अक्षर आकार:

ब्रह्मविदाशीर्वादः

Brahmavid-Ashirvada

ब्रह्मविदाशीर्वादः

॥श्रीः॥ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीविद्यारण्यस्वामीविरचितः श्रीब्रह्मविदाशीर्वादः । हिरण्यगर्भादिस्थावरान्तेषु शरीरेषु यदेकं चैतन्यमस्ति, तदेवाहमस्मीति दृढज्ञानं निरन्तरं भूयात् ॥१ ॥ निर्विकल्पसमाधिप्रतिबन्धकलयविक्षेपकषायरसास्वादेभ्यो रक्षितं मे चित्तमविघ्नेन ब्रह्मणि अवस्थितं भूयात् ॥ २ ॥ नित्यनिर्विकारासङ्गाद्वितीयपरिपूर्णसच्चिदानन्दस्वप्रकाश- चिदेकरसब्रह्मानुभवसिद्धिर्भूयात् ॥ ३ ॥ अहमादिदृश्यविलक्षणास्मत्प्रत्ययालम्बनभृतप्रत्यक्- चिन्मात्रस्वरूपानुभवसिद्धिर्भूयात् ॥ ४ ॥ सजातीयविजातीयस्वगतभेदरहिताखण्डसच्चिदानन्दाद्वितीय- ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ५ ॥ नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीय- ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ६ ॥ स्वगतादिभेदरहिताखण्डसच्चिदानन्दलक्षणब्रह्माभिन्न- कूटस्थप्रत्यक्स्वरूपः सर्वसाक्षीति चिद्रूपानुभवसिद्धिर्भूयात् ॥७ ॥ स्वात्मनोऽन्यत्वेन प्रतिभातं सकलं साक्ष्यं जगत् स्वाविद्याविलसितत्वेन स्वानन्यत्वात् स्वात्ममात्रमिति, अद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ८ ॥ असंभावनाविपरीतभावनारहितत्वेन करतलामलकवत् अहं ब्रह्मास्मीति अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ ९ ॥ यो ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां प्राणिनां देहमध्ये, तत्तद्देहसाक्षित्वेन भासमानः, परिपूर्णात्माऽस्ति, सोऽयं परमात्मा, केवलं मुमुक्षोः पुरुषस्य मे स्वरूपमित्येवंरूपात्मसाक्षात्कारो दृढीभूयात् ॥ १० ॥ वासनाक्षय - मनोनाश - तत्त्वज्ञानाभ्यासवशात्, ज्ञानरक्षा, तपःसिद्धिः, सर्वसमत्वं, दुःखनिवृत्तिः, सुखाविर्भावः इत्येतत्पञ्चप्रयोजनसिद्धिर्भूयात् ॥ ११ ॥ मैत्री - करुणा - मुदितोपेक्षारूपसद्वासनापाटवेन रागादि- दुर्वासनाक्षयः सम्यग्भूयात् ॥ १२ ॥ निरन्तरस्वात्मानुसन्धानवशात् मनसो वृत्तिरूपपरिणामत्यागेन, निरुद्धताकारेण आत्मपरिणामो दृढीभूयात् ॥ १३ ॥ शमादिपूर्वकश्रवणमनननिदिध्यासनाभ्यासबलात्, विषयासक्तिः, प्रज्ञामान्द्यं, विपर्ययः, दुराग्रहश्चेति वर्तमानप्रतिबन्धचतुष्टयनिवृत्तिद्वारा, अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ १४ ॥ उपक्रमादिषड्विधलिङ्गैः, अशेषवेदान्तानाम् अद्वैते ब्रह्मणि तात्पर्यावधारणं दृढीभूयात् ॥ १५ ॥ श्रीगुरुमुखात् श्रुताद्वितीयवस्तुनः, वेदान्तानुगुणयुक्तिभिः अनवरतमनुचिन्तनं भूयात् ॥ १६ ॥ विजातीयदेहादिप्रत्ययानन्तरित - सजातीयसच्चिदानन्दात्म- प्रत्ययप्रवाहो निरन्तरं भूयात् ॥ १७ ॥ असङ्गोऽहं, चिदात्माहमिति प्रत्यगात्मनि निवेशिते, वृत्तिरहिते, संस्कारशेषमात्रतया सूक्ष्मरूपेणावस्थिते चित्ते, आत्मनः स्वरूपभूतपरमानन्दो निरन्तरं सम्यगाविर्भूयात् ॥ १८ ॥ अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः; नाज्ञानं; नापि तत्कार्यं ; किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभेदेनावस्थानं समाधिः ; तत्र च अन्तस्समाधिना दृग्दृश्यविवेके, बहिस्समाधिना ब्रह्मसर्गविवेके च दृढे जाते, तेन विवेकद्वयेनायं गलितदेहाभिमानः, विज्ञातपरमात्मतत्त्वश्च भूयात् ॥ १९ ॥ देहाद्बहिः सकलनामरूपात्मकेषु वस्तुष्वपि, सर्पधारादिषु रज्जुरिव व्याप्तः, सच्चिदानन्दलक्षणो यः परमात्मा, स एव परशब्देनोच्यते । अन्तः अहमादिदृश्यविलक्षणः, अस्मत्प्रत्ययालम्बनभूतः, प्रत्यक्चिन्मात्रस्वरूपः, यः साक्ष्याख्यो जीवात्मा, स एव अवरशब्देनोच्यते । परश्चासौ अवरश्चेति परावरः, प्रत्यगभिन्नः परमात्मा । तस्मिन् एवम् अन्तर्बहिश्च पररूपेण अवररूपेण च अवस्थिते, परमार्थतः परावरविभागरहिते प्रत्यगभिन्ने परावरे ब्रह्मणि ' त्वं वा अहमस्मि भगवो देवते ; अहं वै त्वमसि ' इति श्रुत्यनुसारेण ' अहं ब्रह्मास्मि, ब्रह्मैवाहमस्मि ' इति व्यतिहारेण, अखण्डैकरसत्वेन साक्षात्कृते सति, तेन परावरब्रह्मसाक्षात्कारेण, अस्य परावरब्रह्म साक्षात्कृतवतो मम हृदयग्रन्थिभेद - सर्व - संशयनिवृत्ति - सर्वकर्मक्षयरूपपरमपुरुषार्थः सम्यगाविर्भूयात् ॥ २० ॥ अहङ्कारात्मनोः एकत्वभ्रमनिवृत्तिरूपोऽयं ग्रन्थिभेदः दृढीभूयात् ॥ २१ ॥ आत्मा देहादिव्यतिरिक्तो वा न वा, व्यतिरिक्तत्वेऽपि, कर्तृत्वादिधर्मयोगी वा न वा, अकर्तृत्वेऽपि, तस्य ब्रह्मणा भेदोऽस्ति वा न वा, अभेदेपि, तज्ज्ञानं कर्मादिसहितं व मुक्तिसाधनं केवलं वा, तथापि, आत्मा साक्षी वा कर्ता वा, साक्षित्वेपि अस्य ब्रह्मस्त्वमस्ति वा न वा, ब्रह्मत्वे सत्यपि, तद्बुध्या वेदितुं शक्यते वा न वा, शक्यत्वेऽपि, तद्वेदनमात्रेण मुक्तिरस्ति वा न वा, साक्षात्कृतेऽपि, इतः परं कर्तव्यमस्ति वा न वा, कर्तव्याभावेऽपि, इदानीं मम जीवन्मुक्तिरस्ति वा न वा, जीवन्मुक्त्वेऽपि, वर्तमानदेहपातान्तरं विदेहमुक्तिः भविष्यति वा न Vवा, तत्प्राप्तावापि, कालान्तरे पुनर्जन्म भविष्यति वा न वा, इत्यादि सर्वसंशयनिर्वृत्तिर्भूयात् ॥ २२ ॥ अनारब्धानां आगामिजन्महेतूनां अनेककोटिजन्मार्जितानां प्रारब्धव्यतिरिक्तानां सञ्चितकर्मणां निवृत्तिरूपः परमपुरुषार्थः सम्यगाविर्भूयात् ॥ २३ ॥ यः पूर्णानन्दैकबोधः तद्ब्रह्माहमस्मीति ब्रह्मात्मानुभव- मात्रपर्यवसाने बुद्धिर्निरन्तरं भूयात् ॥ २४ ॥ यस्मिन् काले द्वैतभानं नास्ति, निद्राऽपि नागच्छति, तस्मिन् काले उपलभ्यमानं यत्सुखमस्ति स ब्रह्मानन्द इति ब्रह्मात्मानुभवसिद्धिः निरन्तरं भूयात् ॥ २५ ॥ मनोव्यापाराभावसमये यत्सुखं भासते, तत् सुखमात्मस्वरूपमिति आत्मनिश्चयः सम्यग्भूयात् ॥ २६ ॥ स्वप्नः स्वातिरेकेण यथा नास्ति, तथैव स्वजाग्रदपि स्वातिरेकेण नास्ति ; तेन अद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ २७ ॥ वासनाक्षयमनोनाशाभ्यां निर्वासने वृत्तिशून्ये चित्ते, संशयविपर्ययदोषद्वयाभावेन उत्पन्नं ब्रह्मज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ २८ ॥ पञ्चम्यादिभूमित्रयरूपायां जीवन्मुक्तौ सम्पाद्यमानायां द्वैतभानाभावेन संशयविपर्ययप्रसङ्गाभावात् उत्पन्नं तत्त्वज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ २९ ॥ स्वप्ने स्थूलशरीराभावेऽपि, सुषुप्तौ सूक्ष्मशरीराभावेऽपि, समाधौ कारणशरीराभावेऽपि, जाग्रदाद्यवस्थाचतुष्टयेऽपि यः चिद्रूपात्मा मणिषु सूत्रमिव अनुस्यूततया निरन्तरं भासते, स चिद्रूपात्मैव अहमस्मीति अन्वयव्यतिरेकाभ्यां शरीरत्रयव्यावृत्तिं तत्साक्षिचैतन्यस्यानुवृत्तिं च पश्यतो मम शरीरत्रयव्यतिरिक्तात्मानुभवः सम्यग्भूयात् ॥ ३० ॥ भगवन्तं परमेश्वरं प्रीतिपूर्वकं भजतो ममोपरि अनुग्रहार्थं भगवान् वासुदेवः आत्मभावस्थः सन् , विवेकप्रत्ययरूपेण, भक्तिप्रसादस्नेहयुक्तेन, तद्भावनाभिनिवेशवातेरितेन, ब्रह्मचर्यादिसाधन- संस्कारवत्प्रज्ञावर्तिना, विरक्तान्तःकरणाधारेण, विषयव्यावृत्तरागद्वेषकलुषितचित्तनिवातापवरकस्थेन, नित्यप्रवृत्तैकाग्रयध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन अज्ञानजं अविवेकतो जातं मिथ्याप्रत्ययरूपं मोहान्धकारं तमो नाशयत्वित्याशीः निरन्तरं भूयात् ॥ ३१ ॥ परमेश्वरं प्रीतिपूर्वकं भजन्तो भक्ता येनानन्यबुद्धियोगेन सम्यग्दर्शनलक्षणेन भगवन्तं परमेश्वरं आत्मत्वेन उपयान्ति प्रतिपद्यन्ते, तं बुद्धियोगं भगवान् वासुदेवः मे ददातु इति आशीर्निरन्तरं भूयात् ॥ ३२ ॥ विकारमन्तरेण स्वाध्यस्तं सर्वं साक्षादव्यवधानेन स्वरूपबोधेन ईक्षते पश्यतीति साक्ष्यनुभवसिद्धिः सम्यग्भूयात् ॥ ३३ ॥ देहेन्द्रियादिसकलजडावभासकत्वेन आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ३४ ॥ आत्मनि कदाचिदपि अप्रियाभावेन,परमप्रेमास्पदत्वेन च, आत्मा परमानन्दरूप इति, आनन्दानुभवसिद्धिः सम्यग्भूयात् ॥ ३५ ॥ अभारूपस्य विश्वस्य भानं, भासकसन्निधिं विना कदाचिदपि न संभवतीति, भारूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ३६ ॥ असज्जडदुःखात्मकाहङ्कारादिभ्यो विलक्षणतया, प्रातिकूल्येन सत्यज्ञानानन्दरूपेण अञ्चति, प्रकाशत इति, प्रत्यगात्मानुभव- सिद्धिः सम्यग्भूयात् ॥ ३७ ॥ पश्चाद्भासमानस्य जडस्य, प्रथमतो भासमानं चैतन्यमेव वास्तवं स्वरूपमिति निश्चित्य, जडमुपेक्ष्य, चिन्मात्रमेव चित्तं निरन्तरं सम्यग्भूयात् ॥ ३८ ॥ ' सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ' इति वाक्येन देहेन्द्रियादिसाक्षिरूपं यत् प्रज्ञानं त्वंपदार्थरूपं निर्णीतं, तदेव ' एष ब्रह्म ' इत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म, न चानयोरीषदपि भेदोऽस्ति इति, ऐतरेयमहावाक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ ३९ ॥ यतः, सर्वत्रावस्थितं प्रज्ञानं ब्रह्म, अतो मयि अवस्थितं प्रज्ञानं ब्रह्म, प्रज्ञानत्वाविशेषात् इति ऐतरेयमहावाक्योत्थितजीवब्रह्मैक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ ४० ॥ आत्मसन्निधौ विद्यमानत्वेन, जडरूपस्यापि देहेन्द्रियादेः चेतनत्वेन भासमानत्वात्, आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥४१॥ आत्मसहितत्वेन, दुःखात्मकस्य देहादेरपि प्रियतमत्वात्, आत्मा परमानन्दरूप इति, आनन्दात्मनुभवसिद्धिः सम्यग्भूयात् ॥ ४२ ॥ देशतः, कालतः, वस्तुतः, परिच्छेदरहिताद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४३ ॥ पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्ति- विशेषस्य हेतोः चित्तसंस्कारस्य, विवेकजन्यायां क्षान्त्यादिवासनायां दृढायां सत्यां विनाशात्, बाह्यनिमित्ताभावेन क्रोधाद्यनुत्पत्तिः सम्यग्भूयात् ॥ ४४ ॥ ᳚ यस्य प्रसादादहमेव विष्णुः, मय्येव सकलं परिकल्पितं च ᳚ इति, आत्मस्वरूपं विजानामि, तस्य पादारविन्दयोः अचञ्चला भक्तिः निरन्तरं सम्यग्भूयात् ॥ ४५ ॥ अचिद्रूपस्य जगतः चित्सन्निधेर्विद्यमानत्वात्, चिद्रूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४६ ॥ सर्वार्थसाधकत्वहेतुना, सर्वसंबन्धेन च आत्मा परिपूर्ण इति परिपूर्णात्मानुभवः सम्यग्भूयात् ॥ ४७ ॥ देशकालाव्यवहितत्वेन परोक्षहेतोरभावात्, साधनान्तरनिरपेक्षतया स्वयंप्रकाशमानः चिदात्मा सर्वदा स्वतस्सिद्धापरोक्ष इति अपरोक्षानुभवसिद्धिः सम्यग्भूयात् ॥ ४८ ॥ यत्र यद्वस्तु अस्तीति ईक्षते, तेन वस्तुना अन्यत्र अनन्वागतत्वेन आत्मा असङ्ग इति, असङ्गात्मानुभवः सम्यग्भूयात् ॥ ४९ ॥ निरवयत्वेन असङ्गत्वेन च, आत्मनः केनापि संबन्धाभावात्, आत्मा नित्यमुक्त इति, नित्यमुक्तस्वरूपानुभवः सम्यग्भूयात् ॥ ५० ॥ अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५१ ॥ साधनान्तरनिरपेक्षतया स्वयमेव भासमानत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५२ ॥ इदं सर्वं आत्मनि प्रतीयमानं यत् रूपरसादिकं जगत् मायामयं, न त्वेतत् वस्तुतोऽस्तीति तत्त्वनिश्चयो दृढीभूयात् ॥ ५३ ॥ इति श्रीमत्परमहंसपरिव्राजक श्रीविद्यारण्यस्वामिरचितः ब्रह्मविदाशीर्वादः सम्पूर्णः ॥