अक्षर आकार:

महाकविश्रीभासप्रणीतम् ऊरुभङ्गम्

Urubhangam by Bhasa

महाकविश्रीभासप्रणीतम् ऊरुभङ्गम्

॥ श्रीः॥ श्रीगणेशाय नमः । (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः -- भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् । तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥ १॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) एते स्मो भोः ! एते स्मः । सूत्रधारः -- भवतु, विज्ञातम् । (प्रविश्य) पारिपार्श्वकः -- भाव ! कुतोनुखल्वेते, स्वर्गार्थमाहवमुखोद्यतगात्रहोमा नाराचतोमरशतैर्विषमीकृताङ्गाः । मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरैर् अन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २॥ सूत्रधारः -- मारिष किं नावगच्छसि । तनयशतनयशून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशिष्टे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके, एतद् रणाहतगजाश्वनरेन्द्रयौधं सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम् । युद्धे वृकोदरसुयोधनयोः प्रवृत्ते यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३॥ (निष्क्रान्तौ) स्थापना । ऽऽऽ (ततः प्रविशन्ति भटास्त्रयः) सर्वे -- एते स्मो भोः ! एते स्मः । प्रथमः -- वैरस्याक्वथनं बलस्य निकषं मानप्रतिष्ठागृहं युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् । राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं सम्प्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसङ्क्रमम् ॥ ४॥ द्वितीयः -- सम्यग् भवानाह । उपलविषमा नागेन्द्राणां शरीरधरा धरा दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः । अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे प्रतिमुखमिमे तत्तत् कृत्वा चिरं निहताहताः ॥ ५॥ तृतीयः -- एवमेतत् । करिवरकरयूपो बाणविन्यस्तदर्भो हतगजचयनोच्चो वैरवह्निप्रदीप्तः । ध्वजविततविमानः सिंहनादोच्चमन्त्रः पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६॥ प्रथमः -- इदमपरं पश्येतां भवन्तौ । एते परस्परशरैर्हृतजीवितानां देहै रणाजिरमहीं समुपाश्रितानाम् । कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा राज्ञां शरीरशिथिलानि विभूषणानि ॥ ७॥ द्वितीयः -- प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितो गजः । विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥ ८॥ तृतीयः -- इदमपरं पश्येतां भवन्तौ । माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं रत्नैकसायकवरं रथिनं विपन्नम् । जामातरं प्रवहणादिव बन्धुनार्यो हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९॥ सर्वे -- अहोतुखलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासहाटकभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पण- शङ्कुत्रासिगदादिभिरायुधैराकीर्णस्य समन्तपञ्चकस्य प्रतिभयता । प्रथमः -- इह हि, रुधिरसरितो निस्तीर्यन्ते हतद्विपसङ्क्रमा नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः । पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १०॥ द्विःतीयः -- इदमपरं पश्येतां भवन्तौ । एते, गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा दैत्येन्द्रकुञ्जरनताङ्कूशतीक्ष्णतुण्डाः । भान्त्यम्बरे विततलम्बविकीर्णपक्षा मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११॥ तृतीयः -- एषा निरस्तहयनागनरेन्द्रयौधा व्यक्तीकृता दिनकरोग्रकरैः समन्तात् । नाराचकुन्तशरतोमरखङ्गकीर्णा तारागणं पतितमुद्वहतीव भूमिः ॥ १२॥ प्रथमः -- ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः । इह हि, सत्रोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा भ्रूभेदाञ्चितकेसरा स्वमकुटव्याविद्धसंवर्तिका । वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता निष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥१३॥ द्वितीयः -- ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवति । न शक्यं खलु विषमस्थैः पुरुषै राजबलाधानं कर्तुम् । तृतीयः -- किं च रे प्रभवति क्षत्रियाणामिति । प्रथमः -- कः संशयः । द्वितीयः -- मा मा भवानेवम् । स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं स्वर्गाक्रन्दहरं निवातकवचप्राणोपहारं धनुः । पार्थेनाद्य बलान्महेश्वररणक्षेपावशिष्टैः शरैर् दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥१४॥ सर्वे -- अये शब्दः । किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही । किं मुञ्चत्यनिलावधूतचपपलक्षुब्धोर्मिमालाकुलं शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥१५॥ भवतु, पश्यामस्तावत् । (सर्वे परिक्रामान्ति) प्रथमः -- अये एतत् खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् । द्वितीयः -- भीमस्योरसि तप्तकाञ्चनशिलापीने प्रतिस्फालिते भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले । अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥१६॥ तृतीयः -- एष महाराजः, शिष्टोत्कम्पनवल्गमानामकुटः क्रोधाधिकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः । यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरिवाग्रशिखरोद्धूता महेन्द्राशनिः ॥१७॥ प्रथमः -- एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद् दृश्यतां पाण्डवः । निर्भिन्नाग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः सान्द्रैर्निर्गलितप्रहाररुधिरैरार्द्रीकृतोरःस्थलः । भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८॥ द्वितीयः -- भीमां गदां क्षिपति गर्जति वल्गमानः शीघ्रं भुजं हरति तस्य कृतं भिनत्ति । चारीं गातिं प्रचरति प्रहरत्यभीक्ष्णां संशिक्षितो नरपतिर्बलवांस्तु भीमः ॥ १९॥ तृतीयः -- एष वृकोदरः, शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रो धरणिधरनिकाशः संयुगेष्वप्रमेयः । प्रविशति गिरिराजो मेदिनीं वज्रदग्धः शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २०॥ एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा, एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः द्वितीयः -- दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः । तृतीयः -- स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते सर्वे -- शिष्यप्रीतितया हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१॥ प्रथमः -- एष महाराजः, वीर्यालयो विविधरत्नविचित्रमौलिर् युक्तोऽभिमानविनयद्युतिसाहसैश्च । वाक्यं वदत्युपहसन्न तु भीम दीनं वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२॥ द्वितीयः -- एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि संज्ञां प्रयच्छति जनार्दनः । तृतीयः -- एष संज्ञया समाश्वासितो मारुतिः, संहृत्य भ्रुकुटी ललाटविवरे स्वेदं करेणाक्षिपन् बाहुभ्यां प्रतिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् । पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं गर्जन् सिंहवृषेक्षणः क्षितितलाद् भूयः समुत्तिष्ठति ॥ २३॥ प्रथमः -- हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि, भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता । त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४॥ सर्वे -- हा धिक् पतितो महाराजः । तृतीयः -- एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । य एषः, हेलासंवृतलोचनेन हलिना नेत्रोपरोधः कृतो दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया । सम्भ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो भीमः कृष्णकरावलम्बितगतिर्निर्वाह्यते पाण्डवैः ॥ २५॥ प्रथमः -- अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमणमुद्वीक्षमाण इत एवाभिवर्तते भगवान् हलायुधः । य एषः, प्रचलललितमौलिः क्रोधताम्रायताक्षो भ्रमरमुखविदष्टां किञ्चिदुत्कृष्य मालाम् । असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६॥ द्वितीयः -- तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः । उभौ -- बाढम् । प्रथमः कल्पः । (निष्क्रान्ताः) विष्कम्भकः । ऽऽऽ (ततः प्रविशति बलदेवः) बलदेवः -- भो भोः पार्थिवाः ! न युक्तमिदम् । मम रिपुबलकालं लाङ्गलं लङ्घयित्वा रणगतमतिसन्धिं मां च नावेक्ष्य दर्पात् । रणशिरसि गदां तां तेन दुर्योधनोर्वोः कुलविनयसमृद्ध्या पातितः पातयित्वा ॥ २७॥ भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् । सौभोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् । हन्तोत्क्षिप्यहलं करोमि रुधिरस्वेदार्द्रपाकोत्तरे भीमस्योरसि यावदद्य विपुले केदारमार्गाकुलम् ॥ २८॥ (नेपथ्ये) प्रसीदतु प्रसीदतु भगवान् हलायुधः । बलदेवः -- एवांगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । एषः, श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छविर् भूसंसर्पणरेणूपाटलभुजो बालव्रतं ग्राहितः । निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरैर् आकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥२९॥ (ततः प्रविशति भग्नोरुयुगलो दुर्योधनः) दुर्योधनः -- एष भोः ! भीमेन भित्त्वा समयव्यवस्थां गदानिपातक्षतजर्जरोरुः । भूमौ भुजाभ्यां परिकृष्यमानं स्वं देहमर्धोपरतं वहामि ॥ ३०॥ प्रसीदतु प्रसीदतु भगवान् हलायुधः । त्वत्पादतोर्निपतितं पतितस्य भूमाव् एतच्छिरः प्रथममद्य विमुञ्च रोषम् । जीवन्तु ते कुरुकुलस्य निवापमेघा वैरं च विग्रहकथा च वयं च नष्टाः ॥ ३१॥ बलदेवः -- भो दुर्योधना ! मुहूर्तं तावदात्मा धार्यताम् । दुर्योधनः -- किं भवान् करिष्यति । बलदेवः -- श्रूयताम्, आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरैर् निर्दारितांसहृदयान्मुसलप्रहारैः । दास्यामि संयुगहतान् सरथाश्वनागान् स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२॥ दुर्योधनः -- मा मा भवानेवम् । प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् । मयि चैवं गते राम ! विग्रहः किं करिष्यति ॥ ३३॥ बलदेवः -- मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः । दुर्योधनः -- वञ्चित इति मां भवान् मन्यते । बलदेवः -- कः संशयः । दुर्योधनः -- हन्त भोः ! दत्तमूल्या इव मे प्राणाः । कुतः, आदीप्तानलदारुणाज्जतुगृहाद् बुद्ध्यात्मनिर्वाहिणा युद्धे वैश्रवणालयेऽचलशिलावेगप्रतिसारिणा । भीमेनाद्य हिडिम्बराक्षससपतिप्राणप्रतिग्राहिणा यद्येवं समवैषि मां छलाजितं भो राम ! नाहं जितः ॥ ३४॥ बलदेवः -- भींअसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति । द्रुर्योधनः -- किं चाहं भीमसेनेन वञ्चितः । बलदेवः -- अथ केन भवानेवंविधः कृतः । राजा -- श्रूयतां, येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हृतो दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया । तीव्रां भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रियस् तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहिताः ॥ ३५॥ (नेपथ्ये) उस्सरह अय्या ! उस्सरह । [उत्सरतार्याः ! उत्सरत ।] बलदेवः -- (विलोक्य) अये अयमत्रभवान् धृतराष्ट्रो गान्धार्या दुर्जयेनादेशितमार्गोञ्तःपुरानुबन्धः शोकामभिभूतहृदय इत एवाभिवर्तते । य एषः, वीर्याकरः सुतशतप्रविभक्तचक्षुर् दर्पोद्यतः कनकयूपविलम्बबाहुः । सृष्टो ध्रुवं त्रिदिवरक्षणजातशङ्कैर् देवैर् अरातितिमिराञ्जलिताडिताक्षः ॥ ३६॥ (ततः प्रविशति धृतराष्ट्रो गान्द्रारी देव्यौ दुर्जयश्च) धृतराष्ट्रः -- पुत्र! क्वासि । गान्धारी -- पुत्तअ ! कहिं सि । [पुत्रक! क्वासि ।] देव्यौ -- महाराज ! कहिं सि । [महाराज ! कुत्रासि ।] धृतराष्ट्र -- भो! कष्टम् । वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम । मुखमन्तर्गतास्राक्षमन्दमन्धतरं कृतम् ॥ ३७॥ गान्धारि ! किं धरसे । गान्धारी -- जीवाविद ह्मि मन्दभा । [जीवितास्मि मन्दभागा ।] देव्यौ -- महाराज ! महाराज ! । [महाराज ! महाराज ! ।] राजा -- भोः ! कष्टम् । यन्ममापि स्त्रियो रुदन्ति । पूर्वं न जानामि गदाभिघात- रुजामिदानीं तु समर्थयामि । यन्मे प्रकाशीकृतमूर्धजानि रणं प्रविष्टान्यवरोधनानि ॥ ३८॥ धृतराष्ट्रः -- गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी । गान्धारी -- महाराज ! ण दिस्सदि । [महाराज ! न दृश्यते ।] धृतराष्ट्रः -- कथं न दृश्यते । अद्यास्मि योऽहमन्वेष्टव्ये काले पुत्रं न पश्यामि । कृतान्तहतक ! रिपुसमरविमर्दं मानवीर्यप्रदीप्तं सुतशतमतिधीरं वीरमुत्पाद्य मानी । धरणितलविकीर्णं किं स योग्यो न भोक्तुं सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९॥ गान्धारी -- जाद ! सुयोधण । देहि मे पडिवअणं । पुत्तसदविणासदुक्खिदं महाराजं च मन्दभाजं । [जात ! सुयोधन ! देहि मे प्रतिवचनं । पुत्रशतविनाशदुःखितं महाराजं च मन्दभागम् ।] बलदेवः -- अये इयमत्रभवती गान्धारी । या पुत्रपौत्रवदनेष्वकुतूहलाक्षी दुर्योधनास्तमितशोकनिपीतधैर्या । अस्रैरजस्रमधुना पतिधर्मचिह्नम् आर्द्रीकृतं नयनबन्धमिदं दधाति ॥ ४०॥ धृतराष्ट्रः -- पुत्र ! दुर्योधन ! अष्टादशाक्षौहिणीमहाराज ! क्वासि । राजा -- अद्यास्मि महाराजः । धृतराष्ट्रः -- पुत्रशतज्येष्ठ ! देहि मे प्रतिवचनम् । दुर्योधनः -- अन्यन्ददामि खलु वृत्तान्तम् । अनेन वृत्तान्तेन व्रीडितोऽस्मि । धृतराष्ट्रः -- एहि पुत्र । अभिवादयस्व माम् । राजा -- अयमयमागच्छामि । (उत्थानं रूपायित्वा पतति) हा धिक् । अयं मे द्वितीयः प्रहारः । कष्टं भोः ! हृतं मे भीमसेनेन गदापातकचग्रहे । सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥ ४१॥ गान्धारी -- एत्थ जादा ! । [अत्र जाते ! ।] देव्यौ -- अय्ये ! इमा ह्म । [आर्ये ! इमे स्वः] गान्धारी -- अण्णेसह भत्तारं । [अन्वेषेथा भर्तारं ।] देव्यौ -- गच्छामि मन्दभा । [गच्छामि मन्दभागा] धृतराष्ट्रः -- क एष भोः ! मम वस्त्रान्तमाकर्षन् मार्गमादेशयति । दुर्जयः -- ताद ! अहं दुज्जयो । [तात ! अहं दुर्जयः ।] धृतराष्ट्र -- पौत्र ! दुर्जय ! पितरमन्विच्छ । दुर्जयः -- परिस्सन्तो खु अहं । [परिश्रान्तः खल्वहं ।] धृतराष्द्रः -- गच्छ, पितुरङ्के विश्रमयिष्यसि । दुर्जयः -- ताद ! अहं गच्छामि । (उपसृत्य) ताद ! कहिं सि । [तात ! अहं गच्छामि । तात ! कुत्रासि ।] राजा -- अये अयमप्यागतः । सर्वावस्थायां हृदयसन्निहितः पुत्रस्नेहो मां दहति । कुतः, दुःखानामनभिज्ञेयो ममाङ्कशयनोचितः । निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२॥ दुर्जयः -- अअं महाराओ भूमीए उवविट्ठो । [अयं महाराजो भूम्यामुपविष्टः ।] राजा -- पुत्र । किमर्थमागतः । दुर्जयः -- तुवं चिरायसि त्ति । [त्वं चिरायसीति ।] राजा -- अहो अस्यामवस्थायां पुत्रस्नेहो हृदयं दहति । दुर्जयः -- अहं पि खु दे अङ्के उवविसामि । (अङ्कमारोहति) [अहंअपि खलु ते अङ्के उपविशामि ।] राजा -- (निवार्य) दुर्जय ! दुर्जय ! भोः ! कष्टम् । हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम् । सोऽयं कालविपर्यासाच्चन्द्रो वह्नित्वमागतः ॥ ४३॥ दुर्जयः -- अङ्के उववेसं किंणिमित्तं तुवं वारेसि । [अङ्के उपवेश किन्निमित्तं त्वं वारयसि ।] राजा -- त्यक्त्वा परिचितं पुत्र ! यत्रतत्र त्वयास्यताम् । अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४॥ दुर्जय -- कहिंणुखु महाराओ गमिस्सदि । [कुत्रनुखलु महाराजो गमिष्यति ।] राजा -- भ्रातृशतमनुगच्छामि । दुर्जयः -- मं पि तहिं णेहि । [मामपि तत्र नय ।] राजां -- गच्छ पुत्र ! वृकोदरं ब्रूहि । दुर्जयः -- एहि महाराज ! अण्णेसीअसि । [एहि महाराज ! अन्विष्यसे ।] राजा -- पुत्र ! केन । दुर्जयः -- अय्याए, अय्येण, सव्वेण अन्तउरेण अ । [आर्ययार्येण सर्वेणन्तःपुरेण च ।] राजा -- गच्छ पुत्र ! नाहमागन्तुं समर्थः । दुर्जयः -- अहं तुवं णैस्सं । [अहं त्वां नेष्यामि ।] राजा -- बालस्त्वमसि पुत्र ! । दुर्जयः -- (परिक्रम्य) अय्या ! अअं महाराओ । [आर्याः ! अयं महाराजः ।] देव्यौ -- हा हा महाराओ । [हा हा महारजः ।] धृतराष्ट्रः -- क्वासौ महारजः । गान्धारी -- कहिं मे पुत्तओ । [कुत्र मे पुत्रकः ।] दुर्जयः -- अअं महाराओ भूमिए उवविट्ठो । [अयं महाराजो भूम्यामुपविष्टः ।] धृतराष्ट्रः -- हन्त भोः ! किमयं महाराजः । यः काञ्चनस्तम्भसमप्रमाणो लोके किलैको वसुधाधिपेन्द्रः । कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्र्कीलार्धसमप्रमाणः ॥ ४५॥ गान्धारी -- जाद ! सुयोधण ! परिस्सन्तो सि । [जात ! सुयोधन ! परिश्रान्तोऽसि ।] राजा -- भवत्याः खल्वाहं पुत्रः । धृतराष्ट्रः -- केयं भीः ! । गान्धारी -- महाराज ! अहमभीदपुत्तप्पआइणी । [महाराज ! अहमभीतपुत्रपदायिनी ।] राजा -- अद्योत्पन्नमिवात्मानमवगच्छामि । भोस्तात ! किमिदानिं वैक्लव्येन । धृतराष्ट्रः -- पुत्र ! कथं विक्लवो भविष्यामि । यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम् । पूर्वं भ्रातृशतं नष्टं त्वय्येकस्मिन् हते हतं ॥ ४६॥ (पतति) राजा -- हा धिक् । पतितोऽत्रभवान् । तात ! समाश्वासयात्रभवतीम् । धृतराष्ट्रः -- पुत्र ! किमिति समाश्वसयामि । राजा -- अपराङ्मुखो युधि हत इति । भोस्तात ! शोकनिग्रहेण क्रियतां ममानुग्रः । त्वत्पादमात्रप्रणताग्रमौलिर् ज्वलन्तमप्यग्निमचिन्तयित्वा । येनैव मानेन समं प्रसूतस् तेनैव मानेन दिवं प्रयामि ॥ ४७॥ धृतराष्ट्रः -- वृद्धस्य मे जीवितनिस्स्पृहस्य निसर्गसम्मीलितलोचनस्य । धृर्तिं निगृह्यात्मनि सम्प्रवृत्तस् तीव्रः समाक्रामति पुत्रशोकः ॥ ४८॥ बलदेवः -- भोः कष्टम् । दुर्योधननिराशस्य नित्यास्तमितचक्षुषः । न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनाम् ॥ ४९॥ राजा -- विज्ञापयाम्यत्रभवतीम् । गान्धारी -- भणाहि जाद ! । [भण जात ! ।] राजा -- नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् । अन्यस्यामपि जात्यं मे त्वंएव जननी भव ॥ ५०॥ गान्धारी -- मम मणोरहो खु तुए भणिदो । [मम मनोरथः खलु त्वया भणितः ।] राजा -- मालवि ! त्वमपि श‍ृणु । भिन्ना मे भ्रुकुटी गदानिपतितैर्व्यायुद्धकालोत्थितैर् वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः । पश्येमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ भर्ता ते न पराङ्मुखो युधि हतः किं क्षत्रिये रोदिषि ॥ ५१॥ देवी -- बाळा एसा सहधम्मचारिणी रोदामि । [बाला एषा सहधर्मचारिणी रोदामि ।] राजा -- पौरवि ! त्वमपि श‍ृणु । वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः शत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः । युद्धेऽष्टादशवाहिनीनृपतयः सन्तापिता निग्रहे मानं मानिनि वीक्ष्य मे नहि रुदन्त्येवंविधानां स्त्रियः ॥५२॥ पौरवी -- एक्ककिदप्पवेसणिच्चआ ण रोदामि । [एककृतप्रवेशनिश्चया न रोदामि ।] राजा -- दुर्जय ! त्वमपि श‍ृणु । धृतराष्ट्रः -- गान्धारि । किन्नुखलु वक्ष्यति । गान्धारी -- अहं पि तं जव्व चिन्तेमि । [अहमपि तदेव चिन्तयामि ।] राजा -- अहमिव पाण्डवाः शुश्रूषयितव्याः तत्रभवत्याश्चाम्बायाः कुन्त्या निदेशो वर्तयितव्यः । आभिमन्योर्जननी द्रौपदी चोभे मातृवत् पूजयितव्ये । पश्य पुत्र, श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज । स्पृष्ट्वा चैव युधिष्ठिरस्य विपुलं क्षौमापसव्यं भुजं देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥ ५३॥ बलदेवः -- अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव सन्नाहदुन्दुभिनिनादवियोगामूके विक्षिप्तबाणकवचव्यजनातपत्रे । कस्यैष कार्मुकरवो हतसूतयोधे विभ्रान्तवायसगणं गगनं करोति ॥ ५४॥ (नेपथ्ये) दुर्योधनेनाततकार्मुकेण यो युद्धयज्ञः साहितः प्रविष्टः । तमेव भूयः प्रविशाम्यशून्यम् अध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५॥ बलदेवः -- अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः, स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी रुचिरकनकयूपव्यायतालम्बबाहुः । सरभसमयमुग्रं कार्मुकं कर्षमाणः सदहन इव मेरुः श‍ृङ्गलग्नेन्द्रचापः ॥ ५६॥ (ततः प्रविशत्यश्वत्थामा) अश्वत्थामा -- (पूर्वोक्तमेव पठित्वा) भोः ! समरसंरम्भोभयबलजलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्त- विग्रहाः स्तोकावशेषाः श्वासानुबद्धमन्दप्राणाः समरश्लाघिनो राजानः ! श‍ृण्वन्तु श‍ृण्वन्तु भवन्तः । छलबलदलितोरुः कौरवेन्द्रो न चाहम् शिथिलविफलशस्त्रः सूत्पुत्रश्च नाहम् । इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः सरभसमहमेको द्रोणापुत्रः स्थितोऽस्मि ॥ ५७॥ किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । (परिक्रम्य) मा तावत् । मयि गुरुनिवपनव्यग्रे वञ्चितः कुरुतिलकभूतः कुरुराजः । क एतच्छ्रद्धास्यति । कुतः, उद्यत्प्राञ्जलयो रथद्विपगताश्चापद्वितीयैः करैर् यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः । भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८॥ तत् क्वनुखलु गतो गान्धारीपुत्रः । (परिक्रम्यावलोक्य) अये अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः कुरुराजः । य एषः, मौलीनिपातचलकेशमयूखजालैर् गात्रैर्गदानिपतनक्षतशोणितार्द्रैः । यात्यस्तमस्तकशिलातलसन्निविष्टः सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९॥ (उपसृत्य) भोः कुरुराज ! किम् इदम् । राजा -- गुरुपुत्र ! फलमपरितोषस्य । अश्वत्थामा -- भोः कुरुराज ! सत्कारमूलमावर्जयिष्यामि । राजा -- किं भवान् करिष्यति । अश्वत्थामा -- श्रूयतां, युद्धोद्यतं गरुडपृष्ठनिविष्टदेहं अष्टार्धभीमभुजमुद्यतशार्ङ्गचक्रम् । कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः सङ्कीर्णलेख्यमिव चित्रपटं क्षिपामि ॥ ६०॥ राजा -- मा मा भवानेवम् । गतं धात्र्युत्सङ्गे सकलमभिषिक्तं नृपकुलं गतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः । शतं भ्रातॄणां मे हतमभिमुखं संयुगमुखे वयं चैवम्भूता गुरुसुत धनुर्मुञ्चतु भवान् ॥ ६१॥ अश्वत्थामा -- भो कुरुराज । संयुगे पाण्डुपुत्रेण गदापातकचग्रहे । सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२॥ राजा -- मा मैवम् । मानशरीरा राजानः । मानार्थमेव मया निग्रहो गृहीतः । पश्य गुरुपुत्र ! यत् कृष्टा करनिग्रहाञ्चितकचाद्यूते तदा द्रौपदी यद् बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः । अक्षव्याजजिता वनं वनमृगैर्यत् पाण्डवाः संश्रिता नन्वल्पं मयि तैः कृतं विमृश भो ! दर्पाहृतं दीक्षितैः ॥ ६३॥ अश्वत्थामा -- सर्वथा कृतप्रतिज्ञोऽस्मि । भवता वात्मना चैव वीरलोकैः शपाम्यहम् । निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४॥ बलदेवः -- एतद् भविष्यत्युदाहृतं गुरुपुत्रेण । अश्वत्थामा हलायुधोऽत्रभवान् । धृतराष्ट्रः -- हन्त साक्षिमती खलु वञ्चना । अश्वत्थामा -- दुर्जय ! इतस्तावत् । पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते । विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५॥ राजा -- हन्त कृतं मे हृदयानुज्ञातम् । परित्यजन्ति मे प्राणाः । इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत् कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैरावतशिरोविषक्तः काकपक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः । इमा उर्वश्यादयोऽप्सरसो मामभिगताः । इमे मूर्तिमन्तो महार्णवाः । एता गङ्गाप्रभृतयो महानद्यः । एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही विमानः कालेन प्रेषितः । अयमयमागच्छामि । (स्वर्गं गतः) (यवनिकास्तरणं करोति) धृतराष्ट्रः -- याम्येष सज्जनधनानि तपोवनानि पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् । अश्वत्थामा -- यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६॥ (निष्क्रान्ताः सर्वे) ऊरुभङ्गमवसितम् । शुभं भूयात् ।