अक्षर आकार:

पण्डितराजजगन्नाथकविविरचितः भामिनीविलासः

Bhamini Vilasa by Pandit Jagannatha

पण्डितराजजगन्नाथकविविरचितः भामिनीविलासः

॥ भामिनीविलासे प्रथमः प्रास्ताविकविलासः ॥

माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता । पिबतामनल्पसुखदावसुधायाम्ममसुधाकविता ॥ १॥ दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ २॥ पुरा सरसि मानसे विकचसारसालिस्खल- त्परागसुरभीकृते पयसि यस्य यातं वयः । स पल्वलजलेऽधुना मिलदनेकमेकाकुले मरालकुलनायकः कथय रे कथं वर्तताम् ॥ ३॥ तृष्णालोलविलोचने कलयति प्राचीं चकारागणे । मौनं मुञ्चति किञ्च कैरवकुले कामे धनुर्धन्वति । माने मानवतीजनस्य सपदि प्रस्थानकामेऽधुना । धातः किन्नु विधौ विधातुमुचितो धाराधराडम्बरः ॥ ४॥ अयि दलदरविन्द स्यन्दमानं मरन्दम् । तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृगाः । दिशिदिशि निरपेक्षस्तावकिन्नं विवृण्वन् । परिमलमयमन्यो बान्धवो गन्धवाहः ॥ ५॥ समुपागतवति दैवादवहेलाङ्कुटजमधुकरे माऽगाः । मकरन्दतुन्दिलानामरविन्दानामयम्महामान्यः ॥ ६॥ तावत्कोकिल विरसान् यापय दिवसान् वनान्तरे निवसन् । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ७॥ कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलिताऽनभिज्ञैः । परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८॥ नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापिकृथाः । अत्यन्तसरसहृदयो यतः परेषां गुणगृहीतासि ॥ ९॥ येनामन्दमरन्दे दलदुरविन्दे दिनान्यनायिषत । कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ १०॥ आयि मलयज महिमाऽयं कस्य गिरामस्तु विषयस्ते । उद्विरतो यद्गरलं फणिनःपुष्णासिपरिमलोद्दारैः ॥ ११॥ पाटीर तवपटीयानकः परिपाटीमिमामरीकर्तुम् । यत्पिषतामपि नृणां पिष्टोऽपि तणोषि परिमललैः पुष्टिम् ॥ १२॥ नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ॥ १३॥ उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवाः । अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ १४॥ स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः । आमोदानथ हरिदन्तराणि नेतुं नैवान्यो जगति समीरणात्प्रवीणः ॥ १५॥ याते मय्यचिरान्निदाघमिहिरज्वालाशनैः शुष्कतां गन्ता के प्रति पान्थसन्ततिरसौ सन्तापमालाकुला । एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते । धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥ १६॥ आपेदिरेऽम्बरपथं परितः पतङ्गा भुङ्गा रसालमुकुलानि समाश्रयन्ते । सङ्कोचमञ्चितसरसस्त्वयि दीनदीने मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ १७॥ मधुप इव मारुतेऽस्मिन् मा सौरभलोभमम्बुजनि मंस्थाः । लोकानामेव मुदे महितोऽप्यात्माऽमुनार्थितां नीतः ॥ १८॥ गुञ्जति मञ्जु मिलिन्दे मा मालति मानमौनमुपयासीः । शिरसा वदान्यगुरवः सादरमेनं वहन्तिसुरतरवः ॥ १९॥ यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः । तानपि वहाव पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥ २०॥ गाहितमखिलं गहनं परितोदृष्टाश्च विपिनः सर्वे । सहकार न प्रपेदे मधुपेन भवत्समं जगति ॥ २१॥ अवनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे । पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद् भ्रमरधन्योऽसि ॥ २२॥ तटिनि चिरायविचारय विन्ध्यभुवस्तवपवित्रायाः । शुष्यन्त्या आपि युक्तं किं खलु रथ्योदकादानम् ॥ २३॥ पत्रफलपुष्पलक्षम्या कदाप्यदृष्टं वृतं च खलु शूकैः । उपसर्पेम भवन्तं बर्बर वद कस्य लोभेन ॥ २४॥ एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः । साजात्यशङ्कयाऽमी न त्वां विघ्नन्तु निर्दया काकाः ॥ २५॥ तरुकुलसुखमापहरां जनयन्ती जगतिजीवजातार्तिम् । केनगुणेनभवानीतातहिमानीनिमां वहसि ॥ २६॥ कलभ तवान्तिकमागतमलिमेनं माकदाप्यवज्ञासीः । अपि दानसुन्दराणान्द्विपधुर्याणामयंशिरोधार्यः ॥ २७॥ अमरतरुकुसुमसौरभसेवनसम्पूर्णसकलकामस्य । पुष्पान्तरसेवेयं अमरस्य विडम्बना महती ॥ २८॥ पृष्ठाः खलु परपुष्टाः परितोदृष्टाश्चविटपिनः सर्वे । माकन्दन प्रपेदे मधुपेन तवोपमा जगति ॥ २९॥ तोयैरल्परपि करुणया भीममानौ निदाघे । मालाकार व्यरचि भवता या तरोरस्य पुष्टिः । वर्षाकाले जनयितुमिह प्रावृषेण्येन वाराम् । धारासारानपि विकिरता विश्वतो वारिदेन ॥ ३०॥ आरामाधिपतिविवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीलता दश दिशश्चण्डातपो दुःसहः । एवं धन्वति चम्पकस्य सकले संहारहेतावपि त्वंसिचन्नमृतेनतोयद कुतोऽप्याविष्कृतोवेधसा ॥ ३१॥ न यत्र स्थेमानं दधुरतिभयभ्रान्तनयनाः गलद्दनोद्रेकभ्रमदलिकदम्बा करटिनः । लुठन्मुक्ताभारे भवति परलोकं गतवतो हरेरदयद्वारे शिवशिवशिवानां कलकलः ॥ ३२॥ दधानः प्रेमाणं तरुषु समभावेन विपुलम् । न मालाकारोऽसावकृत करुणां बालबकुले । अयं तु द्रागुद्यत् कुसुमनिकराणां परिमलैः । दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३३॥ मूलं स्थूलमतीवबन्धनदृढं शाखाः शतम्मांसलाः वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव । एकः किन्तु मनागयं जनयति स्वान्ते ममाधिज्वर- ज्वालालीवलयीभवन्नकरुणोदावानलो घस्मरः ॥ ३४॥ ग्रीष्मेभीष्मतःकरैर्दिनकृतादग्धोऽपि यश्चातक - स्त्वान्ध्यायन्धनवासरान्कथमपिद्राधीयसोनीतवान् देवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचक्रे करकानिपातनकृपा तत् कं प्रतिब्रूमहे ॥ ३५॥ दवदहनजटालज्वालजालाहतानां परिगलितलतानां म्लायतां भूरुहाणाम् । अपिजलधर शैलश्रेणिश‍ृङ्गेषु तोयं वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३६॥ श‍ृण्वन् पुरः परुषगर्जितमस्य हन्त रे पान्थ विस्मितमना न मनागपि स्याः । विश्वार्तिवारणसमर्पितजीविनतोऽयं नाकर्णितः किमु सखे भवताऽम्बुवाहः ॥ ३७॥ सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरम् । कीर्तिः किञ्च दिगङ्गनागणगता किन्त्वेतदेकंश‍ृणु । सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान् । उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३८॥ नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः । तथापि हरते तापं लोकानामुन्नतो धनः ॥ ३९॥ समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसति र्विलासः पद्मायाः सुरहृदयहारी परिमलः । गुणैरतैरन्यैरपि च ललितस्याम्बुज तव द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ४०॥ साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा । नीरे नीरचरैः समं स भगवान् निद्राति नारायणः । एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः किं निन्दान्यथवा स्तवानि कथय क्षीरार्णवत्वामहम् ॥ ४१॥ किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते । सलिलमपि यत्र तावकमर्णव वदनं प्रयाति तृषितानाम् ॥ ४२॥ इयत्यां सम्पत्तावपि च सलिलानां त्वमधुना न तृष्णामार्त्तानां हरसि यदि कासार सहसा । निदाधे चण्डांशौ किरति परितों गारनिकरं कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४३॥ अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः । जलदेन तवार्थिना विमुक्तान्यापि तोयानि महान् न हा जहासि ॥ ४४॥ न वारयामो भवती विशन्तीं वर्षान दिस्रोतसि जह्नुजायाः । न युक्तमेतत्तु पुरो यदस्या स्तरङ्गभङ्गान्प्रकटीकरोषि ॥ ४५॥ पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः । तस्मिन्नदय मधुव्रते विधिवशान्माध्वकिमाकाङ्क्षति त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रतिब्रूमहे ॥ ४६॥ प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी पुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान् । तस्मिन्नदय रसालशाखिनि दृशां देवात् कृशामञ्चति त्वञ्चेन्मुञ्चसि चञ्चरीकविनयन्नीचस्त्वदन्योऽस्तिकः ॥ ४७॥ मुक्ता मृणालपटली भवता निपीता- न्यम्बूनि यत्र नलिनानि निषेवितानि । रे राजहंस वद् तस्य सरोवरस्य कृत्येन केन भावतासि कृतोपकारः ॥ ४८॥ एणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि काननेऽस्मिन् । सीमामिमां कलयभिन्नकरीन्द्रकुम्भ मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९॥ जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः । करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५०॥ येन भिन्नकरिकुम्भविस्खलन् मौक्तिकावलिभिरञ्चिता मही । अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः ॥ ५१॥ स्थितिं नोरे दध्याः क्षणमपि मदान्धेक्षण सखे गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि । असो कुम्भिभ्रान्त्या खरनखरविद्रावितमहा गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२॥ गिरि गव्हरेषु गुरुगर्वगुम्फितो गजाराजपोत न कदापि सञ्चरेः । यदि बुध्यते हरिशिशुः स्तनन्धयोः भविता करेणुपरिशोषिता मही ॥ ५३॥ निसर्गादारामे तरुकुलसमारोप सुकृती कृती मालाकारो बकुलमपि कुत्रापि निधने । इदं को जानीते यदयमिह कोणान्तरगतो जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४॥ यस्मिन् वेल्लति सर्वतः परिचलकल्लोलकोलाहलै- र्मन्थाद्रिश्रमणश्रमं हृदि हरिन्दृतावलाः पेदिरे । सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः कोडे क्रीडतु कस्य केलि कलहत्यक्तार्णवो राघवः ॥ ५५॥ लूनं मत्तमतङ्गजैः कियदपि च्छिनं तुषारार्दितैः शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणै स्मीकृतं काननम् । एषा कोणगता मुहुः परिमलैरामोदयन्तीदिशो हा कष्टं ललिता लवङ्गलतिकादावाग्निना दह्यते ॥ ५६॥ स्वर्लोकस्य शिखामाणिः सुरतरुग्रामस्य धामाद्भुतं पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि । सत्यं नन्दन किन्विदंसहृदयौर्नित्यं विधिः प्रार्थ्यते त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७॥ स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने चञ्चूकोटिविपारिताररपुटो यास्याम्यहं पञ्जरात् । एवं करिवरे मनोरथमयं पीयूषमास्वादयत्यन्तः संप्रविवेशवारणकराकारः फणिग्रामणीः ॥ ५८॥ रे चाञ्चल्यजुषोमृगाः श्रितनगाः कल्लोलमालाकुला मेतामम्बुधिगामिनीं व्यवासिताः सङ्गाहितुं वा कथम् । अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९॥ पिब स्तन्यं पोत त्वमिह मददन्तावलधिया दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् । त्रयाणां लोकानामपि हृदयतापं परिहरन् अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६०॥ धीरध्वनिभिरलं ते नीरद में मासिको गर्भः । उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ ६१॥ वेतण्डगडकण्डूतिपाण्डित्यपरिपन्थिना । हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२॥ नीरन्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी वासो यस्य हरेः करेः परिमलो गीर्वाणचेतोहरः । सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह । त्वञ्चेत्प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३॥ लीलामुकुलितनयनं किंसुखशयनं समातनुषे । परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४॥ विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५॥ औदार्यं भुवनत्रयेऽपि विदितं सम्भूतिरम्भोनिधे- र्वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः । एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः । स्थादर्थिप्रवरार्थितार्पणविधावेको विवेकोयदि ॥ ६६॥ एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना- मित्येवम्परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः । भूपानां भवनेषु किञ्च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खला ॥ ६७॥ विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतमाः । तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८॥ अन्या जगद्धितमयी मनसः प्रवृत्तिः । अन्येव कापि रचना वचनावलीनाम् । लोकोत्तराच कृतिराकृतिरार्तहृया । विद्यावतां सकलमेव गिरां दवीयः ॥ ६९॥ आपद्गतः किल महाशयचक्रवर्ती विस्तारस्यत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ता ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७०॥ विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकम्पृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१॥ लीलालुण्ठितशारदापुरमहासम्पन्नराणां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गान्ति चेत्पामराः । अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः सिंहानाञ्च सुखेन मूर्द्धसुपदं धास्यति शालावृकाः ॥ ७२॥ गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कपणा नृपाणां न जातु मौला मणयो वसन्ति ॥ ७३॥ वहति विषधरान पटीरजन्मा शिरप्ति मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्क पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४॥ सत्पूरुषः खलु हिताचरणैरमन्द- मानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केनकरैरुदारै- रिन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५॥ कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् । प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६॥ खल कापट्यदोषेण दूरेणैव विसृज्यते । अपायशङ्किभिर्लोकैर्विषेणाशीविषो यथा ॥ ७७॥ पाण्डित्यं परिहत्य यस्य हि कृते बन्दित्वमालम्बितं दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः । रूढस्तत्रस चेन्निगीर्य सकलां पूर्वोपकारावलीं दुष्टः प्रत्यवतिष्टते तदधुना कस्मे किमाचक्ष्महे ॥ ७८॥ परार्थव्यासङ्गादुपजहदपि स्वार्थपरता- मभेदैकत्वं यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९॥ वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तूम्बीफलविकलो वीणादण्डः प्रयात्ति महिमानम् ॥ ८०॥ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनमहितो गन्धेनोग्रेणलशुन इव ॥ ८१॥ उपकारमेव तनुते विपद्धतः सद्गुणो नितराम् । मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२॥ वनाते खेलन्ती शशकाशशुमालोक्य चकिता भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या । अहो सेयं सीता दशवदननीता हलरदैः परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३॥ पुरो गीर्वाणानां निजभुजबलाहोपुरुषिका- महोका रङ्कारं पुरभिदि शरं सम्मुखतया । स्मरस्य स्वर्बालानयन शुभमालार्च्चनपदं वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥ ८४॥ युक्तं सभायां खलु मर्कटानां शाखास्तरूणाम्मृदुला सनानि । सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ८५॥ किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतोधकारोदयः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधःसखे कः शत्रुर्वद खेददानकुशलो दुर्वासनासञ्चयः ॥ ८६॥ निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः । चिरं जलनिधौ मग्नौ मैनाक इव मार्दवम् ॥ ८७॥ नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥ ८८॥ परोपसर्पणानन्तचिन्तानलाशखाशतैः । अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८९॥ शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः । विवराणि मुद्यन् द्रागूर्णायुरिव सुजनो जयति ॥ ९०॥ खलः सज्जनकार्पासरक्षणैकहुताशनः । परदुःखाग्निशमने मारुतः केन वर्ण्यताम् ॥ ९१॥ परगुह्यगुप्तिनिपुणं गुणमयमखिलेः समीहितं नितराम् । ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ९२॥ कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः । यशःसौरभ्यलशुनः खल सज्जनदुःखदः ॥ ९३॥ धत्ते भरं कुसुमपत्रफलावलीनां मर्मव्यथां स्पृशति शीतभवां रुजं च । यो देहमर्पयति चान्यसुखस्य हेतो- स्तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ९४॥ हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम् । व्यालाधिपच्च यतते परिब्धुमध्दा यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥ ९५॥ दीनानामिह परिहाय शुष्कसस्यान्यौदार्य प्रकटयतो महीधरेषु । औन्नत्यं परममवाप्य दुर्मदस्य ज्ञाताऽयं जलधर तावकोऽविवेकः ॥ ९६॥ गिरयो गुरवस्तभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेप्यचला महात्मानः ॥ ९७॥ व्योम्नि स वासं कुरुते चित्र निर्माति सुन्दरं पवने । रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ ९८॥ हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ ९९॥ मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ १००॥ स्वार्थं धनानि धनिकात्प्रति गृण्हतो यद् अस्यं भजेन्मलिनतां किमिदं विचित्रम् । गृण्हन्परार्थमपि वारिनिधेः पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ १०१॥ जनकः सानुविशेषो जातिः काष्ठं भुजङ्गमैः सङ्गः । स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ १०२॥ कस्मै हन्त फलाय सज्जन गुणग्रामाज्जने सज्जसि स्वात्मोपरस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृता- स्तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्द्धनम् ॥ १०३॥ धूमायिता दश दिशो दलितारविन्दा देहं दहन्ति दहना इव गन्धवाहाः । त्वामन्तरेण मृदुताम्रदलाम्रमज्जु गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥ १०४॥ भिन्ना महागिरिशिलाः करजाग्रजाग्र दुद्दामशौर्यनिकरैः करटिश्रमेण । देवे पराचि करिणामरिणा तथापि कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०५॥ गर्जितमाकर्ण्य मनागङ्गे मातुर्निशार्द्धजातोऽपि । हाराशशुरुत्पतितुं द्रागङ्गान्याकुच्य लीयते निभृतम् ॥ १०६॥ किमहं वदामि खल दिव्यतमं गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान् यदहर्निशं न खलु विस्मरसि ॥ १०७॥ रे खल तव खलु चरितं विदुषां मध्ये विविच्य वक्ष्यामि । अथवालं पापात्मन् कृतया कथयापि ते हतया ॥ १०८॥ आनन्दमृगदावाग्निः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ॥ १०९॥ खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि । निपुणाः फणिनःप्राणानपहर्तुन्निरागसाम् ॥ ११०॥ वदने विनिवेशिताभुजङ्गी पिशुनानांरसनामिषेण घात्रा । अनया कथमन्यथावलीढा नहि जीवन्ति च नाम नागमन्त्राः ॥ १११॥ कृतं महोन्नतं कृत्यमर्जितं चामलं यशः । यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥ ११२॥ अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् । आपि च मानसमम्बुनिधिर्यशोविमलशारदपार्वणचन्द्रिका ॥ ११३॥ एत्य कुसुमाकरो मे सञ्जीवयिता गिरं चिरं मग्राम् । इति चिन्तयतो हृदये पिकस्य समधायि शोभिकेन शरः ॥ ११४॥ निर्गुणः शोभते नैव विपुला डम्बरोऽपि ना । आपातरम्यपुष्प श्रीशोभिता शाल्मलिर्यथा ॥ ११५॥ पङ्कैर्विनासरो भाति सदः खलजनैर्विना । कटुवर्णैविना काव्यं मानसं विषयैर्विना ॥ ११६॥ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥ ११७॥ सरजस्काम्पाण्डुवर्णां कण्टकप्रकरान्विताम् । केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप ॥ ११८॥ यथा तानं विना गगो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ११९॥ सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥ १२०॥ अपि बत गुरु गर्वं मास्म कस्तूरि यासी- रखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥ १२१॥ दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरन्तनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति ॥ १२२॥ अनवरतपरोपकारव्यग्रीभवदमलचेतसां महताम् । आपातकाटवानि स्फुरन्तिं वचनानि भेषजानीव ॥ १२३॥ व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतान्याकर्ण्य श्रुतिमदजाल्लयातिरेकात । आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ १२४॥ मृतस्य लिप्सा कृपणस्य दित्सा विमार्ग गायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ न हि दृष्टपूर्वा ॥ १२५॥ उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रियाः केरविण्यो रमन्ते मधुपैः सह ॥ १२६॥ अयाचितः सुखं दत्ते याचितश्च न यच्छति । सर्वस्वं चापि हरते विधिरुच्छङ्खलो नृणाम् ॥ १२७॥ दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग- ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावली ताण्डव भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ १२८॥ खण्डितानेत्रकाञ्जालिमञ्जुरञ्जनपण्डिताः । मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः ॥ १२९॥ इति श्रीमत्पण्डितराजजगन्नाथकविविरचिते भामिनीविलासे प्रास्ताविको नाम प्रथमो विलासः ॥१॥

॥ भामिनीविलासे द्वितीयः श‍ृङ्गारविलासः ॥

न मनागपि राहुरोधशङ्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥ १॥ नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि । यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥ २॥ स्वेदाम्बुसान्द्रकणशालिकपोलपाली दोलायितश्रवणकुण्डलवन्दनीया । आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः ॥ ३॥ कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम् । प्रोढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हरितो मुखानि ॥ ४॥ तन्मञ्जुमन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायन्तनाम्बुजसहोदरलोचनायाः ॥ ५॥ प्रातस्तरां प्रणमने विहिते गुरूणा माकर्ण्य वाचममलां भव पुत्रणीति । नेदीयसि प्रियतमे परमप्रमोद पूर्णादरं दयितया दधिरे दृगन्ताः ॥ ६॥ गुरुजनभयमद्विलोकनान्तः समुदयदाकुलभावमुद्वहन्त्यः । दरदलदरविन्दसुन्दरे हा हरिणदृशो नयने न विस्मरामि ॥ ७॥ बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतो क्रमेण । अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः ॥ ८॥ जम्बीरश्रियमतिलङ्घ्यं लीलयैव व्यानम्रीकृतकमनयिहेम कुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥ ९॥ कपोलपाली तव तन्वि मन्ये लावण्यधन्ये दिश मुत्तराख्याम् । आभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः ॥ १०॥ नीवीं नियम्य शिथिलामुषसि प्रकाश- मालोक्य वारिजदृशः शयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे नाभेः प्रभा सरसिजोदरसोदरायाः ॥ ११॥ आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती । आरादुपाकर्ण्य गिरं मादियां सौदामिनीयां सुषमामयासीत् ॥ १२॥ मुधैव नक्तं परिकल्प्य गन्तुं मृषैव रोषादुपजल्पतो मे । उदश्रुचञ्चन्नयना नताङ्गी गिरं न कां कामुररीचकार ॥ १३॥ तवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः । यदवाधि न पदं दधाति चित्ते हरिणकिशोदृशो दृशोर्विलासः ॥ १४॥ आगतः पतिरितीरितं जनैः श‍ृण्वती चकितमेत्य देहलीम् । कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणाम् ॥ १५॥ अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥ १६॥ वक्षोजाग्रं पाणिनामृष्य दूरं यातस्य द्रागाननाब्जं प्रियस्य । शोणाग्राभ्यां भामिनीलोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥ १७॥ गुरुभिः परिवेष्टितापि गण्डस्थलकण्डूयनचारुककैतवेन । दरदर्शितहेमबाहुनाला मयि बाला नयनाञ्चलं चकार ॥ १८॥ गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ॥ १९॥ विनये नयनारुणप्रसाराः प्रणतो हन्त निरन्तराश्रुधाराः । अपि जीवितसंशयः प्रयाणे न हि जाने हरिणाक्षि केन तुष्ये ॥ २०॥ अकरुणमृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् । अविरलगलद्वापां तन्वीं निरस्तविभूषण क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ २१॥ तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्धिकासम् । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमालाम् ॥ २२॥ वीक्ष्य वक्षावि विपक्षकामिनीहारलक्ष्म दायतस्य भामिनी । अंसदेशविनिवेशितां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥ २३॥ दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् । अनल्पनिश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥ २४॥ रोषावेशान्निर्गतं यामयुग्मादेत्य द्वारं काञ्चिदाख्यां गृणन्तम् । मामाज्ञायैवाययौ कातराक्षी मन्द मन्दं मन्दिरादिन्दिरेवम् ॥ २५॥ हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती । प्रियनामपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥ २६॥ इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः । परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥ २७॥ कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलो चुलुकयति मदीयां चेतनां चञ्चरीकः ॥ २८॥ निरुध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो दधाने । मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयाम्बभूव ॥ २९॥ तिमिरं हरति हरितां पुरः स्थिता तिरयन्ति तापमथ तापशालिनाम् । वदनविपस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥ ३०॥ कुचकलशयुगान्तर्मामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना । विनिहितवदनं मां वीक्ष्यबाला गवाक्षे- चकिततनु नताङ्गी सद्म सद्यो विवेश ॥ ३१॥ विधाय मा मदनानुकूलं कपोलमूलं हृदये शयाना । तन्वी तदानामतुलां बलारेः साम्राज्यलक्ष्मीमधरीचकार ॥ ३२॥ मुहुरर्थितयाद्य निद्रया मे बत यामे चरने निवेदितायाः । चिबुकं सुदृशः स्पृशामि यावन्मयि तावन्मिहिरोऽपि निर्दयोऽभूत् ॥ ३३॥ श्रुतिशत्तमपि भूयः शीलितं भारतं वा विरचयति तथा नो हन्त सन्तापशान्तिम् । अपि सपदि यथायं केलिविश्रान्तकान्ता वदनकमलवलगत्कान्तिसान्द्रो नकारः ॥ ३४॥ लवली तव लीलया कपोले कवलीकुर्वति कोमलविषा । परिपाण्डुरपुण्डरीकखण्डे परिपेतुः परितो महाधयः ॥ ३५॥ यौवनोद्मनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः । सङ्कुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥ ३६॥ अधिरोप्यहरस्य हत चापं परितापम्प्रशमय्य बान्धवानाम् । परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम् ॥ ३७॥ भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥ ३८॥ उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद् बहिर्याति ॥ ३९॥ अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायाली जनस्य विकला सा ॥ ४०॥ लोभाद्भराटिकानां विक्रतुं तक्रमविरतमटन्त्या । लब्धो गोपकिशोर्या मध्यस्थ्यं महेन्द्रनीलमणिः ॥ ४१॥ रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम् । सुदृशः शिवशिव सकले जाता सकलेवरे जगत्यरुचिः ॥ ४२॥ प्राणापहरणेनासि तुल्योहालाहलेन मे । शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥ ४३॥ किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति । तप्याति पतति हुताशे तदा हताशे तुलां तवारोहेत् ॥ ४४॥ औत्सुक्यात्परिमिलतां त्रपया सङ्कोचमञ्चतां च मुहुः । नवसङ्गम योर्यूनोर्नयनानामुत्सवो जयति ॥ ४५॥ गरिमाणमर्पयित्वा लघिमानं कुचतटात्कुरङ्गदृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ ४६॥ न्यञ्चति वयसि प्रथमे समुदञ्चति तरुणिमनि तदा सुदृशः । दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ४७॥ निस्सीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम् । अन्यो यालोकनानन्द विरहादिव चञ्चलम् ॥ ४८॥ गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्निहन्तुकामं माम् । रदयन्त्रितरसनाग्रं तरलितनयनं निवारयाञ्चक्रे ॥ ४९॥ नयनाञ्चलावमर्शं या न कदाचित्पुरा सेहे । आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥ ५०॥ मानपराग्वदनापि प्रिया शयानेव दयितकरकमले । उद्वेल्लद्भुजमल सग्रीवाबन्धं कपोलमाधत्ते ॥ ५१॥ लोचनफुल्लाम्भोज द्वयलोभान्दोलितैकमनाः शुभ्रे । कस्तूरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥ ५२॥ अधिरजनि प्रियसविधे कथमपि संवेशिता बलाद्गुरुभिः । किं भवितेति सशङ्कं पङ्कजनयना परानृशति ॥ ५३॥ चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुलः पुनरसावास्तांसमस्ताकथा । एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्याति ॥ ५४॥ अलङ्कर्तुं कर्णौ भृशमनुभवन्त्या नवरुजं ससीस्कारं तिर्यग्वलितवदनाया मृगदृशः । कराब्जव्यापारानतिसुकृतसारान् रसयतो जनुः सर्वं श्लाघ्यं जयति ललितोत्तंस भवतः ॥ ५५॥ आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरङ्गान्यलङ्कुर्वते । मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥ ५६॥ वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा । निःश्वासग्लपिताधरं परिपतद्बाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥ ५७॥ यदवाधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् । तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥ ५८॥ निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः । अधिकं न हि परयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥ ५९॥ निपतद्बाष्पसंरोध मुक्तचाञ्चल्यतारकम् । कदा नयननीलाब्जमालोकेय मृगीदृशः ॥ ६०॥ यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति । अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥ ६१॥ भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु । तरुणेषु विलोचनान्ज मालामथ बाला पथि पातयाम्बभूव ॥ ६२॥ पापं हन्त मया हतेन विहितं सीतापि यद्यापिता सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति । आलोकेय कथं मुखं सुकृतिनां किं ते वदिष्यति मां राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥ ६३॥ उषसि प्रतिपक्षकामिनी सदनादन्तिकमञ्चति प्रिये । सुदृशी नयनाब्जकोणयोरुदियाय त्वरयाऽरुणदयुतिः ॥ ६४॥ क्षमापणैकपादयोः पदयोः पतति प्रिये । शेमुः सरोजनयना नयनारुणकान्तयः ॥ ६५॥ निर्वासयन्ती धृतिमङ्गनानां शोभा हरेरेणदृशोधयन्त्याः । चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥ ६६॥ राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् । बाले वारय पान्थस्य वासदानविधानतः ॥ ६७॥ मलयानिलमनलीयति मणिभवने काननीयति क्षणतः । विरहेण विकलहृदया निर्जलमीनायते महिला ॥ ६८॥ कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् । अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुत ॥ ६९॥ विधिवञ्चितया मया न यातं सखि सङ्केतनिकेतनं प्रियस्य । अधुना बत किं विधातुकाप्रो मयि कामो नृपतिः पुनर्न जाने ॥ ७०॥ विरहेण विकलहृदया विलपन्ती दयित दयितेति । आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥ ७१॥ दारिद्र्यं भजते कलानिधिरयं राकाऽधुना म्ल्लायति स्वैरकैरवकाननेषु परितो मालिन्यमुन्मीलति । द्योतन्ते हरिदन्तराणि सुहृदां वृन्दं समानन्दति त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् ॥ ७२॥ पाटीरद्रुभुजङ्गपुङ्गवमुखा याता इवातापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । एते हन्त किरन्ति कूजितमयं हालाहलं कोकिला बाला बालमृणालकोमलतनुः प्राणान् कथं रक्षतु ॥ ७३॥ आयातैव निशा मनो मृगशा मुनिन्द्र मातन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥ ७४॥ प्रभातसमयप्रभां प्रणयिनिह्नुवानां रसाद- मुष्य निजपाणिना दृशममीलयं लीलया । अयं तु खलु पद्मिनीपरिमलालिपाटच्चरै- रवेरुदयमध्यगादधिकचारू तैर्मारुतैः ॥ ७५॥ विदूरादाश्चर्यस्तिमितमथ किञ्चित् परिचया- दुदञ्चच्चाञ्चल्यं तदनु परितस्फारितरुचि । गुरूणां सङ्घाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनामिह सारङ्गजदृशः ॥ ७६॥ कपोलावुन्मीलनन्वपुलकपाली मयि मना- ङ्मृशन्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः । कथङ्कारं शक्याः परिगदितुमिन्दीवरहशो दलद्राक्षानिर्यद्रसभरसपक्षा भाणितयः ॥ ७७॥ राजानं जनयाम्बभूव सहसा जैवाततृक त्वां तु यः सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरार्तो विधिः । संप्रत्युन्मदखञ्जरीटनयनावक्राय नित्यश्रिये दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥ ७८॥ अविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः कान्तिः काचिन्निखिलनयनाकर्षणे कार्मराज्ञा । श्वासो दीर्घस्तवधि मुखे पाण्डिमा गण्डमूले शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥ ७९॥ प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते- रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झटिति वमतः पन्नगपतेः फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥ ८०॥ कैशोरे वयसि क्रमेण तनुतामायति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया । आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां किञ्चासीदमृतस्य भेदविगमः साचिस्मिते तात्विकः ॥ ८१॥ शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव । प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥ ८२॥ अधरद्युतिरस्तपल्लवा मुखशोभाशशिकान्तिलङ्घिनी । तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ ८३॥ व्यत्यस्तं लपति क्षणं क्षणमहो मौनं समालम्बते सर्वस्मिन्विदधाति किं च विषये दृष्टिं निरालम्बनाम् । श्वासं दीर्घमुरीकरोति न मना गङ्गेषु धत्ते धृतिं वैदेहीविरहव्यथाविकलितो हा हन्त लङ्केश्वरः ॥ ८४॥ उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलललना चूडामणिशासनेन मदनेन ॥ ८५॥ प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डु ॥ ८६॥ इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् । सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ८७॥ मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय । इति सुदृशः प्रियवचनैरपायि नयनाब्जकोणशोणरुचिः ॥ ८८॥ आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः । किं चासिताक्षि मृगलाञ्छनसम्भ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ८९॥ स्मितं नैतत्किन्तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम् । स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता सेयं रम्या भ्रमरकुलनम्या न रमणी ॥ ९०॥ सङ्ग्रामाङ्गणसम्मुखाहतकियद्विश्वम्भराधीश्वर व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा । अङ्गारप्रखरैः करैः कवलयन्नेतन्महीमण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥ ९१॥ श्यामं सितं च सुदृशो न दृशोः स्वरूपं किं तु स्फुटं गरलमेतदथामृतं च । नो चेत्कथं निपतनादनयोस्तदेव मोहं मुदं च नितरां दधते युवानः ॥ ९२॥ अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद्विभासते । अरविन्दं मृगाङ्को वा मुखं वेद मृगीदृशः ॥ ९३॥ सुविरलमौक्तिकतारे धवलांशुकचन्द्रिका चमत्कारे । वनपरिपूर्णचन्द्रे सुन्दरि राकाऽसि नात्रसन्देहः ॥ ९४॥ रूपजला चलनयना नाभ्यावर्ता कचावलिभुजङ्गा । मज्जन्ति यत्र सन्तः सेयं तरुणी तरङ्गिणीविषमा ॥ ९५॥ शोणाधरांशु सम्भिन्नास्तन्वि ते वदनाबुजे । केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥ ९६॥ दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः । अपि चालकवेषधारिणो मकरन्दस्पृहया लवोऽलयः ॥ ९७॥ तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा । ममाऽयं मानुषो लोको नाकलोक इवाभवत् ॥ ९८॥ अङ्कायमानमलिके मृगनाभिपङ्कं पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् । उल्लासपल्लवितकोमलपक्षमूला- श्चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ९९॥ शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् । न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥ १००॥ चलद्भरुङ्गमिवाम्भोज मधीरनयनं मुखम् । तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥ १०१॥ शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । येनाकारिषि मित्रं सुविकलहृदयो विधिर्वाच्यः ॥ १०२॥ श्यामलेनाङ्कितं बाले भाले केनापि लक्ष्मणा । मुखं तवान्तरासुप्त भृङ्गफुल्लाबुजायते ॥ १०३॥ अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥ १०४॥ नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः । प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥ १०५॥ स्तनाभोगे पतन् भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ १०६॥ यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समाऽसि । तथा लता पल्लविनी सगर्वे शोणाधरायाः सदृशी तवाऽपि ॥ १०७॥ इदं लताभिः स्तबकानताभि- र्मनोहरं हन्त वनान्तरालम् । सदैव सेव्यं स्तनभारवत्यो न चेदयुवत्यो हृदयं हरेयुः ॥ १०८॥ सामदागमनबृंहिततोषा जागरेण गमिताखिलदोषा । बोधिताऽपि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्धैः ॥ १०९॥ अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोःप्रभावतः । विधुभावमञ्चिततमां तवाननं नयने सरोजदलनिर्विशेषताम् ॥ ११०॥ मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती । शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी ॥ १११॥ पान्थ मन्दमते किं वा सन्तापमनुविन्दसि । पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥ ११२॥ सम्पश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम् । सौदामिनी वा सितयामिनी वे- त्येवं जनानां हृदि संशयोऽभूत् ॥ ११३॥ सपल्लपा किं नु विभाति वल्लरी सफुल्लपद्मा किमयं नु पद्मिनी । समुल्लसत्पाणिपदां स्मितानना- मितीक्षमाणैः समलम्भि संशयः ॥ ११४॥ नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् । सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥ ११५॥ कनकद्वकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया । चपलायुतवारिभ्रमान्ननृते चातकपोतकैर्वने ॥ ११६॥ वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते । यूनां परिणता सेयं तपस्योत मतं मम ॥ ११७॥ स्मयमानाननां तत्र तां विलोक्य विलासिनीम् । चकोराश्चञ्चरीकाश्च मुदं परतरं ययुः ॥ ११८॥ वदनकमलेन बाले स्मितसुषमालेशमादधासि यदा । जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥ ११९॥ कलिन्दजानीरभरेऽधर्मग्ना बकाः प्रकामं कृतभूरिशब्दाः । ध्यान्तेन वैराद्विनिगार्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥ १२०॥ परस्परासङ्गसुखानतभ्रुवः पयोधरौ पनितरौ बभूवतुः । तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमेति ॥ १२१॥ जनमोहकरं तवालि मन्ये चिकुराकारमिदं वनान्धकारम् । वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥ १२२॥ दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती । वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपङ्क्तिरेषा ॥ १२३॥ वियोगवह्निकुण्डेऽस्मिन् हृदये ते वियोगिनि । प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १२४॥ निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम् । उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती कलाहीनं दानं विकल इव राजानमकरोत् ॥ १२५॥ स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम् । मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षितुम् ॥ १२६॥ जगदन्तरममृतमयैरंशुभिरापूरयन्नितराम् । उदयति वदनव्याजात् किमु राजा हरिणशावनयनायाः ॥ १२७॥ तिमिरशारदचन्दिरचन्द्रिकाः कमलविद्रुमचम्पककोरकाः । यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥ १२८॥ प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥ १२९॥ राज्याभिषेकमाज्ञाय शम्बरासुरवेरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥ १३०॥ आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्भ्रमरसम्भारं स्मरामि सरसीरुहम् ॥ १३१॥ यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत् तन्निष्पत्राक रोज्जगत् ॥ १३२॥ नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् । सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसम्पदांऽबुजेन ॥ १३३॥ मृणालमन्दानिलचन्दनाना- मुशीरशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनानां विनैव शैत्यं भवति प्रतीतिः ॥ १३४॥ विबोधयन् करस्पर्शैः पद्मिनीं मुदिताननाम् । परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥ १३५॥ आनम्य वल्गुवचनैर्विनिवारितेऽपि रोषात् प्रयातुमुदिते मयि दूरदेशम् । बाला कराङ्गुलिनिदेशवशंवदेन क्रीडाबिडालाशशुनाऽऽशु रुरोध मार्गम् ॥ १३६॥ अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवाऽस्मिन् पीयूषं किरति परितस्तन्वि वदने कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥ १३७॥ विनैव शस्त्रं हृदयानि यूनां विवेकाजामपि दारयन्त्यः । अनल्पमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्याः ॥ १३८॥ यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ १३९॥ न मिश्रयति लोचने सहसितं न सम्भाषते कथासु तव किं च सा विरचयत्यरालां भ्रुवम् । विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः प्रियस्य शिथिलीकृतः स्वविषयेऽनुरागग्रहः ॥ १४०॥ वडवानलकालकूटवन्मकरव्यालगणैः सहैधितः । रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम् ॥ १४१॥ लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नित्यं तेनास्य नित्यः खलु नाकलोकः ॥ १४२॥ प्रभुरापि याचितुकामो भजते वामोरु लाघवं सहसा । यदहं त्वयाऽधरार्थी सपदि विमुख्या निराशतां नीतः ॥ १४३॥ जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते । तटकुञ्जगूढसुरतं भगवाने को मनोभवो वेद ॥ १४४॥ त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत् कुशल मे संप्रति यत्पान्थ जीवामि ॥ १४५॥ किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः । कथय तथापि मुदे मम कथयिष्यति पान्थ तव जाया ॥ १४६॥ तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः । लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥ १४७॥ इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते । जलदादिभयं जगद्वितन्वन् कलितः क्वापि किमालि नीलमेघः ॥ १४८॥ आसायं सलिलान्तः सवितारमुपास्य सादरं तपसा । अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याऽपि ॥ १४९॥ अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे । अधुनेव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥ १५०॥ मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्छनैः किमपि । कोकनदयन्त्रिलोकी मालम्बनशून्यमीक्षते क्षीबः ॥ १५१॥ मधुरसान्मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय । मम गृहाण करेण कराम्बुजं प प पतामि ह हा भ भ भूतले ॥ १५२॥ शतेनोपायानां कथमपि गतः सौधशिखरं सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने । विबोध्य क्षामाङ्गी चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ॥ १५३॥ गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति सम्मुखम् । आवर्तन्ते निवर्तन्ते सरसीषु मधुव्रताः ॥ १५४॥ यथा यथा तामरसेक्षणा मया पुनः सरागं नितरां निषेविता । तथा तथा तत्त्वकथेव सर्वतो विकृत्य मामेकरसं चकार सा ॥ १५५॥ हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते । सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम् ॥ १५६॥ लोलालकावलिचलन्नयनारविन्द लीलावशंवदितलोकविलोचनायाः । सायाहनि प्रणयिनो भवनं ब्रजत्या- श्चेतो न कस्य हरते गतिरङ्गनायाः ॥ १५७॥ दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं वदनमेणविलोचनायाः । वेधा विधाय पुनरुक्तमिवेन्दुबिम्ब दूरीकरोति न कथं विदुषां वरेण्यः ॥ १५८॥ सानुकम्पाः सानुरागाश्चतुराः शीलशीतलाः । हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥ १५९॥ अलकाः फणिशावतुल्यशीला नयनान्ता परिपुङ्खितेषुलीलाः । चपलोपमितां खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥ १६०॥ वदने तव यत्र माधुरी सा हदि पूर्णा करुणा च कोमलेऽभूत् । अधुना हरिणाक्षि हा कथं वा गतिरन्यैव विलोक्यते गुणानाम् ॥ १६१॥ अनिशं नयनाभिरामया रमया सम्मदिनो मुखस्य ते । निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥ १६२॥ अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । विकलयति कुसुमबाणो बाणालीभिर्ममप्राणान् ॥ १६३॥ खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण । खिद्यामि हन्त परितस्तद्रूप विलोकनेन विकलोऽहम् ॥ १६४॥ मथुरागमनोन्मुखे मुरारावसुभारार्तिभृतां वाङ्गनानाम् । प्रलयज्वलनायते स्म राका भवनाकाशमजायताम्बुराशिः ॥ १६५॥ केलीमन्दिरमागतस्य शमकैरालीरपास्येङ्गितैः सुप्तायाः सरुषःसरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥ १६६॥ मान्थर्यमापगमनं सह शैशवेन रक्तं सहैव मनसाऽधरबिम्बमासीत् । किञ्चाभवन्मृगकिशोरदृशो नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ॥ १६७॥ श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः । न स्यात् सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ १६८॥ पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन । हिमाम्बुसङ्गानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ॥ १६९॥ अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले । अधरीकरोति नितरां तवाधरौ मधुरिमातिशयात् ॥ १७०॥ सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया । अलिकेन च हेमकान्तिना विदधे काऽपि रुचिः परस्परम् ॥ १७१॥ परपूरुषदृष्टिपात वज्राहतिभीता हृदयं प्रियस्य सीता । अविशत् परकामिनी भुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः ॥ १७२॥ अङ्गानि दत्त्वा हेमाङ्गि प्राणान् ऋणिआसि चेन्नृणाम् । युक्तमतन्न तु पुनः कोणं नयनपद्मयोः ॥ १७३॥ जितरत्नरुचां सदा रदानां सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥ १७४॥ विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥ १७५॥ निभाल्य भूयो निजगौरिमाणं मा नाम मानं सहसैव यासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥ १७६॥ करिकुम्भतलामरोजयोः क्रियमाणां कविभिर्विश्रङ्खलैः । कथमालि श‍ृणोषि सादरं विपरीतार्थविदो हि योषितः ॥ १७७॥ परिष्वजन् रोषवशात् तिरस्कृतः प्रियो मृगाक्ष्या शयितः पराङ्मुखः । किं दुःखितोऽसाविति कान्दिशीकया कदाचिदाचुम्ब्य चिराय सस्वजे ॥ १७८॥ चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् । वज्रागनानां स्मरजातकम्पादकाण्डसम्पातमियाय नीवी ॥ १७९॥ अधरेण समागमाद्रदाना मरुणिम्ना पिहितोऽपि शुक्लभावः । हसितन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥ १८०॥ सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ १८१॥ शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् । दीयता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥ १८२॥ वदनारविन्दसौरभ लोभादिन्दिरेषु निपतत्सु । मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषा परुषाः ॥ १८३॥ इति श्रीमत्पण्डितराजजगन्नाथाविरचिते भामिनीविलासे श‍ृङ्गारो नाम द्वितीयो विलासः ॥२॥

॥ भामिनीविलासे तृतीयः करुणाविलासः ॥

दैवे पराग्वदनशालिनि हन्त जाते याते च संप्रति दिवं प्रति बन्धुरत्वे । कस्मै मनः कथयितासि निजामवस्थां कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १॥ प्रत्युद्गता सविनयं सहसा पुरेव स्मेरैः स्मरस्य सचिवैः सरसावलोकैः । मामद्य मञ्जुरचनैर्वचनैश्च बाले हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २॥ सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्याऽपि खेदकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव ॥ ३॥ निर्वाणमङ्गलपदं त्वरया विशन्त्या मुक्ता दयावति दयाऽपि किल त्वयाऽसौ । यन्मां न भामिनि निभालयासि प्रभात नीलारविन्दमदभङ्गिमदैः कटाक्षैः ॥ ४॥ धृत्वा पदस्खलनभीतिवशात् करं मे या रूढवत्यसि शिलाशकलं विवाहे । सा मां विहाय कथमद्य विलासिनि दयु- मारोहसीति हृदयं शतधा प्रयाति ॥ ५॥ निर्दूषणा गुणवती रसभावपूर्णा सालङ्कृतिः श्रवणमङ्गलवर्णराजिः । सा मामकीनकवितेव मनोऽभिरामा रामा कदापि हृदयान्मम नापयाति ॥ ६॥ चिन्ता शशाम सकलाऽपि सरोरुहाणा- मिदोश्च बिम्बमसमां सुषमामयासीत् । अभ्युद्गतः कलकलः किल कोकिलानां प्राणप्रिये यदवधि त्वमितो गताऽसि ॥ ७॥ सौदामिनीविलसितप्रतिमानकाण्डे दत्त्वा कियन्त्यपि दिनानि महेन्द्रभोगान् । मन्त्रोज्झितस्य नृपतेरिव राज्यलक्ष्मी र्भाग्यच्युतस्य करतो मम निर्गताऽसि ॥ ८॥ केनापि मे विलसितेन समुद्गतस्य कोपस्य किन्नु करभोरु वशंवदाऽभूः । यन्मां विहाय सहसैव पतिव्रताऽपि याताऽसि मुक्तिरमणीसदनं विदूरम् ॥ ९॥ काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास्तव ये विलासाः । तानन्तरेण रमणी रमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥ १०॥ या तावकीनमधुरस्मितकान्तिकान्ते भूमण्डले विफलतां कविषु व्यतानीत् । सा कातराक्षि विलयं त्वयि यातवत्यां राकाऽधुना वहति वैभवमिन्दिरायाः ॥ ११॥ मन्दस्मितेन सुधया परिषिच्य या मां नेत्रोत्पलैर्विकसितैरनिशं समीजे । सा नित्यमङ्गलमयी गृह देवता मे कामेश्वरी हृदयतो दुयिता न याति ॥ १२॥ भूमौ स्थिता रमण नाथ मनोहरेति सम्बोधनैर्यमधिरोपितवत्यसि द्याम् । सर्वं गता कथमिव क्षिपसि त्वयेणशावा- क्षितं धरणिधूलिषु मामिदानीम् ॥ १३॥ लावण्यमुज्ज्वलमपास्ततुलं च शीलं लोकोत्तरं विनयमर्थमयं नयं च । एतान् गुणानशरणानथ मां च हित्वा हा हन्त सुन्दरि कथं त्रिदिवं गताऽसि ॥ १४॥ कात्या सुवर्णवरया परया च शुद्धया नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् । चेतोहरामपि कुशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥ १५॥ कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कण्ठसुखैकहेतुः । चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ १६॥ स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्टवत्यासि न कञ्चन साभिलाषम् । सा संप्रति प्रचलिताऽपि गुणैर्विहीनं प्राप्तं कथं कथय हन्त परं पुमांसम् ॥ १७॥ दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकिताऽसीत् । अधुना किल हन्त सा कृशाङ्गी गिरमङ्गीकुरुतेन भाषिताऽपि ॥ १८॥ रीतिं गिराममृतवृष्टिकरी तदीयां तां चाकृतिं कविवरैरभिनन्दनीयाम् । लोकोत्तरामथ कृतिं करुणारसार्द्रां स्तोतुं न कस्य समुदेति मनःप्रसादः ॥ १९॥ इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे करुणा नाम तृतीयो विलासः ॥३॥

॥ भामिनीविलासे चतुर्थः शान्तो विलासः ॥

विशालविषयावीवलयलग्नदावानल प्रसृत्वरशिखावालीविकलितं मदीयं मनः । अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १॥ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलन जित्वरज्वरभरत्वराभङ्गुरम् । प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २॥ स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम- भङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् । कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी ॥ ३॥ कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन् सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् । लतावलिशता वृतो मधुरया रुचा सम्भृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४॥ जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिल- ज्जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन् । श्रितो वृन्दारण्यं नतनिखिलवदारकवृतो मम स्वान्तर्ध्वान्तं निरयतु नवीनो जलधरः ॥ ५॥ ग्रीष्मचण्डकरमण्डल भीष्मज्यालसन्तरणतापितमूर्तेः । प्रावृषेण्य इव वारिधरो मे वेदना हरतु वृष्णिवरेण्यः ॥ ६॥ अपारे संसारे विषमविषयारण्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात्सन्तापं हरिनवतमालस्तिरयतु ॥ ७॥ आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियङ्गुलतयेव तरुस्तमालः । देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥ ८॥ नयनानन्दसन्दोह तुन्दिलीकरणक्षमा । तिरयत्याशु सन्तापं कापि कादम्बिनी मम ॥ ९॥ वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा- स्तां स्वप्नेपि न संस्मराम्यहमहम्भावावृतो निस्त्रपः । इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥ १०॥ पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्परा तर तथाप्याशा न शान्तास्तव । आधिव्याधिपराहतो यदि सदा क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः ॥ ११॥ गणिकाजामिलमुख्यानवता भवता बताहमपि । सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥ १२॥ विदित्वेदं दृश्यं विषमरिपुदुष्टं नयनयो र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तध्वान्तो मधुर मधुरायां चिति कदा निमग्नः स्यां कस्यां चन नवनभस्याम्बुदरुचौ ॥ १३॥ मृद्धीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरःखण्डितः । सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ १४॥ वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः । करक्लेशमहीरुदामुरुतरज्वालाजटालः शिखी द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् ॥ १५॥ रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन् वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया । सौन्दर्यामृतमुद्गिरद्भिरभितः सम्मोह्य मन्दस्मितै रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥ १६॥ अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् । तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसंज्ञा ॥ १७॥ सन्त्येवास्मिज्जगति बहवः पक्षिणो रम्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि- श्चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ १८॥ विष्वद्रीच्या भुवनमखिलं भासते यस्य भासा सर्वासामप्यहमिति विदां गूढमालम्बनं यः । तं पृच्छन्ति स्वहृदयमना वेदिनो विष्णुमन्या- नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १९॥ सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यता चिन्तायामसि सस्पृहुं यदि तदा चक्रायुधश्चिन्त्यताम् । आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ २०॥ भवग्रीष्मप्रौढातपनिवहसन्तप्तवपुषो बलादुन्मूल्यं द्राङ्निगडमविवेकव्यतिकरम् । विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विनाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥ २१॥ बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान् अन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ति । तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ २२॥ प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि । आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ २३॥ मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वपचात्मभुवोर्निरन्तरा मम भूयात्परमात्मनि स्थितिः ॥ २४॥ निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् । अथ तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २५॥ प्रतिपलमखिलाँल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि । हा हन्त किमिति चित्तं विरमति नादयापि विषयेभ्यः ॥ २६॥ सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः । अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात् ॥ २७॥ अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु । पातयतु वासिधारामहमणुमात्रं नकिञ्चिदपभाषे ॥ २८॥ तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम् । चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः ॥ २९॥ श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः । निमग्नानां यासु द्रविणमदिराघुर्णितदृशां सपर्यासौकर्य्यं हरिचरणयोरस्तमयते ॥ ३०॥ किं निःशङ्कं शेषे शेषे वयसः समागतो मृत्युः । अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी ॥ ३१॥ सन्तापयामि किमहं धावन्धावं धरातले हृदयम् । अस्ति मम शिरसि सततं नन्दकुमारः प्रभुःपरमः ॥ ३२॥ रेरे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता लव गमिष्याति पुत्रशोकः ॥ ३३॥ मरकतमणिमदिनीधरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥ ३४॥ तरणितनया किं स्यादेषा न तोयमयी हि सा मरकतमणि ज्योत्स्ना वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छाया विलोकनतत्परैः रुदितकुतुकैः कै करादौ न सन्दिदिहे जनैः ॥ ३५॥ चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः । गुरुनिःश्वासितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥ ३६॥ भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलो नाशो हन्त सतामसत्पथजुषामायुः शतानां शतम् । दुर्नीतिं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि स- न्किं कुर्वे जगदीश यत्पुनरहं दीनो भवानीश्वरः ॥ ३७॥ आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे- र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु । मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाज्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ३८॥ गिरां देवी वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम् । वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपते- रधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः ॥ ३९॥ मधुद्राक्षाः साक्षादमृतमथ वमाधरसुधा कदाचिन् केषाञ्चित् न खलु विदधीर न्नपि मुदम् । ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथ भणितिः ॥ ४०॥ निर्माणे यदि मार्मिकोऽसिनितरामत्यन्तपाकद्रव- न्मृद्दीकामधुमाधुरीमदपरीहारोधुराणां गिराम् । काव्यं तहि सखे सुखेन कथय त्वं सम्मुखे मादृशां नो चेदुष्कृतमात्मना कतमिव स्वान्ताद्बहिर्माकृथाः ॥ ४१॥ मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमग्रमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रताना- मास्येषु धास्यति तमां कियतो विलासान् ॥ ४२॥ विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः । आस्ये धास्यति कस्य लास्यमधुनाधन्यस्य कामालस- स्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम ॥ ४३॥ धुयैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकादीनाम् । वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ४४॥ शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि सम्भाविता दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः । संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम् ॥ ४५॥ दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया । मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ॥ ४६॥ इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे पर शान्तो नाम चतुर्थो विलासः ॥४॥ समाप्तोऽयं ग्रन्थः ।