अक्षर आकार:

ब्रह्मसूत्रं

brahmasUtraM

ब्रह्मसूत्रं

चित्तूलजातं यदु चित्तवृत्तं त्रिवृत्कृतं येन च भूतजातम् । यत्पूर्वजातं यदु नैव जातं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ १॥ त्रिलोकसूत्रं खलु यत्सुमन्त्रं त्रिवृत्तगात्रं नवदेवमात्रम् । यद्वै त्रिमात्रं यदनन्तमात्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ २॥ प्रजापतेर्यत्खलु पूर्वजातं यज्ञोपवीतं सहजातमाक्तम् । सत्त्वेन मुक्तं त्रिगुणेन शक्तं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ३॥ दक्षोद्धृतं चेद्यदु विश्वसूत्रं सदा पवित्रं प्रकरोति सूत्रम् । एनोलवित्रं भजतैकपात्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ४॥ यद्ब्रह्मसूत्रं यदु वस्तुतन्त्रं यतः स्वतन्त्रं परतन्त्रयन्त्रम् । तमाहुरत्रेः परमं सुपुत्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ५॥ यमत्रिपुत्रं ब्रुवते पवित्रमसाध्वमित्रं किल साधुमित्रम् । अतीव चित्रं सुविचित्रगात्रं तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ६॥ अनन्यया सूत्रमिदं पवित्रं भक्त्या धृतं चेत्सुविशुद्धगात्रम् । भवेत्पवित्रात्स पवित्र एव तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ७॥ स ब्राह्मणो यो मनसा बिभर्ति यद्वा नरो यो वचसा बिभर्ति । यद्वाप्यदम्भः श्रवसा बिभर्ति तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ८॥ द्विजोऽपि चेद्येन विवर्जितः स चण्डाल एवास्य च धारणेन । सद्ब्राह्मणत्वं खलु हीनजातेस्तद्ब्रह्मसूत्रं द्विज धेह्यजातम् ॥ ९॥ नवसूत्रमहोरात्रं योऽत्रिपुत्रमयं द्विजः । ब्रह्मसूत्रमिदं धत्ते स यातीह पवित्रताम् ॥ १०॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं ब्रह्मसूत्रं सम्पूर्णम् ॥