अक्षर आकार:

षट्पञ्चाशिका

ShaTpa~nchAshikA

षट्पञ्चाशिका

त्र्यात्मा सच्चित्सुखो दत्तो रक्तोष्णाकाशदीपवत् । मायाब्धिनौर्दृढाऽसङ्गा तद्भक्तिर्न तथा प्लवः ॥ १॥ भवाध्वतापश्रान्तस्य सीतारामः समाश्रयः । यथाध्वतापश्रान्तस्य शीतारामः समाश्रयः ॥ २॥ भवाम्बुधिनिमग्नस्य तारिणी भगवत्कथा ॥ यथाम्बुधिनिमग्नस्य तरणिर्विधिचोदिता ॥ ३॥ भवतापाभितप्तस्य शरणं न गुरोः परम् । दवतापाभितप्तस्य शरणं न धनात्परम् ॥ ४॥ रोचते सुविरक्तस्य न सांसारिकपुङ्कथा । यथा पित्तज्वरार्तस्य सुरसान्नादिसत्कथा ॥ ५॥ श‍ृणोति सर्वं सन्न्यस्य श्रुतिवार्तां स आदरात् । परव्यसनिनी नारी जारवार्तां यथाऽऽदरात् ॥ ६॥ कथञ्चन त्यजेन्नैव विवेकी शान्तिगेहिनीम् । यथा कामसन्तप्तोऽविवेकी कान्तगेहिनीम् ॥ ७॥ मुक्तिर्न सुलभाऽध्यासभातनानात्वदर्शिनः । आदर्शबिम्बितानेकद्वारदर्शिशिशोरिव ॥ ८॥ धीमाञ्छमादिसम्पन्नः सद्गुरूक्त्या लभेत्पदम् । चोरैस्त्यक्तो वने यद्वत्तदभिज्ञगिरा नरः ॥ ९॥ भवान्भूमेत्यकर्तात्मत्वं व्रजेत्सद्गुरोर्गिरा । भिल्लपालितराट्पुत्र आप्तोक्त्या राजतामिव ॥ १०॥ कूटस्थसच्चिदानन्दतनोर्बन्धविमोचने । पुत्रस्य जातिवन्ध्याया इव जन्मोत्सवात्ययौ ॥ ११॥ वाचारम्भणमात्रं चित्तनौ विश्वं न चापरम् ॥ वस्त्वन्तरं यथा ध्वान्ते रज्जौ सर्पविसर्पणम् ॥ १२॥ विषयग्रहणेच्छा तु स्वात्मविज्ञानतः पुरा । अज्ञस्य शुक्तिविज्ञानात्पुरेव रजसस्पृहा ॥ १३॥ भ्रममात्रमसद्विश्वं ज्ञातं चेत्तेन कः सुखी । को नाम शुक्तिरौप्येण जातो धनसमृद्धिमान् ॥ १४॥ जगदस्तित्ववादो न स्वात्मज्ञाने प्रकाशिते । ध्वान्ते स्थाणौ पिशाचादिभ्रान्तिर्दीप इवाहृते ॥ १५॥ आश्चर्यमेतद्विश्वं न पुराद्योर्ध्वं न भाति चेत् । भातु नामेन्द्रजालाभं चिदात्मनि तु मायया ॥ १६॥ असच्चेज्ज्ञस्य नेतोऽपि व्यवहारः क्षणं कुतः । नायं दोषोऽपि जानन्सन्निन्द्रजालं हि वीक्षते ॥ १७॥ एकोऽपि सन्नयं भूमा मायया भात्यनेकवत् । पुंसो यथाक्षिदोषेण चन्द्र एको द्वितीयवत् ॥ १८॥ आत्मोपाधिवशाद्भाति निश्चलोऽपि हि चञ्चलः । विकारी निर्विकारोऽपि जलोपाधिगतार्कवत् ॥ १९॥ नित्यं भ्रमादिवाभाति मायाभ्रमविजृम्भितम् । जगच्चक्रं यथाऽलातचक्रं भ्रान्तदृशेरिह ॥ २०॥ विद्योतते नात्मविद्या यावत्तावच्चिदम्बरे । विविधं भाति विश्वं खे गन्धर्वनगरं यथा ॥ २१॥ आरोपितजगद्बाध आत्मैकः परिशिष्यते । शत्रून्हत्वाखिलान्युद्धे महावीरो यथैककः ॥ २२॥ विक्षेपः शिष्यते मायावरणेऽपि विघातिते । उपादाने विनष्टेऽपि कार्यं तिष्ठति हि क्षणम् ॥ २३॥ समे प्रारब्धभोगेऽपि ज्ञानी क्लिश्यति नाज्ञवत् । समेऽप्यध्वश्रमेऽध्वज्ञो दैन्यं नैति यथाज्ञवत् ॥ २४॥ पतत्वद्य युगान्ते वा वपुर्मुक्तस्य चित्तनोः । कुम्भे भग्ने स्थिते वा द्योर्हानिलाभौ कुतस्ततः ॥ २५॥ सङ्कल्पमात्रं विश्वं सद्भाति मन्दमतेर्यथा । सङ्कल्पमात्रभाता स्त्री सत्या विरहिणो भ्रमात् ॥ २६॥ स्वस्वरूपस्थितौ सत्यां दुःखं नैव सुखात्मनि । यथा वास्यादिके त्यक्ते कष्टं त्वष्टरि नैव तत् ॥ २७॥ नाध्यात्मिकादिछन्नोऽपिजात्वेकरसतां विभुः । त्यजत्यात्मा यथा लोके पटतां चित्रितः पटः ॥ २८॥ कामं सृजतु कूटस्थे माया विश्वं चिदम्बरे । नास्य लाभो न वा हानिर्वर्षत्याब्दे यथा दिवः ॥ २९॥ करणव्यवहारैस्तु कूटस्थात्मा न लिप्यते । न लिप्यते यथा कूटो लोहानामपि ताडनैः ॥ ३०॥ तत्तन्मय इवाभातोऽप्यात्मा कोशेभ्य उत्तरः । तेभ्यो विवेचितः शुद्धः स्फटिको रङ्गतो यथा ॥ ३१॥ मुक्तात्मा व्यवहारेऽपि स्थितस्तेन न लिप्यते । असङ्गत्वात्ततोऽन्यत्वात्पद्मपत्रमिवाम्भसा ॥ ३२॥ देहादितापतप्तोऽहमिति धीरविवेकिनः । पुत्रदारेषु तप्यत्सु तपमीति मतिर्यथा ॥ ३३॥ सच्चिदानन्दरूपोऽहमेवं निश्चयवानपि । मर्त्योऽस्मीति कदाचिद्दिग्भ्रमवन्मनुते क्षणम् ॥ ३४॥ निराकृत्य त्यजेद्विश्वं सारमास्वाद्य नीरसम् । यथा त्यजति निःसारं फलं स्वादु रसं पिबन् ॥ ३५॥ नात्यन्तासन्नमात्मानं मूढः पश्यति दुष्टदृक् । यथा दिवान्ध उदितमर्कं लोकप्रकाशकम् ॥ ३६॥ विभाव्याज्ञोऽन्यं प्रपञ्चं सुखं चापि बिभेति यः । दीपादिता दृश्यमानां स्वच्छायामिव बालकः ॥ ३७॥ माया खादिविकारैर्न ब्रह्मान्यथयितुं क्षमा । विमलं खं यथाऽध्यस्तधर्मा मलिनतादयः ॥ ३८॥ व्यभिचारिसुषुप्त्यादिदशा बुद्धिगुणोदिताः । बुधे स्वीया न निर्मोका यथा सर्पगुणोदिता ॥ ३९॥ व्यवहारोऽङ्गसापेक्षः प्नो(?ज्ञो) जाग्रदितीक्षितुः । गृहिणो गेहसापेक्षबाह्यान्तर्व्यवहारवत् ॥ ४०॥ यस्य निद्रा समाधिर्वा सुखा सर्वोपसंहृतिः । व्यापारकुलितस्येव सुखा सर्वोपसंहृतिः ॥ ४१॥ कामं करोतु विधितो मुक्तः कर्तास्य तेन किम् । स्तोकाभ्रच्छादितोऽर्को यो राहुग्रस्तो भवेत्स किम् ॥ ४२॥ मिथ्याजगत्समुल्लासात्प्रबुद्धस्य कथं भयम् । व्याघ्रादीन्पश्यतः स्वप्नात्प्रबुद्धस्य कथं भयम् ॥ ४३॥ आदेयात्मनिरीक्षार्थमनात्मधियमुज्वलाम् । यथाऽऽस्यहीनमुकरो मुखसौन्दर्यवीक्षणे ॥ ४४॥ क्रमेण वर्धमानेऽन्तर्बोधे हार्दतमःक्षयः । कलाभिर्वर्धमानेऽब्जे यथा नैशतमःक्षयः ॥ ४५॥ प्राज्ञोऽपि बोधितोऽन्तर्दृग्जानात्यन्यन्न किञ्चन । ग्रासे ग्रासे बोधितोऽपि निद्राण इव बालकः ॥ ४६॥ स्वानुभूतिरसास्वादे विषया विरसा विदः । यथाऽऽरनालं विरसं परमामृतपायिनः ॥ ४७॥ पूर्वाभ्याससमाधिं ज्ञो वाञ्छत्याप्ताखिलात्मनः । कालात्ययाय राजेव सुसमृद्धोऽपि देवनम् ॥ ४८॥ नाऽऽनन्दयति विध्यादि निस्त्रैगुण्याध्वचारिणम् । निर्व्यापारालसनरं देशिका देशिनं यथा ॥ ४९॥ चिन्तयानोऽपि तत्त्वं स्वं स्वच्छन्दो न नियम्यते । साम्राज्यगं स्वतन्त्रं च प्रजाभिरिव राट्सुतः ॥ ५०॥ परमार्थदृशः क्वापि नेष्टानिष्टे शुभाशुभे । वृष्ट्याऽवृष्ट्याऽप्पूरस्थसस्यवृद्धिक्षयाविव ॥ ५१॥ श्रुत्याद्यावृत्तियोगाग्न्युज्वलितः पूर्वरूपभाक् । जीव आत्मैव चागन्तुमलदाहे सुवर्णवत् ॥ ५२॥ कीटभ्रमरदृष्ट्या न चित्रं स्वध्यानतः स्वता । नामरूपोपाध्यपाये सत्यैक्यं सरिदब्धिवत् ॥ ५३॥ चित्रप्रापञ्चिकैश्वर्यं तत्त्वज्ञं रञ्जयेत्कथम् । हावैः स्त्रीवेषधृक्स्वज्ञहृदुन्मथयतीह किम् ॥ ५४॥ ज्ञानी क्षीणान्यकर्मापि प्रारब्धं सहतेऽवशी । व्यालग्राही गृहीताहिर्यथा तत्कृतपीडनम् ॥ ५५॥ प्राप्तकामं स्थितप्रज्ञं स्वयं कामा विशन्ति तैः । शान्तो नोत्सर्पति यथा पूर्णाब्धिरचलाम्बुभिः ॥ ५६॥ या षट्पञ्चाशिका वासुदेवानन्दीयमुद्गता । वानवासीपुरि तया प्रीयतामत्रिनन्दनः ॥ ५७॥ श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचिता षट्पञ्चाशिका सम्पूर्णा ॥