अक्षर आकार:

आत्मविद्याविलासः २

AtmavidyAvilAsaH 2

आत्मविद्याविलासः २

यत्पादपद्ममकरन्दजुषां नराणां संसारघोरभुजगान्न भवेत्स्म भीतिः । सच्चिद्घनं सकलसौख्यलवाम्बुराशिं श्रीदक्षिणाभिमुखमूर्तिमजं भजेऽहम् ॥ १॥ एतावदेव खलु पुम्भिरवाप्तुमर्हं यच्चेतसो निलयनं निजतत्त्वबोधे । आक्रोशनं श्रुतिशिरांसि यदर्थमेव कुर्वन्ति येन हि भवेत्पुरुषः सुखाब्धिः ॥ २॥ मातेव पुत्रमनुबोधयति श्रुतिर्हि लोकं समस्तमपि योजयितुं सुखेन । तस्माच्छ्रुतेरभिहितार्थमतन्द्रितेन चित्तेन साधयितुमत्र जना यतध्वम् ॥ ३॥ आदाविदं सकलमेव जगत्सदासी- त्कुम्भादिवत्तदनु शक्तियुतात्परस्मात् । आकाशवायुदहनाम्बुभुवो बभूवु- र्वातप्रसक्तसलिलादिव वीचिपूरः ॥ ४॥ सूक्ष्माख्यभूतगतसत्त्वरजस्तमोभि- र्लिङ्गं शरीरमुदभूदत ईश्वरेच्छा । पञ्चीचकार वियदादिकभूतसूक्ष्मा- ण्यण्डं ह्यभूदत इदं सह जीवभोग्यैः ॥ ५॥ सृष्ट्वा जगत्सकलमेवमशेषकर्ता तत्प्राविशत्पुनरुपागतजीवभावः । विस्मृत्य सत्यसुखबोधमयस्वरूपं भ्रान्त्या भ्रमत्यनिशमस्तविवेकलेशः ॥ ६॥ इत्थं प्रमादवशतः परिमुह्यमानो देहात्मबुद्धिपरिकल्पितकर्मबन्धः । स्वर्गादिभोगगमनागमनातिखिन्नो लूतावदेष भवमभ्यगमच्चिदात्मा ॥ ७॥ मायायुतस्त्वगमदीश्वरतां चिदात्मा चाविद्यया युगभवद्भृतजीवभाव ॥ माया भवेद्विमलसत्त्वगुणप्रधाना प्रोक्ता मलापिहितसत्त्वगुणा त्वविद्या ॥ ८॥ एकोऽप्यनेक इव भाति शरीरभेदा- दात्मा घटादिगतभेदवशाद्वियद्वत् । देहेन्द्रियादिषु चलत्सु निजप्रकाशा- त्पूर्णोऽपि निश्चलतरोऽपि विकारवद्वत् ॥ ९॥ एवं भवार्णवनिमज्जनदुःखितेषु लोकेषु पूर्वजनिसञ्चितपुण्यपुञ्जैः । कश्चिद्विशुद्धमतिरेत्य गुरुं कृपाब्धिं प्राह प्रणम्य भवसागरलङ्घनेच्छुः ॥ १०॥ संसारघोरजलधौ भगवन्नपारे तापत्रयौघदहने सहजारिनक्रे । मोहाम्भसि प्रचलदुद्भवमृत्युभङ्गे वीक्ष्यान्तरस्मि पतितं जगदद्य भीतः ॥ ११॥ मातुः स्थितस्य जठरे वचसां च दूरं दुःखं पुनर्जननकालभवं दुरूह्यम् । बाल्येऽपि दुःखमविषह्यमवारणीय- मालोच्य भीतिरधुना महती ममोत्था ॥ १२॥ तारुण्यमेत्य कुलयौवनरूपसम्प- द्विद्यात्मगर्वपिहितात्महिताभिलाषः । विण्मूत्रमांसरुधिरास्थिमये शरीरे नार्या रुचिं समुपयाति जनो विचित्रम् ॥ १३॥ सर्वापदां निलयमेत्य वयोऽधिकत्वं जन्तुः सुखं न लभते ह्यपि किञ्चिदत्र । पुंसामिहास्ति न भयं खलु मृत्युतोऽन्य- द्धिक्कृत्य संसृतिमिमामभवं विरक्तः ॥ १४॥ स्वामिन्कथं मम भवार्णवलङ्घनं स्या- दायासलेशरहितं वद तत्र हेतुम् । श्रुत्वा तु शिष्यवचनं रमणीयमित्थं प्रत्युत्तरं गुरुरदात्कृतमन्दहासः ॥ १५॥ देहेन्द्रियासुहृदयादिकचैत्यवर्गा- त्प्रत्यक्चितेर्विभजनं भववारिराशेः । सन्तारणे प्लव इति श्रुतिडिण्डिमोऽयं तस्माद्विचारय जडाजडयोः स्वरूपम् ॥ १६॥ प्रत्यक्चितिर्वपुरिदं न भवेज्जडत्वा- त्कुड्यादिवज्जडतयाप्यसवो न चित्स्युः । नापीन्द्रियाणि करणं कुत एव चित्स्या- त्कुद्दालकादिवदिति प्रविचारय त्वम् ॥ १७॥ दृश्यत्वतो न मनसश्च भवेच्चितित्वं नाहङ्कृतिश्च परिणामवती चितिः स्यात् । बुद्धेरचित्त्वमपि जन्मविनाशवत्त्वा- च्चित्तं च दृश्यमचिदित्यनुचिन्तय त्वम् ॥ १८॥ बुद्ध्वा समस्तमपि दृश्यमचित्स्वरूपं प्रत्यक्चितिं च निजरूपतया विदित्वा । देहेन्द्रियाद्यखिलसाक्ष्यहमित्यजस्रं सञ्चिन्तय व्यपगताखिलसंशयः सन् ॥ १९॥ देहादिकं जगदसज्जडदुःखरूपं मय्यद्वितीयनिजबोधसदादिरूपे । सन्दृश्यते भ्रमवशाद्गगने निरंशे गन्धर्वपत्तनमिवेत्यनुभावय त्वम् ॥ २०॥ या चित्प्रभा त्वमिति मेयविभासयित्री यत्सङ्क्रमाद्घटपटाद्यवभासिका धीः । आब्रह्मकीटमहमित्यवभासमाना या सैव संविदिति चिन्तय सन्ततं त्वम् ॥ २१॥ जाग्रन्मुखत्रिविधधामसुसाक्षिणी या जाग्रन्मुखत्रिविधधाम विलक्षणाया । स्वप्नाद्यनुस्मृतिबलात्सततैकरूपा सैवाहमस्मि चितिरित्यवधारय त्वम् ॥ २२॥ नोदेति नास्तमुपयाति न वृद्धिमेति नैवोपयाति परिणाममपक्षयं वा । स्वाध्यस्तसर्वजननादिविकारसाक्षि- ण्येषा हि संविदिति चिन्तय सन्ततं त्वम् ॥ २३॥ मच्छेषतां समवलम्ब्य सुतादिसर्वं येन प्रियं भवति तेन सुखस्वरूपः । देहेन्द्रियादिविषयप्रलयैकसाक्षी यस्मात्ततः सदिति मे निजरूपमास्स्व ॥ २४॥ आदौ त्वमेव सदभूरविशेषरूप- स्त्वत्तोदितं जगदिदं सविशेषजातम् । त्वय्येव तिष्ठति तथा त्वयि चावसाने संलीयते जलनिधाविव बुद्बुदादिः ॥ २५॥ व्यापित्वहेतुबलतो न दिशास्ति मेऽन्तो नित्यत्वहेतुबलतश्च न कालतोऽन्तः । सार्वाथ्यहेतुबलतश्च न वस्तुतोऽन्त- स्तस्मादनन्तमिति मे निजरूपमास्स्व ॥ २६॥ एवं निरन्तरसमाधिवशान्निराधि- र्ज्ञानाग्निदग्धसहकारणजन्मबीजः । आविर्भवन्निजसुखानुभवैकतृप्तो ब्रह्मैव नूनमिह सम्भवसि ध्रुवं त्वम् ॥ २७॥ इत्थं गिरा विमलया परसौख्यदात्र्या वाचा गुरोर्विमथिताखिलसंशयौघः । शिष्यः समाधिपरिशीलनतीक्ष्णदिव्य- ज्ञानासिखण्डितभवाख्यविषद्रुमोऽभूत् ॥ २८॥ स्वानन्दमप्रतिहतं परिभुज्य हर्षा- दश्रुप्रपूर्णनयनः पुलकाङ्गिताङ्गः । शिष्यः सगद्गदमुवाच गुरुं घृणाब्धिं नत्वा तदङ्घ्रियुगलं विनयोपयुक्तः ॥ २९॥ स्वामिन्भवद्वचनदिव्यसुधाभिषिक्त- स्वानन्दमञ्जुनगरे विहरामि नित्ये । अज्ञानदुर्हृदमतीव शितेन सम्य- ग्ज्ञानासिना परिविलूय सहानुजातम् ॥ ३०॥ गच्छामि कुत्र किमहं करवाणि किं वा गृह्णामि किं परिजहामि मयि प्रपूर्णे । निर्व्याजसौख्यजलधौ परिदृश्यमानं फेनादिकं जगदिति स्थिरनिश्चयो मे ॥ ३१॥ मायाभिधो जलधरो जगदाख्यमम्बु वर्षत्वनेन मम चिद्वपुषः क्षतिः का । लाभोऽपि वा क इति सन्ततमात्मरूपं सञ्चिन्तयन्स्थिरमतिर्विहरामि नित्ये ॥ ३२॥ वाक्कायमानसभवं सकलं हि कर्म प्रोक्तं शुभाशुभमयं न ततोऽस्ति भिन्नम् । वागादिसाक्षिणि कथं मयि निर्मले स्या- त्कर्मद्वयं तदुदितं जननादिकं वा ॥ ३३। व्यावृत्तरूपमिदमेव जगद्विभिन्नं ज्ञानं त्वभिन्नमनुवृत्ततयाखिलेषु । ज्ञानं च भिन्नमिति चेज्जडतादिदोष- प्राप्तिर्भवेच्छ्रुतिशिरांसि न तं सहन्ते ॥ ३४॥ नैवेन्द्रियाणि विषयेषु नियोजयामि प्राग्वासनावशत एव हि तानि यान्ति । स्वान्गोचरान्प्रति ममास्ति न साक्षितापि सा साक्ष्यभेदकलिता खलु सोऽप्यसत्यः ॥ ३५॥ भेदोऽपि साक्ष्यगत एव न साक्षिणो मे भेदस्य साक्षिणि कथं प्रभवेत्स भेदः । भेदो न सुप्तिसमयेऽनुपलम्भनाच्च सन्नास्तिता न इह दृष्टतया न वाच्या ॥ ३६॥ विश्वं सदेतदिति कार्यकरत्वहेतो- र्यद्यस्य सत्त्वमिह साधयितुं यतेथाः । तर्ह्यत्र रज्जुभुजगाद्यपि सद्बलात्स्या- त्सत्यत्वहेतुरिदमाहुरबाधितत्वम् ॥ ३७॥ कीदृग्विधं जगदये वद सत्त्वचित्त्या- द्याकारहीनमिति पृष्टवतेऽस्ति मह्यम् । प्रत्युत्तरं किमिति ते तव मौनमेव प्रत्युत्तरं भवति मां प्रति गच्छ जाल्म ॥ ३८॥ ज्ञानाग्निदग्धमपि भाति जगद्विचित्रं यच्च ध्वनिभ्रमवतः सविशेषबोधात् । तस्मिन्भ्रमे विमथितेऽपि तथैव भाति दिग्वत्यथो मम च तद्वदतो न सत्तत् ॥ ३९॥ भूमिं जले तदपि तेजसि तच्च वायौ तं व्योम्नि तत्त्रिगुणया सह मय्यनन्ते । पूर्णे विलाप्य परिशिष्टमखण्डसंवि- त्स्वानन्दरूपमनुभूय रमेऽहमद्य ॥ ४०॥ अज्ञानतन्निरसने मयि बोधरूपे स्यातां कथं तिमिरतद्विरती इवार्के । बन्धश्च मोक्ष इति कल्पनमप्यसत्यं भ्रान्त्यैव भात्यखिलसाक्षिणि नित्यमुक्ते ॥ ४१॥ आरब्धकर्मणि च भोगत एव नष्टे प्राणादयोऽपि मम नोत्क्रमितुं समर्थाः । तप्ताग्निनिष्ठजतुवन्मथि पूर्णबोधे लीना भवन्ति न पुनर्जननादिकं स्यात् ॥ ४२॥ आम्नायमस्तकसुसंस्कृतवैभवोऽहं व्योम्नोऽपि पूर्णतममूर्तिरहं स्थितोऽहम् । सर्वालयोऽहमहमाद्यवभासकोऽहं वागाद्यगोचरसदोदितसौख्यकोऽहम् ॥ ४३॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितः आत्मविद्याविलासः (२) सम्पूर्णः ॥