श्रीभगवद्भक्तिरसायनम्
परमहंसपरिव्राजकाचार्य-विश्वविख्यातवैदुषीक श्रीमधुसूदनसरस्वतीयतिवर विरचितम् भक्तिसामान्यनिरूपणनामकः प्रथमोल्लासः ॥ नवरसमिलितं वा केवलं वा पुमर्थं परममिह मुकुन्दे भक्तियोगं वदन्ति । निरुपमसुखसंविद्रूपमस्पृष्टदुःखं तमहमखिलतुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि ॥ १॥ संसाररोगेण बलीयसा चिरं निपीडितैस्तत्प्रशमेऽतिशिक्षितम् । इदं भवद्भिर्बहुधा व्ययातिगं निपीयतां भक्तिरसायनं बुधाः ॥ २॥ द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता । सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते ॥ ३॥ चित्तद्रव्यं हि जतुवत्स्वभावात्कठिनात्मकम् । तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते ॥ ४॥ कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः । तापकाश्चित्तजतुनस्तच्छान्तौ कठिनं तु तत् ॥ ५॥ द्रुतचित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना । शब्दसंस्कारवासनाभावभावनाभागसौ ॥ ६॥ शिथिलीभावमात्रं तु मनो गच्छत्यतापकैः । न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥ ७॥ द्रवतायां प्रविष्टं सद्यत्काठिन्यदशां गतम् । चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति ॥ ८॥ स्थायीभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते । व्यक्तश्च रसतामेति परानन्दतया पुनः ॥ ९॥ भगवान्परमानन्दस्वरूपः स्वयमेव हि । मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥ १०॥ कान्ताऽऽदि विषयेऽप्यस्ति कारणं सुखचिद्घनम् । कार्याकारतयाऽभानेऽप्यावृतं मायया स्वतः ॥ ११॥ सदज्ञातञ्च तद्ब्रह्म मेयं कान्ताऽऽदि मानतः । मायाऽऽवृतितिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥ १२॥ अतस्तदेव भावत्वं मनसि प्रतिपद्यते । किञ्च न्यूनाञ्च रसतां याति जाड्यविमिश्रणात् ॥ १३॥ इति वेदान्तसिद्धान्ते स्थायिनो रसतोदिता । साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते ॥ १४॥ तमोरजःसत्त्वगुणा मोहदुःखसुखात्मकाः । तन्मयी प्रकृतिर्हेतुः, सर्वं कार्यञ्च तन्मयम् ॥ १५॥ त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते । निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः ॥ १६॥ कामिन्याः सुखता भर्त्रा सपत्न्या दुःखरूपता । तदलाभात्तथाऽन्येन मोहत्वमनुभूयते ॥ १७॥ एवं सति सुखाकारः प्रविष्टो मानसे यदा । तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ॥ १८॥ परमाण्वेकरूपं तु चित्तं न विषयाकृति । इत्यादि मतमन्येषामप्रमाण्यादुपेक्षितम् ॥ १९॥ गृह्णाति विषयाकारं मनो विषययोगतः । इति वेदान्तिभिस्साङ्ख्यैरपि सम्यङ्निरूपितम् ॥ २०॥ मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम् ॥ २१॥ व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात् । सर्वार्थ व्यञ्जकत्त्वाद्धीरर्थाकारा प्रदृश्यते ॥ २२॥ भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका । तथा वार्तिककारैरप्ययमर्थो निरूपितः ॥ २३॥ मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् । मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते ॥ २४॥ var. addition एवं एतादृशं वाक्यमुदाहार्यमनेकशः । चित्तस्य विषयाकारग्राहकत्वोपपादने ॥ २५॥ var. addition अतो मांसमयी योषित्काचिदन्या मनोमयी । मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥ २६॥ भार्या, स्नुषा, ननान्दा च, याता, मातेत्यनेकधा । जामाता, श्वशुरः, पुत्रः, पितेत्यादि पुमानपि ॥ २७॥ बाह्य पिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः । अतः स्थायीति विद्वद्भिरयमेव निरूपितः ॥ २८॥ एवं सामान्यतो भावस्वरूपमभिवर्णितम् । विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥ २९॥ भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम् । यद्गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते ॥ ३०॥ कठिना शिथिला वा धीर्न गृह्णाति न वास्यते । उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रस्तरादिषु ॥ ३१॥ काठिन्यं विषये कुर्याद्द्रवत्वं भगवत्पदे । उपायैश्शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥ ३२॥ उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः । सङ्क्षेपात्तानहं वक्ष्ये भूमिभेदविभागतः ॥ ३३॥ प्रथमं महतां सेवा तद्दयापात्रता ततः । श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः ॥ ३४॥ ततो रत्यङ्कुरोत्पत्तिस्स्वरूपाधिगतिस्ततः । प्रेमवृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥ ३५॥ भगवद्धर्मनिष्ठाऽतस्स्वस्मिन् तद्गुणशालिता । प्रेम्णोऽथ परमाकाष्ठेत्युदिता भक्ति भूमिका ॥ ३६॥ लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् । सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम् ॥ ३७॥ इति श्री परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणं नाम प्रथमोल्लासस्समाप्तः ॥अथ द्वितीयोल्लासः ॥ द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा । सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥ १॥ चित्तद्रुतेः कारणानां भेदाद्भक्तिस्तु भिद्यते । तान्युक्तानि तु सङ्क्षेपाद्व्याख्यायन्तेऽधुना स्फुटम् ॥ २॥ कामश्शरीरसम्बन्धविशेषस्स्पृहयालुता । सन्निधानासन्निधानभेदेन स भवेद्द्विधा ॥ ३॥ तज्जन्यायां द्रुतौ चित्ते या स्याच्छ्रीकृष्णनिष्ठता । सम्भोगविप्रयोगाख्या रतिस्सा सा क्रमाद्भवेत् ॥ ४॥ क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेत् । तज्जन्यायां द्रुतौ सा तु द्वेष शब्देन गृह्यते ॥ ५॥ अत्र चेतो व्याकुलत्वं सोपद्रावकदर्शनात् । उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद्द्विधा ॥ ६॥ तत्राद्यं द्वेष एव स्याद्द्वितीयं रतिशब्दभाक् । उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते ॥ ७॥ द्वेषा हेतुस्स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् । तज्जन्यायां द्रुतौ याऽऽस्ते रतिस्सा भयमुच्यते ॥ ८॥ स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः । सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः ॥ ९॥ भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुः । या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि ॥ १०॥ पाल्यपालकभावेन सा वत्सलरतिर्भवेत् । सेव्यसेवकभावेन प्रेयोरतिरितीर्यते ॥ ११॥ हर्षश्चित्तसमुल्लासः कथ्यते स चतुर्विधः । एकः परानन्दमयः श्रीशमाहात्म्यकारणात् ॥ १२॥ तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा । एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते ॥ १३॥ व्रीडाविकृतवाग्वेषचेष्टाऽऽदि जनितोऽपरः । तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥ १४॥ लोकोत्तरचमत्कारिवस्तुदर्शनजः परः । तज्जन्यायां द्रुतौ चेतोविकासो विस्मयो मतः ॥ १५॥ युद्धादितापजनितो वीराणां जायते परः । ततश्चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥ १६॥ इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयः । तज्जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥ १७॥ दया घृणा स्याद्विषयतुच्छत्वज्ञानपूर्विका । तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥ १८॥ पूतिव्रणादिविषये कथितोद्वेगिनी बुधैः । श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत् ॥ १९॥ देहेन्द्रियादिदुःखत्वविचारणपुरस्सरा । घृणा शुद्धेति कविभिस्सा जुगुप्सा प्रकीर्तिता ॥ २०॥ या तु शोच्यस्य रक्षार्थं प्रवृत्तिरनुकम्पया । तया द्रुते तु मनसि दयोत्साहस्स्मृतो बुधैः ॥ २१॥ सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान् । उद्यमो द्रुतचित्तस्य दानोत्साहस्स उच्यते ॥ २२॥ तथा स्वधर्मरक्षार्थं या प्रवृत्तिः प्रयत्नतः । तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत् ॥ २३॥ वशीकाराख्यवैराग्यं यत्कामास्पृहतात्मकम् । तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥ २४॥ इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क्वचित् । तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन ॥ २५॥ यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि । स्थायिनो रसतां यान्ति विभावादि समाश्रयात् ॥ २६॥ धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः । षडप्येते न विषया भगवद्विषया न हि ॥ २७॥ धर्मवीरो दयावीरो बीभत्सः शान्त इत्यमी । अतो न भक्ति रसतां यान्ति भिन्नास्पदत्वतः ॥ २८॥ ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि । न भक्तिरसतां यातः साक्षाद्द्रुतिविरोधतः ॥ २९॥ शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः । नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि ॥ ३०॥ कामजे द्वे रती शोकः प्रीतिभीविस्मयस्तथा । उत्साहो युधि दाने च भगवद्विषया अमी ॥ ३१॥ व्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत् । विभावादि समायोगे तथा भक्तिरसा अपि ॥ ३२॥ शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः । अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताः ॥ ३३॥ शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी । भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते ॥ ३४॥ विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः । रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः ॥ ३५॥ शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः । तीव्र तीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते ॥ ३६॥ केचित्केवलसङ्कीर्णाः केचित्सङ्कीर्णमिश्रिताः । केचित्केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाः ॥ ३७॥ तत्र केवलसङ्कीर्णा रौद्रो रौद्रभयानकः । धर्मवीरो दानवीरो बीभत्सश्शान्त इत्यपि ॥ ३८॥ मिश्रा एवान्यविषयाः प्रोक्तास्सङ्कीर्णमिश्रिताः । भगवद्विषयास्ते तु ख्याताः केवल मिश्रिताः ॥ ३९॥ शुद्धास्त्रयः पुरैवोक्ताः सङ्कीर्यन्ते न केनचित् । एवं निरूपिता भक्तिः सङ्क्षेपादुच्यते पुनः ॥ ४०॥ राजसी तामसी शुद्धसात्त्विकी मिश्रता च सा । ईर्ष्याजद्वेषजाऽऽद्या स्याद्भयजद्वेषजापरा ॥ ४१॥ हर्षजा शुद्धसत्त्वोत्था कामाशोकादिजेतरा । सत्त्वजत्वे तु सर्वासां गुणान्तरकृताभिदा ॥ ४२॥ तत्र ते रतितां नैव यातः सुखविरोधतः । रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती ॥ ४३॥ भक्तिश्चतुर्विधाप्येषा भगवद्विषया स्थिरा । दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत् ॥ ४४॥ राजसी तामसी भक्तिरदृष्टफलमात्रभाक् । दृष्टादृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥ ४५॥ शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु । दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु ॥ ४६॥ दृष्टादृष्टफला भक्तिः सुखव्यक्तेर्विधेरपि । निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा ॥ ४७॥ रजस्तमाऽभिभूतस्य दृष्टांशः प्रतिबध्यते । शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥ ४८॥ तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते । स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥ ४९॥ वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम् । भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम् ॥ ५०॥ रजस्तमःप्रचण्डत्वे सुखव्यक्तिरसत्समा । तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते ॥ ५१॥ तस्मात्स्वयम्प्रभाऽऽनन्दाकाराऽपि मतिसन्ततिः । प्रतिबन्धवशान्न स्यात्सुखव्यक्तिपदास्पदम् ॥ ५२॥ रजः प्रबलसत्त्वांशादीर्ष्याजद्वेषमिश्रिता । मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते ॥ ५३॥ तमःप्रबलसत्त्वांशाद्भीतिजद्वेषमिश्रिता । मनोवृत्तिः परानन्दे कंसस्य न सुखायते ॥ ५४॥ तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति । सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते ॥ ५५॥ अधुनाऽपि भजन्तो ये द्वेषात्पाशुपतादयः । तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता ॥ ५६॥ द्रुतौ सत्यां भवेद्भक्तिरद्रुतौ तु न किञ्चन । चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न ॥ ५७॥ रजस्तमोविहीना तु भगवद्विषया मतिः । सुखाभिव्यञ्जकत्वेन रतिरित्यभिदीयते ॥ ५८॥ स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम् । विरहासहिष्णुताऽऽत्मा प्रीतिविशेषो रतिर्नाम ॥ ५९॥ var. addition रजस्तमस्समुच्छेदतारतम्येन गम्यते । तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि ॥ ५९॥ विरहे यादृशं दुःखं तादृशी दृश्यते रतिः । मृदुमध्याधिमात्रत्वाद्विशेषोऽत्रापि वीक्ष्यते ॥ ६०॥ वैकुण्ठे द्वारकायां च श्रीमद्बृन्दावने तथा । मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात् ॥ ६१॥ इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा । सम्प्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥ ६२॥ स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले । समुच्चिते च सा तत्रेत्येका षड्विधा भवेत् ॥ ६३॥ शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत् । तत्रानुपाधिश्शुद्धा स्यात्सोपाधिर्मिश्रितोदिता ॥ ६४॥ अनुपाधिः परानन्द महिमैक निबन्धना । भजनीयगुणानन्त्यादेकरूपैव सोच्यते ॥ ६५॥ कामसम्बन्धभयतः सोपाधिस्त्रिविधा भवेत् । विभावादिसमायोगे शुद्धभक्तिरसो भवेत् ॥ ६६॥ शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते । सम्बन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः ॥ ६७॥ एको वत्सलभक्त्याख्यः प्रेयोभक्तिस्तथाऽपरा । भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥ ६८॥ एकदैव यदि व्यक्तमिदं रति चतुष्टयम् । तदा तु पानकरसन्यायेन परमो रसः ॥ ६९॥ एकद्व्यादिरसव्यक्तिभेदाद्रसभिदा भवेत् । तस्मात्क्वचित्तदभ्यासं कुर्याद्रतिचतुष्टये ॥ ७०॥ व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् । तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत् ॥ ७१॥ रसान्तरविभावादि सङ्कीर्णा भगवद्रतिः । चित्ररूपवदन्यादृग्रसतां प्रतिपद्यते ॥ ७२॥ रसान्तरविभावादि राहित्ये तु स्वरूपभाक् । दशमीमेति रसतां सनकादेरिवाधिकाम् ॥ ७३॥ रतिर्देवादिविषया व्यभिचारी तथोर्जितः । भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः ॥ ७४॥ देवान्तरेषु जीवत्वात्परानन्दाप्रकाशनात् । तद्योज्यं, परमानन्दरूपे न परमात्मनि ॥ ७५॥ कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम् । रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात् ॥ ७६॥ परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिः । खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा ॥ ७७॥ क्रोधशोकभयादीनां साक्षात्सुखविरोधिनाम् । रसत्वमभ्युपगतं तथाऽनुभवमात्रतः ॥ ७८॥ इहानुभवसिद्धेऽपि सहस्रगुणितो रसः । जडेनेव त्वया कस्मादकस्मादपलप्यते ॥ ७९॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासस्समाप्तः ॥
अथ तृतीयोल्लासः ॥ ननु केयं रसो नाम, किन्निष्ठो वा भवेदसौ । अस्य प्रत्यायकः को वा, प्रतीतिरपि कीदृशी ॥ १॥ विभावैरनुभावैश्च व्यभिचारिभिरप्युत । स्थायीभावः सुखत्वेन व्यज्यमानो रसः स्मृतः ॥ २॥ सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते । तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति ॥ ३॥ काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः । तद्बोद्धृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः ॥ ४॥ बोध्यनिष्ठा यथास्वं ते सुखदुःखादि हेतवः । बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः ॥ ५॥ अतो न करुणादीनां रसत्वं प्रतिहन्यते । भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात् ॥ ६॥ तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत् । काव्योपदर्शितं तत्तु विभाव इति कथ्यते ॥ ७॥ लौकिकस्यैव रत्यादेर्लोके यत्कार्यमीक्षितम् । काव्योपदर्शितं तत्स्यादनुभावपदास्पदम् ॥ ८॥ लौकिकस्यैव रत्यादेर्येभावाः सहकारिणः । काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः ॥ ९॥ अलौकिकस्य रत्यादेः सामाजिकनिवासिनः । उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम् ॥ १०॥ ज्ञातस्वपरसम्बन्धादन्ये साधारणात्मना । अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी ॥ ११॥ भावत्रितयसंसृष्टस्थायिभावावगाहिनी । समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥ १२॥ साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् । तद्रसः, केचिदाचार्या स्तामेव तु रसं विदुः ॥ १३॥ तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् । स्थायीभावो रस इति प्रयोगस्तूपचारतः ॥ १४॥ एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते । असंलक्ष्यक्रमव्यङ्ग्यं ध्वनिं तस्मादिमं विदुः ॥ १५॥ व्यवधानात्क्रमो लक्ष्यो वस्त्वलङ्कारयोर्ध्वनौ । लक्ष्यव्यङ्ग्यक्रमं तस्माद्ध्वनिमेतं प्रचक्षते ॥ १६॥ रसभावतदाभासभावशान्त्यादिरक्रमः । अनन्तरक्षणे यस्माद्व्यज्यतेऽवश्यमेव सः ॥ १७॥ श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः । तदभावोऽपि सामग्र्यां निविष्टोऽनिष्टहानिकृत् ॥ १८॥ या रीतयो ये च गुणास्तज्ज्ञानमपि कारणम् । अलङ्काराश्च विज्ञाता भवन्ति परिपोषकाः ॥ १९॥ गुणालङ्काररीतीनां भावानां च निवेदकः । तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया ॥ २०॥ वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी । दशमस्त्वमसीत्यादि वाक्योत्थमतिवृत्तिवत् ॥ २१॥ नित्यं सुखमभिव्यक्तं ``रसो वै स'' इति श्रुतेः । प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका ॥ २२॥ कार्यज्ञाप्यादि वैधर्म्यं यत्तु कैश्चिन्निरूपितम् । तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः ॥ २३॥ परमानन्द आत्मैव रस इत्याहुरागमाः । शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः ॥ २४॥ अर्थवादाधिकरणे वनशैलादिवर्णनम् । श्रोतृणाम् सुखमात्रार्थमिति भट्टैरुदाहृतम् ॥ २५॥ कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन । यस्मात्कृतीप्सितत्वेन कार्यं सुखमपीष्यते ॥ २६॥ अलौकिक नियोगे तु न किञ्चिन्मानमीक्ष्यते । लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥ २७॥ प्रयोजनवदज्ञातज्ञापकत्वं च मानता । शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता ॥ २८॥ देवताधिकृतिन्यायात्पदैरन्यपरैरपि । प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेत् ॥ २९॥ तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः । व्यञ्जयन्ति परानन्दं सहकार्यानुरूपतः ॥ ३०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने भक्तिरसप्रतिपादको नाम तृतीयोल्लासस्समाप्तः ॥ सर्वं सम्पूर्णम् ॥