अक्षर आकार:

श्री भारत-तात्पर्य-सङ्ग्रहस्तोत्रम्

Shri Bharata Tatparya Sangraha Stotram

श्री भारत-तात्पर्य-सङ्ग्रहस्तोत्रम्

श्रीबादरायणमुनिः स्वयमेव विष्णुः पार्थच्छलात्तमधिकृत्य कृते प्रबन्धे । तस्यापि नित्यमहितं शशिभूषणत्वां आम्रेडयन् गुरुरदर्शयदादि तत्त्वम् ॥ १॥ मोहाभिभूतमखिलं जगदाविरिञ्चं त्वामेकमेवं भगवन् रहितं च तेन । विख्याप्यमङ्कणक दिव्यकथानुषक्त्या त्वां ब्रह्मतेन च मुनिः स्फुटयाम्बभूव ॥ २॥ सस्माच्च (तस्माच्च) मोहतदभावकृताद्विशेषात् जन्मस्थिति प्रलय भागखिलं त्वदन्यत् । तत्कर्तृवस्तु परमं त्वमिति प्रबोधं जातं विभावयति तस्य तदीय वाचा ॥ ३॥ कैलासशैलशिखरे हरिपार्थदृष्टं त्वां ब्रह्मनाथ परमं समुदीर्य साक्षात् । तल्लक्षणं त्वयमनन्यतदीय धर्मं क्रान्ते कियच्च भवति स्फुटमाचचक्षे ॥ ४॥ नारायणस्य सुचिरं त्वदुपासकस्य यत्ब्रह्मभावमवदत्तव भावनाप्तम् । यत्ते स्तुतिं तदुदितां परभावगर्भां त्वां ब्रह्म तेन च मुनिः स्फुटयाञ्चकार ॥ ५॥ मूलं कृष्णो ब्रह्म च ब्राह्मणाश्चेत् यादावेवं ब्रह्मभावं महेश । पार्थानां ते नित्यसंरक्षकस्य व्यासस्तत्रोद्घाटयामास शम्भो ॥ ६॥ ब्रह्मा विष्णुश्शङ्करश्चेति देवाः कर्तारो ये सर्गरक्षालयानाम् । तेषां सृष्टिं संहृतिं च त्वदीच्छा धीनामूचे द्योतयन् ब्रह्मतत्त्वम् ॥ ७॥ विशालाक्षस्थाणुर्द्रुहिणतनयः संहरणकृत् सरोजाक्षक्रोधप्रभव इति वैशेषिकपदम् । विभूतित्वज्ञप्त्यै किमपिनिहितन्नाथ नियतं निकर्षोक्तिस्ताभ्यां भवतैतिबुद्धिं निरसितुम् ॥ यत्रेदृशं नास्ति विभूति रुद्रता विज्ञापकं नाथ विशेषकं पदम् । साऽपि स्वधर्म गृहमानवैशसात् सर्वेश्वरं त्वां ननिकर्षगीस्पृशेत् ॥ ९॥ गीतासुगूढमुदितं भवतः परत्वं नैवस्फुटं तदत एव हि सव्यसाची । गीथार्थमेव सहसापुनरप्यपृच्छत् तबोधनार्थमुदिता हरिणानुगीता ॥ १०॥ तमेव चाद्यं पुरुषं प्रपद्ये त्युदीरितं यन्मधुकैटभद्विषा । तमेव सर्वान् भ्रमयन्तमीश्वरं महाफलाप्त्यै शरणं व्रजेति यत् ॥ ११॥ एतेन कृष्णस्य समं मुमुक्षुणा स्वाराधनीयः प्रतिभासते परः । सर्वस्य चाहं हृदिसन्निविष्टे त्याद्यैस्तु विष्णुः तदुदेतिसंशयः ॥ १२॥ इत्थमस्य यदि संशयो भवेत् अन्यथाग्रहणमेव वा पुनः । नाग्रहीन्मदुपविष्ट एवं इत्यग्रहं हरिरवोचदुत्तरे ॥ १३॥ उक्त्वा च संशयविपर्ययोः निरासं चक्रे हरिश्चतुरया द्रुतमुक्तिभङ्ग्या । शक्यन्तदद्य न मया भणितुं यथोक्तं योगाधिरूडमनसा न बहिर्दृशेति ॥ १४॥ अधुना तदुपास्य संशयाद्यपगच्छत्विति सौहृदं स्मरन् । इति होक्तमिहश्रुतम्मयेत्युपदेश्ये कियदाह तत्र सः ॥ १५॥ तस्य स्थिरीकरणमात्मनि पूर्ववृत्तं स्वस्यैव बुद्धिमनसी द्विजदम्पती च । कृत्वानुयोजनतदुत्तरयोरनुक्त्वा विख्याप्य तद्विवरणं च चकार शौरिः ॥ १६॥ अग्रेतत्त्वं परं किं त्वहमपि च कुतः सर्व भूतानि चेति प्रश्नेशिष्यस्य तस्मै गुरुकृतमखिलं ब्रह्मतत्त्वोपदेशम् । मोक्षं शिष्यस्य चोक्त्वापुनरपिविजये नानुयुक्तो गुरुः कः शिष्योवेति स्वमेवेश्वरगुरुमवदत् स्वस्यचित्तं स्वशिष्यम् ॥ १७॥ ब्रह्मण्येवं स्वचेतो मियमनसमुपस्थापितं ग्रन्थिमोक्षं स्वेनैवोक्तं विमृश्य प्रपदनवचनं तत्प्रतीतार्थनिष्ठम् । यत्तत्सर्वस्यचाहं हृदिमुखवचनं तत्पुनश्शास्त्रदृष्टया इत्येवं पार्थोऽवगच्छेदितिविवृतिरकार्यत्र गीताशयस्य ॥ १८॥ तच्च ब्रह्मप्रपत्यास्पदसुररिपोः ईश्वरत्वं न चान्यः नाहं कञ्च्चित्प्रपद्ये विबुधमितिवचः श्रोतुरुत्कृष्टभक्त्यै । सेवन्ते नीलकण्ठं परिमितफलदं न प्रबुद्धचा इतीदं ब्रह्मैक्यध्यातृ विद्वद्विषयमितरथा नास्ति भूयोनुरोधः ॥ १९॥ इत्थं चक्रे भारतं यः प्रबन्धं व्यक्त्या व्यासश्शाम्भवोत्कर्षवर्षी । ध्वन्यध्वन्यध्वन्य मूर्धन्य धन्यस्तं शौरिं तत्साक्षिणं चानतोऽस्मि ॥ २०॥ इति श्रीअप्पय्यदीक्षितविरचितं श्रीभारततात्पर्यसङ्ग्रहस्तोत्रं सम्पूर्णम् ।