अक्षर आकार:

ब्रह्मसूत्राणि

brahmasUtra

ब्रह्मसूत्राणि

ॐ ॥ श्री गुरुभ्यो नमः हरिः ॐ॥ ॥ श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानि श्री ब्रह्मसूत्राणि॥ ॥ अथ प्रथमोऽध्यायः॥ ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ १.१.१॥ ॐ जन्माद्यस्य यतः ॐ ॥ १.१.२॥ ॐ शास्त्रयोनित्वात् ॐ ॥ १.१.३॥ ॐ तत्तुसमन्वयात् ॐ ॥ १.१.४॥ ॐ ईक्षतेर्नाशब्दम् ॐ ॥ १.१.५॥ ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ १.१.६॥ ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ १.१.७॥ ॐ हेयत्वावचनाच्च ॐ ॥ १.१.८॥ ॐ स्वाप्ययात् ॐ ॥ १.१.९॥ ॐ गतिसामान्यात् ॐ ॥ १.१.१०॥ ॐ श्रुतत्वाच्च ॐ ॥ १.१.११॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १.१.१२॥ ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ॥ १.१.१३॥ ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ १.१.१४॥ ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ १.१.१५॥ ॐ नेतरोऽनुपपत्तेः ॐ ॥ १.१.१६॥ ॐ भेदव्यपदेशाच्च ॐ ॥ १.१.१७॥ ॐ कामाच्च नानुमानापेक्षा ॐ ॥ १.१.१८॥ ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ १.१.१९॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ १.१.२०॥ ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ १.१.२१॥ ॐ आकाशस्तल्लिङ्गात् ॐ ॥ १.१.२२॥ ॐ अत एव प्राणः ॐ ॥ १.१.२३॥ ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ १.१.२४॥ ॐ छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ ॥ १.१.२५॥ ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ १.१.२६॥ ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ १.१.२७॥ ॐ प्राणस्तथानुगमात् ॐ ॥ १.१.२८॥ ॐ नवक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॐ ॥ १.१.२९॥ ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ ॥ १.१.३०॥ ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह तद्योगात् ॐ ॥ १.१.३१॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य प्रथमः पादः समाप्तः ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १.२.१॥ ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ १.२.२॥ ॐ अनुपपत्तेस्तु न शारीरः ॐ ॥ १.२.३॥ ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ १.२.४॥ ॐ शब्दविशेषात् ॐ ॥ १.२.५॥ ॐ स्मृतेश्च ॐ ॥ १.२.६॥ ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥ १.२.७॥ ॐ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ १.२.८॥ ॐ अत्ता चराचरग्रहणात् ॐ ॥ १.२.९॥ ॐ प्रकरणाच्च ॐ ॥ १.२.१०॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ १.२.११॥ ॐ विशेषणाच्च ॐ ॥ १.२.१२॥ ॐ अन्तर उपपत्तेः ॐ ॥ १.२.१३॥ ॐ स्थानादिव्यपदेशाच्च ॐ ॥ १.२.१४॥ ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ १.२.१५॥ ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ १.२.१६॥ ॐ अनवस्थितेरसंभवाच्च नेतरः ॐ ॥ १.२.१७॥ ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ १.२.१८॥ ॐ न च स्मार्तं अतद्धर्माभिपालात् ॐ ॥ १.२.१९॥ ॐ शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ १.२.२०॥ ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ १.२.२१॥ ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ १.२.२२॥ ॐ रूपोपन्यासाच्च ॐ ॥ १.२.२३॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ १.२.२४॥ ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥ १.२.२५॥ ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा (पाठेभद प्रतिष्ठानाच्च नेति चेन्न) दृष्ट्युपदेशादसंभवात्पुरुषविध्मपि चैनमधीयते ॐ ॥ १.२.२६॥ ॐ अत एव न देवता भूतं च ॐ ॥ १.२.२७॥ ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ १.२.२८॥ ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ १.२.२९॥ ॐ अनुस्मृतेर्बादरिः ॐ ॥ १.२.३०॥ ॐ सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॐ ॥ १.२.३१॥ ॐ आमनन्ति चैनमस्मिन् ॐ ॥ १.२.३२॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य द्वितीयः पादः समाप्तः ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ १.३.१॥ ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ १.३.२॥ ॐ नानुमानमतच्छब्दात् ॐ ॥ १.३.३॥ ॐ प्राणभृच्च ॐ ॥ १.३.४॥ ॐ भेदव्यपदेशात् ॐ ॥ १.३.५॥ ॐ प्रकरणात् ॐ ॥ १.३.६॥ ॐ स्थित्यदनाभ्यां च ॐ ॥ १.३.७॥ ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ १.३.८॥ ॐ धर्मोपपत्तेश्च ॐ ॥ १.३.९॥ ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ १.३.१०॥ ॐ सा च प्रशासनात् ॐ ॥ १.३.११॥ ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ १.३.१२॥ ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ १.३.१३॥ ॐ दहर उत्तरेभ्यः ॐ ॥ १.३.१४॥ ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ १.३.१५॥ ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ १.३.१६॥ ॐ प्रसिद्धेश्च ॐ ॥ १.३.१७॥ ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ १.३.१८॥ ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ १.३.१९॥ ॐ अन्यार्थश्च परामर्शः ॐ ॥ १.३.२०॥ ॐ अल्पश्रुतेरिति चेत्तदुक्तम् ॐ ॥ १.३.२१॥ ॐ अनुकृतेस्तस्य च ॐ ॥ १.३.२२॥ ॐ अपि स्मर्यते ॐ ॥ १.३.२३॥ पाठभेद अपि च स्मर्यते ॐ शब्दादेव प्रमितः ॐ ॥ १.३.२४॥ ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ १.३.२५॥ ॐ तदुपर्यपि बादरायणः संभवात् ॐ ॥ १.३.२६॥ ॐ विरोधः कर्मणीति चेदनेकप्रतिपत्तेर्दर्शनात् ॐ ॥ १.३.२७॥ ॐ शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॐ ॥ १.३.२८॥ ॐ अत एव च नित्यत्वम् ॐ ॥ १.३.२९॥ ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॐ ॥ १.३.३०॥ ॐ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॐ ॥ १.३.३१॥ ॐ ज्योतिषि भावाच्च ॐ ॥ १.३.३२॥ ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥ १.३.३३॥ ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥ १.३.३४॥ ॐ क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ १.३.३५॥ ॐ संस्कारपरामर्शात्तदभावाभिलापाच्च ॐ ॥ १.३.३६॥ ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ १.३.३७॥ ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ १.३.३८॥ ॐ कम्पनात् ॐ ॥ १.३.३९॥ ॐ ज्योतिर्दर्शनात् ॐ ॥ १.३.४०॥ ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ १.३.४१॥ ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ १.३.४२॥ ॐ पत्यादिशब्देभ्यः ॐ ॥ १.३.४३॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ १.४.१॥ ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ १.४.२॥ ॐ तदधीनत्वादर्थवत् ॐ ॥ १.४.३॥ ॐ ज्ञेयत्वावचनाच्च ॐ ॥ १.४.४॥ ॐ वदतीति चेन्न प्राज्ञो हि ॐ ॥ १.४.५॥ पाठभेद 1.4.5 and 6 combined ॐ प्रकरणात् ॐ ॥ १.४.६॥ ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ १.४.७॥ ॐ महद्वच्च ॐ ॥ १.४.८॥ ॐ चमसवदविशेषात् ॐ ॥ १.४.९॥ ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ॥ १.४.१०॥ ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥ १.४.११॥ ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥ १.४.१२॥ ॐ प्राणादयो वाक्यशेषात् ॐ ॥ १.४.१३॥ ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥ १.४.१४॥ ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ १.४.१५॥ ॐ समाकर्षात् ॐ ॥ १.४.१६॥ ॐ जगद्वाचित्वात् ॐ ॥ १.४.१७॥ ॐ जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ॐ ॥ १.४.१८॥ ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ॥ १.४.१९॥ ॐ वाक्यान्वयात् ॐ ॥ १.४.२०॥ ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ॥ १.४.२१॥ ॐ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॐ ॥ १.४.२२॥ ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥ १.४.२३॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ १.४.२४॥ ॐ अभिध्योपदेशाच्च ॐ ॥ १.४.२५॥ ॐ साक्षाच्चोभयाम्नानात् ॐ ॥ १.४.२६॥ ॐ आत्मकृतेः परिणामात् ॐ ॥ १.४.२७॥ ॐ योनिश्च हि गीयते ॐ ॥ १.४.२८॥ ॐ एतेन सर्वेव्याख्याताव्याख्याताः ॐ ॥ १.४.२९॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति प्रथमोऽध्यायः॥ ॥ अथ द्वितीयोऽध्यायः॥ ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ २.१.१॥ ॐ इतरेषां चानुपलब्धेः ॐ ॥ २.१.२॥ ॐ एतेन योगः प्रत्युक्तः ॐ ॥ २.१.३॥ ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ २.१.४॥ ॐ दृश्यते तु ॐ ॥ २.१.५॥ ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ २.१.६॥ ॐ दृश्यते च ॐ ॥ २.१.७॥ पाठभेद दृश्यते तु ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ २.१.८॥ ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ २.१.९॥ ॐ न तु दृष्टान्तभावात् ॐ ॥ २.१.१०॥ ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.११॥ ॐ तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ ॥ २.१.१२॥ ॐ एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॐ ॥ २.१.१३॥ ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ २.१.१४॥ ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ २.१.१५॥ ॐ भावे चोपलब्धेः ॐ ॥ २.१.१६॥ ॐ सत्त्वाच्चावरस्य ॐ ॥ २.१.१७॥ ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ २.१.१८॥ ॐ युक्तेः शब्दान्तराच्च ॐ ॥ २.१.१९॥ ॐ पटवच्च ॐ ॥ २.१.२०॥ ॐ यथा प्राणादिः ॐ ॥ २.१.२१॥ ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ २.१.२२॥ ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ २.१.२३॥ ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ २.१.२४॥ ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ २.१.२५॥ ॐ देवादिवदपि लोके ॐ ॥ २.१.२६॥ ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ २.१.२७॥ ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ २.१.२८॥ ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ २.१.२९॥ ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.३०॥ ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ २.१.३१॥ ॐ विकरणत्वान्नेतिचेत्तदुक्तम् ॐ ॥ २.१.३२॥ ॐ न प्रयोजनत्त्वात् ॐ ॥ २.१.३३॥ ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥ २.१.३४॥ ॐ वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ॥ २.१.३५॥ ॐ कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ २.१.३६॥ ॐ उपपद्यते चाप्युपलभ्यते च ॐ ॥ २.१.३७॥ ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ २.१.३८॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु द्वितीयाध्यायस्य प्रथमः पादः समाप्तः ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ २.२.१॥ ॐ प्रवृत्तेश्च ॐ ॥ २.२.२॥ ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ ॥ २.२.३॥ ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ २.२.४॥ ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ २.२.५॥ ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥ २.२.६॥ ॐ पुरुषाश्मवदितिचेत्तथापि ॐ ॥ २.२.७॥ ॐ अङ्गित्वानुपपत्तेः ॐ ॥ २.२.८॥ ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ २.२.९॥ ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ॥ २.२.१०॥ ॐ महद्दीर्घवद्धा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ २.२.११॥ ॐ उभयथापि न कर्मातस्तदभावः ॐ ॥ २.२.१२॥ ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ २.२.१३॥ ॐ नित्यमेव च भावात् ॐ ॥ २.२.१४॥ ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ ॥ २.२.१५॥ ॐ उभयथा च दोषात् ॐ ॥ २.२.१६॥ ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ॥ २.२.१७॥ ॐ समुदायोभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ २.२.१८॥ ॐ इतरेतरप्रत्ययत्वादिति चेन्नौत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ २.२.१९॥ ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ ॥ २.२.२०॥ ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥ २.२.२१॥ ॐ प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः अविच्छेदात् ॐ ॥ २.२.२२॥ ॐ उभयथा च दोषात् ॐ ॥ २.२.२३॥ ॐ आकाशे चाविशेषात् ॐ ॥ २.२.२४॥ ॐ अनुस्मृतेश्च ॐ ॥ २.२.२५॥ ॐ नासतोऽदृष्टत्वात् ॐ ॥ २.२.२६॥ ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥ २.२.२७॥ ॐ नाभाव उपलब्धेः ॐ ॥ २.२.२८॥ ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥ २.२.२९॥ ॐ न भावोऽनुपलब्धेः ॐ ॥ २.२.३०॥ ॐ क्षणिकत्वाच्च ॐ ॥ २.२.३१॥ ॐ सर्वथानुपपत्तेश्च ॐ ॥ २.२.३२॥ ॐ नैकस्मिन्नसम्भवात् ॐ ॥ २.२.३३॥ ॐ एवं चात्माकार्त्स्न्यम् ॐ ॥ २.२.३४॥ ॐ न च पर्यायादप्यविरोधः विकारादिभ्यः ॐ ॥ २.२.३५॥ ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषत् ॐ ॥ २.२.३६॥ ॐ पत्युरसामञ्जस्यात् ॐ ॥ २.२.३७॥ ॐ संबन्धानुपपत्तेश्च ॐ ॥ २.२.३८॥ ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ २.२.३९॥ ॐ करणवच्चेन्न भोगादिभ्यः ॐ ॥ २.२.४०॥ ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ ॥ २.२.४१॥ ॐ उत्पत्त्यसम्भवात् ॐ ॥ २.२.४२॥ ॐ न च कर्तुः करणम् ॐ ॥ २.२.४३॥ ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥ २.२.४४॥ ॐ विप्रतिषेधाच्च ॐ ॥ २.२.४५॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः ॐ न वियदश्रुतेः ॐ ॥ २.३.१॥ ॐ अस्ति तु ॐ ॥ २.३.२॥ ॐ गौण्यसम्भवात् ॐ ॥ २.३.३॥ ॐ शब्दाच्च ॐ ॥ २.३.४॥ ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥ २.३.५॥ ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥ २.३.६॥ ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ २.३.७॥ ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ २.३.८॥ ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ २.३.९॥ ॐ तेजोऽतस्तथा ह्याह ॐ ॥ २.३.१०॥ ॐ आपः ॐ ॥ २.३.११॥ ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ २.३.१२॥ ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ॥ २.३.१३॥ ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ २.३.१४॥ ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ॥ २.३.१५॥ ॐ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः तद्भावभावित्वात् ॐ ॥ २.३.१६॥ ॐ नात्मा अश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ २.३.१७॥ ॐ ज्ञोऽत एव ॐ ॥ २.३.१८॥ ॐ युक्तेश्च ॐ ॥ २.३.१९॥ ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ २.३.२०॥ ॐ स्वात्मना चोत्तरयोः ॐ ॥ २.३.२१॥ ॐ नाणुरतत् श्रुतेरिति चेन्न इतराधिकारात् ॐ ॥ २.३.२२॥ ॐ स्वशब्दोन्मानाभ्यां च ॐ ॥ २.३.२३॥ ॐ अविरोधश्चन्दनवत् ॐ ॥ २.३.२४॥ ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृद्धि हि ॐ ॥ २.३.२५॥ ॐ गुणाद्वाऽऽलोकवत् ॐ ॥ २.३.२६॥ ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ॥ २.३.२७॥ ॐ पृथगुपदेशात् ॐ ॥ २.३.२८॥ ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥ २.३.२९॥ ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥ २.३.३०॥ ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥ २.३.३१॥ ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॐ ॥ २.३.३२॥ ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ २.३.३३॥ ॐ विहारोपदेशात् ॐ ॥ २.३.३४॥ ॐ उपादानात् ॐ ॥ २.३.३५॥ ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ २.३.३६॥ ॐ उपलब्धिवदनियमः ॐ ॥ २.३.३७॥ ॐ शक्तिविपर्ययात् ॐ ॥ २.३.३८॥ ॐ समाध्यभावाछ ॐ ॥ २.३.३९॥ ॐ यथा च तक्षोभयथा ॐ ॥ २.३.४०॥ ॐ परात्तु तच्छ्रुतेः ॐ ॥ २.३.४१॥ ॐ कृतप्रयत्नोपेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॐ ॥ २.३.४२॥ ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥ २.३.४३॥ ॐ मन्त्रवर्णात् ॐ ॥ २.३.४४॥ ॐ अपि स्मर्यते ॐ ॥ २.३.४५॥ पाठभेद अपि च स्मर्यते ॐ प्रकाशादिवन्नैवं परः ॐ ॥ २.३.४६॥ ॐ स्मरन्ति च ॐ ॥ २.३.४७॥ ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ २.३.४८॥ ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ २.३.४९॥ ॐ आभास एव च ॐ ॥ २.३.५०॥ ॐ अदृष्टानियमात् ॐ ॥ २.३.५१॥ ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ २.३.५२॥ ॐ प्रदेशादिति चेन्नान्तर्भावात् ॐ ॥ २.३.५३॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु द्वितीयाध्यायस्य तृतीयः पादः समाप्तः ॐ तथा प्राणाः ॐ ॥ २.४.१॥ ॐ गौण्यसम्भवात् ॐ ॥ २.४.२॥ ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ २.४.३॥ पाठभेद sUtra absent ॐ तत्प्राक्श्रुतेश्च ॐ ॥ २.४.४॥ ॐ तत्पूर्वकत्वाद्वाचः ॐ ॥ २.४.५॥ ॐ सप्त गतेर्विशेषितत्वाच्च ॐ ॥ २.४.६॥ ॐ हस्तादयस्तु स्थितेऽतो नैवम् ॐ ॥ २.४.७॥ ॐ अणवश्च ॐ ॥ २.४.८॥ ॐ श्रेष्ठश्च ॐ ॥ २.४.९॥ ॐ न वायुक्रिये पृथगुपदेशात् ॐ ॥ २.४.१०॥ ॐ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ २.४.११॥ ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ २.४.१२॥ ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ २.४.१३॥ ॐ अणुश्च ॐ ॥ २.४.१४॥ ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ २.४.१५॥ ॐ प्राणवता शब्दात् ॐ ॥ २.४.१६॥ ॐ तस्य च नितयत्वात् ॐ ॥ २.४.१७॥ ॐ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ २.४.१८॥ ॐ भेदश्रुतेः ॐ ॥ २.४.१९॥ ॐ वैलक्षण्याच्च ॐ ॥ २.४.२०॥ ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ॥ २.४.२१॥ ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ २.४.२२॥ ॐ वैशेष्यात्तु तद्वादस्तद्वादः ॐ ॥ २.४.२३॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति द्वितीयोऽध्यायः॥ %aद्द्लिने ॥ अथ तृतीयोऽध्यायः॥ ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ ३.१.१॥ ॐ त्र्यात्मकत्वात्तु भूयस्त्वात् ॐ ॥ ३.१.२॥ ॐ प्राणगतेश्च ॐ ॥ ३.१.३॥ ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥ ३.१.४॥ ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ ३.१.५॥ ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॐ ॥ ३.१.६॥ ॐ भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॐ ॥ ३.१.७॥ ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ ॥ ३.१.८॥ पाठभेद 3.1.8 and 9 combined ॐ यथेतमनेवं च ॐ ॥ ३.१.९॥ ॐ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॐ ॥ ३.१.१०॥ ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ ३.१.११॥ ॐ सुकृतदुष्कृते एवेति तु बादरिः ॐ ॥ ३.१.१२॥ ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ ३.१.१३॥ ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ॥ ३.१.१४॥ ॐ स्मरन्ति च ॐ ॥ ३.१.१५॥ ॐ अपि सप्त ॐ ॥ ३.१.१६॥ ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ ३.१.१७॥ ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ ३.१.१८॥ ॐ न तृतीये तथोपलब्धेः ॐ ॥ ३.१.१९॥ ॐ स्मर्यतेऽपि च लोके ॐ ॥ ३.१.२०॥ ॐ दर्शनाच्च ॐ ॥ ३.१.२१॥ ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ ३.१.२२॥ ॐ स्मरणाच्च ॐ ॥ ३.१.२३॥ ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ ३.१.२४॥ ॐ नातिचिरेण विशेषात् ॐ ॥ ३.१.२५॥ ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ ३.१.२६॥ ॐ अशुद्धमिति चेन्न शब्दात् ॐ ॥ ३.१.२७॥ ॐ रेतः सिग्योगोऽथ ॐ ॥ ३.१.२८॥ ॐ योनेः शरीरम् ॐ ॥ ३.१.२९॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु तृतीयाध्यायस्य प्रथमः पादः समाप्तः ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ ३.२.१॥ ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ ३.२.२॥ ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ॥ ३.२.३॥ ॐ सूचकश्च हि श्रुतेः आचक्षते च तद्विदः ॐ ॥ ३.२.४॥ ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ ३.२.५॥ ॐ देहयोगाद्वासोऽपि ॐ ॥ ३.२.६॥ ॐ तदभावो नाडीषु तच्छ्रुतेः आत्मनि च ॐ ॥ ३.२.७॥ ॐ अतः प्रबोधोऽस्मात् ॐ ॥ ३.२.८॥ ॐ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ ३.२.९॥ ॐ मुग्धेऽर्थसम्पत्तिर्परिशेषात् ॐ ॥ ३.२.१०॥ ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ ३.२.११॥ ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ॥ ३.२.१२॥ ॐ अपि चैवमेके ॐ ॥ ३.२.१३॥ ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ ३.२.१४॥ ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ ३.२.१५॥ ॐ आह च तन्मात्रम् ॐ ॥ ३.२.१६॥ ॐ दर्शयति चाथोऽपि स्मर्यते ॐ ॥ ३.२.१७॥ ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ ३.२.१८॥ ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ॥ ३.२.१९॥ ॐ वृद्धिह्रासभाक्त्वमन्तर्भावात् उभयसामञ्जस्यादेवम् ॐ ॥ ३.२.२०॥ ॐ दर्शनाच्च ॐ ॥ ३.२.२१॥ ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥ ३.२.२२॥ ॐ तदव्यक्तमाह हि ॐ ॥ ३.२.२३॥ ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ ३.२.२४॥ ॐ प्रकाशवच्चावैशेष्यं ॐ ॥ ३.२.२५॥ पाठभेद 3.2.25 and 26 combined ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ ३.२.२६॥ ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ ३.२.२७॥ ॐ उभयव्यपदेशात्तु अहिकुण्डलवत् ॐ ॥ ३.२.२८॥ ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ ३.२.२९॥ ॐ पूर्ववद्वा ॐ ॥ ३.२.३०॥ ॐ प्रतिषेधाच्च ॐ ॥ ३.२.३१॥ ॐ परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॐ ॥ ३.२.३२॥ ॐ दर्शनात् ॐ ॥ ३.२.३३॥ ॐ बुद्ध्यर्थः पादवत् ॐ ॥ ३.२.३४॥ ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ ३.२.३५॥ ॐ उपपत्तेश्च ॐ ॥ ३.२.३६॥ ॐ तथाऽन्यप्रतिषेधात् ॐ ॥ ३.२.३७॥ ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ ३.२.३८॥ ॐ फलमत उपपत्तेः ॐ ॥ ३.२.३९॥ ॐ श्रुतत्वाच्च ॐ ॥ ३.२.४०॥ ॐ धर्मं जैमिनिः अत एव ॐ ॥ ३.२.४१॥ ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ ३.२.४२॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु तृतीयाध्यायस्य द्वितीयः पादः समाप्तः ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ ३.३.१॥ ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ ३.३.२॥ ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ ३.३.३॥ पाठभेद + समाचारेऽधिकाराच्च सववच्च तन्नियमः ॐ सलिलवच्च तन्नियमः ॐ ॥ ३.३.४॥ ॐ दर्शयति च ॐ ॥ ३.३.५॥ ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ॥ ३.३.६॥ ॐ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॐ ॥ ३.३.७॥ ॐ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॐ ॥ ३.३.८॥ ॐ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॐ ॥ ३.३.९॥ ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ ३.३.१०॥ ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ ३.३.११॥ ॐ आनन्दादयः प्रधानस्य ॐ ॥ ३.३.१२॥ ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ ३.३.१३॥ ॐ इतरे त्वर्थसामान्यात् ॐ ॥ ३.३.१४॥ ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ ३.३.१५॥ ॐ आत्मशब्दाच्च ॐ ॥ ३.३.१६॥ ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ॥ ३.३.१७॥ ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ॥ ३.३.१८॥ ॐ कार्याख्यानादपूर्वम् ॐ ॥ ३.३.१९॥ ॐ समान एवञ्चाभेदात् ॐ ॥ ३.३.२०॥ ॐ संबन्धादेवमन्यत्रापि ॐ ॥ ३.३.२१॥ ॐ न वा विशेषात् ॐ ॥ ३.३.२२॥ ॐ दर्शयति च ॐ ॥ ३.३.२३॥ ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ ॥ ३.३.२४॥ ॐ पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॐ ॥ ३.३.२५॥ ॐ वेधाद्यर्थभेदात् ॐ ॥ ३.३.२६॥ ॐ हानौ तूपायनशब्दशेषात् कुशाच्छन्दस्स्तुत्युपगानवत् तदुक्तम् ॐ ॥ ३.३.२७॥ ॐ साम्पराये तर्तव्याभावात् तथा ह्यन्ये ॐ ॥ ३.३.२८॥ ॐ छन्दत उभयाविरोधात् ॐ ॥ ३.३.२९॥ ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॐ ॥ ३.३.३०॥ ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेः लोकवत् ॐ ॥ ३.३.३१॥ ॐ अनियमः सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॐ ॥ ३.३.३२॥ ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ ३.३.३३॥ ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ॥ ३.३.३४॥ ॐ इयदामननात् ॐ ॥ ३.३.३५॥ ॐ अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॐ ॥ ३.३.३६॥ ॐ अन्यथा भेदानुपपत्तिरितिचेन्नोपदेशवत् ॐ ॥ ३.३.३७॥ ॐ व्यतिहारो विशिंषन्ति हीतरव्रत् ॐ ॥ ३.३.३८॥ ॐ सैव हि सत्यादयः ॐ ॥ ३.३.३९॥ ॐ कामादितरत्र तत्र च आयतनादिभ्यः ॐ ॥ ३.३.४०॥ ॐ आदारादलोपः ॐ ॥ ३.३.४१॥ ॐ उपस्थितेस्तद्वचनात् ॐ ॥ ३.३.४२॥ ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेर्पृथग्ध्यप्रतिबन्धः फलम् ॐ ॥ ३.३.४३॥ ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ ३.३.४४॥ ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ॥ ३.३.४५॥ ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ॥ ३.३.४६॥ ॐ अतिदेशाच्च ॐ ॥ ३.३.४७॥ ॐ विद्यैव तु निर्धारणात् ॐ ॥ ३.३.४८॥ ॐ दर्शनाच्च ॐ ॥ ३.३.४९॥ ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ ॥ ३.३.५०॥ ॐ अनुबन्धादिभ्यः ॐ ॥ ३.३.५१॥ ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ ३.३.५२॥ ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्तिः ॐ ॥ ३.३.५३॥ ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ॥ ३.३.५४॥ ॐ एक आत्मनः शरीरे भावात् ॐ ॥ ३.३.५५॥ ॐ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॐ ॥ ३.३.५६॥ ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ॥ ३.३.५७॥ ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥ ३.३.५८॥ ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ ३.३.५९॥ ॐ नानाशब्दादिभेदात् ॐ ॥ ३.३.६०॥ ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ ३.३.६१॥ ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥ ३.३.६२॥ ॐ अङ्गेषु यथाश्रयभावः ॐ ॥ ३.३.६३॥ ॐ शिष्टेश्च ॐ ॥ ३.३.६४॥ ॐ समाहारात् ॐ ॥ ३.३.६५॥ ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥ ३.३.६६॥ ॐ न वा तत्सहभावश्रुतेः ॐ ॥ ३.३.६७॥ ॐ दर्शनाच्च ॐ ॥ ३.३.६८॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु तृतीयाध्यायस्य तृतीयः पादः समाप्तः ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ ३.४.१॥ ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ ३.४.२॥ ॐ आचारदर्शनात् ॐ ॥ ३.४.३॥ ॐ तच्छ्रुतेः ॐ ॥ ३.४.४॥ ॐ समन्वारम्भणात् ॐ ॥ ३.४.५॥ ॐ तद्वतो विधानात् ॐ ॥ ३.४.६॥ ॐ नियमाच्च ॐ ॥ ३.४.७॥ ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ ३.४.८॥ ॐ तुल्यं तु दर्शनम् ॐ ॥ ३.४.९॥ ॐ असार्वत्रिकी ॐ ॥ ३.४.१०॥ ॐ विभागः शतवत् ॐ ॥ ३.४.११॥ ॐ अध्ययनमात्रवतः ॐ ॥ ३.४.१२॥ ॐ नाविशेषात् ॐ ॥ ३.४.१३॥ ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ ३.४.१४॥ ॐ कामकारेण चैके ॐ ॥ ३.४.१५॥ ॐ उपमर्दं च ॐ ॥ ३.४.१६॥ ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ ३.४.१७॥ ॐ परामर्शं जैमिनिरचोदना चापवदिति हि ॐ ॥ ३.४.१८॥ ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ ३.४.१९॥ ॐ विधिर्वा धारणवत् ॐ ॥ ३.४.२०॥ ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ ३.४.२१॥ ॐ भावशब्दाच्च ॐ ॥ ३.४.२२॥ ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ ३.४.२३॥ ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ ३.४.२४॥ ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ ३.४.२५॥ ॐ सर्वापेक्षा च यज्ञादिश्रुतेः अश्ववत् ॐ ॥ ३.४.२६॥ ॐ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥ ३.४.२७॥ ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ ३.४.२८॥ ॐ अबाधाच्च ॐ ॥ ३.४.२९॥ ॐ अपि स्मर्यते ॐ ॥ ३.४.३०॥ ॐ शब्दश्चातोऽकामचारे ॐ ॥ ३.४.३१॥ ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ ३.४.३२॥ ॐ सहकारित्वेन च ॐ ॥ ३.४.३३॥ ॐ सर्वथापि तु त एवोभयलिङ्गात् ॐ ॥ ३.४.३४॥ ॐ अनभिभवं च दर्शयति ॐ ॥ ३.४.३५॥ ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ ३.४.३६॥ ॐ अपि स्मर्यते ॐ ॥ ३.४.३७॥ ॐ विशेषणानुग्रहं च ॐ ॥ ३.४.३८॥ ॐ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॐ ॥ ३.४.३९॥ ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाऽभावेभ्यः ॐ ॥ ३.४.४०॥ ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ॥ ३.४.४१॥ ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ॥ ३.४.४२॥ ॐ बहिस्तूभयथापि स्मृतेराचाराच्च ॐ ॥ ३.४.४३॥ ॐ स्वामिनः श्रुतेरित्यात्रेयः ॐ ॥ ३.४.४४॥ ॐ आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रियते ॐ ॥ ३.४.४५॥ ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विद्यादिवत् ॐ ॥ ३.४.४६॥ पाठभेद श्रुतेश्च added to 3.4.46 ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ ॥ ३.४.४७॥ ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥ ३.४.४८॥ ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ ३.४.४९॥ ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ ३.४.५०॥ ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ ३.४.५१॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति तृतीयोऽध्यायः॥ ॥ अथ चतुर्थोऽध्यायः॥ ॐ आवृत्तिः असकृदुपदेशात् ॐ ॥ ४.१.१॥ ॐ लिङ्गाच्च ॐ ॥ ४.१.२॥ ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ ४.१.३॥ ॐ न प्रतीके न हि सः ॐ ॥ ४.१.४॥ ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥ ४.१.५॥ ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ ४.१.६॥ ॐ आसीनस्सम्भवात् ॐ ॥ ४.१.७॥ ॐ ध्यानाच्च ॐ ॥ ४.१.८॥ ॐ अचलत्वं चापेक्ष्य ॐ ॥ ४.१.९॥ ॐ स्मरन्ति च ॐ ॥ ४.१.१०॥ ॐ यत्रैकाग्रता तत्राविशेषात् ॐ ॥ ४.१.११॥ ॐ आ प्रायणात्तत्रापि हि दृष्टम् ॐ ॥ ४.१.१२॥ ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ॥ ४.१.१३॥ ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ॥ ४.१.१४॥ ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ ॥ ४.१.१५॥ ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ॥ ४.१.१६॥ ॐ अतोऽन्यदपीत्येकेषामुभयोः ॐ ॥ ४.१.१७॥ ॐ यदेव विद्ययेति हि ॐ ॥ ४.१.१८॥ ॐ भागेन त्वितरे क्षपयित्वा सम्पत्स्यते ॐ ॥ ४.१.१९॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु चतुर्थाध्यायस्य प्रथमः पादः समाप्तः ॐ वाङ्ग्मनसि दर्शनाच्छब्दाच्च ॐ ॥ ४.२.१॥ ॐ अत एव च सर्वाण्यनु ॐ ॥ ४.२.२॥ ॐ तन्मनः प्राण उत्तरात् ॐ ॥ ४.२.३॥ ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ॥ ४.२.४॥ ॐ भूतेषु तच्छ्रुतेः ॐ ॥ ४.२.५॥ ॐ नैकस्मिन् दर्शयतो हि ॐ ॥ ४.२.६॥ ॐ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ॥ ४.२.७॥ ॐ तदपीतेः संसारव्यपदेशात् ॐ ॥ ४.२.८॥ ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॐ ॥ ४.२.९॥ ॐ नोपमर्देनातः ॐ ॥ ४.२.१०॥ ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥ ४.२.११॥ ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥ ४.२.१२॥ ॐ स्पष्टो ह्येकेषाम् ॐ ॥ ४.२.१३॥ ॐ स्मर्यते च ॐ ॥ ४.२.१४॥ ॐ तानि परे तथा ह्याह ॐ ॥ ४.२.१५॥ ॐ अविभागो वचनात् ॐ ॥ ४.२.१६॥ ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीताः शताधिकया ॐ ॥ ४.२.१७॥ ॐ रश्म्यनुसारी ॐ ॥ ४.२.१८॥ ॐ निशि नेति चेन्न संभन्धात् ॐ ॥ ४.२.१९॥ पाठभेद 4.2.19 and 20 combined ॐ यावद्देहभावित्वाद्दर्शयति च ॐ ॥ ४.२.२०॥ ॐ अतश्चायनेऽपि दक्षिणे ॐ ॥ ४.२.२१॥ ॐ योगिनः प्रति स्मर्यते स्मार्ते चैते ॐ ॥ ४.२.२२॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु चतुर्थाध्यायस्य द्वितीयः पादः समाप्तः ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ ४.३.१॥ ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ ४.३.२॥ ॐ तटितोऽधि वरुणः संबन्धात् ॐ ॥ ४.३.३॥ ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥ ४.३.४॥ ॐ उभयव्यामोहात्तत्सिद्धेः ॐ ॥ ४.३.५॥ ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ ४.३.६॥ ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ॥ ४.३.७॥ ॐ विशेषितत्वाच्च ॐ ॥ ४.३.८॥ ॐ सामीप्यात्तु तद्व्यपदेशः ॐ ॥ ४.३.९॥ ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ ॥ ४.३.१०॥ ॐ स्मृतेश्च ॐ ॥ ४.३.११॥ ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥ ४.३.१२॥ ॐ दर्शनाच्च ॐ ॥ ४.३.१३॥ ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥ ४.३.१४॥ ॐ अप्रतीकालम्बनान्नयतीति बादरायणरुभयथा च दोषात् तत्क्रतुश्च ॐ ॥ ४.३.१५॥ ॐ विशेषं च दर्शयति ॐ ॥ ४.३.१६॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु चतुर्थाध्यायस्य तृतीयः पादः समाप्तः ॐ सम्पद्याविहाय स्वेनशब्दात् ॐ ॥ ४.४.१॥ ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ ४.४.२॥ ॐ आत्मा प्रकरणात् ॐ ॥ ४.४.३॥ ॐ अविभागेन दृष्टत्वात् ॐ ॥ ४.४.४॥ ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ॥ ४.४.५॥ ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ॥ ४.४.६॥ ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ ॥ ४.४.७॥ ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ॥ ४.४.८॥ ॐ अत एव चानन्याधिपतिः ॐ ॥ ४.४.९॥ ॐ अभावं बादरिराह ह्येवम् ॐ ॥ ४.४.१०॥ ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ॥ ४.४.११॥ ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ ॥ ४.४.१२॥ ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ॥ ४.४.१३॥ ॐ भावे जाग्रद्वत् ॐ ॥ ४.४.१४॥ ॐ प्रदीपवदावेशः तथा हि दर्शयति ॐ ॥ ४.४.१५॥ ॐ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ॥ ४.४.१६॥ ॐ जगद्व्यापारवर्जम् ॐ ॥ ४.४.१७॥ पाठभेद 4.4.17 and 18 combined ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥ ४.४.१८॥ ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ॥ ४.४.१९॥ ॐ विकारावर्ति च तथा हि दर्शयति ॐ ॥ ४.४.२०॥ ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ ४.४.२१॥ ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ॥ ४.४.२२॥ ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ ॥ ४.४.२३॥ इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥ इति चतुर्थोऽध्यायः॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु