अक्षर आकार:

नन्दिकेश्वरविरचितम् अभिनयदर्पणम्

Abhinayadarpanam by Nandikeshvara

नन्दिकेश्वरविरचितम् अभिनयदर्पणम्

नमस्किया

आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् । आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥ १॥

नाट्योत्पत्तिः

नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः । ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः ॥ २॥ नाय नृत्तं तथा नृत्यमर् शम्भोः प्रयुक्तवान् । प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः ॥ ३॥ तण्डुना स्वगणाग्रण्या भरताय न्यदीदिशत् । लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदिशत् ॥ ४॥ बुद्ध्वाऽथ तण्डवं ताण्डोर्मर्त्येभ्यो मुनयोऽवदन् । पार्वती त्वनुशास्ति स्म लास्य बाणात्मजामुषाम् ॥ ५॥ तया द्वारवतीगोप्यस्ताभिः सौराष्ट्रयोषितः । ताभिस्तु तत्तद्देशीयास्तदशिष्यन्त योषितः ॥ ६॥ एवं परम्पराप्राप्तमेत्तल्लोके प्रतिष्ठितम् ।

नाट्यप्रशंसा

ऋग्यजुः सामवेदेभ्यो वेदाच्चाथर्वणः क्रमात् ॥ ७॥ पाठ्यं चाभिनयं गीतं रसान् सङ्गृह्य पद्मजः । व्यरीरचच्छास्त्रमिदं धर्मकामार्थमोक्षदम् ॥ ८॥ कीर्तिप्रागल्भ्यसौभाग्यवैदध्य्नां प्रवर्धनम् । औदार्यस्थेर्यधैर्याणां विलासस्य च कारणम् ॥ ९॥ दुःखार्तिशोकनिर्वेदखेदविच्छेदकारणम् । अपि ब्रह्मपरानन्दादिदमभ्यधिकं मतम् ॥ १०॥ जहार नारदादीनां चित्तानि कथमन्यथा ।

नटनभेदाः

एतच्चतुर्विधोपेतं नटनं त्रिविधं स्मृतम् ॥ ११॥ नाट्यं नृत्तं नृत्यमिति मुनिभिर्भरतादिभिः ।

नटनप्रयोगकालः

द्रष्टव्ये नाट्यनृत्ये च पर्वकाले विशेषतः ॥ १२॥ नृत्तं तत्र नरेन्द्रानामभिषेके महोत्सवे । यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे ॥ १३॥ नगराणामगाराणां प्रवेशे पुत्रजन्मनि । शुभार्थिभिः प्रयोक्तव्यं माङ्गल्यं सर्वकर्मभिः ॥ १४॥

नाट्यं

नाट्यं तन्नाटकं चैव पूज्यं पूर्वकथायुतम् ।

नृत्तं

भावाभिनयहीनं तु नृत्तमित्यभिधीयते ॥ १५॥

नृत्यं

रसभावव्यञ्जनादियुक्तं नृत्यमितीर्यते । एतन्नृत्यं महाराजसभायां कल्पयेत् सदा ॥ १६॥ सभापतिलक्षणं -- श्रीमान् धीमान् विवेकी वितरणनिपुणो गानविद्याप्रवीणः सर्वज्ञः कीर्तिशाली सरसगुणयुतो हावभावेष्वभिज्ञः । मात्सर्यद्वेषहीनः प्रकृतिहितसदाचारशीलो दयालु- र्धीरो दान्तः कलावानभिनयचतुरोऽसौ सभानायकः स्यात् ॥ १७॥ मन्त्रिलक्षणं -- मेधासुस्थिरभाषणगुणपराः श्रीमद्यशोलम्पटा भावज्ञा गुणदोषभेदनिपुणाः श‍ृङ्गारलीलायुताः । मध्यस्था नयकोविदाः सहृदयाः सत्पण्डिता भान्ति ते भाषाभेदविचक्षणाः सुकवयो अस्य प्रभोर्मन्त्रिणः ॥ १८॥ सभालक्षणं -- सभाकल्पतरुर्भाति वेदशाखोपजीवितः । शास्त्रपुष्पसमाकीर्णो विद्वद्भ्रमरशोभितः ॥ १९॥

सभारचना

एवंविधः सभानाथः प्राङ्मुखो निविशेन मुदा । वर्तेरन् पार्श्वयोस्तस्य कविमन्त्रिसुहृज्जनाः ॥ २०॥ तदग्रे नटनं कुर्यात् तत् स्थलं रङ्ग उच्यते । रङ्गमध्ये स्थिते पात्रे तत्समीपे नटोत्तमः ॥ २१॥ दक्षिणे तालधारी च पार्श्वद्वन्द्वे मृदङ्गकौ । तयोर्मध्ये गीतकारी श्रुतिकारस्तदन्तिके ॥ २२॥ एवं तिष्ठेत् क्रमेणैव नाट्यादौ रङ्गमण्डली । पात्रलक्षणं -- तन्वी रूपवती श्यामा पीनोन्नतपयोधरा ॥ २३॥ प्रगल्भा सरसा कान्ता कुशला ग्रहमोक्षयोः । विशाललोचना गीतवाद्यतालानुवर्तिनी ॥ २४॥ परार्ध्यभूषासम्पन्ना प्रसन्नमुखपङ्कजा । एवंविधगुणोपेता नर्तकी समुदीरिता ॥ २५॥ वर्जनीयपात्राणि -- पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी । अतिस्थूलाप्यतिकृशा अत्युच्चाप्यतिवामना ॥ २६॥ कुब्जा च स्वरहीना च दशैता नाट्यवर्जिताः । पात्रस्य प्राणाः -- जवः स्थिरत्वं रेखा च भ्रमरी दृष्टिरश्रमः ॥ २७॥ मेधा श्रद्धा वचो गीतं पात्रप्राणा दश स्मृताः । एवंविधेन पात्रेण नृत्यं कार्यं विधानतः ॥ २८॥

किङ्किणीलक्षणं

सुस्वराश्च सुरूपाश्च सूक्ष्मा नक्षत्रदेवताः । किङ्किण्यः कांस्यरचिता एकैकाङ्गुलिकान्तरम् ॥ २९॥ बध्नीयान्नीलसूत्रेण ग्रन्थिभिश्च दृढं पुनः । शतद्वयं शतं वापि पादयोर्नाट्यकारिणी ॥ ३०॥ प्रार्थनादिकं -- विघ्नेशं मुरजाधिपं च गगनं स्तुत्वा महीं प्रार्थयेत् तत्तद्वाद्यकदम्बकस्य विधिना पूजाविधामानयेत् । आलप्यातिमनोहरान् बहुविधीन् सम्पाद्य भूयस्तथा गुर्वाज्ञामवलम्ब्य पात्रमुचितं श‍ृङ्गारमेवारभेत् ॥ ३१॥ रङ्गाधिदेवतास्तुतिः -- भरतकुलभाग्यकलिके भावरसानन्दपरिणताकारे । जगदेकमोहनकले जय जय रङ्गाधिदेवते देवि ॥ ३२॥

पुष्पाञ्जलिः

विघ्नानां नाशनं कर्तुं भूतानां रक्षणाय च । देवानां तुष्टये चापि प्रेक्षकाणां विभूतये ॥ ३३॥ श्रेयसे नायकस्यात्र पात्रसंरक्षणाय च । आचार्यशिक्षासिद्धार्थ पुष्पाञ्जलिमथारभेत् ॥ ३४॥

नाट्यक्रमः

एवं कृत्वा पूर्वरङ्गं नृत्यं कार्यं ततः परम् । नृत्यं गीताभिनयनं भावतालयुतं भवेत् ॥ ३५॥ आस्येनालम्बयेद् गीतं हस्तेनार्थं प्रदर्शयेत् । चक्षुर्भ्यां दर्शयेद् भावं पादाभ्यां तालमाचरेत् ॥ ३६॥ यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ ३७॥

अभिनयः

तत्र त्वभिनयस्यैव प्राधान्यमिति कथ्यते । आङ्गिको वाचिकस्तद्वदाहार्यः सात्विकोऽपरः ॥ ३८॥ चतुर्धाभिनयस् -

आङ्गिकाभिनयः

तत्र आङ्गिकोऽङ्गैर्निदर्शितः ।

वाचिकाभिनयः

वाचा विरचितः काव्यनाटकादि तु वाचिकः ॥ ३९॥

आहार्याभिनयः

आहार्यो हारकेयूरवेषादिभिरलङ्कृतः ।

सात्त्विकाभिनयः

सात्त्विकः सात्त्विकैर्भावैर्भावज्ञेन विभावितः ॥ ४०॥ स्तम्भः स्वेदाम्बु रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ ४१॥

आङ्गिकाभिनयसाधनानि

तत्राङ्गिकोऽङ्गप्रत्यङ्गोपाङ्गैस्त्रेधा प्रकाशतः ।

अङ्गानि

अङ्गान्यस्त्र शिरो हस्तौ वक्षः पार्श्वौ कटीतटौ ॥ ४२॥ पादाविति षडुक्तानि ग्रीवामप्यपरे जगुः ॥

प्रत्यङ्गानि

प्रत्यङ्गान्यथ च स्कन्धौ बाहू पृष्ठं तथोदरम् ॥ ४३॥ ऊरू जङ्घे षडित्याहुरपरे मणिबन्धकौ । जानुनी कूर्परावेतत् त्रयमप्यधिकं जगुः ॥ ४४॥

उपाङ्गानि

ग्रीवा स्यादप्युपाङ्गन्तु स्कन्ध एवं जगुर्बुधाः । दृष्टिभ्रूपुटताराश्च कपोलौ नासिका हनू ॥ ४५॥ अधरो दशना जिह्वा चुबुकं वदनं तथा । उपाङ्गानि द्वादशैव शिरस्यङ्गान्तरेषु च ॥ ४६॥ पार्ष्णिगुल्फौ तथाङ्गुल्यः करयोः पादयोस्तले । एतानि पूर्वशास्त्रानुसारेणोक्तानि वै मया ॥ ४७॥ नृत्यमात्रोपयोगीनि कथ्यन्ते लक्षणैः क्रमात् । अङ्गानां चलनादेव प्रत्यङ्गोपाङ्गयोरपि ॥ ४८॥ चलनं प्रभवेत्तस्मात् सर्वेषां नात्र लक्षणम् । शिरोमेदाः -- सममुद्वाहितमधोमुखमालोलितं धुतम् ॥ ४९॥ कम्पितं च परावृत्तमुत्क्षिप्तं परिवाहितम् । नवधा कथितं शीर्षं नाट्यशास्त्रविशारदैः ॥ ५०॥ समशिरः -- निश्चलं सममाख्यातं यन्नत्युन्नतिवर्जितम् । विनियोगः -- नृत्यारम्भे जपादौ च गर्वे प्रणयकोपयोः ॥ ५१॥ स्तम्भने निष्क्रियत्वे च समशीर्षमुदाहृतम् । उद्वाहितशिरः -- उद्वाहितशिरो ज्ञेयमूर्ध्वभागोन्नताननम् ॥ ५२॥ विनियोगः -- ध्वजे चन्द्रे च गगने पर्वते व्योमगामिषु । तुङ्गवस्तुनि संयोज्यमुद्वाहितशिरो बुधैः ॥ ५३॥ अधोमुखशिरः -- अधस्तान्नमितं वक्त्रमधोमुखमितीरितम् । विनियोगः -- लज्जाखेदप्रणामेषु दुश्चिन्तामूर्छयोस्तथा ॥ ५४॥ अधःस्थितार्थनिर्देशे युज्यतेऽम्बुनि मज्जने । आलोलितशिरः -- मण्डलाकारमुद्भ्रान्तमालोलितं शिरो भवेत् ॥ ५५॥ विनियोगः -- निद्रोद्वेगग्रहावेशमदमूर्छासु तन्मतम् । भ्रमणे विकटोद्दामहास्ये चालोलितं शिरः ॥ ५६॥ धुतशिरः -- वामदक्षिणभागेषु चलितं तद्धुतं शिरः । विनियोगः -- नास्तीति वचने भूयः पार्श्वदेशावलोकने ॥ ५७॥ जनाश्वासे विस्मये च विषादेऽनीप्सिते तथा । शीतार्ते ज्वरिते भीते सद्यःपीतासवे तथा ॥ ५८॥ युद्धे यत्ने निषेधादावमर्षे खाङ्गवीक्षणे । पार्श्वाह्वाने च तस्योक्तः प्रयोगो भरतादिभिः ॥ ५९॥ कम्पितशिरः -- ऊर्ध्वाधोभागचलितं तच्छिरः कम्पितं भवेत् । विनियोगः -- रोषे तिष्ठेति वचने प्रश्ने सङ्ख्योपहूतयोः ॥ ६०॥ आवाहने तर्जने च कम्पितं विनियुज्यते । परावृत्तशिरः -- पराङ्मुखीकृतं शीर्षं परावृत्तमितीरितम् ॥ ६१॥ विनियोगः -- तत् कार्यं कोपलज्जादिकृते बक्त्रापसरणे । अनादरे कचे तूण्यां परावृत्तशिरो भवेत् ॥ ६२॥ उत्क्षिप्तशिरः -- पार्श्वोर्ध्वभागचलितमुत्क्षिप्तं कथ्यते शिरः । विनियोगः -- गृहाणागच्छेत्याद्यर्थसूचने परिपोषणे ॥ ६३॥ अङ्गीकारे प्रयोक्तव्यमुत्क्षिप्तं नाम शीर्षकम् । परिवाहितशिरः -- पार्श्वयोश्चामरमिव ततं चेत् परिवाहितम् ॥ ६४॥ विनियोगः -- मोहे च विरहे स्तोत्रे सन्तोषे चानुमोदने । विचारे च प्रयोक्तव्यं परिवाहितशीर्षकम् ॥ ६५॥ दृष्टिमेदाः -- सममालोकितं साचीर्लोकितनिमीलिते । उल्लोकितानुवृत्ते च तथा चैवावलोकितम् ॥ ६६॥ इत्यष्टौ दृष्टिभेदाः स्युः कीर्तिताः पूर्वसूरिभिः । समदृष्टिः -- वीक्षणं सुरनारीवत् सानन्दं समवीक्षणम् ॥ ६७॥ विनियोगः -- नाट्यारम्भे तुलायां चाप्यन्यचिन्ताविनिश्चये । आश्चर्ये देवतारूपे समदृष्टिरुदाहृता ॥ ६८॥ आलोकितदृष्टिः -- आलोकितं भवेदाशुभ्रमणं स्फुटवीक्षणम् । विनियोगः -- कुलामचक्रभ्रमणे सर्ववस्तुप्रदर्शने ॥ ६९॥ याञ्चयां च प्रयोक्तव्यमालोकितनिरीक्षणम् । साचीदृष्टिः -- स्वस्थाने तिर्यगाकारमपाङ्गवलनं क्रमात् ॥ ७०॥ साचीदृष्टिरिति ज्ञेया नाट्यशास्त्रविशारदैः । विनियोगः -- इङ्गिते श्मश्रुसंस्पर्शे शरलक्ष्ये शुके स्मृतौ ॥ ७१॥ सूचनायां च कार्याणां नाट्ये साचीनिरीक्षणम् । प्रलोकितदृष्टिः -- प्रलोकितं परिज्ञेयं चलनं पार्श्वभागयोः ॥ ७२॥ विनियोगः -- उभयोः पार्श्वयोर्वस्तु निर्देशे च प्रसञ्जिते । चलने बुद्धिजाडेय च प्रलोकितनिरीक्षणम् ॥ ७३॥ मोलितदृष्टिः -- दृष्टे रर्धविकाशेन मीलिता दृष्टिरीरिता । विनियोगः -- आशीविषे पारवश्ये जपे ध्याने नमस्कृतौ ॥ ७४॥ उन्मादे सूक्ष्मदृष्टौ च मीलिता दृष्टिरीरिता । उल्लोकितदृष्टिः -- उल्लोकितमिति ज्ञेयमूर्ध्वभागे विलोकनम् ॥ ७५॥ विनियोगः -- ध्वजाग्रे गोपुरे देवमण्डले पूर्वजन्मनि । औन्नत्ये चन्द्रिकादावप्युल्लोकितनिरीक्षणम् ॥ ७६॥ अनुवृत्तदृष्टिः -- ऊर्ध्वाधो वीक्षणं वेगादनुवृत्तमितीरितम् । विनियोगः -- कोपदृष्टौ प्रियामन्त्रे अनुवृत्तनिरीक्षणम् ॥ ७७॥ अवलोकितदृष्टिः -- अधस्ताद्दर्शनं यत्तदवलोकितमुच्यते । विनियोगः -- छायालोके विचारे च चर्यायां पठनश्रमे ॥ ७८॥ स्वाङ्गावलोकने यानेऽप्यवेलोकितमुच्यते । ग्रीवाभेदाः -- सुन्दरी च तिरश्चीना तथैव परिवर्तिता ॥ ७९॥ प्रकम्पिता च भावज्ञैर्ज्ञेया ग्रीवा चतुर्विधा । सुन्दरी प्रीवा -- तिर्यक् चञ्चलिता ग्रीवा सुन्दरीति निगद्यते ॥ ८०॥ विनियोगः -- स्नेहारम्भे तथा यत्ने सम्यगर्थे च विस्तृते । सरसत्वानुमोदे च सा ग्रीवा सुन्दरी मता ॥ ८१॥ तिरश्चीना ग्रीवा -- पार्श्वयोरुर्ध्वभागे तु चलिता सर्पयानवत् । सा ग्रीवा तु तिरश्चीनेत्युच्यते नाट्यकोविदैः ॥ ८२॥ विनियोगः -- स्वड्गश्रमे सर्पगत्यां तिरश्चीना प्रयुज्यते । परिवर्तिता ग्रीवा -- सव्यापसव्यचलिता ग्रीवा यत्रर्धचन्द्रवत् ॥ ८३॥ सा हि नाट्यकलाभिज्ञैर्विज्ञेया परिवर्तिता । विनियोगः -- श‍ृङ्गारनटने कान्तकपोलद्वयचुम्बने ॥ ८४॥ नाट्यतन्त्रविचारज्ञैः प्रयोज्या परिवर्तिता । प्रकम्पिता ग्रीवा -- पुरः पश्चात् प्रचलनात् कपोतीकण्ठकम्पवत् ॥ ८५॥ प्रकम्पितेति सा ग्रीवा नाट्यशास्त्रे प्रशस्यते । विनियोगः -- युष्मदस्मदिति प्रोक्ते देशीनाट्ये विशेषतः ॥ ८६॥ दोलायां मणिते चैव प्रयोक्तव्या प्रकम्पिता । हस्तभेदाः -- अथेदानीन्तु हस्तानां लक्षणं प्रोच्यते मया ॥ ८७॥ असंयुताः संयुताश्च हस्तद्वेधा निरूपिता । तत्रासंयुतहस्तानामादौ लक्षणमुच्यते । ८८॥ असंयुतहस्ताः -- पताकस्त्रिपताकोऽर्धपताकः कर्तरीमुखः । मयूराख्योऽर्धचन्द्रश्च अरालः शुकतुण्डकः ॥ ८९॥ मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः । सूची चन्द्रकला पद्मकोशः सर्पशिरस्तथा ॥ ९०॥ मृगशीर्षः सिंहमुखः काङ्गुलश्चालपद्मकः । चतुरो भ्रमरश्चैव हंसास्यो हंसपक्षकः ॥ ९१॥ शन्दंशो मुकुलश्चेव ताम्रचूडस्त्रिशूलकः । इत्यसंयुतहस्तानामष्टाविंशतिरीरिता ॥ ९२॥ पताकहस्तः -- अङ्गुल्यः कुञ्चिताङ्गुष्टः संश्लिष्टाः प्रसृता यदि । स पताककरः प्रोक्तो नृत्यकर्मविशारदैः ॥ ९३॥ विनियोगः -- नाट्यारम्भे वारिवाहे वने वस्तुनिषेधने । कुचस्थले निशायां च नद्यामरमण्डले ॥ ९४॥ तुरङ्गे खण्डने वायौ शयने गमनोद्यमे । प्रतापे च प्रसादे च चन्द्रिकायां घनातपे ॥ ९५॥ कवाटपाटने सप्तविभक्तपर्थे तरङ्गके । वीथिप्रवेशभावेऽपि समत्वे चाङ्गरागके ॥ ९६॥ आत्मार्थे शपथे चापि तूष्णीम्भावनिदर्शने । तालपत्रे च खेटे च द्रव्यादिस्पर्शने तथा ॥ ९७॥ आशीर्वादक्रियायां च नृपश्रेष्ठस्य भावने । तत्र तत्रेति वचने सिन्धौ च सुकृतिक्रमे ॥ ९८॥ सम्बोधने पुरोगेऽपि खड्गरूपस्य धारणे । मासे संवत्सरे वर्षदिने सम्मार्जने तथा ॥ ९९॥ एवमर्थेषु युज्यन्ते पताकहस्तभावनाः । त्रिपताकहस्तः -- स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥ १००॥ विनियोगः -- मकुटे वृक्षभावेषु वज्रे तद्धरवासवे । केतकीकुसुमे दीपे वह्निज्वाला विजृम्भने ॥ १०१॥ कपोते पत्रलेखायां बाणार्थे परिवर्तने । युज्यते त्रिपताकोऽयं कथितो भरतोत्तमैः ॥ १०२॥ अर्धपताकहस्तः -- त्रिपताके कनिष्टा चेद् वक्रिताऽर्धपताकिका । विनियोगः -- पल्लवे फलके तीरे उभयोरिति वाचके ॥ १०३॥ क्रकचे छुरिकायां च ध्वजे गोपुरश‍ृङ्गयोः । युज्यतेऽर्धपताकोऽयं तत्तत्कर्मप्रयोगके ॥ १०४॥ कत्तरीमुखहस्तः -- अस्यैव चापि हस्तस्य तर्जनी च कनिष्ठिका । बहिः प्रसारिते द्वे च स करः कर्तरीमुखः ॥ १०५॥ विनियोगः -- स्त्रीपुंसयोस्तु विश्लेषे विपर्यासपदेऽपि वा । लुण्ठने नयनान्ते च मरणे भेदभावने ॥ १०६॥ विद्युदर्थेऽप्येकशय्याविरहे पतने तथा । लतायां युज्यते यस्तु स करः कर्तरीमुखः ॥ १०७॥ मयूरहस्तः -- अस्मिन्नामिकाङ्गुष्ठौ श्लिष्टौ चान्याः प्रसारिताः । मयूरहस्तः कथितः करटीकाविचक्षणैः ॥ १०८॥ विनियोगः -- मयूरास्ये लतायां च शकुने वमने तथा । अलकस्यापनयने ललाटतिलकेषु च ॥ १०९॥ नद्युदकस्य निक्षेपे शास्त्रवादे प्रसिद्धके । एवमर्थेषु युज्यन्ते मयूरकरभावनाः ॥ ११०॥ अर्धचन्द्रहस्तः -- अर्धचन्द्रकरः सोऽयं पताकेऽङ्गुष्ठसारणात् । विनियोगः -- चन्द्रे कृष्णाष्टमीभाजि गलहस्तार्थकेऽपि च ॥ १११॥ भल्लायुधे देवतानामभिषेचनकर्मणि । भुक्पात्रे चोद्भवे कट्यां चिन्तायामात्मवाचके ॥ ११२॥ ध्याने च प्रार्थने चापि अङ्गानां स्पर्शने तथा । प्राकृतानां नमस्कारे अर्धचन्द्रो नियुज्यते ॥ ११३॥ अरालहस्तः -- पताके तर्जनी वक्रा नाम्ना सोऽयमरालकः । विनियोगः -- विषाद्यमृतपानेषु प्रचण्डपवनेऽपि च ॥ ११४॥ शुकतुण्डहस्तः -- अस्मिन्ननामिका वक्रा शुकतुण्डकरो भवेत् । विनियोगः -- बाणप्रयोगे कुन्तार्थे वाऽऽलयस्य स्मृतिक्रमे ॥ ११५॥ मर्मोत्यामुग्रभावेषु शुकतुण्डो नियुज्यते । मुष्टिहस्तः -- मेलनादङ्गुलीनाञ्च कुञ्चितानां तलान्तरे ॥ ११६॥ अङ्गुष्ठश्चोपरियुतो मुष्टिहस्तोऽयमीर्यते । विनियोगः -- स्थिरे कचग्रहे दार्ढ्ये वस्त्वादीनां च धारणे ॥ ११७॥ मल्लानां युद्धभावेऽपि मुष्टिहस्तोऽयमिष्यते । शिखरहस्तः -- चेन्मुष्टिरुन्नताङ्गुष्ठः स एव शिखरः करः ॥ ११८॥ विनियोगः -- मदने कार्मुक स्तम्भे निश्चये पितृकर्मणि । ओष्ठेप्रविष्टरूपे च रदने प्रश्नभावने ॥ ११९॥ लिङ्गे नास्तीति वचने स्मरणेऽभिनयान्तिके । कटिबन्धाकर्षणे च परिरम्भविधिक्रमे ॥ १२०॥ घण्टानिनादे शिखरो युज्यते भरतादिभिः । कपित्थहस्तः -- अङ्गुष्ठमूर्ध्निशिखरे वक्रिता यदि तर्जनी ॥ १२१॥ कपित्थाख्यः करः सोऽयं कीर्तितो नृत्तकोविदैः । विनियोगः -- लक्ष्म्यां चैव सरखत्यां नटानां तालधारणे ॥ १२२॥ गोदोहनेऽप्यञ्जने च लीलाकुसुमधारणे । चेलाञ्चलादिग्रहणे पटस्यैवावगुण्ठने ॥ १२३॥ धूपदीपार्चने चापि कपित्थः सम्प्रयुज्यते । कटकामुखहस्तः -- कपित्थे तर्जनी चोर्ध्वमुछ्रिताङ्गुष्ठमध्यमा ॥ १२४॥ कटकामुखहस्तोऽयं कीर्तितो भरतागमैः । विनियोगः -- कुसुमावचये मुक्तास्रग्दाम्नां धारणे तथा ॥ १२५॥ शरमध्याकर्षणे च नागल्लीप्रदानके । कस्तूरिकादिवस्तूनां पेषणे गन्धवासने ॥ १२६॥ वचने दृष्टिभावेऽपि कटकामुख इष्यते । सूचीहस्तः -- ऊर्ध्वप्रसारिता यत्र कटकामुखतर्जनी ॥ १२७॥ सूचीहस्तः स विज्ञेयो भरतागमकोविदैः । विनियोगः -- एकार्थेऽपि परब्रह्मभावनायां शतेऽपि च ॥ १२८॥ रवौ नगर्यां लोकार्थे तथेति वचनेऽपि च । अच्छब्देऽपि तच्छब्द् विजनार्थेऽपि तर्जने ॥ १२९॥ कार्श्ये शलाके वपुषि आश्चर्ये वेणिभावने । छत्रे समर्थे पाणौ च रोमाल्यां भेरीवादने ॥ १३०॥ कुलालचक्रभ्रमणे रथाङ्गमण्डले तथा । विवेचने दिनान्ते च सूचीहस्तः प्रकीर्तितः ॥ १३१॥ चन्द्रकलाहस्तः -- सूच्यामङ्गुष्ठमोक्षे तु करश्चन्द्रकला भवेत् । विनियोगः -- चन्द्रे मुखे च प्रादेशे तन्मात्राकारवस्तुनि ॥ १३२॥ शिवस्य मुकुटे गङ्गानद्यां च लगुडेऽपि च । एषां चन्द्रकला चैव विनियोज्या विधीयते ॥ १३३॥ पद्मकोशहस्तः -- अङ्ल्यो विरला किञ्चित् कुञ्चितास्तलनिम्नगाः । पद्मकोशाभिधो हस्तस्तन्निरूपणमुच्यते ॥ १३४॥ विनियोगः -- फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः । आवर्ते कन्दुके स्थाल्यां भोजने पुष्पकोरके ॥ १३५॥ सहकारफले पुष्पवर्षे मञ्जरिकादिषु । जपाकुसुमभावे च घण्टारूपे विधानके ॥ १३६॥ वल्मीके कमलेऽप्यण्डे पद्मकोशो विधीयते । सर्पशीर्षहस्तः -- पताका नमिताग्रा चेत् सर्पशीर्षकरो भवेत् ॥ १३७॥ विनियोगः -- चन्दने भुजगे मन्द्रे प्रोक्षणे पोषणादिषु । देवस्योदकदानेषु आस्फाले गजकुम्भयोः ॥ १३८॥ भुजस्थाने मल्लानां तु युज्यते सर्पशीर्षकः । मृगशीर्षहस्तः -- अस्मिन् कनिष्ठिकाङ्गुष्ठे प्रसृते मृगशीर्षकः ॥ १३९॥ विनियोगः -- स्त्रीणामर्थे कपोले च चक्रमर्यादयोरपि । भीत्यां विवादे नेपथ्ये आह्वाने च त्रिपुण्ड्रके ॥ १४०॥ मृगमुखे रङ्गमल्ल्यां पादसंवाहने तथा । सर्वस्वे मिलने काममन्दिरे छत्रधारणे ॥ १४१॥ सञ्चारे च प्रियाह्वाने युज्यते मृगशीर्षकः । सिंहमुखहस्तः -- मध्यमानामिकाग्राभ्यामङ्गुष्ठो मिश्रितो यदि ॥ १४२॥ शेषौ प्रसारितौ यत्र स सिंहास्यकरो भवेत् । विनियोगः -- होमे शशे गजे दर्भचलने पद्मदामनि ॥ १४३॥ सिंहानने वैद्यपाके शोधने सम्प्रयुज्यते । काङ्गुलहस्तः -- पद्मकोशेऽनामिका चेन्नम्रा काङ्गुलहस्तकः ॥ १४४॥ धुतशिरः -- लकुचस्य फले बालकिङ्किण्यां घण्टिकार्थके । चकोरे क्रमुके बालकुचे कह्लारके तथा ॥ १४५॥ चातके नालिकेरे च काङ्गुलो युज्यते करः । अलपद्महस्तः -- कनिष्ठाद्या वक्रिताश्च विरलाश्चालपद्मकः ॥ १४६॥ विनियोगः -- विकचाब्जे कपित्थादिफले चावर्तके कुचे । विरहे मुकुरे पूर्णचन्द्रे सौन्दर्यभावने ॥ १४७॥ धम्मिल्ले चन्द्रशालायां ग्रामे चोद्धृतकोपयोः । तटाके शकटे चक्रवाके कलकलारवे ॥ १४८॥ श्लाघने सोऽलपद्मश्च कोर्तितो भरतागमे । चतुरहस्तः -- तर्जन्याद्यास्तत्र श्लिष्टाः कनिष्ठा प्रसृता यदि ॥ १४९॥ अङ्गुप्ठोऽनामिकामूले तिर्यक् चेच्चतुरः करः । विनियोगः -- कस्तूर्यां किञ्चिदर्थे च स्वर्णे ताम्रे च लोहके ॥ १५०॥ आर्दै खेदे रसास्वादे लोचने वर्णभेदने । प्रमाणे सरसे मन्दगमने शकलीकृते ॥ १५१॥ आनने घृततैलादौ युज्यते चतुरः करः । भ्रमरहस्तः -- मध्यमाङ्गुष्ठसंयोगे तर्जनी वक्रिताकृतिः ॥ १५२॥ शेषाः प्रसारिताश्चासौ भ्रमराभिधहस्तकः । विनियोगः -- भ्रमरे च शुके पक्षे सारसे कोकिलादिषु ॥ १५३॥ भ्रमराख्यश्च हस्तोऽयं कीर्तितो भरतागमे । हंसास्यहस्तः -- भध्यमाद्यास्त्रयोङ्गुल्यः प्रसृता विरला यदि ॥ १५४॥ तर्जन्यङ्गुष्ठसंश्लेषात् करो हंसात्यको भवेत् । विनियोगः -- माङ्गल्ये सूत्रबन्धे च उपदेशविनिश्चये ॥ १५५॥ रोमाञ्चे मौक्तिकादौ च दीपवर्तिप्रसारणे । निकषे मल्लिकादौ च चित्रे तल्ले खने तथा ॥ १५६॥ दंशे च जलबन्धे च हंसास्यो युज्यते करः । हंसपक्षहस्तः -- सर्पशीर्षकरे सम्यक् कनिष्ठा प्रसृता यदि ॥ १५७॥ हंसपक्षः करः सोऽय तन्निरूपणमुच्यते । विनियोगः -- षट्सङ्ख्यायां सेतुबन्धे नखरेखाङ्कणे तथा ॥ १५८॥ पिधाने हंसपक्षोऽयं कथितो भरतागमे । सन्दंशस्तः -- पुनः पुनः पद्मकोशः संश्लिष्टो विरलो यदि ॥ १५९॥ सन्दंशाभिधहस्तोऽयं कीर्तितो नृत्यकोविदैः । विनियोगः -- उदरे वलिदाने च व्रणे कीटे महाभये ॥ १६०॥ अर्चने पञ्चसङ्ख्यायां सन्दंशाख्यो नियुज्यते । मुकुलहस्तः -- अङ्गुलोपञ्चकं चैव मेलयित्वा प्रदर्शने ॥ १६१॥ मुकुलाभिधहस्तोऽयं कीर्त्यते भरतागमे । कुमुदे भोजने पञ्चबाणे मुद्रादिधारणे ॥ १६२॥ नाभौ च कदलीपुष्पे युज्यते मुकुलः करः । ताम्रचूडहस्तः -- मुकुले ताम्रचूडः स्यात्तर्जनी वक्रिता यदि ॥ १६३॥ विनियोगः -- कुक्कुटादौ वके काके उष्ट्रे वत्से च लेखने । युज्यते ताम्रचूडाख्यः करो भरतवेदिभिः ॥ १६४॥ त्रिशूलहस्तः -- निकुञ्चनयुताङ्गुष्ठकनिष्ठस्तु त्रिशूलकः । विनियोगः -- विल्वपत्रे त्रित्वयुक्ते त्रिशूलकर ईरितः ॥ १६५॥ व्याघ्रहस्तः -- कनिष्ठाङ्गुष्ठनमने मृगशीर्षकरे तथा । व्याघ्रहस्तः स विज्ञेयो भरतागमकोविदैः ॥ १६६॥ विनियोगः -- व्याघ्रे भेके मर्कटे च शुक्तौ संयुज्यते करः । अर्धसूचीहस्तः -- कपित्थे तर्जनी ऊर्ध्वसारणे त्वर्धसूचिकः ॥ १६७॥ विनियोगः -- अङ्कुरे पक्षिशावादौ बृहत्कीटे नियुज्यते । कटकहस्तः -- सन्दंशेऽप्युर्ध्वभागे तु मध्यमानामिकान्वया ॥ १६८॥ ॥॥ ॥॥ कटको हस्त उच्यते । विनियोगः -- एतस्य विनियोगस्तु ॥॥ ॥॥ दर्शने ॥ १६९॥ आह्वानभावचलने ॥॥ ॥॥ । पल्लिहस्तः -- मयूरे तर्जनीपृष्ठो मध्यमेन युतो यदि ॥ १७०॥ पल्लिहस्तः स विज्ञेयः पल्लाथै विनियुज्यते । अभिनयवशादेषां संयुतत्वं प्रकीर्तितम् ॥ १७१॥ मार्गप्रदर्शनं तेषां क्रमाल्लक्ष्यानुसारतः । संयुतहस्ताः -- अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ १७२॥ डोलाहस्तः पुष्पपुट उत्सङ्गः शिवलिङ्गकः । कटकावर्धनश्चैव कर्तरीस्वस्तिकस्तथा ॥ १७३॥ शकटं शङ्खचक्रे च सम्पुटः पाशकीलकौ । मत्स्यः कूर्मों वराहश्च गरुडो नागबन्धकः ॥ १७४॥ खट्वा भेरुण्ड इत्येते सङ्ख्याता संयुताः कराः । त्रयोविंशतिरित्युक्ताः पूर्वगैर्भरतादिभिः ॥ १७५॥ अञ्जलिहस्तः -- पताकातलयोर्योगादञ्जलिः कर ईरितः । विनियोगः -- देवतागुरुविप्राणां नमस्कारेष्वनुक्रमात् ॥ १७६॥ कार्यः शिरोमुखोरस्थो विनियोगेऽञ्जलिबुधैः । कपोतहस्तः -- कपोतोऽसौ करो यत्र श्लिष्टाऽऽमूलाग्रपार्श्वकः ॥ १७७॥ विनियोगः -- प्रणामे गुरुसम्भाषे विनयाङ्गीकृतेष्वयम् । कर्कटहस्तः -- अन्योन्यस्यान्तरे यत्राङ्गुल्यो निःसृत्य हस्तयोः ॥ १७८॥ अन्तर्बहिर्वा वर्तन्ते कर्कटः सोऽभिधीयते । विनियोगः -- समूहागमने तुन्ददर्शने शङ्खपूरणे ॥ १७९॥ अङ्गानां मोटने शाखोन्नमने च नियुज्यते । स्वस्तिकहस्तः -- पताकयोः सन्नियुक्तः करयोर्मणिबन्धयोः ॥ १८०॥ संयोगेन स्वस्तिकाख्यो मकरे विनियुज्यते । डोलाहस्तः -- पताक ऊरूदेशस्थे डोलाहस्तोऽयमिष्यते ॥ १८१॥ विनियोगः -- नाट्यारम्भे प्रयोक्तव्य इति नाट्यविदो विदुः । पुष्पपुटहस्तः -- संश्लिष्टकरयोः सर्पशीर्षः पुष्पपुटः करः ॥ १८२॥ विनियोगः -- नीराजनाविधौ वारिफलादिग्रहणेऽपि च । सध्याय्मयैदाने च मन्त्रपुष्पे च युज्यते ॥ १८३॥ उत्सङ्गहस्तः -- आन्योन्यबाहुदेशस्थौ मृगशीर्षकरौ यदि । उत्सङ्गहस्तः स ज्ञेयो भरतागमवेदिभिः ॥ १८४॥ विनियोगः -- आलिङ्गने च लज्जायामङ्गदादिप्रदर्शने । बालानां शिक्षणे चायमुत्सङ्गो युज्यते करः ॥ १८५॥ शिवलिङ्गहस्तः -- वामेऽर्धचन्द्रो विन्यस्तः शिखरः शिवलिङ्गकः । विनियोगः -- विनियोगस्तु तस्यैव शिवलिङ्गस्य दर्शने ॥ १८६॥ कटकावर्धनहस्तः -- कटकामुखयोः पाण्योः स्वस्तिको मणिबन्धयोः । कटकावर्धनाख्यः स्यादिति नाट्यविदो विदुः ॥ १८७॥ विनियोगः -- पट्टाभिषेके पूजायां विवाहादिषु युज्यते । कर्तरीस्वस्तिकहस्तः -- कर्तरीस्वस्तिकाकारा कर्तरीस्वस्तिको भवेत् ॥ १८८॥ विनियोगः -- शाखासु चाद्रिशिखरे वृक्षेषु च नियुज्यते । शकटहस्तः -- भ्रमरे मध्यमाङ्गुष्ठप्रसाराच्छकटो भवेत् ॥ १८९॥ विनियोगः -- राक्षसाभिनये प्रायः शकटो विनियुज्यते । शङ्खहस्तः -- शिखरान्तर्गताङ्गुष्ठ इतराङ्गुष्ठसङ्गतः ॥ १९०॥ तर्जन्या युत अश्लिष्टः शङ्खहस्तः प्रकीर्तितः । विनियोगः -- शङ्खादिषु प्रयोज्योऽयमित्याहुर्भरतादयः ॥ १९१॥ चक्रहस्तः -- यत्रार्धचन्द्रौ तिर्यञ्चावन्योन्यतलसंस्पृशौ । चक्रहस्तः स विज्ञेयश्चक्रार्थे विनियुय्यते ॥ १९२॥ सम्पुटहस्तः -- कुञ्चिताङ्गुलयश्चके प्रोक्तः सम्पुटहस्तकः । विनियोगः -- वस्त्वाच्छादे सम्पुटे च सम्पुटः कर ईरितः ॥ १९३॥ पाशहस्तः -- सूच्यां निकुञ्चिते श्लिष्टे तर्जन्यौ पाश ईरितः । विनियोगः -- अन्योन्यकलहे पाशे श‍ृङ्खलायां नियुज्यते ॥ १९४॥ कीलकहस्तः -- कनिष्ठे कुञ्चिते श्लिष्टे मृगशीर्षस्तु कीलकः । विनियोगः -- स्नेहे नर्मानुलापे च कीलको विनियुज्यते ॥ १९५॥ मत्स्यहस्तः -- करपृष्टोपरि न्यस्तो यत्र हस्तस्त्वधोमुखः । किञ्चित्प्रसारिताङ्गुष्ठकनिष्ठो मत्स्यनामकः ॥ १९६॥ विनियोगः -- एतस्य विनियोगस्तु सम्मतो मत्स्यदर्शने । कूर्महस्तः -- कुञ्चिताग्राङ्गुलिश्चक्रे त्यक्ताङ्गुष्ठकनिष्ठकः ॥ १९७॥ कूर्महस्तः स विज्ञेयः कूर्मार्थे विनियुज्यते । वराहहस्तः -- मृगशीर्षे त्वन्यतरे स्वोपर्येकः स्थिते यदि ॥ १९८॥ कनिष्ठाङ्गुष्ठयोर्योगाद्वराहकर ईरितः । विनियोगः -- एतस्य वियोगः स्याद्वराहार्थप्रदर्शने ॥ १९९॥ गरुडहस्तः -- तिर्यक्तलस्थितावर्धचन्द्रावङ्गुष्ठयोगतः । गरुडहस्त अस्त् इत्याहुर्गरुडार्थे नियुज्यते ॥ २००॥ नागबन्धहस्तः -- सर्पशीर्षस्वस्तिकञ्च नागबन्ध इतीरितः । विनियोगः -- एतस्य विनियोगस्तु नागबन्धे हि सम्मतः ॥ २०१॥ खट्राहस्तः -- चतुरे चतुरं न्यस्य तर्जन्यङ्गुष्ठमोक्षतः । खट्वाहस्तो भवेदेष खट्वाशिविकयोः स्मृतः ॥ २०२॥ भेरुण्डहस्तः -- मणिबन्धे कपित्थाभ्यां भेरुण्डकर इष्यते । विनियोगः -- भेरुण्डे पक्षिदम्पत्योर्भेरुण्डो युज्यते करः ॥ २०३॥ देवहस्ताः -- अथात्र ब्रह्मरुद्रादिदेवताभिनयक्रमात् । मूर्तिभेदेन ये हस्तास्तेषां लक्षणमुच्यते ॥ २०४॥ ब्रह्महस्तः -- ब्रह्मणश्चतुरो वामे हंसास्यो दक्षिणे करः । ईश्वरहस्तः -- शम्भोर्वामे मृगशीर्षस्त्रिपताकस्तु दक्षिणे ॥ २०५॥ विष्णुहस्तः -- हस्ताभ्यां त्रिपताकस्तु विष्णुहस्तः स कीर्तितः । सरस्वतीहस्तः -- सूचीकृते दक्षिणे च वामे चांससमकृतौ ॥ २०६॥ कपित्थकेऽपि भारत्याः कर स्यादिति सम्मतः । पार्वतीहस्तः -- ऊर्ध्वाधः प्रसूतावर्धचन्द्राख्यौ वामदक्षिणौ ॥ २०७॥ अभयो वरदश्चैव पार्वत्या कर ईरितः । लक्ष्मीहस्तः -- अंसोपकण्ठे हस्ताभ्यां कपित्थस्तु श्रियः करः ॥ २०८॥ विनायकहस्तः -- उरोगताभ्यां हस्ताभ्यां कपित्थो विघ्नराट् करः । षण्मुखहस्तः -- वामे करे त्रिशूलञ्च शिखरो दक्षिणे करे ॥ २०९॥ ऊर्ध्वं गते षण्मुखस्य हस्तः स्यादिति कीर्तितः -- मन्मथहस्तः -- वामे करे तु शिखरो दक्षिणे कटकामुखः ॥ २१०॥ मन्मथस्य करः प्रोक्तो नाट्यशास्त्रार्थकोविदैः । इन्द्रहस्तः -- त्रिपताकः स्वस्तिकश्च शक्रहस्तः प्रकीर्तितः ॥ २११॥ अग्निहस्तः -- त्रिपताको दक्षिणे तु वामे काङ्गुलहस्तकः । अग्निहस्तः स विज्ञेयो नाट्यशास्त्रविशारदैः ॥ २१२॥ यमहस्तः -- वामे पाशं दक्षिणे तु सूची यमकरः स्मृतः । निरृतिहस्तः -- खट्वा च शकटश्चैव कीर्तितो निरृतेः करः ॥ २१३॥ वरुणहस्तः -- पताको दक्षिणे वामे शिखरो वारुणः करः । युहस्तः -- अरालो दक्षिणे हस्ते वामे चार्धपताकिका ॥ २१४॥ धृता चेद्वायुदेवस्य कर इत्यह्धीयते । कुवेरहस्तः -- वामे पद्मं दक्षिणे तु गदा यक्षपतेः करः ॥ २१५॥ दशावताराहस्ताः -- मत्स्यावतारहस्तः -- मत्स्यहस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतो मत्स्यावतारस्य हस्त इत्यभिधीयते ॥ २१६॥ कूर्मावतारहस्तः -- कूर्महस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतौ कूर्मावतारस्य हस्त इत्यभिधीयते ॥ २१७॥ वराहावतारहस्तः -- दर्शयित्वा वराहं तु कटिपार्श्वसमौ करौ । धृता वराहावतारस्य देवस्य कर इष्यते ॥ २१८॥ नृसिहावतारहस्तः -- वामे सिंहमुखं धृत्वा दक्षिणे त्रिपताकिका । नरसिंहावतारस्य हस्त इत्युच्यते बुधैः ॥ २१९॥ वामनावतारहस्तः -- ऊर्ध्वाधो धृतमुष्टिभ्यां सव्यान्याभ्यां यदि स्थितः । स वामनावतारस्य हस्त इत्यभिधीयते ॥ २२०॥ अरशुरामावतारहस्तः -- वामं कटितटे न्यस्य दक्षिणेऽर्धपताधिका । धृता परशुरामस्य हस्त इत्यभिधीयते ॥ २२१॥ रामचन्द्रावतारहस्तः -- कपित्थो दक्षिणे हस्ते वामे तु शिखरः करः । ऊर्ध्वं धृतो रामचन्द्रहस्त इत्युच्यते बुधैः ॥ २२२॥ अलरामावतारहस्तः -- पताको दक्षिणे हस्ते मुष्टिर्वामकरे तथा । बलरामावतारस्य हस्त इत्युच्यते बुधैः ॥ २२३॥ कृष्णावतारहस्तः -- मृगशीर्षे तु हस्ताभ्यामन्योन्याभिमुखे कृते । आस्योपकण्ठे कृष्णस्य हस्त इत्युच्यते बुधैः ॥ २२४॥ कल्क्यवतारहस्तः -- पताको दक्षिणे वामे त्रिपताकः करो धृतः । कल्क्याख्यस्यावतारस्य हस्त इत्यभिधीयते ॥ २२५॥ अथ तत्तज्जातीयहस्ताः -- राक्षसहस्तः -- मुखे कराभ्यां शकटौ राक्षसानां करः स्मृतः । ब्राह्मणहस्तः -- कराभ्यां शिखरं धृत्वा यज्ञसूत्रस्य सूचने ॥ २२६॥ दक्षिणेन कृते तिर्यग् ब्राह्मणानां करः स्मृतः । क्षत्रियहस्तः -- वामेन शिखरं तिर्यग् धृत्वान्येन पताकिका ॥ २२७॥ धृता यदि क्षत्रियाणां हस्त इत्यभिधीयते । वैश्यहस्तः -- करे वामे तु हंसास्यो दक्षिणे कटकामुखः ॥ २२८॥ वश्यहस्तोऽयमाख्यातो मुनिभिर्भरतादिभिः । शूद्रहस्तः -- वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ २२९॥ शूद्रहस्तः स विज्ञेयो मुनिभिर्भरतादिभिः । यदष्टादशजातीनां कर्म तेन कराः स्मृताः ॥ २३०॥ तत्तद्देशजानामपि एवमुह्यं बुधोत्तमैः । बान्धवहस्ताः -- दम्पतिहस्तः -- वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ २३१॥ धृतः स्त्रीपुंसयोर्हस्तः ख्यातो भरतकोविदैः । मातृहस्तः -- वामे हस्तेऽर्धचन्द्रश्च सन्दंशो दक्षिणे करे ॥ २३२॥ आवर्तयित्वा जठरे वामहस्तं ततः परम् । स्त्रियाः करो धृतो मातृहस्त इत्युच्यते बुधैः ॥ २३३॥ विनियोगः -- जनन्यां च कुमार्यां च मातृहस्तो नियुज्यते । पितृहस्तः -- एतस्मिन् मातृहस्ते तु शिखरे दक्षिणेन तु ॥ २३४॥ धृते सति पितृहस्त इत्याख्यातो मनीषिभिः । विनियोगः -- अयं हस्तस्तु जनके जामातरि च युज्यते ॥ २३५॥ श्वश्रूहस्तः -- विन्यस्य कण्ठे हंसास्यं सन्दंशं दक्षिणे करे । उदरे च परामृश्य वामहस्तं ततः परम् ॥ २३६॥ स्त्रियाः करो धृतः श्वश्रुहस्तस्तस्यां नियुज्यते । श्वशुरहस्तः -- एतस्यान्ते तु हस्तस्य शिखरो दक्षिणे यदि ॥ २३७॥ धृतश्च श्वशुरस्यायं हस्त इत्युच्यते बुधैः । भर्तृभ्रातृहस्तः -- वामे तु शिखरं धृत्वा पार्श्वयोः कर्तरीमुखः ॥ २३८॥ धृतो दक्षिणहस्तेन भर्तृभ्रातृकरः स्मृतः । ननान्दृहस्तः -- अन्ते त्वेतस्य हस्तस्य स्त्रीहस्तो दक्षिणे करे ॥ २३९॥ धृतो ननान्दृहस्तः स्यादिति नाट्यविदां मतम् । ज्येष्ठकनिष्ठभ्रातृहस्तः -- मयूरहस्तः पुरतः पार्श्वभागे च दर्शितः ॥ २४०॥ ज्येष्ठभ्रातुः कनिष्ठस्याप्ययं हस्त इति स्मृतः । पुत्रहस्तः -- सन्दंशमुदरे न्यस्य भ्रामयित्वा ततः परम् ॥ २४१॥ धृतो वामेन शिखरं पुत्रहस्तः प्रकीर्तितः । न्षाहस्तः -- एतदन्ते दक्षिणेन स्त्रीहस्तश्च धृतो यदि ॥ २४२॥ स्नुषाहस्त इति ख्यातो भरतागमकोविदैः । सपत्नीहस्तः -- दर्शयित्वा पाशहस्तं कराभ्यां स्त्रीकरावुभौ ॥ २४३॥ धृतौ सपत्नीहस्तः स्यादिति भावविदो विदुः । नृत्तहस्तानां गतयः -- भवन्ति नृत्तहस्तानां गतयः पञ्चधा भुवि ॥ २४४॥ ऊर्ध्वाऽधरोत्तरा प्राची दक्षिणा चेति विश्रुता । यथा स्यात् पादविन्यास्तथैव करयोरपि ॥ २४५॥ वामाङ्गभागे वामस्य दक्षिणे दक्षिणस्य च । कुर्यात् प्रचलनं ह्येतन्नृत्तसिद्धान्तलक्षणम् ॥ २४६॥ यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ २४७॥ नृत्तहस्तः -- पताकास्वस्तिकाख्यश्च डोलाहस्तस्तथाञ्जलिः । कटकावर्धनश्चैव शकटः पाशकीलकौ ॥ २४८॥ कपित्थः शिखरः कूर्मो हंसास्यश्चालपद्मकः । त्रयोदशैते हस्ताः स्युर्नृत्तस्याप्युपयोगिनः ॥ २४९॥ नवग्रहहस्ताः -- सूर्यहस्तः -- अंसोपकण्ठे हस्ताभ्यामलपद्मकपित्थकः । धृतो यदि करो ह्येष दिवाकरकरः स्मृतः ॥ २५०॥ चन्द्रहस्तः -- अलपद्मो वामहस्ते दक्षिणे च पतातिका । निशाकरकरः प्रोक्तो भरतागमदर्शिभिः ॥ २५१॥ कुजहस्तः -- वामे करे तु सूची स्यान्मुष्टिहस्तस्तु दक्षिणे । धृतश्चेन्नाट्यशास्त्रज्ञैरङ्गारककरः स्मृतः ॥ २५२॥ बुधहस्तः -- तिर्यग्वामे च मुष्टिः स्याद्दक्षिणे च पताकिका । बुधग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ २५३॥ गुरुहस्तः -- हस्ताभ्यां शिखरं धृत्वा यज्ञसूत्रस्य दर्शनम् । ऋषिब्राह्मणहस्तोऽयं गुरोश्चापि प्रकीर्तितः ॥ २५४॥ शुक्रहस्तः -- वामोच्चभागे मुष्टिः स्यादधस्ताद्दक्षिणे तथा । शुक्रग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ २५५॥ शनिहस्तः -- वामे करे तु शिखरस्त्रिशूलो दक्षिणे करे । शनैश्चरकरः प्रोक्तो भरतागमकोविदैः ॥ २५६॥ राहुहस्तः -- सर्पशीर्षो वामकरे सूची स्याद्दक्षिणे करे । राहुग्रहकरः प्रोक्तो नाट्यविद्याधिपैर्जनैः ॥ २५७॥ केतुहस्तः -- वामे करे तु सूची स्याद्दक्षिणे तु पताकिका । केतुग्रहकरः प्रोक्तो भरतागमदर्शिभिः ॥ २५८॥ पादभेदाः -- वक्ष्यते पादभेदानां लक्षणं पूर्वसम्मतम् । मण्डलोत्प्लवने चैव भ्रमरी पादचारिका ॥ २५९॥ चतुर्धा पादभेदाः स्युस्तेषां लक्षणमुच्यते । मण्डलभेदाः -- स्थानकं चायतालीढं प्रेङ्खणप्ररितानि च ॥ २६०॥ प्रत्यालीढं खस्तिकं च मोटितं समसूचिका । पार्श्वसूचीति च दश मण्डलानीरितानीह ॥ २६१॥ स्थानकमण्डलं -- कटिं स्पृष्ट्वाऽर्धचन्द्राख्यपाणिभ्यां समपादतः । समरेखतया तिष्ठेत् तत् स्यात् स्थानकमण्डलम् ॥ २६२॥ आयतमण्डलं -- वितस्त्यन्तरितौ पादौ कृत्वा तु चतुरस्रकौ । तिर्यक् कुञ्चितजानुभ्यां स्थितिरायतमण्डलम् ॥ २६३॥ आलीढमण्डलं -- दक्षिणाङ्घ्रेश्च पुरतः वितस्तित्रितयान्तरम् । विन्यसेद् वामपादं च शिखरं वामपाणिना ॥ २६४॥ कटकामुखहस्तश्च दक्षिणेन धृतो यदि । आलीढमण्डलमिति विख्यातं भरतादिभिः ॥ २६५॥ प्रत्यालीढमण्डलं -- आलीढस्य विपर्यासात् प्रत्यालीढाख्यमण्डलम् । प्रेङ्खणमण्डलं -- प्रसृत्यैकपदं पार्श्वे पार्ष्णिदेशस्य पादतः ॥ २६६॥ स्थित्वाऽन्ते कूर्महस्तेन स्थितिः प्रङ्खणमण्डलम् । प्रेरितमण्डलं -- सन्ताड्यैकं पदं पार्श्वे वितस्तित्रितयान्तरम् ॥ २६७॥ तिर्यक् कुञ्चितजानुभ्यां स्थित्वाऽथ शिखरं करम् । विधाय वक्ष्यस्यन्येन प्रसृता च पताकिका ॥ २६८॥ प्रदर्शयेदिदं तज्ज्ञाः प्रेरितं मण्डलं जगुः । स्वस्तिकमण्डलं -- दक्षिणोत्तरतः कुर्यात् पादे पादं करे करम् ॥ २६९॥ व्यात्यासेन तदा प्रोक्तं स्वस्तिकं नाम मण्डलम् । मोटितमण्डलं -- प्रपदाभ्यां भुवि स्थित्वा जानुयुग्मेन संस्पृशेत् ॥ २७०॥ क्रमाद् भूतलमेकैकं त्रिपताककरद्वयम् । कृत्वा तन्मोटितं नाम मण्डलं कथितं बुधैः ॥ २७१॥ समसूचीमण्डलं -- पादाग्राभ्यां च जानुभ्यां भूतलं संस्पृशेद्यदि । मण्डलं समसूचीति कथितं पूर्वसूरिभिः ॥ २७२॥ पार्श्वसूचीमण्डलम् -- स्थित्वा पादाग्रयुग्मेण जानुनैकेन पार्श्वतः । संस्पृशेद् भूतलं पार्श्व सूचीमण्डलमीरितम् ॥ २७३॥ स्थानकभेदाः -- पादविन्यासभेदेन स्थानकं षड्विधं भवेत् । समपादं चैकपादं नागबन्धस्ततः परम् ॥ २७४॥ ऐन्द्रं च गारुडं चैव ब्रह्मस्थानमिति क्रमात् । समपादस्थानं -- स्थितिः समाभ्यां पादाभ्यां समपादमिति स्मृतम् ॥ २७५॥ विनियोगः -- पुष्पाञ्जलौ देवरूपे समपादं नियुज्यते । एकपादस्थानं -- जान्वाश्रित्य पदैकेन स्थितिः स्यादेकपादकम् ॥ २७६॥ विनियोगः -- एकपादं त्विदं स्थानं निश्चले तपसि स्थितम् । नागबन्धस्थानं -- पादं पादेन संवेष्ट्य तथा पाणिं च पाणिना ॥ २७७॥ स्थितिः स्यान्नागबन्धाख्या नागबन्धे प्रयुज्यते । ऐन्द्रकस्थानं -- पादमेकं समाकुञ्च्य स्थित्वाऽन्यपदजानुनी ॥ २७८॥ उत्तानिते करं न्यस्य स्थितिरैन्द्रमितीरितम् । विनियोगः -- वासवे राजभावे च स्थानमैन्द्रं नियुज्यते ॥ २७९॥ गरुडस्थानकं -- आलीढमण्डले पश्चादथ जानुतलं भुवि । संस्थाप्य पाणियुग्मेन वहन विरलमण्डलम् (?) ॥ २८०॥ स्थितिस्तु गरुडस्थानं गरुडे विनियुज्यते । ब्रह्मस्थानं -- जानुपरि पदं न्यस्य पदस्योपरि जानु च ॥ २८१॥ स्थितं यदि भवेद् ब्राह्मं जपादिषु नियुज्यते । उत्प्लवनभेदाः -- अथोत्प्लवनभेदानां लक्षणं परिकथ्यते ॥ २८२॥ अलगं कर्तरी वाऽश्वोऽत्प्लवनं मोटितं तथा । कृपालगमिति ख्यातं पञ्चधोत्प्लवनं बुधैः ॥ २८३॥ अलगोत्प्लवनं -- उत्प्लुत्य पार्श्वयुगलं कटिदेशे तु विन्यसेत् । बध्वा कराभ्यां शिखरौ अलगोत्प्लवनं भवेत् ॥ २८४॥ उत्प्लवनकर्तरी -- उत्प्लुत्य प्रपदैः सव्यपादस्यैकस्य पृष्ठतः । कर्तरी विन्यसेदेषा स्यादुत्प्लुवनकर्तरी ॥ २८५॥ अधोमुखं च शिखरं कटौ हस्तं न्यसेदिह । अश्वोत्प्लवनं -- पुरः पादं समुत्प्लुत्य पश्चात्पादं नियोजयेत् ॥ २८६॥ करौ तु त्रिपताख्यौ कृत्वाऽश्वोत्प्लवनं भवेत् । मोटितोत्प्लवनं -- पर्यायपार्श्वोत्प्लवनं कर्तरीव तु मोटिता ॥ २८७॥ त्रिपताके च करयोः कृत्वा शश्वत्प्रकाशनात् । कृपालगोत्प्लवनं -- पार्ष्णिमेकैकपादस्य कटौ पर्यायतो न्यसेत् ॥ २८८॥ अर्धचन्द्रकलामध्ये न्यस्तमन्यत् कृपालगम् । भ्रमरीलक्षणं -- भ्रमर्या लक्षणान्यत्र वक्ष्ये लक्षणभेदतः ॥ २८९॥ उत्प्लुतभ्रमरी चक्रभ्रमरी गरुडाभिधा । तथैकपादभ्रमरी कुञ्चितभ्रमरी तथा ॥ २९०॥ आकाशभ्रमरी चैव तथाङ्गभ्रमरीति च । भ्रमर्यः सप्त विज्ञेया नाट्यशास्त्रविशारदैः ॥ २९१॥ उत्प्लुभ्र्मरी -- स्थित्वा समाभ्यां पादाभ्यामुत्प्लुत्य भ्रामयेद्यदि । सर्वाङ्गमन्तराले स्यादुत्प्लुतभ्रमरी त्वसौ ॥ २९२॥ चक्रन्नमरी -- भुवि पादौ मुहुः कर्षंस्त्रिपताकौ करौ वहन् । चक्रवद् भ्रमते यत्र सा चक्रभ्रमरी भवेत् ॥ २९३॥ गरुडभ्रमरी -- तिर्यक् प्रसार्यैकपादं पश्चाज्जानु भुवि क्षिपेत् । सम्यक् प्रसार्य बाहू द्वौ भ्रामयेद् गरुडो भवेत् ॥ २९४॥ एकपादभ्रमरी -- भ्रामयेदेकमेकेन पादं पादेन सत्वरम् । सा त्वेकपादभ्रमरी भवेदिति विनिश्चिता ॥ २९५॥ कुञ्चितभ्रमरी -- निकुञ्च्य जानुभ्रमणं कुञ्चितभ्रमरी भवेत् । आकाशभ्रमरी -- उत्प्लुत्य पादौ विरलौ कृत्वा पादौ प्रसार्य च ॥ २९६॥ भ्रामयेत् सकलं गात्रमाकाशभ्रमरी भवेत् । अङ्गभ्रमरी -- वितस्त्यन्तरितौ पादौ कृत्वाङ्गभ्रमणं तथा ॥ २९७॥ तिठेद् यदि भवेदङ्गभ्रमरी भरतोदिता । चारिमेदाः -- अथात्र चारिभेदानां लक्षणं कथ्यते मया ॥ २९८॥ आदौ तु चलनं प्रोक्तं पश्चाच्चङ्क्रमणं तथा । सरणं वेगिनी चैव कुट्टनं च ततः परम् ॥ २९९॥ लुठितं लोलितं चैव ततो विषमसञ्चरः । चारिभेदा अमी अष्टौ प्रोक्ता भरतवेदिभिः ॥ ३००॥ चलनचारि -- स्वस्थानात् स्वस्य पादस्य चलनाच्चलनं भवेत् । चङ्क्रमणं -- पादयोर्बाह्यपार्श्वाभ्यामुत्क्षिप्योत्क्षिष्य यत्नतः ॥ ३०१॥ गतिर्भवेच्चङ्क्रमणं वर्णितं नाट्यकोविदैः । सरणं -- चलनं तु जलूकावदेकेनान्यस्य पार्ष्णिना ॥ ३०२॥ तिर्यगाकर्षयेद् भूमिं कराभ्यां तु पताकिके । धृत्वा च गमनं यत्तु सरणं तदुदीरितम् ॥ ३०३॥ वेगिनी -- पार्ष्णिणा वा पदार्ग्रेण द्रुतं गत्या तु चालनम् । कराभ्यां चालपद्मे च त्रिपताके यथाक्रमम् ॥ ३०४॥ धृत्वा नटेद् यदि भवेद् वेगवत्त्वेन वेगिनी । कुट्टनं -- पाष्णिना वा पदाग्रेण समस्तेन तलेन वा ॥ ३०५॥ यत्ताडनं भूतलस्य कुट्टनं तदुदीरितम् । लुठितं -- स्वस्तिकस्थितिपादाग्रे कुट्टनाल्लुठितं भवेत् ॥ ३०६॥ ओलित -- पूर्ववत् कुट्टनं कृत्वा मन्दं मन्दमतः परम् । अस्पृष्टभूमेः पादस्य चालनं लोलितं भवेत् ॥ ३०७॥ विषमसञ्चरः -- वेष्टयित्वा दक्षिणेन वामं वामेन दक्षिणम् । क्रमेण पादं विन्यस्य भवेद् विषमसञ्चरः ॥ ३०८॥ गतिमेदाः -- अथात्र गतिभेदानां लक्षणं वक्ष्यते क्रमात् । हंसी मयूरी च मृगी गजलीला तुरङ्गिणी ॥ ३०९॥ सिंही भुजङ्गी मण्डूकी गतिर्वीरा च मानवी । दशैता गतयो ज्ञेया नाट्यशास्त्रविशारदैः ॥ ३१०॥ हँसीगतिः -- परिवर्त्य तनुं पार्श्वं वितस्त्यन्तरितं शनैः । एकैकं तत् पदं न्यस्य कपित्थं करयोर्वहन् ॥ ३११॥ हंसवद्गमनं यत्तु सा हंसी गतिरीरिता । मयूरीगतिः -- प्रपदाभ्यां भूवि स्थित्वा कपित्थं करयोर्वहन् ॥ ३१२॥ एकैकजानुचलनान्मयूरी गतिरीरिता । मृगीगतिः -- मृगवद् गमनं वेगात् त्रिपताककरौ वहन् ॥ ३१३॥ पुरतः पार्श्वयोश्चैव यानं मृगगतिर्भवेत् । गजलीलागतिः -- पार्श्वयोस्तु पताकाभ्यां कराभ्यां विचरंस्ततः ॥ ३१४॥ समपादगतिर्मन्दं गजलीलेति विश्रुता । तुरङ्गिणीगतिः -- उत्क्षिप्य दक्षिणं पदमुल्लङ्घ्य च मुहुर्मुहुः ॥ ३१५॥ वामेण शिखरं धृत्वा दक्षिणेन पताकिकाम् । तुरङ्गिणी गतिः प्रोक्ता नृत्तशास्त्रविशारदैः ॥ ३१६॥ सिंहोगतिः -- पादाग्राभ्यां भुवि स्थित्वा पुर उत्प्लुत्य वेगतः । कराभ्यां शिखरं धृत्वा यानं सिंहगतिर्भवेत् ॥ ३१७॥ भुजङ्कीगतिः -- त्रिपताककरौ धृत्वा पाश्र्वयोरुभयोरपि । पूर्ववद्गमनं यत्तु सा भुजङ्गी गतिर्भवेत् ॥ ३१८॥ मण्डूकीगतिः -- कराभ्यां शिखरं धृत्वा किञ्चित् सिंहीसमा गतिः । मण्डूकी गतिरित्येषा प्रसिद्धा भरतागमे ॥ ३१९॥ वीरागतिः -- वामे तु शिखरं धृत्वा दक्षिणेन पताकिका । दूरादागमनं यत्तु वीरा गतिरुदीरिता ॥ ३२०॥ मानवीगतिः -- मण्डलाकारवद् भ्रान्त्या समागत्य मुहुर्मुहुः । वामं करं न्यस्य कटौ दक्षिणे कटकामुखम् ॥ ३२१॥ मानवी गतिरित्येषा प्रसिद्धा पूर्वसूरिभिः । मण्डलानि प्रयुक्तानि तवैवोत्प्लवनानि च ॥ ३२२॥ भ्रमर्यश्चैव चार्यश्च गतयश्च परस्परम् । एकैकभेदसम्बन्धादनन्तानि भवन्ति हि ॥ ३२६॥ एताश्च नर्तनविधौ शास्त्रतः सम्प्रदायतः । सतामनुग्रहेणैव विज्ञ यौ नान्यथा भुवि ॥ ३२४॥ उपरिष्टादुद्धृतांशः केवलं एम-आख्यात- पुस्तके मण्डलभेदेभ्यः प्रागधिको दृश्यते । अर्थ अष्टरसाः -- श‍ृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरीद्रो च रसा श‍ृङ्गारः शुचिरुज्ज्वलः ॥ अवस्थाभेदाः -- श्रुत्यक्षिप्रीतिहृत्सङ्गाः सङ्कल्पो जागरस्तथा । तनुता चापि विषयनिवृत्तिश्चात्रपा तथा ॥ मोहो मूर्छा च मरणमित्यवस्थाः प्रपश्चताः । चक्षुःप्रीतिश्च चिन्ता च सङ्कल्पो गुणकीर्तनम् ॥ क्रियाद्वेषश्च तापश्च लज्जात्यागस्ततः परम् । उन्मादमूर्छामृतय इत्यवस्था स्मृताः परैः ॥ नयनैर्जनयेद् भावं भावात् स्पर्शं समाचरेत् । स्पर्शन द्रवमुत्पाद्य रतिं पश्चात् समाचरेत् ॥ चिन्ता -- किं करिष्यति किं ध्यायेत् क्वास्ते किं वक्वि भामिनी । इतीव मानसोत्कण्ठा सा चिन्ता परिकीर्तिता ॥ सङ्कल्पः -- यामि तामरविन्दार्क्षी पिवाम्यधरपल्लवम् । रमामि नितरां सार्धं तयेति सुट्टढं पुनः ॥ तां विना न हि जीवामि सैव मे परमं धनम् । इतः परं सा शरणमिति सङ्कल्प ईरितः ॥ गुणकीतनं -- एषा मौलिविभूषणं मृगदृशामेषा परं जीवनं तां त्यक्त्वा न हि किञ्चिदस्ति शरणं यूनां रसोल्लासिनी । सा भूषा भुवनस्य किम्पुनरियं वाचा पर जीवन- मित्येवं प्रतिभाति या गुणनुतिः स्त्रीपुम्प्रभेदेऽपि सा ॥ क्रियाद्वेषः -- गच्छ गच्छसि चेतां तो नाहं कान्ता न मे पतिः । त्वं चेति कथनं यत्र कथनं द्वेष उच्यते ॥ तापः -- किं करोति सुमास्त्रो मां पञ्चभिबाणसञ्चयैः । तपत्यनन्तरं गात्रं तापोऽसौ परिकीर्तितः ॥ लज्जात्यागः -- दोर्भ्यां समाश्लिष्य पयोधरौ तौ प्रचुम्ब्य बिम्बाधरमायताक्ष्याः । सुखेन सुप्तः शयने निशायामुद्बोधितोऽहं चरणायुधेन ॥ उन्मादः -- चित्रे लिखितमालोक्य नायकं कञ्चनाङ्गना । परिरम्य दृढं दोर्भ्यां चुचुम्बे गण्डयोरमुम् ॥ मूर्छा -- यत्राङ्गनाया वैकल्यं पञ्चप्राणनिरोधनम् । असङ्गा याममात्रं सा मूर्छा वान्या मृतिर्न हि ॥ इति श्रीनन्दिकेश्वरविरचितं अभिनयदर्पणं समाप्तम् ।