अक्षर आकार:

ब्रह्मसूत्राधिकरणानि

Brahma-Sutra - adhikarana

ब्रह्मसूत्राधिकरणानि

ब्रह्मसूत्राधिकरणानां अनुक्रमणिका अथवा ब्रह्मसूत्राधिकरणसूचिः The text is based on Shankarabhashya ॥ ब्रह्म सूत्राणि ॥ अध्यायाः ४ १ समन्वय २ अविरोध ३ साधन ४ फल पादाः १६ ४ ४ ४ ४ अधिकरणानि १९१ ३९ ४७ ६७ ३८ सूत्राणि ५५५ १३४ १५७ १८६ ७८ १ समन्वय अध्यायः । अधिकरण ३९ सूत्राणि १३४ पाद १ १-११ १-३१ पाद २ १२-१८ ३२-६३ पाद ३ १९-३१ ६४-१०६ पाद ४ ३२-३९ १०७-१३४ २ अविरोध अध्यायः । अधिकरण ४७ सूत्राणि १५७ पाद १ ४०-५२ १३५-१७१ पाद २ ५३-६० १७२-२१६ पाद ३ ६१-७७ २१७-२६९ पाद ४ ७८-८६ २७०-२९१ ३ साधन अध्ययः । अधिकरण ६७ सूत्राणि १८६ पाद १ ८७-९२ २९२-३१८ पाद २ ९३-१०० ३१९-३५९ पाद ३ १०१-१३६ ३६०-४२५ पाद ४ १३७-१५३ ४२६-४७७ ४ फल अध्यायः । अधिकरण ३८ सूत्राणि ७८ पाद १ १५४-१६७ ४७८-४९६ पाद २ १६८- १७८ ४९७-५१७ पाद ३ १७९-१८४ ५१८-५३३ पाद ४ १८५-१९१ ५३४-५५५ १ समन्वय अध्यायः । अधिकरण ३९ सूत्राणि १३४ पाद १ १-११ १-३१ पाद २ १२-१८ ३२-६३ पाद ३ १९-३१ ६४-१०६ पाद ४ ३२-३९ १०७-१३४ अध्यायः १ पाद १ अधिकरण १-११ सूत्राणि १-३१ ००१ जिज्ञासाधिकरणम् ॥ ००२ जन्माद्यधिकरणम् ॥ ००३ शास्त्रयोनित्वाधिकरणम् ॥ ००४ समन्वयाधिकरणम् ॥ ००५ ईक्षत्याद्यधिकरणम् ॥ ००६ आनन्दमयाधिकरणम् ॥ ००७ अन्तराधिकरणम् ॥ ००८ आकाशाधिकरणम् ॥ ००९ प्राणाधिकरणम् ॥ ०१० ज्योतिश्चरणाधिकरणम् ॥ ०११ प्रतर्दनाधिकरणम् ॥ पाद २ अधिकरण १२-१८ सूत्र ३२-६३ ०१२ सर्वत्र प्रसिद्ध्यधिकरणम् ॥ ०१३ अत्ताधिकरणम् ॥ ०१४ गुहाप्रविष्टाधिकरणम् ॥ ०१५ अन्तराधिकरणम् ॥ ०१६ अन्तर्याम्यधिकरणम् ॥ ०१७ अदृश्यत्वाधिकरणम् ॥ ०१८ वैश्वानराधिकरणम् ॥ पाद ३ अधिकरण १९-३१ सूत्र ६४-१०६ ०१९ द्युभ्वद्यधिकरणम् : ०२० भूमाधिकरणम् ॥ ०२१ अक्षराधिकरणम् ॥ ०२२ ईक्षतिकर्मव्यपदेशाधिकरणम् ॥ ०२३ दहराधिकरणम् ॥ ०२४ अनुकृत्याधिकरणम् ॥ ०२५ प्रमिताधिकरणम् ॥ ०२६ देवताधिकरणम् ॥ ०२७ अपशूद्राधिकरणम् ॥ ०२८ कम्पनाधिकरणम् ॥ ०२९ ज्योतिराधिकरणम् ॥ ०३० अर्थान्तरत्वदिव्यापदेशाधिकरणम् ॥ ०३१ सुषुप्त्युत्क्रान्त्यधिकरणम् ॥ पाद ४ अधिकरण ३२-३९ सूत्र १०७-१३४ ०३२ अनुमानिकाधिकरणम् ॥ ०३३ चमसाधिकरणम् ॥ ०३४ सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ ०३५ करणत्वाधिकरणम् ॥ ०३६ बालक्यधिकरणम् ॥ ०३७ वाक्यान्वयाधिकरणम् ॥ ०३८ प्रकृत्यधिकरणम् ॥ ०३९ सर्वव्याख्यानाधिकरणम् ॥ २ अविरोध अध्यायः । अधिकरण ४७ सूत्राणि १५७ पाद १ ४०-५२ १३५-१७१ पाद २ ५३-६० १७२-२१६ पाद ३ ६१-७७ २१७-२६९ पाद ४ ७८-८६ २७०-२९१ अविरोध अध्याय २ पाद १ अधिकरण ४०-५२ सूत्र १३५-१७१ ०४० स्मृत्यधिकरणम् ॥ ०४१ योगप्रत्युक्त्यधिकरणम् ॥ ०४२ न विलक्षणत्वाधिकरणम् ॥ ०४३ शिष्टपरिग्रहाधिकरणम् ॥ ०४४ भोक्त्रपत्त्यधिकरणम् ॥ ०४५ आरम्भनाधिकरणम् ॥ ०४६ इतरव्यपदेशाधिकरणम् ॥ ०४७ उपसंहारदर्शनाधिकरणम् ॥ ०४८ कृत्स्नप्रसक्त्यधिकरणम् ॥ ०४९ सर्वोपेताधिकरणम् ॥ ०५० प्रयोजनत्वाधिकरणम् ॥ ०५१ वैषम्यनैर्घृण्याधिकरणम् ॥ ०५२ सर्वधर्मोपपत्त्यधिकरणम् ॥ पाद २ अधिकरण ५३-६० सूत्र १७२-२१६ ०५३ रचनानुपपत्त्यधिकरणम् ॥ ०५४ महद्दीर्घाधिकरणम् ॥ ०५५ परमाणुजगदकरणत्वाधिकरणम् ॥ ०५६ समुदयाधिकरणम् ॥ ०५७ नाभावाधिकरणम् ॥ ०५८ एकस्मिन्नसम्भवाधिकरणम् ॥ ०५९ पत्यधिकरणम् ॥ ०६० उत्पत्त्यसम्भवाधिकरणम् ॥ पाद ३ अधिकरण ६१-७७ सूत्र २१७-२६९ ०६१ वियदधिकरणम् ॥ ०६२ मातरिश्वाधिकरणम् ॥ ०६३ असम्भवाधिकरणम् ॥ ०६४ तेजोऽधिकरणम् ॥ ०६५ आबधिकरणम् ॥ ०६६ पृथिव्यधिकरणम् ॥ ०६७ तदभिध्यानाधिकरणम् ॥ ०६८ विपर्ययाधिकरणम् ॥ ०६९ अन्तरविज्ञानाधिकरणम् ॥ ०७० चराचरव्यपाश्रयाधिकरणम् ॥ ०७१ आत्माधिकरणम् ॥ ०७२ ज्ञाधिकरणम् ॥ ) ०७३ उत्क्रान्तिगत्यधिकरणम् ॥ ०७४ कर्तृ-अधिकरणम् ॥ ०७५ तक्षाधिकरणम् ॥ ०७६ परयत्ताधिकरणम् ॥ ०७७ अंशाधिकरणम् ॥ पाद ४ अधिकरण ७८-८६ सूत्र २७०-२९१ ०७८ प्राणोत्पत्त्यधिकरणम् ॥ ०७९ सप्तगत्यधिकरणम् ॥ ०८० प्राणाणुत्वाधिकरणम् ॥ ०८१ प्राणश्रैष्ठ्याधिकरणम् ॥ ०८२ वायुक्रियाधिकरणम् ॥ ०८३ श्रेष्ठाणुत्वाधिकरणम् ॥ ०८४ ज्योतिराद्याधिकरणम् ॥ ०८५ इन्द्रियाधिकरणम् ॥ ०८६ संज्ञामूर्तिक्लृप्त्यधिकरणम् ॥ ३ साधन अध्ययः । अधिकरण ६७ सूत्राणि १८६ पाद १ ८७-९२ २९२-३१८ पाद २ ९३-१०० ३१९-३५९ पाद ३ १०१-१३६ ३६०-४२६ पाद ४ १३७-१५३ ४२७-४७७ साधन अध्याय ३ पाद १ अधिकरण ८७-९२ सूत्र २९२-३१८ ०८७ तदन्तरप्रतिपत्त्यधिकरणम् ॥ ०८८ कृतत्ययाधिकरणम् ॥ ०८९ अनिष्टादिकार्याधिकरणम् ॥ ०९० सभाव्यपत्त्यधिकरणम् ॥ ०९१ नातिचिराधिकरणम् ॥ ०९२ अन्यधिष्ठिताधिकरणम् ॥ पाद २ अधिकरण ९३-१०० सूत्र ३१९-३५९ ०९३ सन्ध्यधिकरणम् ॥ ०९४ तदभावाधिकरणम् ॥ ०९५ कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥ ०९६ मुग्धेऽर्धसम्पत्त्यधिकरणम् ॥ ०९७ उभयलिङ्गाधिकरणम् ॥ ०९८ प्रकृतैतवत्त्वाधिकरणम् ॥ ०९९ पराधिकरणम् ॥ १०० फलाधिकरणम् ॥ पाद ३ अधिकरण १०१-१३६ सूत्र ३६०-४२५ १०१ सर्ववेदान्तप्रत्ययाधिकरणम् ॥ १०२ उपसंहाराधिकरणम् ॥ १०३ अन्यथत्वाधिकरणम् ॥ १०४ व्यप्त्यधिकरणम् ॥ १०५ सर्वभेदाधिकरणम् ॥ १०६ आनन्दाद्यधिकरणम् ॥ १०७ अध्यानायाधिकरणम् ॥ १०८ आत्मगृहीत्यधिकरणम् ॥ १०९ कार्याख्यानाधिकरणम् ॥ ११० समानाधिकरणम् ॥ १११ सम्बन्धाधिकरणम् ॥ ११२ सम्भृत्याधिकरणम् ॥ ११३ पुरुषविद्याधिकरणम् ॥ ११४ वेधाद्यधिकरणम् ॥ ११५ हन्याधिकरणम् ॥ ११६ सम्परायाधिकरणम् ॥ ११७ गतेरर्थवत्त्वाधिकरणम् ॥ ११८ अनियमाधिकरणम् ॥ ११९ यावदधिकाराधिकरणम् ॥ १२० अक्षरधियाधिकरणम् ॥ १२१ इयदधिकरणम् ॥ १२२ अन्तरत्वाधिकरणम् ॥ १२३ व्यतिहाराधिकरणम् ॥ १२४ सत्याद्याधिकरणम् ॥ १२५ कामाद्यधिकरणम् ॥ १२६ आदराधिकरणम् ॥ १२७ तन्निर्धारणाधिकरणम् ॥ १२८ प्रदानाधिकरणम् ॥ १२९ लिङ्गभूयस्त्वाधिकरणम् ॥ १३० ऐकात्म्याधिकरणम् ॥ १३१ अङ्गावबद्धाधिकरणम् ॥ १३२ भूमज्यायस्त्वाधिकरणम् ॥ १३३ शब्दादिभेदाधिकरणम् ॥ १३४ विकल्पाधिकरणम् ॥ १३५ काम्याधिकरणम् ॥ १३६ यथाश्रयभवाधिकरणम् ॥ पाद ४ अधिकरण १३७-१५३ सूत्र ४२६-४७७ १३७ पुरुषार्थाधिकरणम् ॥ १३८ परामर्शाधिकरणम् ॥ १३९ स्तुतिमात्राधिकरणम् ॥ १४० परिप्लवाधिकरणम् ॥ १४१ अग्नीन्धनाद्याधिकरणम् ॥ १४२ सर्वापेक्षाधिकरणम् ॥ १४३ सर्वान्नानुमत्यधिकरणम् ॥ १४४ आश्रमकर्माधिकरणम् ॥ १४५ विधुराधिकरणम् ॥ १४६ तद्भुअताधिकरणम् ॥ १४७ अधिकाराधिकरणम् ॥ १४८ बहिराधिकरणम् ॥ १४९ स्वाम्यधिकरणम् ॥ १५० सहकार्यन्तरविध्यधिकरणम् ॥ १५१ अनाविष्कराधिकरणम् ॥ १५२ ऐहिकाधिकरणम् ॥ १५३ मुक्तिफलाधिकरणम् ॥ ४ फल अध्यायः । अधिकरण ३८ सूत्राणि ७८ पाद १ १५४-१६७ ४७८-४९६ पाद २ १६८- १७८ ४९७-५१७ पाद ३ १७९-१८४ ५१८-५३३ पाद ४ १८५-१९१ ५३४-५५५ फल अध्यय ४ पाद १ अधिकरण १५४-१६७ सूत्र ४७८-४९६ १५४ आवृत्त्यधिकरणम् ॥ १५५ आत्मत्वोपासनाधिकरणम् ॥ १५६ प्रतिकाधिकरणम् ॥ १५७ ब्रह्मदृष्ट्यधिकरणम् ॥ १५८ आदित्यादिमतयाधिकरणम् ॥ १५९ आसीनाधिकरणम् ॥ १६० एकाग्रताधिकरणम् ॥ १६१ आप्रायणाधिकरणम् ॥ १६२ तदधिगमाधिकरणम् ॥ १६३ इतरसंश्लेषाधिकरणम् ॥ १६४ अनारब्धाधिकरणम् ॥ १६५ अग्निहोत्राद्यधिकरणम् ॥ १६६ विद्याज्ञानसाधनाधिकरणम् ॥ १६७ इतरक्षपनाधिकरणम् ॥ पाद २ अधिकरण १६८-१७८ सूत्र ४९७-५१७ १६८ वागधिकरणम् १६९ मनोऽधिकरणम् १७० अध्यक्षाधिकरणम् ॥ १७१ असृत्युपक्रमाधिकरणम् १७२ संसारव्यपदेशाधिकरणम् ॥ १७३ प्रतिषेधाधिकरणम् ॥ १७४ वागादिलयाधिकरणम् ॥ १७५ अविभागाधिकरणम् ॥ १७६ तदोकोऽधिकरणम् ॥ १७७ रश्म्यधिकरणम् ॥ १७८ दक्षिणायनाधिकरणम् ॥ पाद ३ अधिकरण १७९-१८४ सूत्र ५१८-५३३ १७९ अर्चिराद्यधिकरणम् ॥ १८० वय्वधिकरणम् ॥ १८१ तदिदधिकरणम् ॥ १८२ अतिवाहिकाधिकरणम् ॥ १८३ कार्याधिकरणम् ॥ १८४ अप्रतिकलम्बनाधिकरणम् ॥ पाद ४ अधिकरण १८५-१९१ सूत्र ५३४-५५५ १८५ सम्पद्याविर्भावाधिकरणम् ॥ १८६ अविभागेन दृष्टत्वाधिकरणम् ॥ १८७ ब्रह्माधिकरणम् ॥ १८८ सङ्कल्पाधिकरणम् ॥ १८९ अभावाधिकरणम् ॥ १९० प्रदीपाधिकरणम् ॥ १९१ जगद्व्यापाराधिकरणम् ॥ अध्याय १ समन्वय पाद १ अधिकरण १-११ सूत्र १-३१ अधिकरण ००१ जिज्ञासाधिकरणम् ॥ सूत्र ००१ अथातो ब्रह्मजिज्ञासा अधिकरण ००२ जन्माद्यधिकरणम् ॥ सूत्र ००२ जन्माद्यस्य यतः ॥ अधिकरण ००३ शास्त्रयोनित्वाधिकरणम् ॥ सूत्र ००३ शास्त्रयोनित्त्वात् ॥ अधिकरण ००४ समन्वयाधिकरणम् ॥ सूत्र ००४ तत्तु समन्वयात् ॥ अधिकरण ००५ ईक्षत्याद्यधिकरणम् ॥ सूत्र ००५ ईक्षतेर्नाशब्दम् । ००६ गौणश्चेन्नात्मशब्दात् । ००७ तन्निष्ठस्य मोक्षोपदेशात् । ००८ हेयत्वावचनाच्च । ००९ स्वाप्ययात् । ०१० गतिसामान्यात् । ०११ श्रुतत्त्वाच्च ॥ अधिकरण ००६ आनन्दमयाधिकरणम् ॥ सूत्र ०१२ आनन्दमयोऽभ्यासात् । ०१३ विकारशब्दान्नेति चेन्न प्राचुर्यात् । ०१४ तद्धेतुव्यपदेशाच्च । ०१५ मान्त्रवर्णिकमेव च गीयते । ०१६ नेतरोऽनुपपत्तेः । ०१७ भेदव्यपदेशाच्च । ०१८ कामाच्च नानुमानापेक्षा । ०१९ अस्मिन्नस्य च तद्योगं शास्ति ॥ अधिकरण ००७ अन्तराधिकरणम् ॥ सूत्र ०२० अन्तस्तद्धर्मोपदेशात् । ०२१ भेदव्यपदेशाच्चान्यः ॥ अधिकरण ००८ आकाशाधिकरणम् ॥ सूत्र ०२२ आकाशस्तल्लिङ्गात् ॥ अधिकरण ००९ प्राणाधिकरणम् ॥ सूत्र ०२३ अत एव प्राणः ॥ अधिकरण ०१० ज्योतिश्चरणाधिकरणम् ॥ सूत्र ०२४ ज्योतिश्चरणाभिधानात् । ०२५ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् । ०२६ भूतादिपादव्यपदेशोपपत्तेश्चैवम् । ०२७ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ अधिकरण ०११ प्रतर्दनाधिकरणम् ॥ सूत्र ०२८ प्राणस्त्थानुगमात् । ०२९ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् । ०३० शास्त्रदृष्ट्या तूपदेशो वामदेववत् ०३१ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविद्यादाश्रितत्वादिह तद्योगात् ॥ अध्याय १ पाद २ अधिकरण १२-१८ सूत्र ३२-६३ अधिकरण ०१२ सर्वत्र प्रसिद्ध्यधिकरणम् ॥ सूत्र ०३२ सर्वत्र प्रसिद्धोपदेशात् । ०३३ विवक्षितगुणोपपत्तेश्च । ०३४ अनुपपत्तेस्तु न शारीरः । ०३५ कर्मकर्तृव्यपदेशाच्च । ०३६ शब्दविशेषात् । ०३७ स्मृतेश्च । ०३८ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च । ०३९ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ अधिकरण ०१३ अत्ताधिकरणम् ॥ सूत्र ०४० अत्ता चराचरग्रहणात् । ०४१ प्रकरणाच्च ॥ अधिकरण ०१४ गुहाप्रविष्टाधिकरणम् ॥ सूत्र ०४२ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् । ०४३ विशेषणाच्च । अधिकरण ०१५ अन्तराधिकरणम् ॥ सूत्र ०४४ अन्तर उपपत्तेः । ०४५ स्थानादिव्यपदेशाच्च । ०४६ सुखविशिष्टाभिधानादेव च । ०४७ श्रुतोपनिषत्कगत्यभिधानाच्च । ०४८ अनवस्थितेरसम्भवाच्च नेतरः ॥ अधिकरण ०१६ अन्तर्याम्यधिकरणम् ॥ सूत्र ०४९ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । ०५० न च स्मार्तमतद्धर्माभिलापात् । ०५१ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ अधिकरण ०१७ अदृश्यत्वाधिकरणम् ॥ सूत्र ०५२ अदृश्यत्वादिगुणको धर्मोक्तेः । ०५३ विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ०५४ रूपोपन्यासाच्च । अधिकरण ०१८ वैश्वानराधिकरणम् ॥ सूत्र ०५५ वैश्वानरः साधारणशब्दविशेषात् । ०५६ स्मर्यमाणमनुमानं स्यादिति । ०५७ शब्दादिभ्योऽन्तःप्रतिष्ठाच्च नेति चेन्न तथा । दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते । ०५८ अत एव न देवता भूतं च । ०५९ साक्षादप्यविरोधं जैमिनिः । ०६० अभिव्यक्तेरित्याश्मरथ्यः । ०६१ अनुस्मृतेर्बादरिः । ०६२ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति । ०६३ आमनन्ति चैनमस्मिन् ॥ अध्याय १ पाद ३ अधिकरण १९-३१ सूत्र ६४-१०६ अधिकरण ०१९ द्युभ्वाद्यधिकरणम् ॥ सूत्र ०६४ द्युभ्वाद्यायतनं स्वशब्दात् । ०६५ मुक्तोपसृप्यव्यपदेशात् । ०६६ नानुमानमतच्छब्दात् । ०६७ प्राणभृच्च । ०६८ भेदव्यपदेशात् । ०६९ प्रकरणात् । ०७० स्थित्यदनाभ्यां च । अधिकरण ०२० भौमाधिकरणम् ॥ सूत्र ०७१ भूमा सम्प्रसादादध्युपदेशात् । ०७२ धर्मोपपत्तेश्च ॥ अधिकरण ०२१ अक्षराधिकरणम् ॥ सूत्र ०७३ अक्षरमम्बरान्तधृतेः ०७४ सा च प्रशासनात् । ०७५ अन्यभावव्यावृत्तेश्च ॥ अधिकरण ०२२ ईक्षतिकर्मव्यपदेशाधिकरणम् ॥ सूत्र ०७६ ईक्षतिकर्मव्यपदेशात् सः ॥ अधिकरण ०२३ दहराधिकरणम् ॥ सूत्र ०७७ दहर उत्तरेभ्यः । ०७८ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ०७९ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । ०८० प्रसिद्धेश्च । ०८१ इतरपरामर्शात् स इति चेन्नासम्भवात् । ०८२ उत्तराच्चेदाविर्भूतस्वरूपस्तु । ०८३ अन्यार्थश्च परामर्शः । ०८४ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ अधिकरण ०२४ अनुकृत्यधिकरणम् ॥ सूत्र ०८५ अनुकृतेस्तस्य च । ०८६ अपि च स्मर्यते ॥ अधिकरण ०२५ प्रमिताधिकरणम् ॥ सूत्र ०८७ शब्दादेव प्रमितः । ०८८ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ अधिकरण ०२६ देवताधिकरणम् ॥ सूत्र ०८९ तदुपर्यपि बादरायणः सम्भवात् । ०९० विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । ०९१ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् । ०९२ अत एव च नित्यत्वम् । ०९३ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च । ०९४ मध्वादिष्वसम्भवादनधिकारं जैमिनिः । ०९५ ज्योतिषि भावाच्च । ०९६ भावं तु बादरायणोऽस्ति हि ॥ अधिकरण ०२७ अपशूद्राधिकरणम् ॥ सूत्र ०९७ शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि । ०९८ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् । ०९९ संस्कारपरामर्शात्तदभावाभिलापाच्च । १०० तदभावनिर्धारणे च प्रवृत्तेः । १०१ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ अधिकरण ०२८ कम्पनाधिकरणम् ॥ सूत्र १०२ कम्पनात् ॥ अधिकरण ०२९ ज्योतिरधिकरणम् ॥ सूत्र १०३ ज्योतिर्दर्शनात् ॥ अधिकरण ०३० अर्थान्तरत्वादिव्यपदेसाधिकरणम् ॥ सूत्र १०४ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ अधिकरण ०३१ सुषुप्त्युत्क्रान्त्यधिकरणम् ॥ सूत्र १०५ सुषुप्त्युत्क्रान्त्योर्भेदेन । १०६ पत्यादिशब्देभ्यः ॥ अध्याय १ पाद ४ अधिकरण ३२-३९ सूत्र १०७-१३४ अधिकरण ०३२ अनुमानिकाधिकरणम् ॥ सूत्र १०७ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च । १०८ सूक्ष्मं तु तदर्हत्वात् । १०९ तदधीनत्वादर्थवत् । ११० ज्ञेयत्वावचनाच्च । १११ वदतीति चेन्न प्राज्ञो हि प्रकरणात् । ११२ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । ११३ महद्वच्च ॥ अधिकरण ०३३ चमसाधिकरणम् ॥ सूत्र ११४ चमसवदविशेषात् । ११५ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । ११६ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ अधिकरण ०३४ सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ सूत्र ११७ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च । ११८ प्राणादयो वाक्यशेषात् । ११९ ज्योतिषैकेषामसत्यन्ने ॥ अधिकरण ०३५ कारणत्वाधिकरणम् ॥ सूत्र १२० कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । १२१ समाकर्षात् ॥ अधिकरण ०३६ बालक्यधिकरणम् ॥ सूत्र १२२ जगद्वाचित्वात् । १२३ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् । १२४ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ अधिकरण ०३७ वाक्यान्वयाधिकरणम् ॥ सूत्र १२५ वाक्यान्वयात् । १२६ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । १२७ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः । १२८ अवस्थितेरिति काशकृत्स्नः ॥ अधिकरण ०३८ प्रकृत्यधिकरणम् ॥ सूत्र १२९ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । १३० अभिध्योपदेशाच्च । १३१ साक्षाच्चोभयाम्नानात् । १३२ आत्मकृतेः परिणामात् । १३३ योनिश्च हि गीयते ॥ अधिकरण ०३९ सर्वव्याख्यानाधिकरणम् ॥ सूत्र १३४ एतेन सर्वे व्याख्याता व्याख्याताः ॥ अध्याय २ अविरोध पाद १ अधिकरण ४०-५२ सूत्र १३५-१७१ अधिकरण ०४० स्मृत्यधिकरणम् ॥ सूत्र १३५ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । १३६ इतरेषां चानुपलब्धेः ॥ अधिकरण ०४१ योगप्रत्युक्त्याधिकरणम् ॥ सूत्र १३७ एतेन योगः प्रत्युक्तः ॥ अधिकरण ०४२ न विलक्षणत्वाधिकरणम् ॥ सूत्र १३८ न विलक्षणत्वादस्य तथात्वं च शब्दात् । १३९ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । १४० दृश्यते तु । १४१ असदिति चेन्न प्रतिषेधमात्रत्वात् । १४२ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । १४३ न तु दृष्टान्तभावात् । १४४ स्वपक्षदोषाच्च । १४५ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ अधिकरण ०४३ शिष्टपरिग्रहाधिकरणम् ॥। सूत्र १४६ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ अधिकरण ०४४ भोक्त्रापत्त्यधिकरणम् ॥ १४७ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॥ अधिकरण ०४५ आरम्भणाधिकरणम् ॥ सूत्र १४८ तदनन्यत्वमारम्भणशब्दादिभ्यः । १४९ भावे चोपलब्धेः । १५० सत्त्वाच्चावरस्य । १५१ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् । १५२ युक्तेः शब्दान्तराच्च । १५३ पटवच्च । १५४ यथा च प्राणादि । अधिकरण ०४६ इतरव्यपदेशाधिकरणम् ॥ सूत्र १५५ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । १५६ अधिकं तु भेदनिर्देशात् । १५७ अश्मादिवच्च तदनुपपत्तिः ॥ अधिकरण ०४७ उपसंहारदर्शनाधिकरणम् ॥ सूत्र १५८ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि । १५९ देवादिवदपि लोके ॥ अधिकरण ०४८ कृत्स्नप्रसक्त्यधिकरणम् ॥ सूत्र १६० कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा । १६१ श्रुतेस्तु शब्दमूलत्वात् । १६२ आत्मनि चैवं विचित्राश्च हि । १६३ स्वपक्षदोषाच्च ॥ अधिकरण ०४९ सर्वोपेताधिकरणम् ॥ सूत्र १६४ सर्वोपेता च तद्दर्शनात् । १६५ विकरणत्वान्नेति चेत्तदुक्तम् ॥ अधिकरण ०५० प्रयोजनत्वाधिकरणम् ॥ सूत्र १६६ न प्रयोजनवत्त्वात् । १६७ लोकवत्तु लीलाकैवल्यम् ॥ अधिकरण ०५१ वैषम्यनैर्घृन्याधिकरणम् ॥ सूत्र १६८ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । १६९ न कर्माविभागादिति चेन्नानादित्वात् । १७० उपपद्यते चाप्युपलभ्यते च । १७१ सर्वधर्मोपपत्तेश्च ॥ अध्याय २ अविरोध पाद २ अधिकरण ५३-६० सूत्र १७२-२१६ अधिकरण ०५३ रचनाऽनुपपत्त्यधिकरणम् ॥ सूत्र १७२ रचनाऽनुपपत्तेश्च नानुमानम् । १७३ प्रवृत्तेश्च । १७४ पयोऽम्बुवच्चेत् तत्रापि । १७५ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् । १७६ अन्यत्राभावाच्च न तृणादिवत् । १७७ अभ्युपगमेऽप्यर्थाभावात् । १७८ पुरुषाश्मवदिति चेत्तथाऽपि । १७९ अङ्गित्वानुपपत्तेश्च । १८० अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् । १८१ विप्रतिषेधाच्चासमञ्जसम् ॥ अधिकरण ०५४ महद्दीर्घाधिकरणम् ॥ सूत्र १८२ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ अधिकरण ०५५ परमाणुजगदाकारणत्वाधिकरणम् ॥ सूत्र १८३ उभयथाऽपि न कर्मातस्तदभावः । १८४ समवायाभ्युपगमाच्च साम्यादनवस्थितेः । १८५ नित्यमेव च भावात् । १८६ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् । १८७ उभयथा च दोषात् । १८८ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ अधिकरण ०५६ समुदायाधिकरणम् ॥ सूत्र १८९ समुदाय उभयहेतुकेऽपि तदप्राप्तिः । १९० इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् । १९१ उत्तरोत्पादे च पूर्वनिरोधात् । १९२ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । १९३ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् । १९४ उभयथा च दोषात् । १९५ आकाशे चाविशेषात् । १९६ अनुस्मृतेश्च । १९७ नासतोऽदृष्टत्वात् । १९८ उदासीनानामपि चैवं सिद्धिः ॥ अधिकरण ०५७ नाभावाधिकरणम् ॥ सूत्र १९९ नाभाव उपलब्धेः । २०० वैधर्म्याच्च न स्वप्नादिवत् । २०१ न भावोऽनुपलब्धेः । २०२ क्षणिकत्वाच्च । २०३ सर्वथाऽनुपपत्तेश्च ॥ अधिकरण ०५८ एकस्मिन्नसम्भवाधिकरणम् ॥ सूत्र २०४ नैकस्मिन्नसम्भवात् । २०५ एवञ्चात्माऽकार्त्स्न्यम् । २०६ न च पर्यायादप्यविरोधो विकारादिभ्यः । २०७ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ अधिकरण ०५९ पत्यधिकरणम् ॥ सूत्र २०८ पत्युरसामञ्जस्यात् । २०९ सम्बन्धानुपपत्तेश्च । २१० अधिष्ठानानुपपत्तेश्च । २११ करणवच्चेन्न भोगादिभ्यः । २१२ अन्तवत्त्वमसर्वज्ञता वा ॥ अधिकरण ०६० उत्पत्त्यसम्भवाधिकरणम् ॥ सूत्र २१३ उत्पत्त्यसम्भवात् । २१४ न च कर्तुः करणम् ॥ २१५ विज्ञानादिभावे वा तदप्रतिषेधः । २१६ विप्रतिषेधाच्च ॥ अध्याय २ पाद ३ अधिकरण ६१-७७ सूत्र २१७-२६९ अधिकरण ०६१ वियदधिकरणम् ॥ सूत्र २१७ न वियदश्रुतेः । २१८ अस्ति तु । २१९ गौण्यसम्भवात् । २२० शब्दाच्च । २२१ स्याच्चैकस्य ब्रह्मशब्दवत् । २२२ प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः । २२३ यावद्विकारं तु विभागो लोकवत् ॥ अधिकरण ०६२ मातरिश्वाधिकरणम् ॥ सूत्र २२४ एतेन मातरिश्वा व्याख्यातः ॥ अधिकरण ०६३ असम्भवाधिकरणम् ॥ सूत्र २२५ असम्भवस्तु सतोऽनुपपत्तेः ॥ अधिकरण ०६४ तेजोऽधिकरणम् ॥ सूत्र २२६ तेजोऽतस्तथा ह्याह ॥ अधिकरण ०६५ आबधिकरणम् ॥ सूत्र २२७ आपः ॥ अधिकरण ०६६ पृथिव्यधिकरणम् ॥ सूत्र २२८ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ अधिकरण ०६७ तदभिध्यानाधिकरणम् ॥ सूत्र २२९ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ अधिकरण ०६८ विपर्ययाधिकरणम् ॥ सूत्र २३० विपर्ययेण तु क्रमोऽत उपपद्यते च । अधिकरण ०६९ अन्तराविज्ञानाधिकरणम् ॥ सूत्र २३१ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । अधिकरण ०७० चराचरव्यपाश्रयाधिकरणम् ॥ सूत्र २३२ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ अधिकरण ०७१ आत्माधिकरणम् ॥ सूत्र २३३ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ अधिकरण ०७२ ज्ञधिकरणम् ॥ सूत्र २३४ ज्ञोऽत एव ॥ अधिकरण ०७३ उत्क्रान्तिगत्यधिकरणम् ॥ सूत्र २३५ उत्क्रान्तिगत्यागतीनाम् । २३६ स्वात्मना चोत्तरयोः । २३७ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् । २३८ स्वशब्दोन्मानाभ्यां च । २३९ अविरोधश्चन्दनवत् । २४० अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि । २४१ गुणाद्वा लोकवत् । २४२ व्यतिरेको गन्धवत् । २४३ तथा च दर्शयति । २४४ पृथगुपदेशात् । २४५ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् । २४६ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् । २४७ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । २४८ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥ अधिकरण ०७४ कर्ताधिकरणम् ॥ सूत्र २४९ कर्ता शास्त्रार्थवत्त्वात् । २५० विहारोपदेशात् । २५१ उपादानात् । २५२ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः । २५३ उपलब्धिवदनियमः । २५४ शक्तिविपर्ययात् । २५५ समाध्यभावाच्च ॥ अधिकरण ०७५ तक्षाधिकरणम् ॥ सूत्र २५६ यथा च तक्षोभयथा ॥ अधिकरण ०७६ परायत्ताधिकरणम् ॥ सूत्र २५७ परात्तु तच्छ्रुतेः । २५८ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ अधिकरण ०७७ अंशाधिकरणम् ॥ सूत्र २५९ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । २६० मन्त्रवर्णाच्च । २६१ अपि च स्मर्यते । २६२ प्रकाशादिवन्नैवं परः । २६३ स्मरन्ति च । २६४ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् । २६५ असन्ततेश्चाव्यतिकरः । २६६ आभास एव च । २६७ अदृष्टानियमात् । २६८ अभिसन्ध्यादिष्वपि चैवम् । २६९ प्रदेशादिति चेन्नान्तर्भावात् ॥ अध्याय २ पाद ४ अधिकरण ७८-८६ सूत्र २७०-२९१ अधिकरण ०७८ प्राणोत्पत्त्यधिकरणम् ॥ सूत्र २७० तथा प्राणाः । २७१ गौण्यसम्भवात् । २७२ तत्प्राक्श्रुतेश्च । २७३ तत्पूर्वकत्वाद्वाचः ॥ अधिकरण ०७९ सप्तगत्यधिकरणम् ॥ सूत्र २७४ सप्त गतेर्विशेषितत्वाच्च । २७५ हस्तादयस्तु स्थितेऽतो नैवम् ॥ अधिकरण ०८० प्राणाणुत्वाधिकरणम् ॥ सूत्र २७६ अणवश्च । अधिकरण ०८१ प्राणश्रैष्ठ्यधिकरणम् ॥ सूत्र २७७ श्रेष्ठश्च ॥ अधिकरण ०८२ वायुक्रियाधिकरणम् ॥ सूत्र २७८ न वायुक्रिये पृथगुपदेशात् । २७९ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः । २८० अकरणत्वाच्च न दोषस्तथा हि दर्शयति । २८१ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ अधिकरण ०८३ श्रेष्ठणुत्वाधिकरणम् ॥ सूत्र २८२ अणुश्च ॥ अधिकरण ०८४ ज्योतिरद्यधिकरणम् ॥ सूत्र २८३ ज्योतिराद्यधिष्ठानं तु तदामननात् । २८४ प्राणवता शब्दात् । २८५ तस्य च नित्यत्वात् । अधिकरण ०८५ इन्द्रियाधिकरणम् ॥ सूत्र २८६ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । २८७ भेदश्रुतेः । २८८ वैलक्षण्याच्च ॥ अधिकरण ०८६ सम्ज्ञामुअर्तिक्लृप्त्यधिकरणम् ॥ सूत्र २८९ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । २९० मांसादि भौमं यथाशब्दमितरयोश्च । २९१ वैशेष्यात्तु तद्वादस्तद्वादः ॥ अध्ययः ३ साधन पाद १ अधिकरण ८७-९२ सूत्राणि २९२-३१८ अधिकरण ०८७ तदन्तरप्रतिपत्त्यधिकरणम् ॥ सूत्र २९२ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । २९३ त्र्यात्मकत्वात्तु भूयस्त्वात् । २९४ प्राणगतेश्च । २९५ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् । २९६ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः । २९७ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । २९८ भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॥ अधिकरण ०८८ कृतत्ययाधिकरणम् ॥ सूत्र २९९ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ३०० चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः । ३०१ आनर्थक्यमिति चेन्न तदपेक्षत्वात् । ३०२ सुकृतदुष्कृते एवेति तु बादरिः ॥ अधिकरण ०८९ अनिष्टदिकार्याधिकरणम् ॥ सूत्र ३०३ अनिष्टादिकारिणामपि च श्रुतम् । ३०४ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ३०५ स्मरन्ति च । ३०६ अपि च सप्त । ३०७ तत्रापि च तद्व्यापारादविरोधः । ३०८ विद्याकर्मणोरिति तु प्रकृतत्वात् । ३०९ न तृतीये तथोपलब्धः । ३१० स्मर्यतेऽपि च लोके । ३११ दर्शनाच्च । ३१२ तृतीयशब्दावरोधः संशोकजस्य ॥ अधिकरण ०९० साभाव्यापत्त्यधिकरणम् ॥ सूत्र ३१३ साभाव्यापत्तिरुपपत्तेः ॥ अधिकरण ०९१ नातिचिराधिकरणम् ॥ सूत्र ३१४ नातिचिरेण विशेषात् ॥ अधिकरण ०९२ अन्याधिष्ठिताधिकरणम् ॥ सूत्र ३१५ अन्याधिष्ठतेषु पूर्ववदभिलापात् । ३१६ अशुद्धमिति चेन्न शब्दात् । ३१७ रेतःसिग्योगोऽथ । ३१८ योनेः शरीरम् ॥ अध्ययः ३ साधन पाद २ अधिकरण ९३-१०० सूत्राणि ३१९-३५९ अधिकरण ०९३ सन्ध्याधिकरणम् ॥ सूत्र ३१९ सन्ध्ये सृष्टिराह हि । ३२० निर्मातारं चैके पुत्रादयश्च । ३२१ मायामात्रं तु कार्त्स्न्यानभिव्यक्तस्वरूपत्वात् । ३२२ सूचकश्च हि श्रुतेराचक्षते च तद्विदः । ३२३ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ३२४ देहयोगाद्वा सोऽपि ॥ अधिकरण ०९४ तदभावाधिकरणम् ॥ सूत्र ३२५ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह । ३२६ अतः प्रबोधोऽस्मात् ॥ अधिकरण ०९५ कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥ सूत्र ३२७ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॥ अधिकरण ०९६ मुग्धेऽर्धसम्पत्त्यधिकरणम् ॥ सूत्र ३२८ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ अधिकरण ०९७ उभयलिङ्गाधिकरणम् ॥ सूत्र ३२९ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ३३० न भेदादिति चेन्न प्रत्येकमतद्वचनात् । ३३१ अपि चैवमेके । ३३२ अरूपवदेव हि तत्प्रधानत्वात् । ३३३ प्रकाशवच्चावैयर्थ्यात् । ३३४ आह च तन्मात्रम् । ३३५ दर्शयति चाथो अपि स्मर्यते । ३३६ अत एव चोपमा सूर्यकादिवत् । ३३७ अम्बुवदग्रहणात्तु न तथात्वम् । ३३८ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् । ३३९ दर्शनाच्च ॥ अधिकरण ०९८ प्रकृतैतावत्त्वाधिकरणम् ॥ सूत्र ३४० प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ३४१ तदव्यक्तमाह हि । ३४२ अपि संराधने प्रत्यक्षानुमानाभ्याम् । ३४३ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् । ३४४ अतोऽनन्तेन तथा हि लिङ्गम् । ३४५ उभयव्यपदेशात्त्वहिकुण्डलवत् । ३४६ प्रकाशाश्रयवद्वा तेजस्त्वात् । ३४७ पूर्ववद्वा । ३४८ प्रतिषेधाच्च ॥ अधिकरण ०९९ पराधिकरणम् ॥ सूत्र ३४९ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । ३५० सामान्यात्तु । ३५१ बुद्ध्यर्थः पादवत् । ३५२ स्थानविशेषात् प्रकाशादिवत् । ३५३ उपपत्तेश्च । ३५४ तथाऽन्यप्रतिषेधात् । ३५५ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ अधिकरण १०० फलाधिकरणम् ॥ सूत्र ३५६ फलमत उपपत्तेः । ३५७ श्रुतत्वाच्च । ३५८ धर्मं जैमिनिरत एव । ३५९ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ अध्याय ३ पाद ३ अधिकरण १०१-१३६ सूत्र ३६०-४२० अधिकरण १०१ सर्ववेदान्तप्रत्ययाधिकरणम् ॥ सूत्र ३६० सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ३६१ भेदान्नेति चेन्नैकस्यामपि । ३६२ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः । ३६३ दर्शयति च ॥ अधिकरण १०२ उपसंहाराधिकरणम् ।सूत्र ३६४ उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॥ अधिकरण १०३ अन्यथात्वाधिकरणम् ॥ सूत्र ३६५ अन्यथात्वं शब्दादिति चेन्नाविशेषात् । ३६६ न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् । ३६७ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ अधिकरण १०४ व्याप्त्यधिकरणम् ॥ सूत्र ३६८ व्याप्तेश्च समञ्जसम् ॥ अधिकरण १०५ सर्वभेदाधिकरणम् ॥ सूत्र ३६९ सर्वाभेदादन्यत्रेमे ॥ अधिकरण १०६ आनन्दाद्यधिकरणम् ॥ सूत्र ३७० आनन्दादयः प्रधानस्य । ३७१ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ३७२ इतरे त्वर्थसामान्यात् ॥ अधिकरण १०७ आध्यानाधिकरणम् ।सूत्र ३७३ आध्यानाय प्रयोजनाभावात् ३७४ आत्मशब्दाच्च ॥ अधिकरण १०८ आत्मगृहित्यधिकरणम् ॥ सूत्र ३७५ आत्मगृहीतिरितरवदुत्तरात् । ३७६ अन्वयादिति चेत्स्यादवधारणात् ॥ अधिकरण १०९ कार्याख्यानाधिकरणम् ॥ सूत्र ३७७ कार्याख्यानादपूर्वम् ॥ अधिकरण ११० समानाधिकरणम् ॥ सूत्र ३७८ समान एवं चाभेदात् ॥ अधिकरण १११ सम्बन्धाधिकरणम् ॥ सूत्र ३७९ सम्बन्धादेवमन्यत्रापि । ३८० न वा विशेषात् । ३८१ दर्शयति च ॥ अधिकरण ११२ सम्भृत्यधिकरणम् ॥ सूत्र ३८२ सम्भृतिद्युव्याप्त्यपि चातः ॥ अधिकरण ११३ पुरुषविद्याधिकरणम् ॥ सूत्र ३८३ पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ अधिकरण ११४ वेधाद्यधिकरणम् ॥ सूत्र ३८४ वेधाद्यर्थभेदात् । अधिकरण ११५ हान्यधिकरणम् ॥ सूत्र ३८५ हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ अधिकरण ११६ साम्परायाधिकरणम् ॥ सूत्र ३८६ साम्पराये तर्तव्याभावात्तथा ह्यन्ये । ३८७ छन्दत उभयाविरोधात् ॥ अधिकरण ११७ गतेरर्थवत्त्वाधिकरणम् ॥ सूत्र ३८८ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः । ३८९ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ अधिकरण ११८ अनियमाधिकरणम् ॥ सूत्र ३९० अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ अधिकरण ११९ यावदधिकाराधिकरणम् ॥ सूत्र ३९१ यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ अधिकरण १२० अक्षरधियाधिकरणम् ॥ सूत्र ३९२ अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ अधिकरण १२१ इयदधिकरणम् ॥ सूत्र ३९३ इयदामननात् ॥ अधिकरण १२२ अन्तरत्वाधिकरणम् ॥ सूत्र ३९४ अन्तरा भूतग्रामवत्स्वात्मनः । ३९५ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ अधिकरण १२३ व्यतिहाराधिकरणम् ॥ सूत्र ३९६ व्यतिहारो विशिंषन्ति हीतरवत् ॥ अधिकरण १२४ सत्याद्यधिकरणम् ॥ सूत्र ३९७ सैव हि सत्यादयः ॥ अधिकरण १२५ कामाद्यधिकरणम् ॥ सूत्र ३९८ कामादीतरत्र तत्र चायतनादिभ्यः ॥ अधिकरण १२६ आदराधिकरणम् ॥ सूत्र ३९९ आदरादलोपः । ४०० उपस्थितेऽस्तद्वचनात् ॥ अधिकरण १२७ तन्निर्धारणाधिकरणम् ॥ सूत्र ४०१ तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥ अधिकरण १२८ प्रदानाधिकरणम् ॥ सूत्र ४०२ प्रदानवदेव तदुक्तम् ॥ अधिकरण १२९ लिङ्गभुयस्त्वाधिकरणम् ॥ सूत्र ४०३ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि । ४०४ पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् । ४०५ अतिदेशाच्च । ४०६ विद्यैव तु निर्धारणात् । ४०७ दर्शनाच्च । ४०८ श्रुत्यादिबलीयस्त्वाच्च न बाधः । ४०९ अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् । ४१० न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ४११ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ अधिकरण १३० ऐकात्म्याधिकरणम् ॥ सूत्र ४१२ एक आत्मनः शरीरे भावात् । ४१३ व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ अधिकरण १३१ अङ्गावबद्धाधिकरणम् ॥ सूत्र ४१४ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ४१५ मन्त्रादिवद्वाऽविरोधः ॥ अधिकरण १३२ भूमज्ययस्त्वाधिकरणम् ॥ सूत्र ४१६ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॥ अधिकरण १३३ शब्दादिभेदाधिकरणम् ॥ सूत्र ४१७ नाना शब्दादिभेदात् ॥ अधिकरण १३४ विकल्पाधिकरणम् ॥ सूत्र ४१८ विकल्पोऽविशिष्टफलत्वात् ॥ अधिकरण १३५ काम्याधिकरणम् ॥ सूत्र ४१९ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ अधिकरण १३६ यथाश्रयभावाधिकरणम् ॥ सूत्र ४२० अङ्गेषु यथाश्रयभावः । ४२१ शिष्टेश्च । ४२२ समाहारात् । ४२३ गुणसाधारण्यश्रुतेश्च । ४२४ न वा तत्सहभावाश्रुतेः । ४२५ दर्शनाच्च ॥ अध्याय ३ पाद ४ अधिकरण १३७-१५३ सूत्र ४२६-४७७ अधिकरण १३७ पुरुषार्थाधिकरणम् ॥ सूत्र ४२६ पुरुषार्थोऽतः शब्दादिति बादरायणः । ४२७ शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः । ४२८ आचारदर्शनात् । ४२९ तत्श्रुतेः । ४३० समन्वारम्भणात् । ४३१ तद्वतो विधानात् । ४३२ नियमाच्च । ४३३ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । ४३४ तुल्यं तु दर्शनम् । ४३५ असार्वतृकी । ४३६ विभागः शतवत् । ४३७ अध्ययनमात्रवतः ४३८ नाविशेषात् । ४३९ स्तुतयेऽनुमतिर्वा । ४४० कामकारेण चैके । ४४१ उपमर्दं च । ४४२ ऊर्ध्वरेतःसु च शब्दे हि ॥ अधिकरण १३८ परामर्शाधिकरणम् ॥ सूत्र ४४३ परामर्शं जैमिनिरचोदना चापवदिति हि । ४४४ अनुष्ठेयं बादरायणः साम्यश्रुतेः । ४४५ विधिर्वा धारणवत् ॥ अधिकरण १३९ स्तुतिमात्राधिकरणम् ॥ सूत्र ४४६ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् । ४४७ भावशब्दाच्च ॥ अधिकरण १४० परिप्लवाधिकरणम् ॥ सूत्र ४४८ पारिप्लवार्था इति चेन्न विशेषितत्वात् । ४४९ तथा चैकवाक्यतोपबन्धात् ॥ अधिकरण १४१ अग्नीन्धनाद्यधिकरणम् ॥ सूत्र ४५० अत एव चाग्नीन्धनाद्यनपेक्षा ॥ अधिकरण १४२ सर्वापेक्षाधिकरणम् ॥ सूत्र ४५१ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । ४५२ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया । तेषामवश्यानुष्ठेयत्वात् ॥ अधिकरण १४३ सर्वान्ननुमत्यधिकरणम् ॥ सूत्र ४५३ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् । ४५४ अबाधाच्च । ४५५ अपि च स्मर्यते । ४५६ शब्दश्चातोऽकामकारे ॥ अधिकरण १४४ आश्रमकर्माधिकरणम् ॥ सूत्र ४५७ विहितत्वाच्चाऽश्रमकर्मापि । ४५८ सहकाऋत्वेन च । ४५९ सर्वथाऽपि तु त एवोभयलिङ्गात् । ४६० अनभिभवं च दर्शयति ॥ अधिकरण १४५ विधुराधिकरणम् ॥ सूत्र ४६१ अन्तरा चापि तु तत्दृष्टेः । ४६२ अपि च स्मर्यते । ४६३ विशेषानुग्रहश्च । ४६४ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ अधिकरण १४६ तद्भुताधिकरणम् ॥ सूत्र ४६५ तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ अधिकरण १४७ अधिकारधिकरणम् ॥ सूत्र ४६६ न चाधिकारिकमपि पतनानुमानात्तदयोगात् । ४६७ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ अधिकरण १४८ बहिरधिकरणम् ॥ सूत्र ४६८ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥ अधिकरण १४९ स्वाम्यधिकरणम् ॥ सूत्र ४६९ स्वामिनः फलश्रुतेरित्यात्रेयः । ४७० आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते । ४७१ श्रुतेश्च ॥ अधिकरण १५० सहकार्यन्तरविध्यधिकरणम् ॥ सूत्र ४७२ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विद्यादिवत् । ४७३ कृत्स्नभावात्तु गृहिणोपसंहारः । ४७४ मौनवदितरेषामप्युपदेशात् ॥ अधिकरण १५१ अनाविष्कराधिकर्नम् । सूत्र ४७५ अनाविष्कुर्वन्नन्वयात् ॥ अधिकरण १५२ ऐहिकाधिकरणम् ॥ सूत्र ४७६ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ अधिकरण १५३ मुक्तिफलाधिकरणम् ॥ सूत्र ४७७ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ अध्यायः ४ फल अधिकरण ३८ सूत्राणि ७८ पाद १ अधिकरण १५४-१६७ सूत्र ४७८-४९६ अधिकरण १५४ आवृत्त्यधिकरणम् ॥ सूत्र ४७८ आवृत्तिरसकृदुपदेशात् । ४७९ लिङ्गाच्च ॥ अधिकरण १५५ आत्मत्वोपसनाधिकरणम् ॥ सूत्र ४८० आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ अधिकरण १५६ प्रतिकधिकरणम् ॥ सूत्र ४८१ न प्रतीके न हि सः ॥ अधिकरण १५७ ब्रह्मदृष्ट्यधिकरणम् ॥ सूत्र ४८२ ब्रह्मदृष्टिरुत्कर्षात् ॥ अधिकरण १५८ आदित्यादिमत्यधिकरणम् ॥ सूत्र ४८३ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ अधिकरण १५९ आसीनाधिकरणम् ॥ सूत्र ४८४ आसीनः सम्भवात् । ४८५ ध्यानाच्च । ४८६ अचलत्वं चापेक्ष्य । ४८७ स्मरन्ति च ॥ अधिकरण १६० एकाग्रताधिकरणम् ॥ सूत्र ४८८ यत्रैकाग्रता तत्राविशेषात् ॥ अधिकरण १६१ आप्रायणाधिकरणम् ॥ सूत्र ४८९ आप्रायाणात्तत्रापि हि दृष्टम् ॥ अधिकरण १६२ तदधिगमाधिकरणम् ॥ सूत्र ४९० तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ अधिकरण १६३ इतरसंश्लेषाधिकरणम् ॥ सूत्र ४९१ इतरस्याप्येवमसंश्लेषः पाते तु ॥ अधिकरण १६४ अनारब्धाधिकरणम् ॥ सूत्र ४९२ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ अधिकरण १६५ अग्निहोत्राद्यधिकरणम् ॥ सूत्र ४९३ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ४९४ अतोऽन्यापि ह्येकेशामुभयोः ॥ अधिकरण १६६ विद्याज्ञानसाधनाधिकरणम् ॥ सूत्र ४९५ यदेव विद्ययेति हि ॥ अधिकरण १६७ इतरक्षपणाधिकरणम् ॥ सूत्र ४९६ भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ अध्याय ४ पाद २ अधिकरण १६८-१७८ सूत्र ४९७-५१७ अधिकरण १६८ वागधिकरणम् ॥ सूत्र ४९७ वाङ्मनसि दर्शनाच्छब्दाच्च । ४९८ अत एव च सर्वाण्यनु ॥ अधिकरण १६९ मनोऽधिकरणम् । सूत्र ४९९ तन्मनः प्राण उत्तरात् ॥ अधिकरण १७० अध्यक्षाधिकरणम् ॥ सूत्र ५०० सोऽध्यक्षे तदुपगमादिभ्यः । ५०१ भूतेषु तत्श्रुतेः । ५०२ नैकस्मिन् दर्शयतो हि ॥ अधिकरण १७१ असृत्युपक्रमाधिकरणम् ॥ सूत्र ५०३ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ अधिकरण १७२ संसारव्यपदेशाधिकरणम् ॥ सूत्र ५०४ तदापीतेः संसारव्यपदेशात् । ५०५ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः । ५०६ नोपमर्देनातः । ५०७ अस्यैव चोपपत्तेरेष ऊष्मा ॥ अधिकरण १७३ प्रतिषेधाधिकरणम् ॥ सूत्र ५०८ प्रतिषेधादिति चेन्न शारीरात् । ५०९ स्पष्टो ह्येकेषाम् । ५१० स्मर्यते च ॥ अधिकरण १७४ वागादिलयाधिकरणम् ॥ सूत्र ५११ तानि परे तथा ह्याह ॥ अधिकरण १७५ अविभागाधिकरणम् ॥ सूत्र ५१२ अविभागो वचनात् ॥ अधिकरण १७६ तदोकोऽधिकरणम् ॥ सूत्र ५१३ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् । तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ अधिकरण १७७ रश्म्यधिकरणम् ॥ सूत्र ५१४ रश्म्यनुसारी । ५१५ निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वात् दर्शयति च ॥ अधिकरण १७८ दक्षिणयनाधिकरणम् ॥ सूत्र ५१६ अतश्चायनेऽपि दक्षिणे । ५१७ योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ अध्याय ४ पाद ३ अधिकरण १७९-१८४ सूत्र ५१८-५३३ अधिकरण १७९ अर्चिराद्यधिकरणम् ॥ सूत्र ५१८ अर्चिरादिना तत्प्रथितेः ॥ अधिकरण १८० वाय्वधिकरणम् ॥ सूत्र ५१९ वायुमब्दादविशेषविशेषाभ्याम् ॥ अधिकरण १८१ तडिदधिकरणम् ॥ सूत्र ५२० तडितोऽधि वरुणः सम्बन्धात् ॥ अधिकरण १८२ आतिवाहिकाधिकरणम् ॥ सूत्र ५२१ आतिवाहिकास्तल्लिङ्गात् । ५२२ उभयव्यामोहात्तत्सिद्धेः । ५२३ वैद्युतेनैव ततस्तत्श्रुतेः ॥ अधिकरण १८३ कार्याधिकरणम् ॥ सूत्र ५२४ कार्यं बादरिरस्य गत्युपपत्तेः । ५२५ विशेषितत्वाच्च । ५२६ सामीप्यात्तु तद्व्यपदेशः । ५२७ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । ५२८ स्मृतेश्च । ५२९ परं जैमिनिर्मुख्यत्वात् । ५३० दर्शनाच्च । ५३१ न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ अधिकरण १८४ प्रतिकालम्बनाधिकरणम् ॥ सूत्र ५३२ अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च । ५३३ विशेषं च दर्शयति ॥ अध्याय ४ पाद ४ अधिकरण १८५-१९१ सूत्र ५३४-५५५ अधिकरण १८५ सम्पद्याविर्भावाधिकरणम् ॥ सूत्र ५३४ सम्पद्याविर्भावः स्वेनशब्दात् । ५३५ मुक्तः प्रतिज्ञानात् । ५३६ आत्मा प्रकरणात् ॥ अधिकरण १८६ अविभागेन दृष्टत्वधिकरणम् ॥ सूत्र ५३७ अविभागेन दृष्टत्वात् ॥ अधिकरण १८७ ब्रह्माधिकरणम् ॥ सूत्र ५३८ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः । ५३९ चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः । ५४० एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ अधिकरण १८८ सङ्कल्पाधिकरणम् ॥ सूत्र ५४१ सङ्कल्पादेव तु तत्श्रुतेः । ५४२ अत एव चानन्याधिपतिः ॥ अधिकरण १८९ अभावाधिकरणम् ॥ सूत्र ५४३ अभावं बादरिराह ह्येवम् । ५४४ भावं जैमिनिर्विकल्पामननात् । ५४५ द्वादशाहवदुभयविधं बादरायणोऽतः । ५४६ तन्वभावे सन्ध्यवदुपपत्तेः । ५४७ भावे जाग्रद्वत् ॥ अधिकरण १९० प्रदीपाधिकरणम् ॥ सूत्र ५४८ प्रदीपवदावेशस्तथा हि दर्शयति । ५४९ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ अधिकरण १९१ जगद्व्यापाराधिकरणम् ॥ सूत्र ५५० जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च । ५५१ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः । ५५२ विकारावर्ति च तथा हि स्थितिमाह । ५५३ दर्शयतश्चैवं प्रत्यक्षानुमाने । ५५४ भोगमात्रसाम्यलिङ्गाच्च । ५५५ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥