायः ॥ अथाष्टमोऽध्यायः ॥ धुरमेधसोऽसच्छास्त्रं मोहयति ॥ १॥ सत्सङ्गः स्वर्गवासः ॥ २॥ आर्याः स्वमिव परं मन्वते ॥ ३॥ रूपानुवर्ती गुणः ॥ ४॥ यत्र सुखेन वर्तते तदेव स्थानम् ॥ ५॥ विश्वासघातिनो न निष्कृतिः ॥ ६॥ दैवायत्तं न शोचेत् ॥ ७॥ आश्रितदुःखमात्मन इव मन्यते साधुः ॥ ८॥ हृद्गतमाच्छाद्यान्यद्वदत्यनार्यः ॥ ९॥ बुद्धिहीनः पिशाचतुल्यः ॥ १०॥ असहायः पथि न गच्छेत् ॥ ११॥ पुत्रो न स्तोतव्यः ॥ १२॥ स्वामी स्तोतव्योऽनुजीविभिः ॥ १३॥ धर्मकृत्यानि सर्वाणि स्वामिन इत्येव घोषयेत् ॥ १४॥ राजाज्ञां नातिलङ्घयेत् ॥ १५॥ यथाऽऽज्ञप्तं तथा कुर्यात् ॥ १६॥ नास्ति बुद्धिमतां शत्रुः ॥ १७॥ आत्मछिद्रं न प्रकाशयेत् ॥ १८॥ क्षमावानेव सर्वं साधयति ॥ १९॥ आपदर्थं धनं रक्षेत् ॥ २०॥ साहसवतां प्रायं कर्तव्यम् ॥ २१॥ श्वः कार्यमद्य कुर्वीत ॥ २२॥ आपराह्णिकं पूर्वाह्ण एव कर्तव्यम् ॥ २३॥ व्यवहारानुलोमो धर्मः ॥ २४॥ सर्वज्ञता लोकज्ञता ॥ २५॥ शास्त्रज्ञोऽप्यलोकज्ञो मूर्खतुल्यः ॥ २६॥ शात्रप्रयोजनं तत्त्वदर्शनम् ॥ २७॥ तत्त्वज्ञानं कार्यमेव प्रकाशयति ॥ २८॥ व्यवहारे पक्षपातो न कर्तव्यः ॥ २९॥ धर्मादपि व्यवहारो गरीयान् ॥ ३०॥ आत्मा हि व्यवहारस्य साक्षी ॥ ३१॥ सर्वसाक्षी ह्यात्मा ॥ ३२॥ न स्यात् कूटसाक्षी ॥ ३३॥ कूटसाक्षिणो नरके पतन्ति ॥ ३४॥ प्रच्छन्नपापानां साक्षिणो महाभूतानि ॥ ३५॥ आत्मनः पापमात्मैव प्रकाशयति ॥ ३६॥ व्यवहारोऽन्तर्गतमाकारः सूचयति ॥ ३७॥ आकारसंवरणं देवानामप्यशक्यम् ॥ ३८॥ चोरराजपुरुषेभ्यो वित्तं रक्षेत् ॥ ३९॥ दुर्दर्शना हि राजानः प्रजा रक्षन्ति ॥ ४०॥ सुदर्शना राजानः प्रजा रक्षन्ति ॥ ४१॥ न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः ॥ ४२॥ तादृशः स राजा इह सुखं ततः स्वर्गण् चाप्नोति ॥ ४३॥ अहिंसालक्षणो धर्मः ॥ ४४॥ स्वशरीरमपि परशरीरं मन्यते साधुः ॥ ४५॥ मांसभक्षणमप्युक्तं सर्वेषाम् ॥ ४६॥ न संसारभयं ज्ञानवताम् ॥ ४७॥ विज्ञानदीपेन संसारभयं निवर्तयति ॥ ४८॥ सर्वमवित्यं भवति ॥ ४९॥ कृमिशन्कृन्मूत्रभाचनं शरीरं पुण्यतयपापजन्महेतुः ॥ ५०॥ जन्ममरणादिषु तु दुःखमेव ॥ ५१॥ तपसा स्वर्गमाप्नोति ॥ ५२॥ क्षमायुक्तस्य तपो विवर्धते ॥ ५३॥ तस्मात् सर्वेषां सर्वकार्यसिद्धिर्भवति ॥ ५४॥ इत्यष्टमोऽध्यायः ॥ इति कौटिलीयानि नीतिसूत्राणि सम्पूर्णम् ॥